संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः| समाप्तनिधुवनचिह्नव्रज्या सुभाषितरत्नकोशः सुगतव्रज्या लोकेश्वरव्रज्या मञ्जुघोषव्रज्या महेश्वरव्रज्या तद्वर्गव्रज्या हरिव्रज्या सूर्यव्रज्या वसन्तव्रज्या ग्रीष्मव्रज्या प्रावृड्व्रज्या शरद्व्रज्या हेमन्तव्रज्या शिशिरव्रज्या मदनव्रज्या वयःसन्धिव्रज्या युवतिवर्णनव्रज्या ततोऽनुरागव्रज्या दूतीवचनव्रज्या सम्भोगव्रज्या समाप्तनिधुवनचिह्नव्रज्या मानिनीव्रज्या विरहिणीव्रज्या विरहिव्रज्या सतीव्रज्या दूतिकोपालम्भव्रज्या प्रदीपव्रज्या ततोऽपराह्णव्रज्या ततोऽन्धकारव्रज्या ततश्चन्द्रव्रज्या प्रत्यूषव्रज्या मध्याह्नव्रज्या यशोव्रज्या ततोऽन्यापदेशव्रज्या वातव्रज्या जातिव्रज्या माहात्म्यव्रज्या सद्व्रज्या असद्व्रज्या दीनव्रज्या अर्थान्तरन्यासव्रज्या ततश्चाटुव्रज्या निर्वेदव्रज्या वार्धक्यव्रज्या श्मशानव्रज्या वीरव्रज्या प्रशस्तिव्रज्या पर्वतव्रज्या शान्तिव्रज्या संकीर्णव्रज्या कविस्तुतिव्रज्या सुभाषितरत्नकोशः - समाप्तनिधुवनचिह्नव्रज्या विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे. Tags : bookvidhyakarविद्याकरसंस्कृतसुभाषितरत्नकोश समाप्तनिधुवनचिह्नव्रज्या Translation - भाषांतर राजन्ति कान्तनखरक्षतयो मृगाक्ष्या लाक्षारसद्रवमुचः कुचयोर् उपान्ते ।अन्तःप्रवृद्धमकरध्वजपावकस्य शङ्के विभिद्य हृदयं निरगुः स्फुलिङ्गाः २०.१ ॥६१२॥राजशेखरस्यजयन्ति कान्तास्तनमण्डलेषु विटार्पितान्य् आर्द्रनखक्षतानि ।लावण्यसंभारनिधानकुम्भे मुद्राक्षराणीव मनोभवस्य २०.२ ॥६१३॥क्वचित् ताम्बूलाङ्कः क्वचिद् अगरुपङ्काङ्कमलिनः क्वचिच् चूर्णोद्गारैः क्वचिद् अपि च सालक्तकपदः ।वलीभङ्गाभोगेष्व् अलकपतिताकीर्णकुसुमः स्त्रियाः सर्वावस्थं कथयति रतं प्रच्छदपटः २०.३ ॥६१४॥पीततुङ्गकठिनस्तनान्तरे कान्तदत्तम् अबला नखक्षतम् ।आवृणोति विवृणोति चेक्षते लब्धरत्नम् इव दुःखितो जनः २०.४ ॥६१५॥उषसि गुरुसमक्षं लज्जमाना मृगाक्षी रतिरुतम् अनुकर्तुं राजकीरे प्रवृत्ते ।तिरयति शिशुलीलानर्तनच्छद्मताल- प्रचलवलयमालास्फालकोलाहलेन २०.५ ॥६१६॥प्रदोषे दम्पत्योर् निजरुचि विभिन्ने प्रणयिनोर् विभिन्ने सम्पन्ने घनतिमिरसंकेतगहने ।रतौत्सुक्यात् ताम्यत्तरलमनसोः पर्यवसिते कृतार्थत्वे ऽन्योन्यं तदनु विदितौ किं न कुरुताम् २०.६ ॥६१७॥पश्यसि नखसम्भूतां रेखां वरतनु पयोधरोपान्ते ।किं वाससा स्तनान्तं रुणत्सि हिमरुचिकृते वच्मि २०.७ ॥६१८॥यद् रात्रौ रहसि व्यपेतविनयं दृष्टं रसात् कामिनोर् अन्योन्यं शयनीयम् ईहितरसव्याप्तिप्रवृत्तस्पृहम् ।तत् सानन्दमिलद्दृशोः कथम् अपि स्मृत्वा गुरूणां पुरो हासोद्भेदनिरोधमन्थरमिलत्तारं कथंचित् स्थितम् २०.८ ॥६१९॥किं भूषणेन रचितेन हिरण्मयेन किं रोचनादिरचितेन विशेषकेण ।आर्द्राणि कुङ्कुमरुचीनि विलासिनीनाम् अङ्गेषु किं नखपदानि न मण्डलानि २०.९ ॥६२०॥दम्पत्योर् निशि जल्पितं गृहशुकेनाकर्णितं यद् वचः प्रातस् तद् गुरुसन्निधौ निगदतस् तस्यैव तारं वधूः ।हाराकर्षितपद्मरागशकलं विन्यस्य चञ्चोः पुरो व्रीडार्ता प्रकरोति दाडिमफलव्याजेन वाग्बन्धनम् २०.१० ॥६२१॥प्रयच्छाहारं मे यदि तव रहोवृत्तम् अखिलं मया वाच्यं नोच्चैर् इति गृहशुके जल्पति शनैः ।वधूवक्त्रं व्रीडाभरनमितम् अन्तर्विहसितं हरत्य् अर्धोन्मीलन्नलिनमलिनावर्जितम् इव २०.११ ॥६२२॥नखक्षतं यन् नवचन्द्रसन्निभं स्थितं कृशाङ्गि स्तनमण्डले तव ।इदं तरीतुं त्रिवलीतरङ्गिणीं विराजते पञ्चशरस्य नौर् इव २०.१२ ॥६२३॥हंहो कान्त रहोगतेन भवता यत् पूर्वम् आवेदितं निर्भिन्ना तनुर् आवयोर् इति मया तज् जातम् अद्य स्फुटम् ।कामिन्या स्मरवेदनाकुलदृशा यः केलिकाले कृतः सो ऽत्यर्थं कथम् अन्यथा दहति माम् एव त्वदोष्ठव्रणः २०.१३ ॥६२४॥अभिमुखपतयालुभिर् ललाटश्रमसलिलैर् अविधौतपत्रलेखः ।कथयति पुरुषायितं वधूनां मृदितहिमद्युतिदुर्मनाः २०.१४ ॥६२५॥मुरारेःनखपदवलिनाभीसंधिभागेषु लक्ष्यः क्षतिषु च दशनानाम् अङ्गनायाः सशेषः ।अपि रहसि कृतानां वाग्विहीनो ऽपि जातः सुरतविलसितानां वर्णको वर्णको ऽसौ २०.१५ ॥६२६॥नवनखपदम् अङ्गं गोपयस्य् अंशुकेन स्थगयसि पुनर् ओष्ठं पाणिना दन्ददष्टम् ।प्रतिदिशम् अपरस्त्रीसंगशंसी विसर्पन् नवपरिमलगन्धः केन शक्यो वरीतुम् २०.१६ ॥६२७॥माघस्यैतौकाश्मीरपङ्कखचितस्तनपृष्ठताम्र- पट्टावकीर्णदयितार्द्रनखाक्षराली ।एणीदृशः कुसुमचापनरेन्द्रदत्त- तारुण्यशासनम् इव प्रकटीकरोति २०.१७ ॥६२८॥दक्षस्यअधरः पद्मरागो ऽयम् अनर्घः सव्रणो ऽपि ते ।मुग्धे हस्तः किमर्थो ऽयम् अपार्थ इह दीयते २०.१८ ॥६२९॥दरम्लानं वासो लुलितकुसुमालंकृति शिरः श्लथालोकं चक्षुः सरसनखलेखाङ्कितम् उरः ।लसत्काञ्चीग्रन्थिस्फुरदरुणरत्नांशु जघनं प्रियाङ्गोप्न्मृष्टाङ्ग्या विषम् इदम् इयद् भावकनृणाम् २०.१९ ॥६३०॥वल्लणस्यप्रत्यूषे गुरुसंनिधौ गृहशुके तत् तद् रहोजल्पितं प्रस्तोतुं परिहासकारिणि पदैर् अर्धोदितैर् उद्यते ।क्रीडाशारिकया निलीय निभृतं त्रातुं त्रपार्तां वधूं प्रारब्धः सहसैव सम्भ्रमकरो मार्जारगर्जारवः २०.२० ॥६३१॥तल्पे चम्पककल्पिते सखि गृहोद्याने ऽद्य सुप्तासि किं तत्किञ्जल्कचयं न पश्यसि कुचोपान्ते विमर्दारुणम् ।आः किं छद्मविदग्धमानिनि मयि ब्रूषे पुरोभागिनि क्रूरैर् उल्लिखितास्मि तत्र कुसुमान्य् उच्चिन्वती कण्टकैः २०.२१ ॥६३२॥सोन्नोकस्यइतः पौरस्त्यायां ककुभि विवृणोति क्रमदलत्- तमिस्रामर्माणं किरणकणिकाम् अम्बरमणिः ।इतो निष्क्रामन्ती नवरतिगुरोः प्रोञ्छति वधूः स्वकस्तूरीपत्राङ्कुरमकरिकामुद्रितम् उरः २०.२२ ॥६३३॥प्रभाते पृच्छन्तीर् अनुरहसिवृत्तं सहचरीर् नवोढा न व्रीडामुकुलितमुखीयं सुखयति ।लिखन्तीनां पत्राङ्कुरम् अनिशम् अस्यास् तु कुचयोश् चमत्कारो गूढं करजपदम् आसां कथयति २०.२३ ॥६३४॥मुरारेर् एतौइति समाप्तनिधुवनचिह्नव्रज्या N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP