संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु| इश्रकादिवर्ग राजनिघण्टु मङ्गलाचरण प्रस्तावना आनूपादिवर्ग धरण्यादिवर्ग ङुडूच्यादिवर्ग पर्पटादिवर्ग पिप्पल्यादिवर्ग शताह्वादिवर्ग ऊलकादिवर्ग शाल्मल्यादिवर्ग प्रभद्रादिवर्ग करवीरादिवर्ग आम्रादिवर्ग अन्दनादिवर्ग उवर्णादिवर्ग पानीयादिवर्ग क्षीरादिवर्ग शाल्यादिवर्ग आंसादिवर्ग अनुष्यादिवर्गः इंहादिवर्ग ऱोगादिवर्ग अत्त्वादिवर्ग इश्रकादिवर्ग कार्थादिवर्ग १ कार्थादिवर्ग २ कार्थादिवर्ग ३ कार्थादिवर्ग ४ कार्थादिवर्ग ५ कार्थादिवर्ग ६ कार्थादिवर्ग ७ कार्थादिवर्ग ८ कार्थादिवर्ग ९ कार्थादिवर्ग १० कार्थादिवर्ग ११ राजनिघण्टु - इश्रकादिवर्ग नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड. Tags : narahar panditrajanighantuvedआयुर्वेदनरहरि पन्डितराजनिघण्टुसंस्कृत इश्रकादिवर्ग Translation - भाषांतर यान्यौषधानि मिलितानि परस्परेण संज्ञान्तरैर्व्यवहृतानि च योगकृद्भिः ।तेषां स्वरूपकथनाय विमिश्रकाख्यं वर्गं महागुणमुदारं उदीरयामः ॥२२.१पिप्पली मरिचं शुण्ठी त्रयमेतद्विमिश्रितं ।त्रिकटु त्र्यूषणं त्र्यूषं कटुत्रयकटुत्रिकं ॥२२.२हरीतकी चामलकं विभीतकमिति त्रयं ।त्रिफला त्रिफली चैव फलत्रयफलत्रिके ॥२२.३द्राक्षाकाश्मर्यखर्जूरीफलानि मिलितानि तु ।मधुरत्रिफला ज्ञेया मधुरादिफलत्रयं ॥२२.४जातीफलं पूगफलं लवंगकलिकाफलं ।सुगन्धित्रिफला प्रोक्ता सुरभित्रिफला च सा ॥२२.५चन्दनं कुङ्कुमं वारि त्रयमेतद्वरार्धकं ।त्रिभागकुङ्कुमोपेतं तदुक्तं चाद्यपुष्पकं ॥२२.६सैन्धवं च विडं चैव रुचकं चेति मिश्रितं ।लवणत्रयं आख्यातं तच्च त्रिलवणं तथा ॥२२.७सर्जिक्षारं यवक्षारं टङ्कक्षारमेव च ।क्षारत्रयं समाख्यातं त्रिक्षारं च प्रकीर्तितं ॥२२.८हरीतकी नागरं च गुडश्चेति त्रयं समं ।समत्रितयमित्युक्तं त्रिसमं च समत्रयं ॥२२.९सितामाक्षिकसर्पींषि मिलितानि यदा तदा ।मधुरत्रयमाख्यातं त्रिमधु स्यान्मधुत्रयं ॥२२.१०गुडोत्पन्ना हिमोत्पन्ना मधुजातेति मिश्रितं ।त्रिशर्करा च त्रिसिता सितात्रयसितात्रिके ॥२२.११कालाञ्जनसमायुक्ते पुष्पाञ्जनरसाञ्जने ।अञ्जनत्रितयं प्राहुस्त्र्यञ्जनं चाञ्जनत्रयं ॥२२.१२वातः पित्तं कफश्चेति त्रयमेकत्र संयुतं ।दोषत्रयं त्रिदोषं स्याद्दोषत्रितयमित्यपि ॥२२.१३वातपित्तकफा यत्र समतां यान्ति नित्यशः ।त्रिदोषसमं इत्येतत्समदोषत्रयं तथा ॥२२.१४बृहती चाग्निदमनी दुःस्पर्शा चेति तु त्रयं ।कण्टकारीत्रयं प्रोक्तं त्रिकण्टं कण्टकत्रयं ॥२२.१५नागरातिविषा मुस्ता त्रयमेतत्त्रिकार्षिकं ॥२२.१६गुडूच्या मिलितं तच्च चातुर्भद्रकमुच्यते ॥२२.१७त्वगेलापत्त्रकैस्तुल्यैस्त्रिसुगन्धि त्रिजातकं ।नागकेशरसंयुक्तं चातुर्जातकं उच्यते ॥२२.१८एलात्वक्पत्त्रकैस्तुल्यैर्मरिचेन समन्वितैः ।कटुपूर्वं इदं चान्यच्चातुर्जातकमुच्यते ॥२२.१९श्रीखण्डागुरुकर्पूरकाश्मीरैस्तु समांशकैः ।मृगाङ्कमुकुटार्होऽयं मिलितैर्देवकर्दर्मः ॥२२.२०कर्पूरागुरुकस्तूरीकक्कोलैर्यक्षधूपकः ।एकीकृतमिदं सर्वं यक्षकर्दम इष्यते ॥२२.२१कुङ्कुमागुरुकुरङ्गनाभिकाचन्द्रचन्दनसमांशसम्भृतं ।त्र्यक्षपूजनपरैकगोचरं यक्षकर्दमं इमं प्रचक्षते ॥२२.२२कर्पूरकक्कोललवंगपुष्पगुवाकजातीफलपञ्चकेन ।समांशभागेन च योजितेन मनोहरं पञ्चसुगन्धिकं स्यात् ॥२२.२३पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः ।सर्वैरेकत्र मिलितैः पञ्चकोलकमुच्यते ॥२२.२४न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः ।सर्वैरेकत्र मिलितैः पञ्चवेतसमुच्यते ॥२२.२५शालिपर्णी पृश्निपर्णी बृहती कण्टकारिका ।तथा गोक्षुरकश्चेति लघ्विदं पञ्चमूलकं ॥२२.२६बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटला तथा ।सर्वैस्तु मिलितैरेतैः स्यान्महापञ्चमूलकं ॥२२.२७पञ्चमूलकयोरेतद्द्वयं च मिलितं यदा ।तदा भिषग्भिराख्यातं गुणाढ्यं दशमूलकं ॥२२.२८बलापुनर्नवैरण्डसूप्यपर्णीद्वयेन च ।एकत्र योजितेनैतन्मध्यमं पञ्चमूलकं ॥२२.२९गुडूची गोक्षुरश्चैव मूषली मुण्डिका तथा ।शतावरीति पञ्चानां योगः पञ्चामृताभिधः ॥२२.३०गव्यमाज्यं दधि क्षीरं माक्षिकं शर्करान्वितं ।एकत्र मिलितं ज्ञेयं दिव्यं पञ्चामृतं परं ॥२२.३१गोमूत्रं गोमयं क्षीरं गव्यमाज्यं दधीति च ।युक्तमेतद्यथायोगं पञ्चगव्यमुदाहृतं ॥२२.३२निम्बस्य पत्त्रत्वक्पुष्पफलमूलैर्विमिश्रितैः ।पञ्चनिम्बं समाख्यातं तत्तिक्तं निम्बपञ्चकं ॥२२.३३कोलदाडिमवृक्षाम्लं चुल्लकी साम्लवेतसा ।फलं पञ्चाम्लमुद्दिष्टमम्लपञ्चफलं स्मृतं ॥२२.३४जम्बीरनारङ्गसहाम्लवेतसैः सतिन्तिडीकैश्च सबीजपूरकैः ।समांशभागेन तु मेलितैरिदं द्वितीयमुक्तं च फलाम्लपञ्चकं ॥२२.३५चाङ्गेरी लिकुचाम्लवेतसयुतं जम्बीरकं पूरकं नारङ्गं फलषाडवस्त्विति तु पिण्डाम्लं च बीजाम्लकं ।अम्बष्ठासहितं द्विरेतदुदितं पञ्चाम्लकं तद्द्वयं विज्ञेयं करमर्दनिम्बुकयुतं स्यादम्लवर्गाह्वयं ॥२२.३६तैलकन्दः सुधाकन्दः क्रोडकन्दो रुदन्तिका ।सर्पनेत्रयुताः पञ्च सिद्धौषधिकसंज्ञकाः ॥२२.३७शैरीषं कुसुमं मूलं फलं पत्त्रं त्वगित्ययं ।कीटारिः कथितो योगः पञ्चशैरीषकाभिधः ॥२२.३८त्वक्पत्त्रकुसुमं मूलं फलमेकस्य शाखिनः ।एकत्र मिलितं तच्चेत्पञ्चाङ्गमिति संज्ञितं ॥२२.३९विदारिगन्धा बृहती पृश्निपर्णी निदिग्धिका ।श्वदंष्ट्रा चेति सम्प्रोक्तो योगः पञ्चगणाभिधः ॥२२.४०अत्यम्लपर्णीकाण्डीरमालाकन्दद्विशूरणैः ।प्रोक्तो भवति योगोऽयं पञ्चशूरणसंज्ञकः ॥२२.४१शृङ्गिकः कालकूटश्च मुस्तको वत्सनाभकः ।सक्तुकश्चेति योगोऽयं महापञ्चविषाभिधः ॥२२.४२स्नुह्यर्ककरवीराणि लाङ्गली विषमुष्टिका ।एतान्युपविषाण्याहुः पञ्च पाण्डित्यशालिनः ॥२२.४३गवां अजानां मेषीणां महिषीणां च मिश्रितं ।मूत्रेण गर्दभीनां यत्तन्मूत्रं मूत्रपञ्चकं ॥२२.४४सुवर्णं रजतं ताम्रं त्रयमेतत्त्रिलोहकं ॥२२.४५वङ्गनागसमायुक्तं तत्प्राहुः पञ्चलोहकं ॥२२.४६सुवर्णं रजतं ताम्रं त्रपु कृष्णायसं समं ।ग्रहाङ्गमिति बोद्धव्यं द्वितीयं पञ्चलोहकं ॥२२.४७यवमुष्ककसर्जानां पलाशतिलयोस्तथा ।क्षारैस्तु पञ्चभिः प्रोक्तः पञ्चक्षाराभिधो गणः ॥२२.४८काचसैन्धवसामुद्रविडसौवर्चलैः समैः ॥२२.४९स्यात्पञ्चलवणं तच्च मृत्स्नोपेतं षडाह्वयं ॥२२.५०धवापामार्गकुटजलाङ्गलीतिलमुष्कजैः ।क्षारैरेतैस्तु मिलितैः क्षारषट्कमुदाहृतं ॥२२.५१रसासृङ्मांसमेदोऽस्थिमज्जाशुक्रसमाह्वयैः ।शरीरस्थैर्यदैरेतैः सप्तधातुमयो गणः ॥२२.५२दरदः पारदं सस्यो वैक्रान्तं कान्तमभ्रकं ।माक्षिकं विमलं चेति स्युरेतेऽष्टौ महारसाः ॥२२.५३खेचराञ्जनकङ्गुष्ठगन्धालगैरिकक्षितीः ।शैलेयाञ्जनसम्मिश्राः शंसन्त्युपरसान्बुधाः ॥२२.५४कम्पिल्लगौरीचपलाकपर्दसशैलसिन्दूरकवह्निजारान् ।पाषाणिनो वोदरशृङ्गयुक्तानित्यष्ट सामान्यरसानि चाहुः ॥२२.५५पञ्चलोहसमायुक्तैः कान्तमुण्डकतीक्ष्णकैः ।कल्पितः कथितो धीरैरष्टलोहाभिधो गणः ॥२२.५६शिग्रुमूलकपलाशचुक्रिकाचित्रकार्द्रकसनिम्बसम्भवैः ।इक्षुशैखरिकमोचकोद्भवैः क्षारपूर्वदशकं प्रकीर्तितं ॥२२.५७मूत्राणि हस्तिमहिषोष्ट्रगवाजकानां मेषाश्वरासभकमानुषमानुषीणां ।यत्नेन यत्र मिलितानि दशेति तानि शास्त्रेषु मूत्रदशकाह्वयभाञ्जि भान्ति ॥२२.५८स्याज्जीवकर्षभकयुग्ययुगद्विमेदाकाकोलिकाद्वययुतद्विकसूप्यपर्ण्या ।जीव्या मधूकयुतया मधुराह्वयोऽयं योगो महानिह विराजति जीवकादिः ॥२२.५९जीवकर्षभकौ मेदे काकोल्यावृद्धिवृद्धिके ।एकत्र मिलितैरेतैरष्टवर्गः प्रकीर्तितः ॥२२.६०कुष्ठमांसीहरिद्राभिर्वचाशैलेयचन्दनैः ।मुराकर्चूरमुस्ताभिः सर्वौषधं उदाहृतं ॥२२.६१अजाजी मरिचं शुण्ठी ग्रन्थि धान्यं निशाह्वयं ।पिप्पली मरिचं चेति वेशवारगणो मतः ॥२२.६२सर्वौषधिसमायुक्ताः शुष्काश्चामलकत्वचः ।यदा तदायं योगः स्यात्सुगन्धामलकाभिधः ॥२२.६३द्राक्षादाडिमखर्जूरकदलीशर्करान्वितं ।लाजाचूर्णं समध्वाज्यं संतर्पणं उदाहृतं ॥२२.६४सक्तुभिः सर्पिषाभ्यक्तैः शीतवारिपरिप्लुतैः ।नात्यच्छो नातिसान्द्रश्च मन्थः इत्यभिधीयते ॥२२.६५दाडिमं किंशुकं लाक्षा बन्धूकं च निशाह्वयं ।कुसुम्भपुष्पं मञ्जिष्ठा इत्येतै रक्तवर्गकः ॥२२.६६खटिनीश्वेतसंयुक्ताः शङ्खशुक्तिवराटिकाः ।भृष्टाश्मशर्करा चेति शुक्लवर्ग उदाहृतः ॥२२.६७भार्गीशटीपुष्करवत्सबीजदुरालभाशृङ्गिपटोलतिक्ताः ।किरातविश्वेन्द्रकणेन्द्रबीजधान्यानि तिक्तं सुरदारुकं च ॥२२.६८अष्टादशाङ्गाभिध एष योगः समागमे स्याद्दशमूलकेन ।द्विधा च भार्ग्यादिक एक एष ज्ञेयो द्वितीयस्तु किरातकादिः ॥२२.६९द्वात्रिंशत्पलसम्मितं दधि पलान्यष्टौ च खण्डं पलस्यार्धं चेन्मरिचस्य तेन तुलितं युक्तं त्वगेलाह्वयं ।मध्वाज्यं च युतं तदर्धमिलितं संशोधितैर्योजिता भाण्डे स्याद्धिमवासिते शिखरिणी श्रीकण्ठभोग्या गुणैः ॥२२.७०इत्थं नानामिश्रयोगाभिधानादेनं वर्गं मिश्रकाख्यं विदित्वा ।वैद्यः कुर्याद्योगं अत्रत्यसंज्ञाप्रज्ञासंज्ञो बन्धुभिर्येन धीरः ॥२२.७१शौर्यासङ्गरता रमा स्वयमुमा शश्वच्छिवासङ्गिनी सा वाणी चतुराननप्रणयिनी श्रीसम्मिता यं श्रिता ।तस्यागादभिधानशेखरमणौ वर्गो नृसिंहेशितुर्द्वाविंशोऽवसितिं कृतौ कृतधियां यो मिश्रकाख्यो मतः ॥२२.७२ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP