संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः| संकीर्णव्रज्या सुभाषितरत्नकोशः सुगतव्रज्या लोकेश्वरव्रज्या मञ्जुघोषव्रज्या महेश्वरव्रज्या तद्वर्गव्रज्या हरिव्रज्या सूर्यव्रज्या वसन्तव्रज्या ग्रीष्मव्रज्या प्रावृड्व्रज्या शरद्व्रज्या हेमन्तव्रज्या शिशिरव्रज्या मदनव्रज्या वयःसन्धिव्रज्या युवतिवर्णनव्रज्या ततोऽनुरागव्रज्या दूतीवचनव्रज्या सम्भोगव्रज्या समाप्तनिधुवनचिह्नव्रज्या मानिनीव्रज्या विरहिणीव्रज्या विरहिव्रज्या सतीव्रज्या दूतिकोपालम्भव्रज्या प्रदीपव्रज्या ततोऽपराह्णव्रज्या ततोऽन्धकारव्रज्या ततश्चन्द्रव्रज्या प्रत्यूषव्रज्या मध्याह्नव्रज्या यशोव्रज्या ततोऽन्यापदेशव्रज्या वातव्रज्या जातिव्रज्या माहात्म्यव्रज्या सद्व्रज्या असद्व्रज्या दीनव्रज्या अर्थान्तरन्यासव्रज्या ततश्चाटुव्रज्या निर्वेदव्रज्या वार्धक्यव्रज्या श्मशानव्रज्या वीरव्रज्या प्रशस्तिव्रज्या पर्वतव्रज्या शान्तिव्रज्या संकीर्णव्रज्या कविस्तुतिव्रज्या सुभाषितरत्नकोशः - संकीर्णव्रज्या विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे. Tags : bookvidhyakarविद्याकरसंस्कृतसुभाषितरत्नकोश संकीर्णव्रज्या Translation - भाषांतर तुषारशैलाञ्जनशैलकल्पयोर् अभेदभाग् ईश्वरविश्वरूपयोः ।शरत्पयोदस्थसितार्धतारका- पथप्रतिस्पार्धि वपुर् धिनोतु वः ४९.१ ॥१६३८॥यद् बद्धोर्ध्वजटं यद् अस्थिमुकुटं यच् चन्द्रमन्दारयोर् धत्ते धाम च दाम च स्मितलसत्कुन्देन्द्रनीलश्रियोः ।यत् खट्वाङ्गरथाङ्गसङ्गविकटं श्रीकण्ठवैकुण्ठयोर् वन्दे नन्दिमहोक्षतार्क्ष्यपरिषन्नानाङ्कम् एकं वपुः ४९.२ ॥१६३९॥मा गर्वम् उद्वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति ।अन्यापि किं न सखि भाजनम् ईदृशानां वैरी न चेद् भवति वेपथुर् अन्तरायः ४९.३ ॥१६४०॥चेतः कातरतां विमुञ्च झटिति स्वास्थ्यं समालम्ब्यतां प्राप्तासौ स्मरमार्गणव्रणपरित्राणौषधिः प्रेयसी ।यस्याः श्वाससमीरसौरभपतद्भृङ्गावलीवारण- क्रीडापाणिविधूतिकङ्कणझणत्कारो मुहुर् मूर्छति ४९.४ ॥१६४१॥कथाभिर् देशानां कथम् अपि च कालेन बहुना समायाते कान्ते सखि रजनिर् अर्धं गतवती ।ततो यावल् लीलाप्रणयकुपितास्मि प्रकुपिता सपत्नीव प्राची दिग् इयम् अभवत् तावद् अरुणा ४९.५ ॥१६४२॥विततकरे ऽप्य् अनुरागिणि मित्रे कोषं सदैव मुद्रयतः ।उचितानभिज्ञकैरव कैरवहसितं न ते चरितम् ४९.६ ॥१६४३॥पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव ।विलसत्करेणुगहनं सम्प्रति समम् आवयोर् भवनम् ४९.७ ॥१६४४॥गुरुर् अपि गलति विवेकः स्खलति च चित्तं विनश्यति प्रज्ञा ।पतति पुरुषस्य धैर्यं विषयविषाघूर्णिते मनसि ४९.८ ॥१६४५॥राजनि विद्वन्मध्ये वरसुरतसमागमे वरस्त्रीणाम् ।साध्वसदूषितहृदयो वाक्पटुर् अपि कातरीभवति ४९.९ ॥१६४६॥किंशुके किं शुकः कुर्यात् फलिते ऽपि बुभुक्षितः ।अदातरि समृद्धे ऽपि किं कुर्युर् अनुजीविनः ४९.१० ॥१६४७॥अहम् इह स्थितवत्य् अपि तावकी त्वम् अपि तत्र वसन्न् अपि मामकः ।हृदयसंगतम् एव सुसंगतं न तनुसंगतम् आर्य सुसंगतम् ४९.११ ॥१६४८॥द्याम् आलोकयतां कलाः कलयतां छायाः समाचिन्वतां क्लेशः केवलम् अङ्गुलीर् दलयतां मौहूर्तिकानाम् अयम् ।धन्या सा रजनी तद् एव सुदिनं पुण्यः स एव क्षणो यत्राज्ञातचरश् चिरान् नयनयोः सीमानम् एति प्रियः ४९.१२ ॥१६४९॥तेषां त्वं निधिर् आगसाम् असहना मानोन्नता साप्य् अतो गन्तव्यं भवया न तद् गृहम् इति त्वं वार्यसे यासि चेत् ।गाढं मेखलया बलान् नियमितः कर्णोत्पलैस् ताडितः क्षिप्तः पादतले तदेकशरणो मन्ये चिरं स्थास्यसि ४९.१३ ॥१६५०॥जाने सासहना स चाहम् अपकृन् मय्य् अङ्गणस्थे पुनस् तस्याः सम्भविता स साध्वसभरः को ऽपि प्रकोपापहः ।यत्रोद्यत्पुलकैः प्रकम्पविकलैर् अङ्गैः क्व कर्णोत्पलं कुत्रात्मा क्व च मेखलेति गलति प्रायः स मानग्रहः ४९.१४ ॥१६५१॥तुरुष्कराजभोजदेवयोःजातानन्तरम् एव यस्य मधुरां मूर्तिश्रियं पश्यतः सद्यःपुत्रमहोत्सवागतवधूवर्गस्य शृङ्गारिणः ।उन्नीयान्ययुवास्यकालिमकरीं तारुण्यरम्याम् इमां धन्यं जन्म सहामुनैकसमयं न प्राप्य तप्तं हृदा ४९.१५ ॥१६५२॥वल्लणस्यसीत्कारं शिक्षयति व्रणयत्य् अधरं तनोति रोमाञ्चम् ।नागरकः किम् उ मिलितो न हि न हि सखि हैमनः पवनः ४९.१६ ॥१६५३॥सव्रीडार्धनिरीक्षणं यद् उभयोर् यद् दूतिकाप्रेषणं वाद्य श्वो भविता समागम इति प्रीत्या प्रमोदश् च यः ।प्राप्ते चैव समागमे सरभसं यच् चुम्बनालिङ्गनान्य् एतत् कामफलं तद् एव सुरतं शेषः पशूनाम् इव ४९.१७ ॥१६५४॥पश्योदञ्चद् अवाञ्चद् अञ्चितवपुः पश्चार्धपूर्वार्धभाक् स्तब्धोत्तानितपृष्ठनिष्ठितमनाग्भुग्नाग्रलाङ्गूलभृत् ।दंष्ट्राकोटिविसंकटास्यकुहरः कुर्वन् सटाम् उत्कटाम् उत्कर्णः कुरुते क्रमं करिपतौ क्रूराकृतिः केशरी ४९.१८ ॥१६५५॥एते मेकलकन्यकाप्रणयिनः पातालमूलस्पृशः संत्रासं जनयन्ति विन्ध्यभिदुरा वारां प्रवाहाः पुरः ।लीलोन्मूलितनर्तितप्रतिहतव्यावर्तितप्रेरित- त्यक्तस्वीकृतनिह्नुतप्रचलितप्रोद्धूततीरद्रुमाः ४९.१९ ॥१६५६॥वातैः शीकरबन्धुभिः श्रुतिसुखैर् हंसावलीनिस्वनैः प्रोत्फुल्लैः कमलैः पयोभिर् अमलैर् नीत्वा जगन् निर्वृतिम् ।पश्चात् क्षीणधनां बहिर्निजदशां दृष्ट्वा मृणालच्छलाद् अर्थिभ्यः प्रददौ नवेन्दुविशदान्य् अस्थीनि पद्माकरः ४९.२० ॥१६५७॥विद्यते स न हि कश्चिद् उपायः सर्वलोकपरितोषकरो यः ।सर्वथा स्वहितम् आचरणीयं किं करिष्यति जनो बहुजल्पः ४९.२१ ॥१६५८॥चापस्यैव परं कोटि- विभवत्वं विराजते ।यस्माल् लभन्ते लक्षाणि निर्गुणा अपि मार्गणाः ४९.२२ ॥१६५९॥कृत्वापि कोषपानं भ्रमरयुवा पुरत एव कमलिन्याः ।अभिलषति बकुलकलिकां मधुलिहि मलिने कुतः सत्यम् ४९.२३ ॥१६६०॥ग्रामे ऽस्मिन् पथिकाय नैव वसतिः पान्थाधुना दीयते रात्राव् अत्र विवाहमण्डपतले पान्थः प्रसुप्तो युवा ।तेनोद्गीय खलेन गर्जति घने स्मृत्वा प्रियां यत् कृतं तेनाद्यापि करङ्कदण्डपतनाशङ्की जनस् तिष्ठति ४९.२४ ॥१६६१॥आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन ।सेहिरे न किरणा हिमरश्मेर् दुःखिते मनसि सर्वम् असह्यम् ४९.२५ ॥१६६२॥उन्मुद्रीकृतविश्वविस्मयभरैस् तत् तन् महार्घैर् गुणैर् दुर्गाधे हृदयाम्बुधौ तव भवेन् नः सूक्तिगङ्गा यदि ।विश्वश्वित्रमतङ्गिनीघनरसस्यन्दिन्य् अमन्दध्वनिर् गङ्गासागरसंगमः पुनर् इवापूर्वः समुन्मीलति ४९.२६ ॥१६६३॥एतन् मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डुर- प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते ।तत्फलीपतिपुत्रि कुञ्जरकुलं जीवाभयाभ्यर्थना- दीनं त्वाम् अनुनाथते कुचयुगं पत्रांशुकैर् मा पिधाः ४९.२७ ॥१६६४॥ह्रिया सर्वस्यासौ हरति विदितास्मीति वदनं द्वयोर् दृष्ट्वालापं कलयति कथाम् आत्मविषयाम् ।सखीषु स्मेरासु प्रकटयति वैलक्ष्यम् अधिकं प्रिया प्रायेणास्ते हृदयनिहितातङ्कविधुरा ४९.२८ ॥१६६५॥गुणवद् अगुणवद् वा कुर्वता कर्मजातं परिणतिर् अवधार्या यत्नतः पण्डितेन ।अतिरभसकृतानां कर्मणाम् आ विपत्तेर् भवति हृदयदाही शल्यतुल्यो विपाकः ४९.२९ ॥१६६६॥वर्षाः कर्दमहेतवः प्रतिदिनं तापस्य मूलं शरद् धेमन्ते जडता तथैव शिशिरे ऽप्य् आयास्यते वायुना ।चित्तोन्मादकरो वसन्तसमयो ग्रीष्मो ऽपि चण्डातपः कालः काल इति प्रहृष्यति जनः कालस्य का रम्यता ४९.३० ॥१६६७॥दृष्टिरोधकरं यूनां यौवनप्रभवं तमः ।अरत्नालोकसंहार्यम् अवार्यं सूर्यरश्मिभिः ४९.३१ ॥१६६८॥आपातमात्ररसिके सरसीरुहस्य किं बीजम् अर्पयितुम् इच्छसि वापिकायाम् ।कालः कलिर् जगद् इदं न कृतज्ञम् अज्ञे स्थित्वा हनिष्यति तवैव मुखस्य शोभाम् ४९.३२ ॥१६६९॥अप्रियाण्य् अपि कुर्वाणो यः प्रियः प्रिय एव स ।दग्धमन्दिरसारे ऽपि कस्य वह्नाव् अनादरः ४९.३३ ॥१६७०॥अयं काणः शुक्रो विषमचरणः सूर्यतनयः क्षताङ्गो ऽयं राहुर् विकलमहिमा शीतकिरणः ।अजानानस् तेषाम् अपि नियतकर्म स्वकफलं ग्रहग्रामग्रस्ता वयम् इति जनो ऽयं प्रलपति ४९.३४ ॥१६७१॥कनकभूषणसंग्रहणोचितो यदि मणिस् त्रपुणि प्रतिबध्यते ।न स विरौति न चापि पलायते भवति योजयितुर् वचनीयता ४९.३५ ॥१६७२॥नमस्यामो देवान् ननु हतविधेस् ते ऽपि वशगा विधिर् वन्द्यः सो ऽपि प्रतिनियतकर्मैकफलदः ।फलं कर्मायत्तं यदि किम् अपरैः किं च विधिना नमः सत्कर्मभ्यो विधिर् अपि न येभ्यः प्रभवति ४९.३६ ॥१६७३॥यदा विगृह्णाति तदा हतं यशः करोति मैत्रीम् अथ दूषिता गुणाः ।स्थितः समीक्ष्योभयता परीक्षकः करोत्य् अवज्ञोपहतं पृथग्जनम् ४९.३७ ॥१६७४॥तृष्णे देवि नमस् तुभ्यं कृतकृत्यासि साम्प्रतम् ।अनन्तनाम यद् रूपं तत् त्वया वामनीकृतम् ४९.३८ ॥१६७५॥पुरा याताः केचित् तदनु चलिताः केचिद् अपरे विषादः को ऽस्माकं न हि न वयम् अप्य् अत्र गमिनः ।मनःखेदस् त्व् एवं कथम् अकृतसंकेतविधयो महामार्गे ऽस्मिन् नो नयनपथम् एष्यन्ति सुहृदः ४९.३९ ॥१६७६॥सन्मार्गे तावद् आस्ते प्रभवति पुरुषस् तावद् एवेन्द्रियाणां लज्जां तावद् विधत्ते विनयम् अपि समालम्बते तावद् एव ।भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते यावल् लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ४९.४० ॥१६७७॥अध्वन्यस्य वधूर् वियोगविधुरा भर्तुः स्मरन्ती यदि प्राणान् उज्झति कस्य तन् महद् अहो संजायते किल्बिषम् ।इत्य् एवं पथिकः करोति हृदये यावत् तरोर् मूर्धनि प्रोद्घुष्टं परपुष्टया तव तवेत्य् उच्चैर् वचो ऽनेकशः ४९.४१ ॥१६७८॥अद्राक्षीद् अपनिद्रकोरकभरव्यानम्रवल्लीस्खलद्- धूलीदुर्दिनसूदिताम्बरम् असाव् उद्यानम् उर्वीपतिः ।आस्थानीभवनं वसन्तनृपतेर् देवस्य चेतोभुवः सत्रागारम् अनुत्तरं मधुलिहाम् एकं प्रपामण्डपम् ४९.४२ ॥१६७९॥मदनज्वरम् अपनेतुं कुरु सम्प्रति सततम् औषधद्वितयम् ।बालाधरमधुपानं कुचपीडनमुष्टियोगं च ४९.४३ ॥१६८०॥उपचारविधिज्ञो ऽपि निर्धनः किं करिष्यति ।निरङ्कुश इवारूढो मत्तद्विरदमूर्धनि ४९.४४ ॥१६८१॥कस्या नाम किम् अत्र नास्ति विदितं यद् वीक्ष्यमाणो ऽप्य् अयं लोको मूक इवास्ति मां प्रति पुनः सर्वो जनस् तप्यते ।शक्यं दर्शयितुं न पूगफलवत् कृत्वा द्विधेदं वपुर् यत् सत्यं सखि वीक्षितः खलु मया नूनं चतुर्थ्याः शशी ४९.४५ ॥१६८२॥खुराघातैः शृङ्गैः प्रतिदिनम् अलं हन्ति पथिकान् भृशं शस्योत्सादैः सकलनगराख्यातपटिमा ।युगं नैव स्कन्धे वहति नितरां याति धरणीं वरं शून्या शाला न च पुनर् अयं दुष्टवृषभः ४९.४६ ॥१६८३॥पूरोत्पीडे तडागस्य परीवाहः प्रतिक्रिया ।शोकक्षोभे च हृदयं प्रलापैर् अवधार्यते ४९.४७ ॥१६८४॥धिक् चन्दनं कैव सुधा वराकी किम् इन्दुना हारितम् अब्जकन्दैः ।न वेद्मि तद् वस्तु यद् अत्र लोके सुताङ्गधूलेर् उपमानपात्रम् ४९.४८ ॥१६८५॥यौवनं चलम् अपायि शरीरं गत्वरं वसु विमृश्य विशिष्टः ।नान्यजन्मगततिक्तविपाकं दृष्टसौख्यम् अपि कर्म विधत्ते ४९.४९ ॥१६८६॥अधो ऽधः पश्यतः कस्य महिमा नोपजायते ।उपर्य् उपरि पश्यन्तः सर्व एव दरिद्रति ४९.५० ॥१६८७॥तिमिरम् इदम् इन्दुबिम्बात् पूतिर् गन्धो ऽयम् अम्बुरहकोषात् ।निन्दितम् अभिजातमुखाद् यद् अलीकं वचनम् उच्चरति ४९.५१ ॥१६८८॥यो नीवारतृणाग्रमुष्टिकबलैः संवर्धितः शैशवे पीतं येन सरोजिनीदलपुटे होमावशिष्टं पयः ।तद्दानासवपानमत्तमधुपव्यालोलगण्डं गजं सोत्कण्ठं सभयं च पश्यति शनैर् दूरे स्थितस् तापसः ४९.५२ ॥१६८९॥पाणिप्रेङ्खणतो विशीर्णशिरसः स्वेदावरुग्णश्रियस् ता इत्य् आकृतिलेशतो मनसि नः किंचित् प्रतीतिं गताः ।वैचित्र्यात् पुनर् उक्तलाञ्छनभृतः खण्डेन वाक्येन वा व्याक्षेपं कथयन्ति पक्ष्मलदृशो लेखाक्षरश्रेणयः ४९.५३ ॥१६९०॥ताडीदलं यद् अकठोरम् इदं यद् अत्र मुद्रा स्तनाङ्कघनचन्दनपङ्कमूर्तिः ।यद् बन्धनं बिसलतातनुतन्तवश् च कस्याश्चिद् एषा गलितस् तदनङ्गलेखः ४९.५४ ॥१६९१॥मृणालम् एतद् वलयीकृतं तया तदीय एवैष वतंसपल्लवः ।इदं च तस्याः कदलीदलांशुकं यद् अत्र संक्रान्त इव स्मरज्वरः ४९.५५ ॥१६९२॥राजशेखरस्यामीमधुर् मासो रम्यो विपिनम् अजनं त्वं च तरुणी स्फुरत्कामावेशे वयसि वयम् अप्य् आहितभराः ।व्रजत्व् अम्बा मुग्धे क्षणम् इह विलम्बस्व यदि वा स्फुटस् तावज् जातः पिशुनवचसाम् एष विषयः ४९.५६ ॥१६९३॥वल्लणस्यमुनीन्दोर् वाग्बिन्दुः प्रविततसुधापूरपरमो न चेच् चिन्तापात्रे मिलति कथम् अप्य् अस्य मनसः ।कुतः प्राप्य प्रीतिं तुहिनगिरिगर्भस्थितिजुषो ऽप्य् असह्यः सह्येत प्रियविरहदाहव्यतिकरः ४९.५७ ॥१६९४॥धर्मकीर्तेःसर्वस्यैव हि लोकस्य बहुमानं यद् आत्मनि ।विष्णोर् मायासहस्रस्य इयम् एका गरीयसी ४९.५८ ॥१६९५॥कृशः काणः खञ्जः श्रवणविकलः पुच्छरहितः क्षुधाक्षामो जीर्णः पिठरककपालार्पितगलः ।व्रणैः पूयक्लिन्नैः क्रिमिकुलचितैर् आचिततनुः शुनीम् अभ्येति श्वा हतम् अपि निहन्त्य् एव मदनः ४९.५९ ॥१६९६॥तरन्तो दृश्यन्ते बहव इह गम्भीरसरसि स्वसाराभ्याम् आभ्यां हृदि विदधतः कौतुकशतम् ।प्रविश्यान्तर्लीनं किम् अपि सुविवेच्योद्धरति यश् चिरं रुद्धश्वासः स खलु पुनर् एतेषु विरलः ४९.६० ॥१६९७॥पण्डितज्ञानश्रियःइति संकीर्णव्रज्या N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP