संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः|
प्रशस्तिव्रज्या

सुभाषितरत्नकोशः - प्रशस्तिव्रज्या

विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.


यद्वर्ग्याभिर् जग्राहे पृथुशकुलकुलास्फालनत्रासहास- व्यस्तोरुस्तम्भिकाभिर् दिशि दिशि सरितां दिग्जयप्रक्रमेषु ।
अम्भो गम्भीरनाभीकुहरकवलनोमुक्तपर्यस्तलोलत्- कल्लोलाबद्धमुग्धध्वनिचकितकणत्कुक्कुभं कामिनीभिः ४६.१ ॥१५६३॥

मज्जत्य् आमज्जमज्जन्मणिमसृणफणाचक्रवाले फणीन्द्रे यत्सेनोद्दामहेलाभरचलितमहाशैलकीलां बभार ।
कृच्छ्रात् पातालमूलाविलबहुलनिरालम्बजम्बालनिष्ठः पृष्ठाष्ठीलप्रतिष्ठाम् अवनिम् अवनमत् कर्परः कूर्मराजः ४६.२ ॥१५६४॥

यस्योद्योगे बलानां सकृद् अपि चलताम् उज्जिहानई रजोभिर् जम्बालिन्य् अम्बरस्य स्रवदमरसरित्तोयपूर्णे मार्गे ।
निर्मज्जच्चक्रशल्याकुलतरणिकरोत्ताडिताश्वीयदत्त- द्वित्रावस्कन्दमन्दः कथम् अपि चलति स्यन्दनो भानवीयः ४६.३ ॥१५६५॥
भवभूतेर् अमी

देवे दिशां विजयकौतुकसुप्रयाते निर्यन्त्रणप्रसरसैन्यभरेण यत्र ।
प्रत्यूप्यमानमणिकीलकगाढबन्ध- प्राणः फणपतिर् वसुधां दधाति ४६.४ ॥१५६६॥
मुरारेः

गुञ्जत्कुञ्जकुटीरकुञ्जरघटाविस्तीर्णकर्णज्वराः प्राक्प्रत्यग्धरणीध्रकन्दरदरीपारीन्द्रनिद्राद्रुहः ।
लङ्काङ्कत्रिककुत्प्रतिध्वनिघनाः पर्यन्तयात्राजये यस्य भ्रेमुर् अमन्ददुन्दुभिरवैर् आशारुधो घोषणाः ४६.५ ॥१५६७॥

त्वं सर्वदा नृपतिचन्द्र जयश्रियो ऽर्थी स्वप्ने ऽपि न प्रणयिनी भवतो ऽहम् आसम् ।
इत्थं श्रिया कुपितयेव रिपून् व्रजन्त्या संजघ्निरे समरकेलिसुखानि यस्य ४६.६ ॥१५६८॥

ते पीयूषमयूखशेखरशिरःसंदानमन्दाकिनी- कल्लोलप्रतिमल्लकीर्तिलहरीलावण्यलिप्ताम्बराः ।
सर्वक्षत्रभुजोष्मशातनकलादुःशीलदोःशालिनो वंशे तस्य बभूवुर् अद्भुतगुणा धाराधरित्रीभुजः ४६.७ ॥१५६९॥

यन्निस्त्रिंशहतोद्गतैर् अरिशिरश्चक्रैर् बभूव क्षणं लोके चान्द्रमसे विधुन्तुदघटावस्कन्दकोलाहलः ।
किं चामीभिर् अपि स्फुरन्मणितया चण्डांशुकोटिभ्रमं बिभ्राणैर् उदपादि राहुभुवने भूयान् सुभिक्षोत्सवः ४६.८ ॥१५७०॥

तेनेदं सुरमन्दिरं घटयता टङ्कावलीनिर्दलत्- पाषाणप्रकरः कृतो ऽयम् अखिलः क्षीणो गिरीणां गणः ।
अर्थिभ्यो वसु वर्षता पुनर् असौ संरूढरत्नाङ्कुर- श्रेणिस्मेरशिरःसहस्रशिखरः संवर्धितो रोहणः ४६.९ ॥१५७१॥

सुराणां पातासौ स पुनर् अतिपुण्यैकहृदयो ग्रहस् तस्यास्थाने गुरुर् उचितमार्गे स निरतः ।
करस् तस्यात्यर्थं वहति शतकोटिप्रणयितां स सर्वस्वं दाता तृणम् इव सुरेशं विजयते ४६.१० ॥१५७२॥

जीवाकृष्टिं स चक्रे मृधभुवि धनुषः शत्रुर् आसीद् गतासुर् लक्षाप्तिर् मार्गणानाम् अभवद् अरिबले तद्यशस् तेन लब्धम् ।
मुक्ता तेन क्षमेति त्वरितम् अरिगणैर् उत्तमाङ्गैः प्रतीष्ठा पञ्चत्वं द्वेषिसैन्ये स्थितम् अवनिपतिर् नाप संख्यान्तरं स ४६.११ ॥१५७३॥

येषां कल्पमहीरुहां मरकतव्याजेन तैर् अर्थिभिर् व्यक्रीयन्ते शलाटवो ऽपि मणयस् ते पद्मरागादयः ।
तेषु प्रौढफलोपमर्दविनमच्छाखामुखारोहिभिस् त्यागाद्वैतम् अहर्निशं सुकृतिनो यस्यामरैर् गीयते ४६.१२ ॥१५७४॥

यो मौर्वीकिणकैतवेन सकलक्ष्मापाललक्ष्मीबलात्- कारोपग्रहवाच्यतामकिनितौ बिभ्रद् भुजौ भूपतिः ।
लोकान् वाचयति स्म विक्रममयीम् आख्यायिकाम् आत्मनः क्वापि क्वाप्य् अनुगच्छदर्जुनकथासम्भारलम्भावतीम् ४६.१३ ॥१५७५॥
मुरारेर् एतौ

क्रुध्यद्गन्धकरीन्द्रदन्तमुषलप्रेङ्खोलदीप्तानल- ज्वालापातितकुम्भमौक्तिकफलव्युत्पन्नलाजाञ्जलौ ।
हस्तेनासिमयूखदर्भलतिकाबद्धेन युद्धोत्सवैर् राज्ञा येन सलीलम् उत्कलपतेर् लक्ष्मीः पुनर्भूः कृता ४६.१४ ॥१५७६॥
वसुकल्पस्य

इति प्रशस्तिव्रज्या ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP