संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः| ततोऽन्धकारव्रज्या सुभाषितरत्नकोशः सुगतव्रज्या लोकेश्वरव्रज्या मञ्जुघोषव्रज्या महेश्वरव्रज्या तद्वर्गव्रज्या हरिव्रज्या सूर्यव्रज्या वसन्तव्रज्या ग्रीष्मव्रज्या प्रावृड्व्रज्या शरद्व्रज्या हेमन्तव्रज्या शिशिरव्रज्या मदनव्रज्या वयःसन्धिव्रज्या युवतिवर्णनव्रज्या ततोऽनुरागव्रज्या दूतीवचनव्रज्या सम्भोगव्रज्या समाप्तनिधुवनचिह्नव्रज्या मानिनीव्रज्या विरहिणीव्रज्या विरहिव्रज्या सतीव्रज्या दूतिकोपालम्भव्रज्या प्रदीपव्रज्या ततोऽपराह्णव्रज्या ततोऽन्धकारव्रज्या ततश्चन्द्रव्रज्या प्रत्यूषव्रज्या मध्याह्नव्रज्या यशोव्रज्या ततोऽन्यापदेशव्रज्या वातव्रज्या जातिव्रज्या माहात्म्यव्रज्या सद्व्रज्या असद्व्रज्या दीनव्रज्या अर्थान्तरन्यासव्रज्या ततश्चाटुव्रज्या निर्वेदव्रज्या वार्धक्यव्रज्या श्मशानव्रज्या वीरव्रज्या प्रशस्तिव्रज्या पर्वतव्रज्या शान्तिव्रज्या संकीर्णव्रज्या कविस्तुतिव्रज्या सुभाषितरत्नकोशः - ततोऽन्धकारव्रज्या विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे. Tags : bookvidhyakarविद्याकरसंस्कृतसुभाषितरत्नकोश ततोऽन्धकारव्रज्या Translation - भाषांतर किं स्वर्भानुर् असौ विलिम्पति जगद् देहप्रभाविस्तरैस् तीव्रांशोः पततः पतत्य् अथ करालम्बावकृष्टं नभः ।किं साम्भोधिकुलाबलां वसुमतीं स्वस्मिन् विधत्ते हरिः संकल्पान् इति मांसलं वितनुते कादम्बनीलं तमः २८.१ ॥८८५॥निष्यन्दस्फुरिताभिर् ओषधिरुचां शैलाः शिखाभक्तिभिः शब्दैः प्राणभृतो गृहीतसुमनोवासैर् मरुद्भिर् द्रुमाः ।ध्वान्ते लिम्पति मत्तकोकिलवधूकण्ठाभिनीले जगल् लक्ष्यन्ते भवनानि जालविवरोद्धान्तैः प्रदीपांशुभिः २८.२ ॥८८६॥मनोविनोदस्यद्राक्पर्यस्तगभस्तिर् अस्तमयते माणिक्यशोणो रविः सांध्यं धाम नभोङ्गणं कुलयति द्वित्रिस्फुरत्तारकम् ।शोच्यन्ते वयसां गणैर् इत इतः पर्यन्तचैत्यद्रुमाः किं चाभ्यर्णपराक्रमेण तमसा प्रोर्णूयते रोदसी २८.३ ॥८८७॥चक्षुर्लग्नम् इवातिमांसलमसीवर्णायते यन् नभः पार्श्वस्था इव भान्ति हन्त ककुभो निःसन्धिरुद्धान्तराः ।विन्यस्तात्मपदप्रमाणकम् इदं भूमीतलं ज्ञायते किं चान्यत् करसंगमैकगमकः स्वाङ्गे ऽपि सम्प्रत्ययः २८.४ ॥८८८॥घनतमतिमिरघुणोत्करजग्धानाम् इव पतन्ति काष्ठानाम् ।छिद्रैर् अमीभिर् उडुभिः किरणव्याजेन चूर्णानि २८.५ ॥८८९॥नर्घराघव २.५३मुरारेःरहःसंकेतस्थो घनतमतमःपुञ्जपिहित- वृथोन्मेषं चक्षुर् मुहुर् उपदधानः पथि पथि ।सडत्काराद् अल्पाद् अपि निभृतसम्प्राप्तरमणी- भ्रमभ्राम्यद्बाहुर् दमदमिकयोत्ताम्यति युवा २८.६ ॥८९०॥नोः ॥हा कष्टं क इह क्षमः प्रतिकृतौ कस्यैतद् आवेद्यतां ग्रस्तं हन्त निशाचरैर् इव तमःस्तोभैः समस्तं जगत् ।कालः सो ऽपि किम् अस्ति यत्र भगवान् उद्गम्य शीतद्युतिर् ध्वान्तौघाद् भुवम् उद्धरिष्यति हरिः पातालगर्भाद् इव २८.७ ॥८९१॥कस्यैतद्विजयेन्द्रस्यउत्सारितो हसितदीधितिभिः कपोलाद् एकावलीभिर् अवधूत इव स्तनेभ्यः ।अङ्गेष्व् अलब्धपरिभोगसुखो ऽन्धकारो गृह्णाति केशरचनासु रुषेव नारीः २८.८ ॥८९२॥व्योम्नस् तापिच्छगुच्छावलिभिर् इव तमोवल्लरीभिर् व्रियन्ते पर्यन्ताः प्रान्तवृत्त्या पयसि वसुमती नूतने मज्जतीव ।वात्यासंवेगविष्वग्विततवलयितस्फीतधूम्याप्रकाशं प्रारम्भे ऽपि त्रियामा तरुणयति निजं नीलिमानं वनेषु २८.९ ॥८९३॥अत्युत्सार्य बहिर् विटङ्गवडभीगण्डस्थलश्यामिकां भिन्नाभिन्नगवाक्षजालविरलच्छिद्रैः प्रदीपांशवः ।आरूढस्य भरेण यौवनम् इव ध्वान्तस्य नक्तं मुखे निर्याताः कपिलाः करालविरलश्मश्रूप्ररोहा इव २८.१० ॥८९४॥भट्टगणपतेःतनुलग्ना इव ककुभः क्ष्मावलयं चरणचारमात्रम् इव ।वियद् इव चालिकदघ्नं मुष्टिग्राह्यं तमः कुरुते २८.११ ॥८९५॥उत्तंसः केकिपिच्छैर् मरकतवलयश्यामले दोःप्रकाण्डे हारः सारेन्द्रनीलैर् मृगमदरचितो वक्त्रपत्रप्रपञ्चः ।नीलाब्जैः शेखरश्रीरसितवसनता चेत्य् अभीकाभिसारे सम्प्रत्य् एणेक्षणानां तिमिरभरसखी वर्तते वेशलीला २८.१२ ॥८९६॥राजशेखरस्यैतौइत्य् अन्धकारव्रज्या ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP