संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः| दूतीवचनव्रज्या सुभाषितरत्नकोशः सुगतव्रज्या लोकेश्वरव्रज्या मञ्जुघोषव्रज्या महेश्वरव्रज्या तद्वर्गव्रज्या हरिव्रज्या सूर्यव्रज्या वसन्तव्रज्या ग्रीष्मव्रज्या प्रावृड्व्रज्या शरद्व्रज्या हेमन्तव्रज्या शिशिरव्रज्या मदनव्रज्या वयःसन्धिव्रज्या युवतिवर्णनव्रज्या ततोऽनुरागव्रज्या दूतीवचनव्रज्या सम्भोगव्रज्या समाप्तनिधुवनचिह्नव्रज्या मानिनीव्रज्या विरहिणीव्रज्या विरहिव्रज्या सतीव्रज्या दूतिकोपालम्भव्रज्या प्रदीपव्रज्या ततोऽपराह्णव्रज्या ततोऽन्धकारव्रज्या ततश्चन्द्रव्रज्या प्रत्यूषव्रज्या मध्याह्नव्रज्या यशोव्रज्या ततोऽन्यापदेशव्रज्या वातव्रज्या जातिव्रज्या माहात्म्यव्रज्या सद्व्रज्या असद्व्रज्या दीनव्रज्या अर्थान्तरन्यासव्रज्या ततश्चाटुव्रज्या निर्वेदव्रज्या वार्धक्यव्रज्या श्मशानव्रज्या वीरव्रज्या प्रशस्तिव्रज्या पर्वतव्रज्या शान्तिव्रज्या संकीर्णव्रज्या कविस्तुतिव्रज्या सुभाषितरत्नकोशः - दूतीवचनव्रज्या विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे. Tags : bookvidhyakarविद्याकरसंस्कृतसुभाषितरत्नकोश दूतीवचनव्रज्या Translation - भाषांतर लावण्येन पिधीयते ऽङ्गतनिमा संधार्यते जीवितं त्वद्ध्यानैः सततं कुरङ्गकदृशः किं त्व् एतद् आस्ते नवम् ।निःश्वासैः कुचकुम्भपीठलुठनप्रत्युद्गमान् मांसलैः श्यामीभूतकपोलम् इन्दुर् अधुना यत् तन्मुखं स्पर्धते १८.१ ॥५३५॥शृङ्गारस्यसोद्वेगा मृगलाञ्छने मुखम् अपि स्वं नेक्षते दर्पणे त्रस्ता कोकिलकूजिताद् अपि गिरं नोन्मुद्रयत्य् आत्मनः ।चित्रं दुःसहदाहदायिनि धृतद्वेषापि पुष्पायुधे बाला सा सुभग त्वयि प्रतिपदं प्रेमाधिकं पुष्यति १८.२ ॥५३६॥शृङ्गारस्यैतौविलिम्पत्य् एतस्मिन् मलयजरसाद्रेण महसा दिशां चक्रं चन्द्रे सुकृतमय तस्या मृगदृशः ।दृशोर् बाष्पः पाणौ वदनम् असवः कण्ठकुहरे हृदि त्वं ह्रीः पृष्ठे वचसि च गुणा एव भवतः १८.३ ॥५३७॥अम्भोरुहं वदनम् अम्बकम् इन्दुकान्तः पाथोनिधिः कुसुमचापभृतो विकारः ।प्रादुर्बभूव सुभग त्वयि दूरसंस्थे चण्डालचन्द्रधवलासु निशासु तस्याः १८.४ ॥५३८॥वक्त्रेन्दोर् न हरन्ति बाष्पपयसां धारा मनोज्ञां श्रियं निश्वासा न कदर्थयन्ति मधुरां बिम्बाधरस्य द्युतिम् ।तस्यास् त्वद्विरहे विपक्वलवलीलावण्यसंवादिनी छाया कापि कपोलयोर् अनुदिनं तन्व्याः परं शुष्यति १८.५ ॥५३९॥धर्मकीर्तेःतापोम्भःप्रसृतंपचः प्रचयवान् बाष्पः प्रणालोचितः श्वासा नर्तितदीपवर्तिलतिकाः पाण्डिम्नि मग्नं वपुः ।किं चान्यत् कथयामि रात्रिम् अखिलां त्वद्वर्त्मवातायने हस्तच्छत्रनिरुद्धचन्द्रनिरुद्धचन्द्रमहसस् तस्याः स्थितिर् वर्तते १८.६ ॥५४०॥चन्द्रं चन्दनकर्दमेन लिखितं सा मार्ष्टि दष्टाधरा वन्द्यं निन्दति यच् च मन्मथम् असौ भङ्क्त्वाग्रहस्ताङुरीः ।कामः पुष्पशरः किलेति सुमनोवर्गं लुनीते च यत् तत् काम्या सुभग त्वया वरतनुर् वातूलतां लम्भिता १८.७ ॥५४१॥राजशेखरस्यवपुः शारङ्गाक्ष्यास् तद् अविरलरोमाञ्चनिचयं त्वयि स्वप्नावाप्ते स्नपयति परः खेदविसरः ।बलाकर्षत्र्युट्यद्वलयजकडत्कारनिनदैर् विनिद्रायाः पश्चाद् अनवरतबाष्पाम्बुनिवहाः १८.८ ॥५४२॥वसुकल्पस्यनो शक्या गदितुं स्मरानलदशा यास्यास् त्वयि प्रस्थिते पत्रैः सास्रसखीजनोपरचिते तल्पे लुठन्त्या मुहुः ।यल् लिप्तं कुचचन्दनेन सुतनोर् अद्यापि चन्द्रच्छलाच् छ्वासोड्डीनविशुष्कपाण्डुबिसिनीपत्रं दिवि भ्राम्यति १८.९ ॥५४३॥रुद्रस्यप्रकटयति क्षणभङ्गं पश्यति सर्वं जगद् गतं शून्यम् ।आचरति स्मृतिबाह्यं जाता सा बौद्धबुद्धिर् इव १८.१० ॥५४४॥त्वदर्थिनी चन्दनभस्मदिग्ध- ललाटलेखाश्रुजलाभिषिक्ता ।मृणालचीरं दधती स्तनाभ्यां स्मरोपदिष्टं चरति व्रतं सा १८.११ ॥५४५॥ये निर्दहन्ति दशनश्वसितावलोकैः क्रूरं द्विजिह्वकुटिलाः क्व विलासिनस् ते ।भीष्मोष्मभिः स्मरणमात्रविषैस् तवेयम् अव्याल मारयति कापि भुजङ्गभङ्गिः १८.१२ ॥५४६॥स्वेदापूरविलुप्तकुङ्कुमरसाश्लेषाविलप्रच्छदात् तल्पाद् व्यक्तमनोभवानलशिखालीढाद् इवाशङ्किता ।सा बाला बलवन् मृगाङ्ककिरणैर् उत्पादितान्तर्ज्वरा त्वत्संकल्पजडे त्वदङ्कशयने निद्रासुखं वाञ्छति १८.१३ ॥५४७॥धूमेनेव हते दृशौ विसृजतो बाष्पं प्रवाहक्षमं क्वाथोत्फेणम् इवात्तचन्दनरसं स्वेदं वपुर् मुञ्चति ।अन्तःप्रज्वलितस्य कामशिखिनो दाहार्जितैर् भस्मभिः श्वासावेगविनिर्गतैर् इव तनोः पाण्डुत्वम् उन्मीलति १८.१४ ॥५४८॥मनोविनोदस्यैतौअत्रैष स्वयम् एव चित्रफलके कम्पस्खलल्लेखया संतापार्तिविनोदनाय कथम् अप्य् आलिख्य सख्या भवान् ।बाष्पव्याकुलम् ईक्षितः सरभसं चूताङ्कुरैर् अर्चितो मूर्ध्ना च प्रणतः सखीषु मदनव्याजेन चापह्नुतः १८.१५ ॥५४९॥डिम्बोकस्यसा सुन्दरी तव वियोगहुताशने ऽस्मिन्न् अभ्युक्ष्य बाष्पसलिलैर् निजदेहहव्यम् ।जन्मान्तरे विरहदुःखविनाशकामा पुंस्कोकिलाभिहितिमन्त्रपदैर् जुहोति १८.१६ ॥५५०॥प्रभाकरस्यसुभग सुकृतप्राप्यो यद्य् अप्य् असि त्वम् असाव् अपि प्रियसहचरी नाधन्यानाम् उपैति विधेयताम् ।तद् अलम् अधुना निर्बन्धेन प्रसीद परस्परं प्रणयमधुरः सद्भावो वां चिराय विवर्धताम् १८.१७ ॥५५१॥वाक्कूटस्यदोलालोलाः श्वसनमरुतश् चक्षुषी निर्झराभे तस्याः शुष्यत्तगरसुमनःपाण्डुरा गण्डभित्तिः ।तद्गात्राणां किम् इव हि वयं ब्रूमहे दुर्बलत्वं येषाम् अग्रे प्रतिपद् उदिता चन्द्रलेखाप्य् अतन्वी १८.१८ ॥५५२॥तस्यास् तापभुवं नृशंस कथयाम्य् एणीदृशस् ते कथं पद्मिन्याः सरसं दलं विनिहितं यस्याः शमायोरसि ।आदौ शुष्यति संकुचत्य् अनु ततश् चूर्णत्वम् आदद्यते पश्चान् मुर्मुरतां दधद् दहति च श्वासावधूतं सखीम् १८.१९ ॥५५३॥उत्पलरजास्यविषं चन्द्रालोकः कुमुदवनवातो हुतवहः क्षतक्षारो हारः स खलु पुटपाको मलयजः ।अये किंचिद्वक्रे त्वयि सुभग सर्वे कथम् अमी समं जातास् तस्याम् अहह विपरीतप्रकृतयः १८.२० ॥५५४॥अचलसिंहस्यत्वां चिन्तापरिकल्पितं सुभग सा सम्भाव्य रोमाञ्चिता शून्यालिङ्गनसंवलद्भुजयुगेनात्मानम् आलिङ्गति ।किं चान्यद् विरहव्यथाप्रणयिनी सम्प्राप्य मूर्छां चिरात् प्रत्युज्जीवति कर्णमूलपठितैस् त्वन्नाममन्त्राक्षरैः १८.२१ ॥५५५॥गाढावधःकृतवलित्रितयौ सुसङ्गौ तुङ्गौ स्तनाव् इति तयोस् तलम् आर्तम् आगात् ।तस्याः स्फुटं हृदयम् इत्य् अपि न स्मरेषूंस् तौ रक्षतः प्रविशतो विमुखो ऽथ वा क्व १८.२२ ॥५५६॥वल्लणस्यमृगशिशुदृशस् तस्यास् तापं कथं कथयामि ते दहनपतिता दृष्टा मूर्तिर् मया न हि वैधवी ।इति तु नियतं नारीरूपः स लोकदृशां प्रियस् तव शठतया शिल्पोत्कर्षो विधेर् विघटिष्यते १८.२३ ॥५५७॥पुनर् उक्तावधि वासरम् एतस्याः कितव पश्य गणयन्त्याः ।इयम् इव करजः क्षीणस् त्वम् इव कठोराणि पर्वाणि १८.२४ ॥५५८॥धरणीधरस्यइति दूतीवचनव्रज्या N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP