संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः| यशोव्रज्या सुभाषितरत्नकोशः सुगतव्रज्या लोकेश्वरव्रज्या मञ्जुघोषव्रज्या महेश्वरव्रज्या तद्वर्गव्रज्या हरिव्रज्या सूर्यव्रज्या वसन्तव्रज्या ग्रीष्मव्रज्या प्रावृड्व्रज्या शरद्व्रज्या हेमन्तव्रज्या शिशिरव्रज्या मदनव्रज्या वयःसन्धिव्रज्या युवतिवर्णनव्रज्या ततोऽनुरागव्रज्या दूतीवचनव्रज्या सम्भोगव्रज्या समाप्तनिधुवनचिह्नव्रज्या मानिनीव्रज्या विरहिणीव्रज्या विरहिव्रज्या सतीव्रज्या दूतिकोपालम्भव्रज्या प्रदीपव्रज्या ततोऽपराह्णव्रज्या ततोऽन्धकारव्रज्या ततश्चन्द्रव्रज्या प्रत्यूषव्रज्या मध्याह्नव्रज्या यशोव्रज्या ततोऽन्यापदेशव्रज्या वातव्रज्या जातिव्रज्या माहात्म्यव्रज्या सद्व्रज्या असद्व्रज्या दीनव्रज्या अर्थान्तरन्यासव्रज्या ततश्चाटुव्रज्या निर्वेदव्रज्या वार्धक्यव्रज्या श्मशानव्रज्या वीरव्रज्या प्रशस्तिव्रज्या पर्वतव्रज्या शान्तिव्रज्या संकीर्णव्रज्या कविस्तुतिव्रज्या सुभाषितरत्नकोशः - यशोव्रज्या विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे. Tags : bookvidhyakarविद्याकरसंस्कृतसुभाषितरत्नकोश यशोव्रज्या Translation - भाषांतर देव स्वस्ति वयं द्विजास् तत इतस् तीर्थेषु सिस्नासवः कालिन्दीसुरसिन्धुसंगपयसि स्नातुं समीहामहे ।तद् याचेमहि सप्तपिष्टपशुचीभावैकतानव्रतं संयच्छ स्वयशः सितासितपयोभेदाद् विवेको ऽस्तु नः ३२.१ ॥९९५॥किं वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थस् तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिनात्यस्वभावः ।गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठ्याम् उन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ३२.२ ॥९९६॥विद्यायाःसा चन्द्राद् अपि चन्दनाद् अपि दरव्याकोषकुन्दाद् अपि क्षीराब्धेर् अपि शेषतो ऽपि फणिनश् चण्डीशहासाद् अपि ।कर्णाटीसितदन्तपत्रमहसो ऽप्य् अत्यन्तम् उद्द्योतिनी कीर्तिस् ते भुजवीर्यनिर्जितरिपो लोकत्रयं भ्राम्यति ३२.३ ॥९९७॥वार्तिककारस्यत्वद्यशोराजहंसस्य पञ्जरं भुवनत्रयम् ।अमी पानकरङ्काभाः सप्तापि जलराशयः ३२.४ ॥९९८॥बिम्बोकस्ययत् क्षारं च मलीमसं च जलधेर् अम्भस् तद् अम्भोधरैः कृत्वा स्वादु च निर्मलं च निहितं यत्नेन शुक्तौ तथा ।येनानर्घतया च सुन्दरतया चेदं यशोभिस् तव स्पर्धाम् एत्य विराजते ननु परिणामो ऽद्भुतो भौतिकः ३२.५ ॥९९९॥अचलसिंहस्यदृष्टं संगरसाक्षिभिर् निगदितं वैतालिकश्रेणिभिर् न्यस्तं चेतसि सज्जनैः सुकविभिः काव्येषु संचारितम् ।उत्कीर्णं कुशलैः प्रशस्तिषु सदा गीतं च नाकेसदां दारैर् उज्जयनीभुजङ्ग भवतश् चन्द्रावदातं यशः ३२.६ ॥१०००॥उत्कल्लोलस्य लक्ष्मीं लवणजलनिधिर् लम्भितः क्षीरसिन्धोः को विन्ध्यः कश् च गौरीगुरुर् इति मरुताम् अभ्युदस्तो विवेकः ।नीताः कर्कत्वम् अर्कप्रवहणहरयो हारितोत्सङ्गलक्ष्मा राजन्न् उदामगौरैर् अजनि च रजनीवल्लभस् त्वद्यशोभोः ३२.७ ॥१००१॥अभिनन्दस्यनिर्मुक्तशेषधवलैर् अचलेन्द्रमन्थ- संक्षुब्धदुग्धमयसागरगर्भगौरैः ।राजन्न् इदं बहुलपक्षदलन्मृगाङ्क- च्छेदोज्ज्वलैस् तव यशोभिर् अशोभि विश्वम् ३२.८ ॥१००२॥स्वस्ति क्षीराब्धिमध्यान् निजदयितभुजाभ्यन्तरस्थाब्जहस्ता क्ष्मायामक्षामकीर्तिं कुशलयति महाभूभुजं भोज्यदेवम् ।क्षेमं मे ऽन्यद् युगान्तावधि तपतु भवान् यद्यशोघोषणाभिर् देवो निद्रादरिद्रः सफलयति हरिर् यौवनर्द्धिं ममेति ३२.९ ॥१००३॥त्वत्कीर्तिर् जातजाड्येव सप्ताम्भोनिधिमज्जनात् ।प्रतापाय जगन्नाथ याता मार्तण्डमण्डलम् ३२.१० ॥१००४॥का त्वं कुन्तलमल्लकीर्तिर् अहह क्वासि स्थिता न क्वचित् सख्यस् तास् तव कुत्र कुत्र वद वाग् लक्ष्मीस् तथा कान्तयः ।वाग् याता चतुराननस्य वदनं लक्ष्मीर् मुरारेर् उरः कान्तिर् मण्डलम् ऐन्दवं मम पुनर् नाद्यापि विश्रामभूः ३२.११ ॥१००५॥आसीद् उप्तं यद् एतद् रणभुवि भवता वैरिमातङ्गकुम्भान् मुक्ताबीजं तद् एतत् त्रिजगति जनयामास कीर्तिद्रुमं ते ।शेषो मूलं प्रकाण्डं हिमगिरिर् उदधिर् दुग्धपूरालवालं ज्योत्स्ना शाखाप्रतानः कुसुमम् उडुचयो यस्य चन्द्रः फलं च ३२.१२ ॥१००६॥अद्य स्वर्गवधूगणे गुणमय त्वत्कीर्तिम् इन्दूज्वलाम् उच्चैर् गायति निष्कलङ्किमदशामाद् आस्यते चन्द्रमाः ।गीताकर्णनमोदमुक्तयवसग्रासाभिलाषो वद स्वामिन्न् अङ्कमृगः कियन्ति हि दिनान्य् एतस्य वर्तिष्यते ३२.१३ ॥१००७॥अभयम् अभयं देव ब्रूमस् तवासिलतावधूः कुवलयदलश्यामा शत्रोर् उरःस्थलशायिनी ।समयसुलभां कीर्तिं भव्याम् असूत सुताम् असाव् अपि रमयितुं रागान्धेव भ्रमत्य् अखिलं जगत् ३२.१४ ॥१००८॥अमरसिंहस्यद्याम् आवृणोति धरणीतलम् आतनोति पातालमूलतिमिराणि तिरस्करोति ।हारावलीहरिणलक्ष्महराट्टहास- हेरम्बदन्तहरिशङ्खनिभं यशस् ते ३२.१५ ॥१००९॥देव त्वद्यशसि प्रसर्पति शनैर् लक्ष्मीसुधोच्चैःश्रवश्- चन्द्रैरावतकौस्तुभाः स्थितिम् इवामन्यन्त दुग्धोदधौ ।किं त्व् एकः परम् अस्ति दूषणकणो यन् नोपयाति भ्रमात् कृष्णं श्रीः शितिकण्ठम् अद्रितनया नीलाम्बरं रेवती ३२.१६ ॥१०१०॥ऐरावणन्ति करिणः फणिनो ऽप्य् अशेषाः शेषन्ति हन्त विहगा अपि हंसितारः ।नीलोत्पलानि कुमुदन्ति च सर्वशैलाः कैलासितुं व्यवसिता भवतो यशोभिः ३२.१७ ॥१०११॥रामः सैन्यसमन्वितः कृतशिलासेतुर् यद् अम्भोनिधेः पारं लङ्घितवान् पुरा तद् अधुना नाश्चर्यम् आपादयेत् ।एकाकिन्य् अपि सेतुबन्धुरहितान् सप्तापि वारांनिधीन् हेलाभिस् तव देव देव कीर्तिवनिता यस्मात् समुल्लङ्घति ३२.१८ ॥१०१२॥न तच् चित्रं यत् ते विततकरवालोग्ररसनो महीभारं वोढुं भुजभुजगराजः प्रभवति ।यद् उद्भूतेनेदं नवबिसलतातन्तुशुचिना यशोनिर्मोकेण स्थगितम् अवनीमण्डलम् अभूत् ३२.१९ ॥१०१३॥संघश्रियःश्रीखण्डपाण्डिमरुचः स्फुटपुण्डरीक- षण्डप्रभापरिभवप्रभवास् तुदन्ति ।त्वत्कीर्तयो गगनदिग्वलयं तदन्तः- पिण्डीभवन्निबिडमूर्तिपरम्पराभिः ३२.२० ॥१०१४॥बुद्धाकरगुप्तस्यअपनय महामोहं राजन्न् अनेन तवासिना कथय कुहकक्रीडाश्चर्यं कथं क्व च शिक्षितम् ।यद् अरिरुधिरं पायं पायं कुसुम्भरसारुणं झगिति वमति क्षीराम्भोधिप्रवाहसितं यशः ३२.२१ ॥१०१५॥दक्षस्यत्वं काम्बोज विराजसे भुवि भवत्तातो दिवि भ्राजते तत्तातस् तु विभूषणः स किम् अपि ब्रह्मौकसि द्योतते ।युष्माभिस् त्रिभिर् एभिर् अर्पिततनुस् त्वत्कीर्तिर् उज्जृम्भिणी माणिक्यस्तबकत्रयप्रणयिनीं हारस्य धत्ते श्रियम् ३२.२२ ॥१०१६॥वसुकल्पस्यजनानुरागमिश्रेण यशसा तव सर्पता ।दिग्वधूनां मुखे जातम् अकस्माद् अर्धकुङ्कुमम् ३२.२३ ॥१०१७॥इन्दोर् लक्ष्म त्रिपुरजयिनः कण्ठमूलं मुरारिर् दिग्नागानां मदजलमसीभाञ्जि गण्डस्थलानि ।अद्याप्य् उर्वीवलयतिलक श्यामलिम्नावलिप्तान्य् आभासन्ते वद धवलितं किं यशोभिस् त्वदीयैः ३२.२४ ॥१०१८॥इति यशोव्रज्या ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP