संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः| जातिव्रज्या सुभाषितरत्नकोशः सुगतव्रज्या लोकेश्वरव्रज्या मञ्जुघोषव्रज्या महेश्वरव्रज्या तद्वर्गव्रज्या हरिव्रज्या सूर्यव्रज्या वसन्तव्रज्या ग्रीष्मव्रज्या प्रावृड्व्रज्या शरद्व्रज्या हेमन्तव्रज्या शिशिरव्रज्या मदनव्रज्या वयःसन्धिव्रज्या युवतिवर्णनव्रज्या ततोऽनुरागव्रज्या दूतीवचनव्रज्या सम्भोगव्रज्या समाप्तनिधुवनचिह्नव्रज्या मानिनीव्रज्या विरहिणीव्रज्या विरहिव्रज्या सतीव्रज्या दूतिकोपालम्भव्रज्या प्रदीपव्रज्या ततोऽपराह्णव्रज्या ततोऽन्धकारव्रज्या ततश्चन्द्रव्रज्या प्रत्यूषव्रज्या मध्याह्नव्रज्या यशोव्रज्या ततोऽन्यापदेशव्रज्या वातव्रज्या जातिव्रज्या माहात्म्यव्रज्या सद्व्रज्या असद्व्रज्या दीनव्रज्या अर्थान्तरन्यासव्रज्या ततश्चाटुव्रज्या निर्वेदव्रज्या वार्धक्यव्रज्या श्मशानव्रज्या वीरव्रज्या प्रशस्तिव्रज्या पर्वतव्रज्या शान्तिव्रज्या संकीर्णव्रज्या कविस्तुतिव्रज्या सुभाषितरत्नकोशः - जातिव्रज्या विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे. Tags : bookvidhyakarविद्याकरसंस्कृतसुभाषितरत्नकोश जातिव्रज्या Translation - भाषांतर अजाजीजम्बाले रजसि मरिचानां च लुठिताः कटुत्वाद् उष्णत्वाज् जनितरसनौष्ठव्यतिकराः ।अनिर्वाणोत्थेन प्रबलतरतैलाक्ततनवो मया सद्यो भृष्टाः कतिपयकवय्यः कवलिताः ३५.१ ॥११४८॥ग्रीवाभङ्गाभिरामं मुहुर् अनुपतति स्यन्दने दत्तदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद् भूयसा पूर्वकायम् ।शष्पैर् अर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वाद् वियति बहुतरं स्तोकम् उर्व्यां प्रयाति ३५.२ ॥११४९॥कालिदासस्यस्वैरं चक्रानुवृत्त्या मुहुर् उपरि परिभ्रम्य सम्यक्कृतास्थः क्षिप्ताधिदृष्टिलक्ष्यीकृतपलशकलः पक्कणप्राङ्गणेषु ।तीव्राधःपातपुञ्जीकृतविततचलत्पक्षपालीविशालश् चिल्लश् चाण्डालपल्लीपिठरजठरतः प्रोद्धरत्य् अर्धदग्धम् ३५.३ ॥११५०॥उद्ग्रीवा विवृतारुणास्यकुहरास् तृष्णाचलत्तालवः पक्षासम्भववेपमानतनवः प्रोड्डीय किंचिद् भुवः ।अन्योन्याक्रमिणः शरारिशिशवः प्रातर् नदीरोधसि प्रालेयाम्बु पिबन्ति वीरणदलद्रोणीप्रणालस्रुतम् ३५.४ ॥११५१॥रज्जुक्षेपरयोन्नमद्भुजलताव्यक्तैकपार्श्वस्तनी सूत्रच्छेदविलोलशङ्खवलयश्रेणीझणत्कारिणी ।तिर्यग्विस्तृतपीवरोरुयुगला पृष्ठानतिव्याकृता- भोगश्रोणिर् उदस्यति प्रतिमुहुः कूपाद् अपः पामरी ३५.५ ॥११५२॥पक्षाभ्यां सहितौ प्रसार्य चरणाव् एकैकशः पार्श्वयोर् एकीकृत्य शिरोधरोपरि शनैः पाण्डूदरे पक्षती ।निद्राशेषविशेषरक्तनयनो निर्याय नीडोदराद् आसृक्कान्तविदारिताननपुटः पारावतो जृम्भते ३५.६ ॥११५३॥भृङ्गारस्यप्रातर् वारविलासिनीजनरणन्मञ्जीरमञ्जुस्वनैर् उद्बुद्धः परिधूय पक्षतिपुटं पारावतः सस्पृहम् ।किंचित्कुञ्चितलोचनां सहचरीं संचुम्ब्य चञ्च्वा चिरं मन्दान्दोलितकण्ठकुण्ठितगलः सोत्कण्ठम् उत्कूजति ३५.७ ॥११५४॥विक्रमादित्यतपस्विनोःउत्प्लुत्य दूरं परिधूय पक्षा- वधो निरीक्ष्य क्षणबद्धलक्ष्यः ।मध्येजलं बुड्डति दत्तझम्पः समत्स्यम् उत्सर्पति मत्स्यरङ्कः ३५.८ ॥११५५॥वाक्पतिराजस्यनीडाद् अपक्रम्य विधूय पक्षौ वृक्षाग्रम् आरुह्य ततः क्रमेण ।उद्ग्रीवम् उत्पुच्छम् उदेकपादम् उच्चूडम् उत्कूजति ताम्रचूडः ३५.९ ॥११५६॥अङ्गुष्ठाक्रमवक्रिताङ्गुलिर् अधः पादार्धनीरुद्धभूः पार्श्वोद्वेगकृतो निहत्य कफणिद्वन्द्वेन दंशान् मुहुः ।न्यग्जानुद्वययन्त्रयन्तितघटीवक्त्रान्तरालस्खलद्- धाराध्वानमनोहरं सखि पयो गां दोग्धि गोपालकः ३५.१० ॥११५७॥उपाध्यायदामरस्यकर्णाग्रन्थितकिंतनुर् नतशिरा बिभ्रज्जराजर्जर- स्फिक्संधिप्रविवेशितप्रविचलल्लाङ्गूलनालः क्षणम् ।आराद् वीक्ष्य विपक्वसाक्रमकृतक्रोधस्फुरत्कन्धरं श्वा मल्लीकलिकाविकाशिदशनः किंचित् क्वणन् गच्छति ३५.११ ॥११५८॥तुन्दी चेत् परिचुम्बति प्रियतमां स्वार्थात् ततो भ्रश्यति स्वार्थं चेत् कुरुते प्रियाधररसास्वादं न विन्दत्य् असौ ।तं चेमं च करोति मूढजडधीः कामान्धमुग्धो यतस् तुन्दौ तुन्दितविग्रहस्य सुरते नैको भवेन् नापरः ३५.१२ ॥११५९॥नश्यद्वक्त्रिमकुन्तलान्तलुलितस्वच्छाम्बुबिन्दूत्करा हस्तस्वस्तिकसंयमे नवकुचप्राग्भारम् आतन्वती ।पीनोरुद्वयलीनचीनवसना स्तोकावनम्रा जलात् तीरोद्देशनिमेषलोलनयना बालेयम् उत्तिष्ठति ३५.१३ ॥११६०॥भोज्यदेवस्यअम्भोमुचां सलिलम् उद्गिरतां निशीथे ताडीवनेषु निभृतस्थितकर्णतालाः ।आकर्णयन्ति करिणो ऽर्धनिमीलिताक्षा धारारवं दशनकोटिनिषण्णहस्ताः ३५.१४ ॥११६१॥हस्तिपकस्यहलाग्रोत्कीर्णायां परिसरभुवि ग्रामचटका लुठन्ति स्वच्छन्दं नखरशिखराच् छोटितमृदः ।चलत्पक्षद्वन्द्वप्रभवमरुदुत्तम्भितरजः- कणाश्लेषभ्रामद्रुतमुकुलितोन्मीलितदृशः ३५.१५ ॥११६२॥आकुब्जीकृतपृष्ठम् उन्नतवलद्वक्त्राग्रपुच्छं भयाद् अन्तर्वेश्मनिवेशितैकनयनं निष्कम्पकर्णद्वयम् ।लालाकीर्णविदीर्णसृक्कविकचद्दंष्ट्राकरालननः श्वा निःश्वासनिरोधपीवरगलो मार्जारम् आस्कन्दति ३५.१६ ॥११६३॥पयसि सरसः स्वच्छे मत्स्याञ् जिघृक्षुर् इतस् ततो वलितनयनो मन्दं मन्दं पदं निदधद् बकः ।वियति विधृतैकाङ्घ्रिस् तिर्यग्विवर्तितकन्धरो दलम् अपि चलत्सप्रत्याशं मुहुर् मुहुर् ईक्षते ३५.१७ ॥११६४॥मुक्तेषु रश्मिषु निरायतपूर्वकाया निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः ।आत्मोद्धतैर् अपिरजोभिर् अलङ्घनीया धावन्य् अमी मृगजवाक्षमयेव रथ्याः ३५.१८ ॥११६५॥पश्चाद् अङ्घ्री प्रसार्य त्रिकनतिविततं द्राघयित्वाङ्गम् उच्चैर् आसज्याभुग्नकण्ठो मुखम् उरसि सटां धूलिधूम्रां विधूय ।घासग्रासाभिलाषाद् अनवरतचलत्प्रोथतुण्डस् तुरङ्गो मन्दं शब्दायमानो विलिखति शयनाद् उत्थितः क्ष्मां खुरेण ३५.१९ ॥११६६॥आघ्रातक्षोणिपीठः खुरशिखरसमाकृष्टरेणुस् तुरङ्गः पुञ्जीकृत्याखिलाङ्घ्रीन् क्रमवशविनमज्जानुर् उन्मुक्तकायः ।पृष्ठान्तः पार्श्वकण्डूव्यपनयनरसाद् द्विस् त्रिर् उद्वर्तिताङ्गः प्रोत्थाय द्राङ् निरीहः क्षणम् अथ वपुर् आस्यानुपूर्व्यां धुनोति ३५.२० ॥११६७॥आदौ वितत्य चरणौ विनमय्य कण्ठम् उत्थाप्य वक्त्रम् अभिहत्य मुहुश् च वत्साः ।मात्रा प्रवर्तितमुखं मुखलिह्यमान- पश्चार्धसुस्थमनसः स्तनम् उत्पिबन्ति ३५.२१ ॥११६८॥प्रियायां स्वैरायाम् अतिकठिनगर्भालसतया किराते चाकर्णीकृतधनुषि धावत्य् अनुपदम् ।प्रियाप्रेमप्राणप्रतिभयवशाकूतविकलो मृगः पश्चाद् आलोकयति च मुहुर् याति च मुहुः ३५.२२ ॥११६९॥शीर्णक्षुद्रातपत्री जठरवलयितानेकमात्राप्रपञ्चश् चूडानिर्व्यूढबिल्वच्छद उदरदरीभीषणो जीर्णकण्ठः ।दूराध्वभ्रान्तिखिन्नः कथम् अपि शनकैर् अङ्घ्रिपीडां नियम्य स्वैरेन्धस्फोटनाय द्विजभवनम् अनु स्नातकः सायम् एति ३५.२३ ॥११७०॥चञ्चच्चञ्चलचञ्चुवञ्चितचलच्चूडाग्रम् उग्रं पतच्- चक्राकारकरालकेसरसटास्फारस्फुरत्कन्धरम् ।वारं वारम् उदङ्घ्रिलङ्घनघनप्रेङ्खन्नखक्षुण्णयोः कामं कुक्कुटयोर् द्वयं द्रुतपदक्रूरक्रमं युध्यति ३५.२४ ॥११७१॥एते जीर्णकुलायकालजटिलाः पांसूत्कराकर्षिणः शाखाकम्पविहस्तदुःस्थविहगान् आकम्पयन्तस् तरून् ।हेलान्दोलितनर्तितोझितहतव्याघट्टितोन्मूलित- प्रोत्क्षिप्तभ्रमितैः प्रपापटलकैः क्रीडन्ति झञ्झानिलाः ३५.२५ ॥११७२॥एते संततभृज्यमानचणकामोदप्रधाना मनः कर्षन्त्य् ऊषरसंनिवेशजरठच्छायाः स्थलीग्रामकाः ।तारुण्यातिशयाग्रपामरवधूसोल्लासहस्तग्रह- भ्राम्यत्पीवरयन्त्रकध्वनिर् असद्गम्भीरगेहोदराः ३५.२६ ॥११७३॥अस्मिन् ईषद्वलितविततस्तोकविच्छिन्नभुग्नः किंचिल्लीलोपचितविभवः पुञ्जितश् चोत्थितश् च ।धूमोद्गारस् तरुणमहिषस्कन्धनीलो दवाग्नेः स्वैरं सर्पन् सृजति गगने गत्वरान् पत्रभङ्गान् ३५.२७ ॥११७४॥कैश्चिद् वीतदयेन भोगपतिना निष्कारणोपप्लुत- प्रक्षीणैर् निजवंशभूर् इति मितैर् अत्यज्यमानाः कुलैः ।ग्रामा निस्तृणजीर्णकुड्यबहुलाः स्वैरं भ्रमद्बभ्रवः प्रायः पाण्डुकपोतकण्ठमुखरारामे न यान्त्य् उत्कताम् ३५.२८ ॥११७५॥दुरुपहितहलेषासार्गलद्वारमारात् परिचकितपुरन्ध्रीपातिताभ्यर्णभाण्डम् ।पवनरयतिरश्चीस् तोयधाराः प्रतीच्छन् विशति वलितशृङ्गः पामरागारम् उक्षा ३५.२९ ॥११७६॥उत्प्लुत्या गृहकोणतः प्रचलिताः स्तोकाग्रहङ्घं ततो वक्त्रस्वैरपदक्रमैर् उपगताः किंचिच्चलन्तो गले ।भेकाः पूतिनिपातिनो मिचिमिचीत्य् उन्मीलितार्धेक्षणा नक्राकारविदारिताननपुटैर् निर्मक्षिकं कुर्वते ३५.३० ॥११७७॥विलासमसृणोल्लसन्मुसललोलदोःकन्दली- परस्परपरिस्खलद्वलयनिःस्वनैर् दन्तुराः ।हरन्ति कलहूंकृतिप्रसभकम्पितोरःस्थल- त्रुटद्गमकसंकुलाः कलमकण्डनीगीतयः ३५.३१ ॥११७८॥विकासयति लोचने स्पृशति पाणिनाकुञ्चिते विदूरम् अवलोकयत्य् अतिसमीपसंस्थं पुनः ।बहिर् व्रजति सातपे स्मरति नेत्रवर्तेः पुमाञ् जराप्रमुखसंस्थितः समवलोकयन् पुस्तकम् ३५.३२ ॥११७९॥वराहस्यप्रायो रथ्यास्थलभुवि रजःप्रायदूर्वालतायां जाल्मैः पृष्ठापहृतसलवाः सक्षुधो माम् अहोक्षाः ।स्वैरं श्वासानिलतरलितोद्भूतधूलीप्रवेश- प्लुष्टप्राणा विहितविधुतग्रासविघ्नं चरन्ति ३५.३३ ॥११८०॥सीमनि लघुपङ्कायाम् अङ्कुरगौराणि चञ्चितोरस्काः ।लघुतरम् उत्प्लवमानाश् चरन्ति बीजान्ति कलविङ्काः ३५.३४ ॥११८१॥क्वणद्वलयसंततिक्षणम् उदञ्चिदोष्कन्दली गलत्पटसमुन्मिषत्कुचतटीनखाङ्कावली ।कराम्बुजधृतोल्लसन्मुशलम् उन्नमन्ती मुहुः प्रलम्बिमणिमालिनी कलमकण्डनी राजते ३५.३५ ॥११८२॥वागुरस्यउत्पुच्छः प्रमदोच्छ्वसद्वपुर् अधोविस्रंसिपक्षद्वयः स्वैरोत्फालगतिक्रमेण परितो भ्रान्त्वा सलीलं मुहुः ।उत्कण्ठालसकूजितः कलरुतां भूयो रिरंसारस- न्यग्भूतां चटकः प्रियाम् अभिसरत्य् उद्वेपमानः क्षणम् ३५.३६ ॥११८३॥सोन्नोकस्यसिद्धार्थयष्टिषु यथोत्तरहीयमान- संस्थानबद्धफलसूचिपरम्परासु ।विच्छिद्यमानकुसुमासु जनिक्रमेण पाकक्रमः कपिशिमानम् उपादधाति ३५.३७ ॥११८४॥बकोटाः पान्थानां शिशिरसरसीसीम्नि सरताम् अमी नेत्रानन्दं ददति चरणाचोटितमुखाः ।धुनाना मूर्धानं गलबिलगलत्स्फारशफर- स्फुरत्पुच्छानच्छव्यतिकरसबाष्पाकुलदृशः ३५.३८ ॥११८५॥तिर्यक्तीक्ष्णविषाणयुग्मचलनव्यानम्रकण्ठाननः किंचित्कुञ्चितलोचनः खुरपुटेनाचोटयन् भूतलम् ।निश्वासैर् अतिसंततैर् बुषकणाजालं खले विक्षिपन्न् उक्षा गोष्ठतटीषु लब्धविजयो गोवृन्दम् आस्कन्दति ३५.३९ ॥११८६॥अचलस्यअर्चिर्मालाकरालाद् दिवम् अभिलिहतो दाववह्नेर् अदूराद् उड्डीयोड्डीय किंचिच्छलभकवलनानन्दमन्दप्रचाराः ।अग्रे ऽग्रे संरटन्तः प्रचुरतरमसीपातदुर्लक्षधूम्रा धूम्याटाः पर्यटन्ति प्रतिविटपम् अमी निष्ठुराः स्वस्थलीषु ३५.४० ॥११८७॥मधुकण्ठस्यनीवारौदनमण्डम् उष्णमधुरं सद्यःप्रसूतप्रिया- पीताद् अप्य् अधिकं तपोवनमृगः पर्याप्तम् आचामति ।गन्धेन स्फुरता मनाग् अनुसृतो भक्तस्य सर्पिष्मतः कर्कन्धूफलमिश्रशाकपचनामोदः परिस्तीर्यते ३५.४१ ॥११८८॥भवभूतेःमधुरम् इव वदन्तः स्वागतं भृङ्गशब्दैर् नतिम् इव फलनम्रैः कुर्वते ऽमी शिरोभिः ।मम ददत इवार्घं पुष्पवृष्टिं किरन्तः कथय नतिसपर्यां शिक्षिताः शाखिनो ऽपि ३५.४२ ॥११८९॥श्रीहर्षस्यअस्मिन् वृद्धवनेचरीकरतलैर् दत्ताः सपञ्चाङ्गुलाः शिखरिभिः शृङ्गैः करालोदराः ।द्वारोपान्तपशूकृतार्प्यपुरुषक्षुब्धास्थिकिर्मीरिताश् चित्तोत्कम्पम् इवानयन्ति गहनाः कान्तार ३५.४३ ॥११९०॥तैस् तैर् जीवोपहारैर् इह कुहरशिलासंश्रयाम् अर्चयित्वा देवीं कान्तारदुर्गां रुधिरम् उपतरु क्षेत्रपालाय दत्त्वा ।तुम्बीवीणाविनोदव्यवहितसरकाम् अह्नि जीर्णे पुराणीं हालां मालूरकोषैर् युवतिसहचरा बर्बराः शीलयन्ति ३५.४४ ॥११९१॥योगेश्वरस्यअभिनवमुखमुद्रं क्षुद्रकूपोपवीतं प्रशिथिलविपुलत्वं ज्वालकोच्छ्वासिपालम् ।परिणतिपरिपाटिव्याकृतेनारुणिम्ना हतहरितिम् अशेषं नागरङ्गं चकास्ति ३५.४५ ॥११९२॥अभिनन्दस्यइति जातिव्रज्या ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP