संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः| दूतिकोपालम्भव्रज्या सुभाषितरत्नकोशः सुगतव्रज्या लोकेश्वरव्रज्या मञ्जुघोषव्रज्या महेश्वरव्रज्या तद्वर्गव्रज्या हरिव्रज्या सूर्यव्रज्या वसन्तव्रज्या ग्रीष्मव्रज्या प्रावृड्व्रज्या शरद्व्रज्या हेमन्तव्रज्या शिशिरव्रज्या मदनव्रज्या वयःसन्धिव्रज्या युवतिवर्णनव्रज्या ततोऽनुरागव्रज्या दूतीवचनव्रज्या सम्भोगव्रज्या समाप्तनिधुवनचिह्नव्रज्या मानिनीव्रज्या विरहिणीव्रज्या विरहिव्रज्या सतीव्रज्या दूतिकोपालम्भव्रज्या प्रदीपव्रज्या ततोऽपराह्णव्रज्या ततोऽन्धकारव्रज्या ततश्चन्द्रव्रज्या प्रत्यूषव्रज्या मध्याह्नव्रज्या यशोव्रज्या ततोऽन्यापदेशव्रज्या वातव्रज्या जातिव्रज्या माहात्म्यव्रज्या सद्व्रज्या असद्व्रज्या दीनव्रज्या अर्थान्तरन्यासव्रज्या ततश्चाटुव्रज्या निर्वेदव्रज्या वार्धक्यव्रज्या श्मशानव्रज्या वीरव्रज्या प्रशस्तिव्रज्या पर्वतव्रज्या शान्तिव्रज्या संकीर्णव्रज्या कविस्तुतिव्रज्या सुभाषितरत्नकोशः - दूतिकोपालम्भव्रज्या विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे. Tags : bookvidhyakarविद्याकरसंस्कृतसुभाषितरत्नकोश दूतिकोपालम्भव्रज्या Translation - भाषांतर निःशेषच्युतचन्दनं स्तनतटो निर्यातराजो ऽधरो नेत्रे दूरम् अनञ्जने जललवप्रस्यन्दिनी ते तनुः ।आशाच्छेदिनि दूति बान्धवजनस्याज्ञातपीडागमे वापीं स्नातुम् इतो गतासि न पुनस् तस्याधमस्यान्तिकम् २५.१ ॥८३७॥किं त्वं निगूहसे दूति स्तनौ वक्त्रं च पाणिना ।सव्रणा एव शोभन्ते शूराधरपयोधराः २५.२ ॥८३८॥साधु दूति पुनः साधु कर्तव्यं किम् अतः परम् ।यन् मदर्थे विलग्नासि दन्तैर् अपि नखैर् अपि २५.३ ॥८३९॥विहारः कण्ठदेशस् ते काषाये तव लोचने ।अधरौ वीतरागौ ते दूति प्रव्रजितासि किम् २५.४ ॥८४०॥दूति किं तेन पापेन शास्त्रातिक्रमकारिणा ।पञ्च पञ्चनखा भक्ष्याः षष्ठी त्वं येन खादिता २५.५ ॥८४१॥नायातः सामदानाभ्याम् इति भेदे ऽपि दर्शिते ।साधु यद् दुर्विनीतस्य त्वया दण्डो निपातितः २५.६ ॥८४२॥अनेन वीतरागेण बुद्धेनेवाधरेण ते ।दूति निर्व्याजम् आख्याता सर्ववस्तुषु शून्यता २५.७ ॥८४३॥पार्श्वाभ्यां सप्रहाराभ्याम् अधरे व्रणखण्डिते ।दूति संग्रामयोग्यासि न योग्या दूतकर्मणि २५.८ ॥८४४॥त्वया दूति कृतं कर्म यत् तद् अन्येन दुष्करम् ।शरणागतविध्वंसी छिद्रान्वेषी निपातितः २५.९ ॥८४५॥क्षामा तनुर् गतिः खिन्ना नेत्रे व्यालोकतारके ।वाग् अस्पष्टा श्लथं वासो दूति त्वं ज्वरितासि किम् २५.१० ॥८४६॥रजन्याम् अन्यस्यां सुरतपरिवर्ताद् अनुचितं मदीयं यद् वासः कथम् अपि हृतं तेन सुहृदा ।त्वया प्रीत्यानीतं स्वनिवसनदानात् पुनर् इदं कुतस् त्वादृग् दूति स्खलितशमनोपायनिपुणा २५.११ ॥८४७॥नायातो यदि तादृशं स शपथं कृत्वापि दूति प्रियस् तत् किं कोपनया त्वया स्वदशनैर् अग्राधरः खण्डितः ।स्वेदाम्भःकणदायि वेपनम् इदं त्यक्त्वा भज स्वस्थतां को लोकस्य सखि स्वभावकुटिलस्यान्तर्गतं ज्ञास्यति २५.१२ ॥८४८॥रोमाञ्चं वहसि श्वसिष्य् अविरतं ध्यानं किम् अप्य् आश्रिता दृष्टिस् ते भ्रमति प्रकम्पचपले व्यक्तं च ते शीत्कृतम् ।तं लब्ध्वा खलु बन्धकीव सुरतव्यापारदक्षं जनं किं दूति ज्वरितासि पापम् अथवा स्पृष्ट्वा भवन्त्य् आपदः २५.१३ ॥८४९॥श्वासः किं त्वरिता गतिः पुलकिता कस्मात् प्रसाद्यागता वेणी भ्रश्यति पादयोर् निपतनात् क्षामा किम् इत्य् उक्तिभिः ।स्वेदार्द्रं मुखम् आतपेन गलिता नीवी गमाद् आगमाद् दूति म्लानसरोरुहद्युतिमुषः स्वौष्ठस्य किं वक्ष्यसि २५.१४ ॥८५०॥अधरेणोन्नतिभाजा भुजङ्गपरिपीडितेन ते दूति ।संक्षोभितं मनो मे जलनिधिर् इव मन्दरागेण २५.१५ ॥८५१॥सद्भावोपगता समप्रणयिनी दाराः परस्येति वा दूते रागपराभवः क्रियत इत्य् एतन् न मीमांसितम् ।येनाम्भोरुहसंनिभस्य वदनस्यापाण्डुता ते कृता दूति भ्रष्टगुणस्य तस्य निलयं स्वप्ने ऽपि मा गाः पुनः २५.१६ ॥८५२॥स्वकार्यबुद्ध्यैव सदा मदर्थे दूति प्रवृत्तिं प्रतिपालयन्त्या ।त्वया फलेनैव विभावितो ऽयं मया सहाभिन्नशरीरवादः २५.१७ ॥८५३॥वित्तोकस्यइति दूतीकोपालम्भव्रज्या N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP