संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः| वातव्रज्या सुभाषितरत्नकोशः सुगतव्रज्या लोकेश्वरव्रज्या मञ्जुघोषव्रज्या महेश्वरव्रज्या तद्वर्गव्रज्या हरिव्रज्या सूर्यव्रज्या वसन्तव्रज्या ग्रीष्मव्रज्या प्रावृड्व्रज्या शरद्व्रज्या हेमन्तव्रज्या शिशिरव्रज्या मदनव्रज्या वयःसन्धिव्रज्या युवतिवर्णनव्रज्या ततोऽनुरागव्रज्या दूतीवचनव्रज्या सम्भोगव्रज्या समाप्तनिधुवनचिह्नव्रज्या मानिनीव्रज्या विरहिणीव्रज्या विरहिव्रज्या सतीव्रज्या दूतिकोपालम्भव्रज्या प्रदीपव्रज्या ततोऽपराह्णव्रज्या ततोऽन्धकारव्रज्या ततश्चन्द्रव्रज्या प्रत्यूषव्रज्या मध्याह्नव्रज्या यशोव्रज्या ततोऽन्यापदेशव्रज्या वातव्रज्या जातिव्रज्या माहात्म्यव्रज्या सद्व्रज्या असद्व्रज्या दीनव्रज्या अर्थान्तरन्यासव्रज्या ततश्चाटुव्रज्या निर्वेदव्रज्या वार्धक्यव्रज्या श्मशानव्रज्या वीरव्रज्या प्रशस्तिव्रज्या पर्वतव्रज्या शान्तिव्रज्या संकीर्णव्रज्या कविस्तुतिव्रज्या सुभाषितरत्नकोशः - वातव्रज्या विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे. Tags : bookvidhyakarविद्याकरसंस्कृतसुभाषितरत्नकोश वातव्रज्या Translation - भाषांतर उद्दामद्विरदावलूनबिसिनीसौरभ्यसम्भावित- व्योमानः कलहंसकम्पितगरुत्पालीमरुन्मांसलाः ।दूरोत्तानतरङ्गलङ्घनजलाजङ्घालगर्वस्पृशः कर्पूरद्रवशीकरैर् इव दिशो लिम्पन्ति पम्पानिलाः ३४.१ ॥११२५॥अन्ध्रीनीरन्ध्रपीनस्तनतटलुठनायासमन्दप्रचाराश् चारून् उल्लासयन्तो द्रविडवरवधूहारिधम्मिल्लभारान् ।जिघ्रन्तः सिंहलीनां मुखकमलम् अलं केरलीनां कपोलं चुम्बन्तो वान्ति मन्दं मलयपरिमला वायवो दाक्षिणात्याः ३४.२ ॥११२६॥वसुकल्पस्यैतौलतां पुष्पवतीं स्पृष्ट्वा कृतस्नानो जलाशये ।पुनस् तत्सङ्गशङ्कीव वाति वातः शनैः शनैः ३४.३ ॥११२७॥विनयदेवस्यकान्ताकर्षणलोलकेरलवधूधमिल्लमल्लीरजश् चौराश् चोडनितम्बिनीस्तनतटे निष्पन्दताम् आगताः ।रेवाशीकरधारिणो ऽन्ध्रमुरलस्त्रीमानमुद्राभिदो वाता वान्ति नवीनकोकिलवधूहूंकारवाचालिताः ३४.४ ॥११२८॥श्रीकण्ठस्यधुनानः कावेरीपरिसरभुवश् चम्पकतरून् मरुन् मन्दं कुन्दप्रकरमकरन्दान् अवकिरन् ।प्रियप्रेमाकर्षच्युतरचनम् आमूलसरलं ललाटे लाटीनां लुठितम् अलकं ताण्डवयति ३४.५ ॥११२९॥वहति ललितमन्दः कामिनीमानबन्धं श्लथयितुम् अयम् एको दक्षिणो दाक्षिणात्यः ।वितरति घनसारामोदम् अन्तर् धुनानो जलधिजलतरङ्गान् खेलयन् गन्धवाहः ३४.६ ॥११३०॥भुक्त्वा चिरं दक्षिणदिग्वधूम् इमां विहाय तस्या भयतः शनैः शनैः ।सगन्धसारादिकृताङ्गभूषणः प्रयात्य् उदीचीं दयिताम् इवानिलः ३४.७ ॥११३१॥भूषणःभूषःवाति व्यस्तलवङ्गलोध्रलवलीकुञ्जः करञ्जद्रुमान् आधुन्वन्न् उपभुक्तम् उक्तमुरलातोयोर्मिमालाजडः ।स्वैरं दक्षिणसिन्धुकूलकदलीकच्छोपकण्ठोद्भवः कावेरीतटताडिताडनतटत्कारोत्तरो मारुतः ३४.८ ॥११३२॥चुम्बन्न् आननम् आलुठन् स्तनतटीम् आन्दोलयन् कुन्तलं व्यस्यन्न् अंशुकपल्लवं मनसिजक्रीडाः समुल्लासयन् ।अङ्गं विह्वलयन् मनो विकलयन् मानं समुन्मूलयन् नारीणां मलयानिलः प्रिय इव प्रत्यङ्गम् आलिङ्गति ३४.९ ॥११३३॥अलीनां मालाभिर् विरचितजटाभारमहिमा परागैः पुष्पाणाम् उपरचितभस्मव्यतिकरः ।वनानाम् आभोगे कुसुमवति पुष्पोच्चयपरो मरुन् मन्दं मन्दं विचरति परिव्राजक इव ३४.१० ॥११३४॥शष्पश्यामलितालवालनिपतत्कुल्याजलप्लावित- क्रीडोद्याननिकेतनाजिरजुषाम् अस्पृष्टभूरेणवः ।सुप्तं सम्प्रति बोधयन्ति शनकैश् चेतोभुवं कामिनां प्रत्यग्रस्फुटमल्लिकासुरभयः सायंतना वायवः ३४.११ ॥११३५॥अचलसिंहस्यअद्याभोगिनि गाढमर्मनिवहे हर्माग्रवेदीजुषां सद्यश् चन्दनशोषिणि स्तनतटे सङ्गे कुरङ्गीदृशाम् ।प्रायः प्रश्लथयन्ति पुष्पधनुषः पुष्पाकरे निष्ठिते निर्वेदं नवमल्लिकासुरभयः साय्ंनया वायवः ३४.१२ ॥११३६॥शतानन्दस्यशिशिरशीकरवाहिनि मारुते चरति शीतभयाद् इव सत्वरः ।मनसिजः प्रविवेश वियोगिनी- हृदयम् आहितशोकहुताशनः ३४.१३ ॥११३७॥कुमारदासस्यदीर्घान् मुक्तः सपदि मलयाधित्यकायाः प्रसङ्गाद् आविष्कुर्वन् प्रणयपिशुनं सौरभं चन्दनस्य ।मन्दं मन्दं निपतति चिराद् आगतो माधवीषु व्याकुर्वाणो भयम् इव परं दाक्षिणो गन्धवाहः ३४.१४ ॥११३८॥मधुशीलस्यप्रभाते सन्नद्धस्तनितमहिमानं जलधरं स्पृशन्तः सर्वत्र स्फुटितवनमल्लीसुरभयः ।अमी मन्दं मन्दं सुरतसमरश्रान्ततरुणी- ललाटस्वेदाम्भःकणपरिमुषो वान्ति मरुतः ३४.१५ ॥११३९॥सुरतभरखिन्नपन्नगविलासिनीपानकेलिजर्जरितः ।पुनर् इह विरहिश्वासैर् मलयमरुन् मांसलीभवति ३४.१६ ॥११४०॥एते पल्लीपरिवृढवधूप्रौढकन्दर्पकेलि- क्लिष्टापीनस्तनपरिसरखेदसम्पद्विपक्षाः ।वान्ति स्वैरं सरसि सरसि क्रोडदंष्ट्राविमर्द- त्रुट्यद्गुन्द्रापरिमलगुणग्राहिणो गन्धवाहाः ३४.१७ ॥११४१॥नाधन्यैः शङ्खपाणेः क्षणधृतगतयः प्रांशुभिश् चन्द्रकान्त- प्रासादैर् द्वारकायां तरलितचरमाम्भोधिनीराः समीराः ।सेव्यन्ते नित्यमाद्यत्करिकाठिनकरास्फालकालप्रबुद्ध- क्रुध्यत्पञ्चाननाग्रध्वनिभरविगलद्गुग्गुलूद्गारगर्भाः ३४.१८ ॥११४२॥हिमस्पर्शाद् अङ्गे घनपुलकजालं विदधतः पिकत्रोटीत्रुट्यद्विकचसहकाराङ्कुरलिहः ।अमी स्वैरं स्वैरं मलयमरुतो वान्ति दिनजं दिनापाये चक्षुःक्लमम् अपहरन्तो मृगदृशाम् ३४.१९ ॥११४३॥अयम् उषसि विनिद्रद्राविडीतुङ्गपीन- स्तनपरिसरसान्द्रखेदबिन्दूपमर्दी ।स्रुतमलयजवृक्षक्षीरसौरभ्यसभ्यो वहति सखि भुजङ्गीभुक्तशेषः समीरः ३४.२० ॥११४४॥ये दोलाकेलिकाराः किम् अपि मृगदृशां मन्युतन्तुच्छिदो ये सद्यः शृङ्गारदीक्षाव्यतिकरगुरवो ये च लोकत्रये ऽपि ।ते कण्ठे लोठयन्तः परभृतवयसां पञ्चमं रागराजं वान्ति स्वैरं समीराः स्मरविजयमहासाक्षिणो दाक्षिणात्याः ३४.२१ ॥११४५॥राजशेखरस्यदरोन्मीलच्चूडप्रकरमुकुलोद्गारसुरभिर् लतालास्यक्रीडाविधिनिबिडदीक्षापरिचयः ।विभिन्दन्न् उद्यानान्य् अतनुमकरन्दद्रवहर- श्रमस्वैरो वायुर् मनसिजशरैर् जर्जरयति ३४.२२ ॥११४६॥श्रान्ताश् चूतवनानि कुञ्जपटलप्रेङ्खोलनाद् उन्मिषन्- मल्लीकुड्मलसान्द्रसौरभसरित्संस्यन्दशृङ्गारिणः ।एते संवसथोपकण्ठविलसद्वृष्ट्यम्बुवीचीचयोन्- मीलद्बालतुषारशीकरकिरः क्रीडन्ति झञ्झानिलाः ३४.२३ ॥११४७॥बुद्धाकरगुप्तस्यइति वातव्रज्या N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP