संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः| माहात्म्यव्रज्या सुभाषितरत्नकोशः सुगतव्रज्या लोकेश्वरव्रज्या मञ्जुघोषव्रज्या महेश्वरव्रज्या तद्वर्गव्रज्या हरिव्रज्या सूर्यव्रज्या वसन्तव्रज्या ग्रीष्मव्रज्या प्रावृड्व्रज्या शरद्व्रज्या हेमन्तव्रज्या शिशिरव्रज्या मदनव्रज्या वयःसन्धिव्रज्या युवतिवर्णनव्रज्या ततोऽनुरागव्रज्या दूतीवचनव्रज्या सम्भोगव्रज्या समाप्तनिधुवनचिह्नव्रज्या मानिनीव्रज्या विरहिणीव्रज्या विरहिव्रज्या सतीव्रज्या दूतिकोपालम्भव्रज्या प्रदीपव्रज्या ततोऽपराह्णव्रज्या ततोऽन्धकारव्रज्या ततश्चन्द्रव्रज्या प्रत्यूषव्रज्या मध्याह्नव्रज्या यशोव्रज्या ततोऽन्यापदेशव्रज्या वातव्रज्या जातिव्रज्या माहात्म्यव्रज्या सद्व्रज्या असद्व्रज्या दीनव्रज्या अर्थान्तरन्यासव्रज्या ततश्चाटुव्रज्या निर्वेदव्रज्या वार्धक्यव्रज्या श्मशानव्रज्या वीरव्रज्या प्रशस्तिव्रज्या पर्वतव्रज्या शान्तिव्रज्या संकीर्णव्रज्या कविस्तुतिव्रज्या सुभाषितरत्नकोशः - माहात्म्यव्रज्या विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे. Tags : bookvidhyakarविद्याकरसंस्कृतसुभाषितरत्नकोश माहात्म्यव्रज्या Translation - भाषांतर तद् ब्रह्माण्डम् इह क्वचित् क्वचिद् अपि क्षोणी क्वचिन् नीरदास् ते द्वीपान्तरमालिनो जलधयः क्वापि क्वचिद् भूभृतः ।आश्चर्यं गगनस्य को ऽपि महिमा सर्वैर् अमीभिः स्थितैर् दूरे पूरणम् अस्य शून्यम् इति यन् नामापि नाछादितम् ३६.१ ॥११९३॥केशटस्यआपीयमानम् असकृद् भ्रमरायमाणैर् अम्भोधरैः स्फुरितवीचिसहस्रपत्रम् ।क्षीराम्बुराशिम् अवलोकय शेषनालम् एकं जगत्त्रयसरःपृथुपुण्डरीकम् ३६.२ ॥११९४॥विष्णुर् बभार भगवान् अखिलां धरित्रीं तं पन्नगस् तम् अपि तत्सहितं पयोधिः ।कुम्भोद्भवस् तु तम् अपीयत हेलयैव सत्यं न कश्चिद् अवधिर् महतां महिम्नः ३६.३ ॥११९५॥किं ब्रूमो जलधेः श्रियं स हि खलु श्रीजन्मभूमिः स्वयं वाच्यः किं महिमापि यस्य हि किल द्वीपं महीति श्रुतिः ।त्यागः को ऽपि स तस्य बिभ्रति जगन्त्य् अस्यार्थिनो ऽप्य् अम्बुदाः शक्तेः कैव कथापि यस्य भवति क्षोभेण कल्पान्तरम् ३६.४ ॥११९६॥वाचस्पतेःएतस्माज् जलधेर् जलस्य कणिकाः काश्चिद् गृहीत्वा ततः पाथोदाः परिपूरयन्ति जगतीं रुद्धाम्बरा वारिभिः ।अस्मान् मन्दरकूटकोटिघटनाभीतिभ्रमत्तारकां प्राप्यैकां जलमानुषीं त्रिभुवने श्रीमान् अभूद् अच्युतः ३६.५ ॥११९७॥मुञ्जराजस्यआश्चर्यं वडवानलः स भगवान् आश्चर्यम् अम्भोनिधिर् यत् कर्मातिशयं विचिन्त्य हृदये कम्पः समुत्पद्यते ।एकस्याश्रयघस्मरस्य पिबतस् तृप्तिर् न जाता जलैर् अन्यस्यापि महात्मनो न वपुषि स्वल्पो ऽपि तोयव्ययः ३६.६ ॥११९८॥केशटस्यनिपीतो येनायं तटम् अधिवसत्य् अस्य स मुनिर् दधानो ऽन्तर्दाहं स्रज इव स चौर्वो ऽस्ति दहनः ।तथा सर्वस्वार्थे बहुविमथितो येन स हरिः स्वपित्य् अङ्के श्रीमान् अहह महिमा को ऽपि जलधेः ३६.७ ॥११९९॥धराधरस्यदधानोअन्यः को ऽपि स कुम्भसम्भवमुनेर् आस्तां शिखी जाठरो यं संचिन्त्य दुकूलवह्निसदृशः संलक्ष्यते वाडवः ।वन्द्यं तज्जठरं स मीनमकरग्राहावलिस् तोयधिः पश्चात् पार्श्वम् अपूरितान्तरवियद् यत्र स्वनन् भ्राम्यति ३६.८ ॥१२००॥वाशटस्यश्वासोन्मूलितमेरुर् अम्बरतलव्यापी निमज्जन् मुहुर् यत्रासीच् छिशुमारविभ्रमकरः क्रीडावराहो हरिः ।सीमा सर्वमहाद्भुतेषु स तथा वारांपतिः पीयते पीतः सो ऽपि न पूरितं च जठरं तस्मै नमो ऽगस्तये ३६.९ ॥१२०१॥वाचस्पतेःउद्यन्तु नाम सुबहूनि महामहांसि चन्द्रो ऽप्य् अलं भुवनमण्डलमण्डनाय ।सूर्याद् ऋते न तद् उदेति न चास्तम् एति येनोदितेन दिनम् अस्तमितेन रात्रिः ३६.१० ॥१२०२॥उत्पत्तिर् जमदग्नितः स भगवान् देवः पिनाकी गुरुस् त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः ।शौर्यं यच् च न तद्गिरां पथि ननु व्यक्तं हि तत् कर्मभिः सत्यं ब्रह्मतपोनिधेर् भगवतः किं नाम लोकान्तरम् ३६.११ ॥१२०३॥इतो वसति केशवः पुरम् इतश् च तद्विद्विषाम् इतश् च शरणागताः शिखरिपक्षिणः शेरते ।इतश् च वडवानलः सह समस्तसंवर्तकैर् अहो विततम् ऊर्जितं भरसहं च सिन्धोर् वपुः ३६.१२ ॥१२०४॥तत् तावद् एव शशिनः स्फुरितं महीयो यावन् न तिग्मरुचिमण्डलम् अभ्युदैति ।अभ्युद्गते सकलधामनिधौ च तस्मिन्न् इन्दोः सिताम्रपटलस्य च को विशेषः ३६.१३ ॥१२०५॥अपत्यानि प्रायो दश दश वराही जनयति क्षमाभारे धुर्यः स पुनर् इह नासीन् न भविता ।पदं कृत्वा यः स्वं फणिपतिफणाचक्रवलये निमज्जन्तीम् अन्तर् जलधिवसुधाम् उत्तुलयति ३६.१४ ॥१२०६॥तेषां तृषः परिणमन्ति न यत्र तत्र नान्यस्य वारिविभवो ऽपि च तादृग् अस्ति ।विश्वोपकारजननीव्यवसायसिद्धिम् अम्भोमुचां जलधयो यदि पूरयन्ति ३६.१५ ॥१२०७॥किं वाच्यो महिमा महाजलनिधेर् यत्रेन्द्रवज्राहति- त्रस्तो भूभृदमज्जदम्बुविचलत्कौलीलपोताकृतिः ।मैनाको ऽपि गभीरनीरविलुठत्पाठीनपृष्ठोल्लसच्- छेवालाङ्कुरकोटिकोटरकुटीकुड्यान्तरे निर्वृतः ३६.१६ ॥१२०८॥वल्लणस्यकिं ब्रूमो हरिम् अस्य विश्वम् उदरे किं वा फणां भोगिनः शेते यत्र हरिः स्वयं जलनिधेः सो ऽप्य् एकदेशे स्थितः ।आश्चर्यं कलशोद्भवः स जलधिर् यस्यैकहस्तोदरे गण्डूषीयति पङ्कजीयति फणी भृङ्गीयति श्रीपतिः ३६.१७ ॥१२०९॥विस्तारो यदि नेदृशो न यदि तद् गाम्भीर्यम् अम्भोनिधेर् न स्याद् वा यदि सर्वसत्त्वविषयस् तादृक् कृपानुग्रहः ।अन्तः प्रज्वलता पयांसि दहता ज्वालावलीर् मुञ्चता के न स्युर् वडवानलेन बलिना भस्मावशेषीकृताः ३६.१८ ॥१२१०॥केशटस्यउद्दीप्ताग्निर् असौ मुनिर् विजयते यस्योदरे जीर्यतः पाथोदेर् अवशिष्टम् अम्बु कथम् अप्य् उद्गीर्णम् अन्तो ऽर्णवम् ।किं चास्माज् जठरानलाद् इव नवस् तत्कालवान्तिक्रमान् निर्यातः स पुनर् यमाय पयसाम् अन्तर्गतो वाडवः ३६.१९ ॥१२११॥श्रीदशरथस्ययस्मिन्न् आपस्त् तदधिकरणस्यास्य वह्नेर् निवृत्तिः संवासान्ते व्रजति जलदे वैकृतस् ताभिर् एव ।अस्त्य् अन्यो ऽपि प्रलयरजनीसंनिपाते ऽप्य् अनिद्रो यः सामुद्रीर् अविरतम् इमास् तेजसि स्वे जुहोति ३६.२० ॥१२१२॥केशटस्यइति माहात्म्यव्रज्या ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP