संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः| ततोऽनुरागव्रज्या सुभाषितरत्नकोशः सुगतव्रज्या लोकेश्वरव्रज्या मञ्जुघोषव्रज्या महेश्वरव्रज्या तद्वर्गव्रज्या हरिव्रज्या सूर्यव्रज्या वसन्तव्रज्या ग्रीष्मव्रज्या प्रावृड्व्रज्या शरद्व्रज्या हेमन्तव्रज्या शिशिरव्रज्या मदनव्रज्या वयःसन्धिव्रज्या युवतिवर्णनव्रज्या ततोऽनुरागव्रज्या दूतीवचनव्रज्या सम्भोगव्रज्या समाप्तनिधुवनचिह्नव्रज्या मानिनीव्रज्या विरहिणीव्रज्या विरहिव्रज्या सतीव्रज्या दूतिकोपालम्भव्रज्या प्रदीपव्रज्या ततोऽपराह्णव्रज्या ततोऽन्धकारव्रज्या ततश्चन्द्रव्रज्या प्रत्यूषव्रज्या मध्याह्नव्रज्या यशोव्रज्या ततोऽन्यापदेशव्रज्या वातव्रज्या जातिव्रज्या माहात्म्यव्रज्या सद्व्रज्या असद्व्रज्या दीनव्रज्या अर्थान्तरन्यासव्रज्या ततश्चाटुव्रज्या निर्वेदव्रज्या वार्धक्यव्रज्या श्मशानव्रज्या वीरव्रज्या प्रशस्तिव्रज्या पर्वतव्रज्या शान्तिव्रज्या संकीर्णव्रज्या कविस्तुतिव्रज्या सुभाषितरत्नकोशः - ततोऽनुरागव्रज्या विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे. Tags : bookvidhyakarविद्याकरसंस्कृतसुभाषितरत्नकोश ततोऽनुरागव्रज्या Translation - भाषांतर दत्त्वा वामकरं नितम्बफलके लीलावलन्मध्यया व्यावृत्तस्तनम् अङ्गचुम्बिचिबुकं स्थित्वा तया मां प्रति ।अन्तर्विस्फुरदिन्द्रनीलमणिमन्मुक्तावलीमांसलाः सप्रेम प्रहिताः स्मरज्वरमुचो द्वित्राः कटाक्षच्छटाः १७.१ ॥४६५॥आकर्णान्तविसर्पिणः कुवलयच्छायामुषश् चक्षुषः क्षेपा एव तवाहरन्ति हृदयं किं सम्भ्रमेणामुना ।मुग्धे केवलम् एतद् आहितनखोत्खाताङ्कम् उत्पांशुलं बाह्वोर् मूलम् अलीकमुक्तकबरीबन्धच्छलाद् दर्शितम् १७.२ ॥४६६॥तरत्तारं तावत् प्रथमम् अथ चित्रार्पितम् इव क्रमाद् एवापाङ्गे सहजम् इव लीलामुकुलितम् ।ततः किंचित् फुल्लं तदनु घनबाष्पाम्बुलहरी- परिक्षामं चक्षुः पततु मयि तस्या मृगदृशः १७.३ ॥४६७॥वीर्यमित्रस्यलीलाताण्डवितभ्रु विभ्रमवलद् वक्त्रं कुरङ्गीदृशा साकूतं च सकौतुकं च सुचिरं न्यस्ताः किलास्मान् प्रति ।नीलाब्जव्यतिमिश्रकेतकदलद्राघीयसीनां स्रजां सोदर्याः सुहृदः स्मरस्य सुधया दिग्धाः कटाक्षच्छटाः १७.४ ॥४६८॥राजशेखरस्यदृष्टा दृष्टिम् अधो ददाति कुरुते नालापम् आभाषिता शय्यायां परिवृत्य तिष्ठति बलाद् आलिङ्तिता वेपते ।निर्यान्तीषु सखीषु वासभवनान् निर्गन्तुम् एवेहते याता वामतयैव मे ऽद्य सुतरां प्रीत्यै नवोढा प्रिया १७.५ ॥४६९॥तद्व्रीडाभरभुग्नम् आस्यकमलं विन्यस्य जानूपरि प्रोद्यत्पक्ष्मनिरीक्षितं विजयते सप्रेम वामभ्रुवः ।हास्यश्रीलवलाञ्छिता च यद् असाव् अस्याः कपोलस्थली लोकल्लोचनगोचरं व्रजति स स्वर्गाद् अपूर्वो विधिः १७.६ ॥४७०॥प्रद्युम्नस्यबिसकवलनलिलामग्नपूर्वार्धकायं कमलम् इति गृहीतं हंसम् आशु त्यजन्त्याः ।विरतचरिततारस्फारनेत्रं यद् अस्याश् चकितम् इह न दृष्टं मूढ तद् वञ्चितो ऽसि १७.७ ॥४७१॥अयं लोकन्मुक्तावलिकिरणमालापरिकरः स्फुटस्येन्दोर् लक्ष्मीं क्षपयितुम् अलं मन्मथसुहृत् ।विशालः श्यामायाः स्खलितघननीलांशुकवृतिः स्तनाभोगः स्निह्यन्मसृणघुसृणालेपसुभगः १७.८ ॥४७२॥मन्ये हीनं स्तनजघनयोर् एकम् आशङ्क्य धात्रा प्रारब्धो ऽस्याः परिकलयितुं पाणिनादाय मध्यः ।लावण्यार्द्रे कथम् इतरथा तत्र तस्याङ्गुईनाम् आमग्नानां त्रिवलिवलयच्छद्मना भान्ति मुद्राः १७.९ ॥४७३॥यत्रैतन् मृगनाभिपत्रतिलकं पुष्णाति लक्ष्मश्रियं यस्मिन् हासमयो विलिम्पति दिशो लावण्यबालातपः ।तन् मित्रं कुसुमायुधस्य दधती बालान्धकाराञ्चिता तारैकावलिमण्डनेयम् अनघा श्यामा वधूर् दृश्यताम् १७.१० ॥४७४॥मनोविनोदस्यामीवक्त्राम्बुजं भुजमृणाललतं प्रियाया लावण्यवारि वलिवीचि वपुस् तडागम् ।तत्प्रेमपङ्कपतितो न समुज्जिहीते मच्चित्तकुञ्जरपतिः परिगाहमानः १७.११ ॥४७५॥कृच्छ्रेणोरुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्थले मध्ये ऽस्यास् त्रिवलीविभङ्गविषमे निष्पन्दताम् आगता ।मद्दृष्टिस् तृषितेव सम्प्रति शनैर् आरुह्य तुङ्गौ स्तनौ साकाङ्क्षं मुहुर् ईक्षते जललवप्रस्यन्दिनी लोचने १७.१२ ॥४७६॥श्रीहर्षदेवस्यअलम् अतिचपलत्वात् स्वप्नमायोपमत्वात् परिणतिविरसत्वात् संगमेन प्रियायाः ।इति यदि शतकृत्वस् तत्त्वम् आलोकयामस् तद् अपि न हरिणाक्षीं विस्मरत्य् अन्तरात्मा १७.१३ ॥४७७॥नपुंसकम् इति ज्ञात्वा तां प्रति प्रहितं मनः ।रमते तच् च तत्रैव हताः पाणिनिना वयम् १७.१४ ॥४७८॥हारो ऽयं हरिणाक्षीणां लुठति स्तनमण्डले ।मुक्तानाम् अप्य् अवस्थेयं के वयं स्मरकिंकराः १७.१५ ॥४७९॥धर्मकीर्तेर् अमीसा सुन्दरीति तरुणीति तनूदरीति मुग्धेति मुग्धवदनेति मुहुर् मुहुर् मे ।कान्ताम् अयं विरहिणीम् अनुरन्तुकामः कामातुरो जपति मन्त्रम् इवान्तरात्मा १७.१६ ॥४८०॥वीर्यमित्रस्यसा बाला वयम् अप्रगल्भमनसः सा स्त्री वयं कातराः साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयम् ।सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयं दोषैर् अन्यजनाश्रितो ऽपटवो जाताः स्म इत्य् अद्भुतम् १७.१७ ॥४८१॥धर्मकीर्तेःअलसवलितमुग्धस्निग्धनिष्पन्दमन्दैर् अधिकविकसदन्तर्विस्मयस्मेरतारैः ।हृदयम् अशरणं मे पक्ष्मलाक्ष्याः कटाक्षैर् अपहृतम् अपविद्धं पीतम् उन्मूलितं च १७.१८ ॥४८२॥यान्त्या मुहुर् वलितकन्धरम् आननं तद् आवृत्तवृन्तशतपत्रनिभं वहन्त्या ।दिग्धो ऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः १७.१९ ॥४८३॥परिच्छेदव्यक्तिर् भवति न पुरस्थे ऽपि विषये भवत्य् अभ्यस्ते ऽपि स्मरणम् अतथाभावविरमम् ।न संतापच्छेदो हिमसरसि वा चन्द्रमसि वा मनो निष्ठाशून्यं भ्रमति च किम् अप्य् आलिखति च १७.२० ॥४८४॥परिच्छेदातीतः सकलवचनानाम् अविषयः पुनर्जन्मन्य् अस्मिन्न् अनुभवपथं यो न गतवान् ।विवेकप्रध्वंसाद् उपचितमहामोहगहनो विकारः को ऽप्य् अन्तर् जडयति च तापं च कुरुते १७.२१ ॥४८५॥भवभूतेर् अमीगच्छन्त्या मुहुर् अर्पितं मृगदृशा तारस्फुरद्वीक्षणं प्रान्तभ्राम्यदसञ्जितभ्रु यद् इदं किं तन् न जानीमहे ।क्वापि स्वेदसमुच्चयः स्नपयति क्वापि प्रकमोद्गमः क्वाप्य् अङ्गेषु तुषानलप्रतिसमः कन्दर्पदर्पक्रमः १७.२२ ॥४८६॥अमृतसिक्तम् इवाङ्गम् इदं यदि भवति तन्वि तवाद्भुतवीक्षितैः ।अधरम् इन्दुकराद् अपि शुभ्रयन्त्य् अरुणयन्त्य् अरुणाद् अपि किं दृशम् १७.२३ ॥४८७॥सा नेत्राञ्जनतां पुनर् व्रजति मे वाचाम् अयं विभ्रमः प्रत्यासन्नकरग्रहेति च करी हस्तोदरे शायितः ।एतावद् बहु यद् बभूव कथम् अप्य् एकत्र मन्वन्तरे निर्माणं वपुषो ममोरुतपसस् तस्याश् च वामभ्रुवः १७.२४ ॥४८८॥वल्लणस्यनूनम् आज्ञाकरस् तस्याः सुभ्रुवो मकरध्वजः ।यतस् तन्नेत्रसंचार- सूचितेषु प्रवर्तते १७.२५ ॥४८९॥आदौ विस्मयनिस्तरङ्गम् अनु च प्रेङ्खोलितं साध्वसैर् व्रीडानम्रम् अथ क्षणं प्रविकसत्तारं दिदृक्षारसैः ।आकृष्टं सहजाभिजात्यकलनात् प्रेम्णा पुरः प्रेरितं चक्षुर् भूरि कथंकथंचिद् अगमत् प्रेयांसम् एणीदृशः १७.२६ ॥४९०॥गच्छति पुरः शरीरं धावति पश्चाद् असंस्थितं चेतः ।चीनांशुकम् इव केतोः प्रतिवातं नीयमानस्य १७.२७ ॥४९१॥कालिदासस्यअयं ते विद्रुमच्छायो मरुमार्ग इवाधरः ।करोति कस्य नो बाले पिपासाकुलितं मनः १७.२८ ॥४९२॥दण्डिनःअस्यास् तुङ्गम् इव स्तनद्वयम् इदं निम्नेव नाभिः स्थिता दृश्यन्ते विषमोन्नताश् च वलयो भित्तौ समायाम् अपि ।अङ्गे च प्रतिभाति मार्दवम् इदं स्निग्धस्वभावश् चिरं प्रेम्णा मन्मुखचन्द्रम् ईक्षित एव स्मेरेव वक्तीति च १७.२९ ॥४९३॥स्वच्छन्दं स्वगृहाङ्गणं भ्रमति सा मद्दर्शनाल् लीयते धन्यान् पश्यति लोचनेन सकलेनार्धेन मां वीक्षते ।अन्यान् मन्त्रयते पुनर् मयि गते मौनं समालम्बते नीतो दूरम् अहं तया दयितया सामान्यलोकाद् अपि १७.३० ॥४९४॥स खलु सुकृतिभाजाम् अग्रणीः सो ऽतिधन्यो विनिहितकुचकुम्भा पृष्ठतो यन् मृगाक्षी ।बहलतरनखाग्रक्षोदविन्यस्तमार्गे शिरसि टसिति लिक्षां हन्ति हूंकारगर्भम् १७.३१ ॥४९५॥अलसयति गात्रम् अधिकं भ्रमयति चेतस् तनोति संतापम् ।मोहं च मुहुः कुरुते विषमविषं वीक्षितं तस्याः १७.३२ ॥४९६॥मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्द्रे कान्तापयोधरयुगे रतिखेदखिन्नः ।वक्षो निधाय भुजपञ्जरमध्यवर्ती धन्यः क्षपाः क्षपयति क्षणलब्धनिद्रः १७.३३ ॥४९७॥धिक् तस्य मूढमनसः कुकवेः कवित्वं यः स्त्रीमुखं च शशिनं च समीकरोति ।भ्रूभङ्गविभ्रमविलासनिरीक्षितानि कोपप्रसादहसितानि कुतः शशाङ्के १७.३४ ॥४९८॥तावज् जरामरणबन्धुवियोगशोक- संवेगभिन्नमनसाम् अपवर्गवाञ्छा ।यावन् न वक्रगतिर् अञ्जननीलरोचिर् एणीदृशां दशति लोचनदन्तशूकः १७.३५ ॥४९९॥सा यैर् दृष्टा न वा दृष्टा मुषिताः समम् एव ते ।हृतं हृदयम् एकेषाम् अन्येषां चक्षुषः फलम् १७.३६ ॥५००॥सा बालेति मृगेक्षणेति विकसत्पद्माननेति क्रम- प्रोन्मीलत्कुचकुड्मलेति हृदय त्वां धिग् वृथा श्राम्यसि ।मायेयं मृगतृष्णिकास्व् अपि पयः पातुं समीहा तव त्यक्तव्ये पथि मा कृथाः पुनर् अपि प्रेमप्रमादास्पदम् १७.३७ ॥५०१॥धर्मकीर्तेःअवचनं वचनं प्रियसंनिधाव् अनवलोकनम् एव विलोकनम् ।अवयवावरणं च यद् अञ्चल- व्यतिकरेण तद् अङ्गसमर्पणम् १७.३८ ॥५०२॥रोमाञ्चैर् इव कीलिता चलति नो दृष्टिः कपोलस्थले स्वान्तं प्रेमपयोधिपङ्कपतनान् निश्चेष्टम् आस्ते गतम् ।उद्धाराय तयोर् गता इव पुनस् त्रासान् निवृत्ता इव श्वासा दीर्घम् अहो गतागतम् अमी कुर्वन्त एवासते १७.३९ ॥५०३॥यदि सरोजम् इदं क्व निशि प्रभा यदि निशापतिर् अह्नि कुतो नु स ।रचयतोभयधर्मि तवाननं प्रकटितं विधिना बहु नैपुणम् १७.४० ॥५०४॥अभिमुखे मयि संवृतम् ईक्षितं हसितम् अन्यनिमित्तकथोदयम् ।विनयवारितवृत्तिर् अतस् तया न विवृतो मदनो न च संवृतः १७.४१ ॥५०५॥को ऽसौ कृती कथय को मदनैकबन्धुर् उद्ग्रीवम् अर्चयसि कस्य मृगाक्षि मार्गम् ।नीलाब्जकर्बुरितमध्यविनिद्रकुन्द- दामाभिरामरुचिभिस् तरलैः कटाक्षैः १७.४२ ॥५०६॥गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता ।शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा १७.४३ ॥५०७॥सावर्णेःअलसवलितैः प्रेमार्द्रार्द्रैर् निमेषपराङ्मुखैः क्षणम् अभिमुखं लज्जालोलैर् मुहुर् मुकुलीकृतैः ।हृदयनिहितं भावाकूतं वमद्भिर् इवेक्षणैः कथय सुकृती को ऽसौ मुग्धे त्वयाद्य विलोक्यते १७.४४ ॥५०८॥श्रीहर्षस्यउपरि कबरीबन्धग्रन्थेर् अथ ग्रथिताङ्गुली निजभुजलते तिर्यक् तन्व्या वितत्य विवृत्तया ।विवृतविलसद्वामापाङ्गस्तनार्धकपोलया कुवलयदलस्रक्संदिग्धश्रियः प्रहिता दृशः १७.४५ ॥५०९॥साकूतं दयितेन सा परिजनाभ्याशे समालोकिता स्वाकूतप्रतिपादनाय रभसाद् आश्वासयन्ती प्रियम् ।वैदर्भाक्षरगर्भिणीं गिरम् उदीर्यान्यापदेशाच् छिशुं प्रीत्या कर्षति चुम्बति त्वरयति श्लिष्यत्य् असूयत्य् अपि १७.४६ ॥५१०॥व्यावृत्त्या शिथिलीकरोति वसनं जाग्रत्य् अपि व्रीडया स्वप्नभ्रान्तिपरिप्लुतेन मनसा गाढं समालिङ्गति ।दत्त्वाङ्गं स्वपिति प्रियस्य रतये व्याजेन निद्रां गता तन्वङ्ग्या विफलं विचेष्टितम् अहो भावानभिज्ञे जने १७.४७ ॥५११॥आयाते दयिते मरुस्थलभुवाम् उल्लङ्घ्य दुर्लङ्घ्यतां गेहिन्या परितोषबाष्पतरलाम् आसज्य दृष्टिं मुखे ।दत्त्वा पीलुशमीकरीरकवलान् स्वेनाञ्चलेनादराद् आमृष्टं करभय केशरसटाभारावलग्नं रजः १७.४८ ॥५१२॥केशटस्यदर्भाङ्कुरेण चरणः क्षत इत्य् अकाण्डे तन्वी स्थिता कतिचिद् एव पदानि गत्वा ।आसीद् विवृत्तवदना च विमोचयन्ती शाखासु वल्कलम् असक्तम् अपि द्रुमाणाम् १७.४९ ॥५१३॥आकुन्तल २.१२कालिदासस्यदूराद् एव कृतो ऽञ्जलिर् न स पुनः पानीयपानोचितो रूपालोकनविस्मितेन चलितं मूर्ध्ना न शान्त्या तृषः ।रोमाञ्चो ऽपि निरन्तरं प्रकटितः प्रीत्या न शैत्याद् अपाम् अक्षुण्णो विधिर् अध्वगेन घटितो वीक्ष्य प्रपापालिकाम् १७.५० ॥५१४॥बाणस्यचलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव मृशसि मृदु कर्णान्तिकगतः ।करं व्याधुन्वत्याः पिबसि रतिसर्वस्वम् अधरं वयं तत्त्वान्वेषान् मधुकर हतास् त्वं खलु कृती १७.५१ ॥५१५॥आकुन्तल १.२०स्निग्धं वीक्षितम् अन्यतो ऽपि नयने यत् प्रेषयन्त्या तया यातं यच् च निरम्बयोर् गुरुतया मन्दं विषादाद् इव ।मा गा इत्य् उपरुद्धया यद् अपि तत् सासूयम् उक्ता सखी सर्वं तत् किल मत्परायणम् अहो कामः स्वतां पश्यति १७.५२ ॥५१६॥आकुन्तल २.२कालिदासस्यैतौवक्त्रश्रीजितलज्जितेन्दुमलिनं कृत्वा करे कन्दुकं क्रीडाकौतुकमिश्रभावम् अनया ताम्रं वहन्त्याननम् ।भृङ्गाग्रग्रहकृष्टकेतकदलस्पर्धावतीनां दृशां दीर्घापाङ्गतरङ्गणैकसुहृदाम् एषो ऽस्मि पात्रीकृतः १७.५३ ॥५१७॥राजशेखरस्यतरङ्गय दृशो ऽङ्गने पततु चित्रम् इन्दीवरं स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेतताम् ।मगाग् वपुर् अपावृणु स्पृशतु काञ्चनं कालिकाम् उदञ्चय निजाननं भवतु च द्विचन्द्रं नभः १७.५४ ॥५१८॥एको जयति सद्वृत्तः किं पुनर् द्वौ सुसंहतौ ।किं चित्रं यदि तन्वङ्ग्याः स्तनाभ्यां निर्जितं जगत् १७.५५ ॥५१९॥प्रणालीदीर्घस्य प्रतिकलम् अपाङ्गस्य सुहृदः कटाक्षव्याक्षेपाः शिशुशफरफालप्रतिभुवः ।स्नुवानाः सर्वस्वं कुसुमधनुषो ऽस्मान् प्रति सखे नवं नेत्राद्वैतं कुवलयदृशः संनिदधति १७.५६ ॥५२०॥भुवनभुवि सृजन्तस् तारहारावतारान् दिशि दिशि विकिरन्तः केतकानां कुटुम्बम् ।वियति विरचयन्तश् चन्द्रिकां दुग्धमुग्धां प्रतिनयननिपाताः सुभ्रुवो विभ्रमन्ति १७.५७ ॥५२१॥राजशेखरस्ययत् पश्यन्ति झगित्य् अपाङ्गसरणिद्रोणीजुषा चक्षुषा विङ्खन्ति क्रमदोलितोभयभुजं यन् नाम वामभ्रुवः ।भाषन्ते च यद् उक्तिभिः स्तबकितं वैदग्ध्यमुद्रात्मभिस् तद् देवस्य रसायनं रसनिधेर् मन्ये मनोजन्मनः १७.५८ ॥५२२॥क्रमसरलितकण्ठप्रक्रमोल्लासितोरस् तरलितवलिरेखासूत्रसर्वस्वम् अस्याः ।स्थितम् अतिचिरम् उच्चैर् अग्रपादाङ्गुलीभिः करकलितसखीकं मां दिदृक्षोः स्मरामि १७.५९ ॥५२३॥स्मरशरधिसकाशं कर्णपाशं कृशाङ्गी रयविगलितताडीपत्रताडङ्कम् एकम् ।वहति हृदयचौरं कुङ्कुमन्यासगौरं वलयितम् इव नालं लोचनेन्दीवरस्य १७.६० ॥५२४॥चोलाञ्चलेन चलहारलताप्रकाण्डैर् वेणीगुणेन च बलाद् वलयीकृतेन ।हेलाहितभ्रमरकभ्रममण्डलीभिश् छत्रत्रयं रचयतीव चिरं नतभ्रूः १७.६१ ॥५२५॥अमन्दमणिनूपुरक्वणनचारुचारीक्रमं झणज्झणितमेखलास्खलिततारहारच्छटम् ।इदं तरलकङ्कणावलिविशेषवाचालितं मनो हरति सुभ्रुवः किम् अपि कन्दुकक्रीडितम् १७.६२ ॥५२६॥सा दुग्धमुग्धमधुरच्छविरङ्गयष्टिस् ते लोचने तरुणकेतकपत्रदीर्घे ।कम्बोर् विडम्बनकरश् च स एव कण्ठः सैवेयम् इन्दुवदना मदनायुधाय १७.६३ ॥५२७॥क्व पातव्या ज्योत्स्नामृतभवनगर्भापि तृषितैर् मृणालीतन्तुभ्यः सिचयरचना कुत्र घटते ।क्व वा पारीमेयो बत बकुलदाम्नां परिमलः कथं स्वप्नः साक्षात् कुवलयदृशं कल्पयतु ताम् १७.६४ ॥५२८॥राजशेखरस्यामीरसवद् अमृतं कः संदेहो मधून्य् अपि नान्यथा मधुरम् अपि किं चूतस्यापि प्रसन्नरसं फलम् ।सकृद् अपि पुनर् मध्यस्थः सन् रसान्तरविज् जनो वदतु यद् इहान्यत् स्वादु स्यात् प्रियादशनच्छदात् १७.६५ ॥५२९॥कुवलयवनं प्रत्याख्यातं नवं मधु निन्दितं हसितम् अमृतं हन्त स्वादोः परं रससम्पदः ।विषम् उपहितं चिन्ताव्याजान् मनस्य् अपि कामिनाम् अलसमधुरैर् लीलातन्त्रैस् तयार्धविलोकितैः १७.६६ ॥५३०॥चञ्चच्चोलाञ्चलानि प्रतिसरणरयव्यस्तवेणीनि बाहोर् विक्षेपाद् दक्षिणस्य प्रचलितवलयास्फालकोलाहलानि ।श्वासत्रुट्यद्वचांसि द्रुतम् इतरकरोत्क्षिप्तलोलालकानि स्रस्तस्रञ्जि प्रमोदं दधति मृगदृशां कन्दुकक्रीडितानि १७.६७ ॥५३१॥प्रहरविरतौ मध्ये वाह्नस् ततो ऽपि परेण वा किम् उत सकले याते ऽप्य् अह्नि त्वम् अद्य समेष्व् असि ।इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालालापैः सबाष्पझलज्झलैः १७.६८ ॥५३२॥झलज्झलस्यकल्याणं परिकल्प्यतां पिककुले रोहन्तु वाञ्चाप्तयो हंसानाम् उदयो ऽस्तु पूर्णशशिनः स्ताद् भद्रम् इन्दीवरे ।इत्य् उद्बाष्पवधूगिरः प्रतिपदं सम्पूरयन्त्यान्तिके कान्तः प्रस्थितिकल्पितोपकरणः सख्या भृशं वारितः १७.६९ ॥५३३॥शृङ्गारस्यसामान्यवाचि पदम् अप्य् अभिधीयमानं मां प्राप्य जातम् अभिधेयविशेषनिष्ठम् ।स्त्री काचिद् इत्य् अभिहिते हि मनो मदीयं ताम् एव वामनयनां विषयीकरोति १७.७० ॥५३४॥इति अनुरागव्रज्या N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP