संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः| ततोऽपराह्णव्रज्या सुभाषितरत्नकोशः सुगतव्रज्या लोकेश्वरव्रज्या मञ्जुघोषव्रज्या महेश्वरव्रज्या तद्वर्गव्रज्या हरिव्रज्या सूर्यव्रज्या वसन्तव्रज्या ग्रीष्मव्रज्या प्रावृड्व्रज्या शरद्व्रज्या हेमन्तव्रज्या शिशिरव्रज्या मदनव्रज्या वयःसन्धिव्रज्या युवतिवर्णनव्रज्या ततोऽनुरागव्रज्या दूतीवचनव्रज्या सम्भोगव्रज्या समाप्तनिधुवनचिह्नव्रज्या मानिनीव्रज्या विरहिणीव्रज्या विरहिव्रज्या सतीव्रज्या दूतिकोपालम्भव्रज्या प्रदीपव्रज्या ततोऽपराह्णव्रज्या ततोऽन्धकारव्रज्या ततश्चन्द्रव्रज्या प्रत्यूषव्रज्या मध्याह्नव्रज्या यशोव्रज्या ततोऽन्यापदेशव्रज्या वातव्रज्या जातिव्रज्या माहात्म्यव्रज्या सद्व्रज्या असद्व्रज्या दीनव्रज्या अर्थान्तरन्यासव्रज्या ततश्चाटुव्रज्या निर्वेदव्रज्या वार्धक्यव्रज्या श्मशानव्रज्या वीरव्रज्या प्रशस्तिव्रज्या पर्वतव्रज्या शान्तिव्रज्या संकीर्णव्रज्या कविस्तुतिव्रज्या सुभाषितरत्नकोशः - ततोऽपराह्णव्रज्या विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे. Tags : bookvidhyakarविद्याकरसंस्कृतसुभाषितरत्नकोश ततोऽपराह्णव्रज्या Translation - भाषांतर निद्रान्धानां दिनमणिकराः कान्तिम् अम्भोरुहाणाम् उच्चित्यैते बहुगुणम् इवाबिभ्रतः शोणिमानम् ।चक्राङ्काणाम् अविरलजलैर् आर्द्रविश्लेषभाजां वक्षःस्पर्शैर् इव शिशिरतां यान्ति निर्वाप्यमाणाः २७.१ ॥८५८॥दावास्त्रशक्तिर् अयम् एति च शीतभावं भास्वाञ् ज्वलन्ति हृदयानि च कोकयूनाम् ।किं ब्रूमहे ऽभ्युदयते च जगत्पिधानं ध्वान्तं भवन्ति च विशुद्धदृशो दिवान्धाः २७.२ ॥८५९॥उन्मुक्ताभिर् दिवसम् अधुना सर्वतस् ताभिर् एव स्वच्छायाभिर् निचुलितम् इव प्रेक्ष्यते विश्वम् एतत् ।पर्यन्तेषु ज्वलति जलधौ रत्नसानौ च मध्ये चित्राङ्गीयं रमयति तमःस्तोमलीला धरित्री २७.३ ॥८६०॥चूडारत्नैः स्फुरद्भिर् विषधरविवराण्य् उज्ज्वलान्य् उज्ज्वलानि प्रेक्ष्यन्ते चक्रवाकीमनसि निविशते सूर्यकान्तात् कृशानुः ।किं चामी शल्ययन्तस् तिमिरम् उभयतो निर्भराहस् तमिस्रा- संघट्टोत्पिष्टसंध्याकणनिकरपरिस्पर्धिनो भान्ति दीपाः २७.४ ॥८६१॥पटुकटुकोष्मभिः कटकधातुरसस्य गिरेः कुहरकटाहकेषु रविधामभिर् उत्क्वथतः ।उपरिभराद् इवोत्सलितया छटया गगनं प्रतिनवसंध्यया सपदि संवलितं शुशुभे २७.५ ॥८६२॥अस्तं भास्वति लोकलोचनकलालोके गते भर्तरि स्त्रीलोकोचितम् आचरन्ति सुकृतं वह्नौ विलीय त्विषः ।अप्य् एतास् तु चिकीर्षयेव तपसां ताराक्षमाला दिशो मन्ये खञ्जनकण्ठकोमलतमःकृष्णाजिनं बिभ्रति २७.६ ॥८६३॥यावद् भास्करकेसरी प्रविततज्योतिःसटाभासुरो हत्वा वासरवारणं वनदरीम् अस्ताचलस्यास्थितः ।तावत् संतमसाच्छभल्लपरिषत्संध्यास्त्रम् आपीयते कुम्भभ्रंशविकीर्णमौक्तिकरुचो राजन्त्य् अमूस् तारकाः २७.७ ॥८६४॥अस्तव्यास्तान् क्रमततगतीन् पत्रिमालातरङ्गान् वेणीदण्डान् इव धृतवती मुक्तसंध्याङ्गरागा ।ध्वान्तम्लानांशुकपरिचयच्छन्नलावण्यशोच्या द्यौः प्रत्यग्रद्युमणिविरहाद् वान्तम् अक्ष्णोर् न याति २७.८ ॥८६५॥परावृत्ता गावस् तरुषु वयसां कूजति कुलं पिशाचीनां चेतः स्पृशति गृहकृत्यप्रवणता ।अयं नन्दी संध्यासमयकृतकृत्यव्यवसितिस् त्रिनेत्राभिप्रायप्रतिसदृशम् उन्मार्ष्टि मुरजान् २७.९ ॥८६६॥शित्कण्ठस्यउत्सर्पद्धूमलेखात्विषि तमसि मनाग् विस्फुलिङ्गायमानैर् उद्भेदैस् तारकाणां वियति परिगते पश्चिमाशाम् उपेता ।खेदेनेवानतासु स्खलदलिरसनास्व् अब्जिनीप्रेयसीषु प्रायः सन्ध्यातपाग्निं विशति दिनपतौ दह्यते वासरश्रीः २७.१० ॥८६७॥प्रारब्धो मणिदीपयष्टिषु वृथा पातः पतङ्गैर् इतो गन्धान्धैर् अभितो मधुव्रतकुलैर् उत्पक्ष्मभिः स्थीयते ।वेल्लद्बाहुलताविलोकवलयस्वानैर् इतः सूचित- व्यापाराश् च नियोजयन्ति विविधान् वराङ्गना वर्णकान् २७.११ ॥८६८॥व्रजति कलितस्तोकालोको नवीनजवारुण- च्छविरविर् असौ स्वेच्छादृश्यो दिशं भृशम् अप्पतेः ।ककुभि ककुभि प्राप्ताहाराः कुलायमहीरुहां शिरसि शिरसि स्वैरं स्वैरं पतन्ति पतत्रिणः २७.१२ ॥८६९॥रघुनन्दनस्यकालव्यालहतं वीक्ष्य पतन्तं भानुम् अम्बरात् ।ओषधीशं समादाय धावतीव पितृप्रसूः २७.१३ ॥८७०॥जगन्नेत्रज्योतिः पिबति शनकैर् अन्धतमसं कुलायैर् आकृष्टाः क्षणविरतकूजा बलिभुजः ।तथोलूकः स्तोकव्यपगतभयः कोटरमुखाद् वपुर् मग्नग्रीवो डमरितशिराः पश्यति दिशः २७.१४ ॥८७१॥विद्दूकस्यताराप्ररोहधवलोत्कटदन्तपङ्क्तेर् ध्वान्ताभिनीलवपुषो रजनीपिशाच्याः ।जिह्वेव सार्द्ररुधिरारुणसूर्यमांस- ग्रासार्थिनी नभसि विस्फुरति स्म संध्या २७.१५ ॥८७२॥स्नातीव मन्दरगनो ऽस्तमिते ऽद्य मित्रे सिन्धूद्वृतेन्दुकलशस्खलदंशुतोयैः ।एतज् जगन्नयनहारि घनं तमो ऽस्य पृष्ठे श्रियं विततकुन्तलवत् तनोति २७.१६ ॥८७३॥पृथुगगनकबन्धस्कन्धचक्रं किम् एतत् किम् उ रुधिरकपालं कालकापालिकस्य ।लललभरितमन्तः किं नु तार्क्ष्याण्डखण्डं जनयति हि वितर्कान् सांध्यम् अर्कस्य बिम्बम् २७.१७ ॥८७४॥यागे भास्वति वृद्धसारसशिरःशोणे ऽस्तशृङ्गाश्रयं व्यालिप्तं तिमिरैः कठोरबलिभुक्कण्ठाभिनीलैर् नभः ।माहेन्द्री दिग् अपि प्रसन्ननलिना चन्द्रोदयाकाङ्क्षिणी भात्य् एषा चिरविप्रयुक्तशबरीगण्डावपाण्डुच्छविः २७.१८ ॥८७५॥अचलसिंहस्यअतिहरितपत्रपरिकरसम्पन्नस्पन्दनैकविटपस्य ।घनवासनैर् मयूखैः कुसुम्भकुसुमायते तरणिः २७.१९ ॥८७६॥चक्रपाणेःदिनमणिर् अनर्घमूल्यो दिनवणिजार्घप्रसारितो जगति ।अनुरूपार्घम् अलब्ध्वा पुनर् इव रत्नाकरे निहितः २७.२० ॥८७७॥श्रीधर्मपालस्यनिर्यद्वासरजीवपिण्डकरणिं बिभ्रत् कवोष्णैः करैर् माञ्जिष्ठं रविबिम्बम् अम्बरतलाद् अस्ताचले लुण्ठति ।किं च स्तोकतमःकलापकलनाश्यामायमानं मनाग् धूमध्यामपुराणचित्ररचनारूपं जगज् जायते २७.२१ ॥८७८॥राजशेखरस्यघर्मत्विषि स्फुरितरत्नशिलाक्रमेण मेरोर् नितम्बकटकान् अवगाहमाने ।वल्गत्तुरङ्गखुरचूर्णितपद्मराग- धूलीव वातवलितोल्लसति स्म सन्ध्या २७.२२ ॥८७९॥अस्ताद्रिशिरोविनिहितरविमण्डलसरसयावघट्टाङ्कम् ।नयतीव कालकौलः क्वापि नभःसैरिभं सिद्ध्यै २७.२३ ॥८८०॥प्रथमम् अलसैः पर्यस्ताग्रं स्थितं पृथुकेसरैर् विरलविरलैर् अन्तःपत्रैर् मनाङ् मिलितं ततः ।तदनु वलनामात्रं किंचिद् व्यधायि बहिर् दलैर् मुकुलनविधौ वृद्धाब्जानां बभूव कदर्थना २७.२४ ॥८८१॥दग्धध्वान्तदिनस्य घर्मदिनकृत्संवृत्तसप्तार्चिषा तप्ताङ्गारगुरूच्चयश्रियमयं बध्नाति संध्यातपः ।निर्वाणाज् जलविप्रकीर्णनिवहश्यामत्वम् आतन्वते प्राग् विप्लुष्टतमोगुरोर् अभिनवास् तस्यास् तमिस्रत्विषः २७.२५ ॥८८२॥बुद्धाकरस्यअस्तोपधानविनिहितरविबिम्बशिरोनिकुञ्चितदिगङ्गः ।वस्ते ऽन्धकारकम्बलम् अमरशयने दिनाध्वन्यः २७.२६ ॥८८३॥मलयवातस्यनृत्यश्रमात् करनखोदरपीतवान्तैः स्वेदार्द्रभस्ममयबिन्दुभिर् इन्दुगौरैः ।संत्यज्य तारकितम् एतद् इति प्रवादं व्योमाङ्गणं गणय चित्रितम् ईश्वरेण २७.२७ ॥८८४॥लक्ष्मीधरस्यइत्य् अपराह्णव्रज्या ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP