संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः| प्रत्यूषव्रज्या सुभाषितरत्नकोशः सुगतव्रज्या लोकेश्वरव्रज्या मञ्जुघोषव्रज्या महेश्वरव्रज्या तद्वर्गव्रज्या हरिव्रज्या सूर्यव्रज्या वसन्तव्रज्या ग्रीष्मव्रज्या प्रावृड्व्रज्या शरद्व्रज्या हेमन्तव्रज्या शिशिरव्रज्या मदनव्रज्या वयःसन्धिव्रज्या युवतिवर्णनव्रज्या ततोऽनुरागव्रज्या दूतीवचनव्रज्या सम्भोगव्रज्या समाप्तनिधुवनचिह्नव्रज्या मानिनीव्रज्या विरहिणीव्रज्या विरहिव्रज्या सतीव्रज्या दूतिकोपालम्भव्रज्या प्रदीपव्रज्या ततोऽपराह्णव्रज्या ततोऽन्धकारव्रज्या ततश्चन्द्रव्रज्या प्रत्यूषव्रज्या मध्याह्नव्रज्या यशोव्रज्या ततोऽन्यापदेशव्रज्या वातव्रज्या जातिव्रज्या माहात्म्यव्रज्या सद्व्रज्या असद्व्रज्या दीनव्रज्या अर्थान्तरन्यासव्रज्या ततश्चाटुव्रज्या निर्वेदव्रज्या वार्धक्यव्रज्या श्मशानव्रज्या वीरव्रज्या प्रशस्तिव्रज्या पर्वतव्रज्या शान्तिव्रज्या संकीर्णव्रज्या कविस्तुतिव्रज्या सुभाषितरत्नकोशः - प्रत्यूषव्रज्या विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे. Tags : bookvidhyakarविद्याकरसंस्कृतसुभाषितरत्नकोश प्रत्यूषव्रज्या Translation - भाषांतर मध्येव्योमकटिभ्रमास् तु कितवप्राग्भारकोपक्रम- क्षिप्रक्षिप्तकपर्दमुष्टिकलनां कुर्वन्त्य् अमूस् तारकाः ।किं चायं रजनीपतिः प्रविगलल्लावण्यलक्ष्मीरितः पर्यन्तस्थितचारुवृत्तकठिनीखण्डच्छविं वाञ्छति ३०.१ ॥९५७॥क्वैमल्लस्यतमोभिः पीयन्ते गतवयसि पीयूषवपुषि ज्वलिष्यन् मार्तण्डोपलपटलधूमैर् इव दिशः ।सरोजानां कर्षन्न् अलिमयम् अयस्कान्तमणिवत् क्षणाद् अन्तःशल्यं तपति पतिर् अद्यापि न रुचाम् ३०.२ ॥९५८॥जाताः पक्वपलाण्डुपाण्डमधुरच्छायाकिरस् तारकाः प्राचीम् अङ्कुरयन्ति किंचन रुचो राजीवजीवातवः ।लूतातन्तुवितानवर्तुलम् इतो बिम्बं दधच् चुम्बति प्रातः प्रोषितरोचिर् अम्बरतलाद् अस्ताचलं चन्द्रमाः ३०.३ ॥९५९॥प्राचीविभ्रमकर्णिकाकमलिनीसंवर्तिकाः सम्प्रति द्वे तिस्रो रमणीयम् अम्बरमणेर् द्याम् उच्चरन्ते रुचः ।सूक्ष्मोच्छ्वासम् अपीदम् उत्सुकतया सम्भूय कोषाद् बहिर् निष्क्रामद्भ्रमरौघसम्भ्रमभराद् अम्भोजम् उज्जृम्भते ३०.४ ॥९६०॥एकद्विप्रभृतिक्रमेण गणनाम् एषाम् इवास्तं यतां कुर्वाणा समकोचयदृशशतान्य् अम्भोजसंवर्तिकाः ।भूयो ऽपि क्रमशः प्रसारयति ताः सम्प्रत्य् अमून् उद्यतः संख्यातुं सकुतूहलेव नलिनी भानोः सहस्रं करान् ३०.५ ॥९६१॥पीत्वा भृशं कमलकुड्मलशुक्तिकोषा दोषातनीतिमिरवृष्टिम् अथ स्फुटन्तः ।निर्यन्मधुव्रतकदम्बमिषाद् वमन्ति बिभ्रन्ति कारणगुणान् इव मौक्तिकानि ३०.६ ॥९६२॥अमी मुरारेःताराणां तगरत्विषां परिकरः संख्येयशेषः स्थितः स्पर्धन्ते ऽस्तरुचः प्रदीपकशिखाः सार्धं हरिद्राङ्कुरैः ।तत्र स्तम्भितपारदद्रवजडो जातः प्रगे चन्द्रमाः पौरस्त्यं च पुराणसीधुमधुरच्छायं नभो वर्तते ३०.७ ॥९६३॥द्वित्रैर् व्योम्नि पुराणमौक्तिकमणिच्छायैः स्थितं तारकैर् ज्योत्स्नापानभरालसेन वपुषा सुप्ताश् चकोराङ्गनाः ।यातो ऽस्ताचलचूलम् उद्वसमधुच्छत्रच्छविश् चन्द्रमाः प्राची बालबिडाललोचनरुचां याता च पात्रं ककुप् ३०.८ ॥९६४॥क्षीणान्य् एव तमांसि किं तु दधति प्रौढिं न सम्यग् दृशो वासः संवृतम् एव किं तु जहति प्राणेश्वरं नाबलाः ।पारावारगतैश् च कोकमिथुनैर् आनन्दतो गद्गदं साकूतं रुतम् एव किं तु बहलं झात्कृत्य नोड्डीयते ३०.९ ॥९६५॥झत्कृत्यसात्कृत्यपरिस्फुरत तारकाश् चरत चौरचक्राण्य् अलं प्रसर्पत तमांसि रे समय एष युष्मादृशाम् ।न यावद् उदयाचलोद्धतरजाः समाक्रामति प्रभापटलपाटलीकृतनभो.अन्तरालो रविः ३०.१० ॥९६६॥प्रातः कोपविलोहितेन रविणा ध्वस्तं तमः सर्वतो भृङ्गाः पद्मपुटेषु वर्णसदृशास् तस्येति कृष्टाः करैः ।हा कष्टं तिमिरत्विषो वयम् अपि व्यक्तं हता इत्य् अमी काकाः सम्प्रति घोषयन्ति सभयाः काकेति नाम्नात्मनः ३०.११ ॥९६७॥शक्यार्चनः सुचिरम् ईक्ष्णपङ्कजेन काश्मीरपिण्डपरिपाटलमण्डलश्रीः ।ध्वान्तं हरन्न् अमरनायकपालितायां देवो ऽभ्युदेति दिशि वासरबीजकोषः ३०.१२ ॥९६८॥विष्णुहरेःकुन्तल इवावशिष्टः स्मरस्य चन्दनसरोनिमग्नस्य ।प्रतिभाति यत्र हरिणः स हरिणलक्ष्मा गतो ऽस्तमयम् ३०.१३ ॥९६९॥दक्षस्यपत्यौ याते कलानां व्यति गतिवशाद् अस्तम् इन्दौ क्रमेण क्रन्दन्ती पत्रिनादैर् विगलिततिमिरस् तोमधम्मिल्लभारा ।प्रभ्रंशिस्थूलमुक्ताफलनिकरपरिस्पर्धिताराश्रुबिन्दुः प्रोन्मीलत्पूर्वसंध्याहुतभुजि रजनी पश्य देहं जुहोति ३०.१४ ॥९७०॥सो ऽहं सुदूरम् अगमं द्विजराजरूढिं गाढप्रसक्तिर् अभवं बत वारुणीतः ।इत्य् आकलय्य नियतं शशभृत् समस्तम् अस्ताद् ददौ झगिति झम्पमयं पयोधौ ३०.१५ ॥९७१॥नरसिंहस्यस्तोकस्तोकम् अभूमिर् अम्बरतले ताराभिर् अस्तं गतं गच्छन्त्य् अस्तगिरेः शिरस् तदनु च च्छायादरिद्रः शशी ।प्रत्यासन्नतरोदयस्थतरणेर् बिम्बारुणिम्ना ततो मञ्जिष्ठारसलोहिनी दिग् अपि च प्राची समुन्मीलति ३०.१६ ॥९७२॥लक्ष्मीधरस्यमुषितमुषितालोकास् तारातुषारकणत्विषः सवितुर् अपि च प्राचीमूले मिलन्ति मरीचयः ।श्रयति शिथिलच्छायाभोगस् तटीम् अपराम्बुधेर् जठरलवलीलावण्याच्छच्छविर् मृगलाञ्छनः ३०.१७ ॥९७३॥शर्वस्यव्रजत्य् अपरवारिधिं रजतपिण्डपाण्डुः शशी नमन्ति जलबुद्बुधद्युतिसपङ्क्तयस् तारकाः ।कुरुण्टकविपाण्डुरं दधति धाम दीपाङ्कुराश् चकोरनयनारुणा भवति दिक् च सौत्रामणी ३०.१८ ॥९७४॥राजशेखरस्यलब्ध्वा बोधं दिवसकरिणः कीर्णनक्षत्रमालं दीर्घाद् अस्माद् गगनशयनाद् उज्जिहानस्य दर्पात् ।सज्जद्दानोदकतनुमलो जर्जराभीषुरज्जुर् भ्रश्यत्य् एष प्रशिथिल इव श्रोत्रशङ्खः शशाङ्कः ३०.१९ ॥९७५॥तनुतुनतेजोराशौ भुवनजलधेः प्लाविताशातटान्तं भानौ कुम्भोद्भव इव पिबत्य् अन्धकारोत्कराम्भः ।सद्यो माद्यन्मकरकमठस्थूलमत्स्या इवैते यान्त्य् अन्तस्थाः कुलशिखरिणो व्यक्तिवर्त्मक्रमेण ३०.२० ॥९७६॥आमुद्रन्तस् तम इव सरःसीम्नि सम्भूय पङ्कं तारासार्थैर् इव पतिशुचा फेनकैः श्लिष्टपादाः ।भ्रान्त्यादष्टस्फुटबिसलताचुञ्चुभिश् चञ्चुचक्रैश् चक्रा बन्दीकृतविरहकृच्चन्द्रलेखा इवैते ३०.२१ ॥९७७॥भट्टशिवस्वामिनःकृतपादनिगूहनो ऽवसीदन्न् अधिकश्यामकलङ्कपङ्कलेखः ।गगनोदधिपशिमान्तलग्नो विधुर् उत्तान इवास्ति कूर्मराजः ३०.२२ ॥९७८॥शतानन्दस्यअयम् उदयति मुद्राभञ्जनः पद्मिनीनाम् उदयगिरिवनालीबालमन्दारपुष्पम् ।विरहविधुरकोकद्वन्द्वबन्धुर् विभिन्दन् कुपितकपिकपोलक्रोधताम्रस् तमांसि ३०.२३ ॥९७९॥योगेश्वरस्यरथ्याकार्पटिकैः पटच्चरशतस्यूतोरुकन्थाबल- प्रत्यादिष्टहिमागमार्तिविशदप्रस्निग्धकण्ठोदरैः ।गीयन्ते नगरेषु नागरजनप्रत्यूषनिद्रानुदो राधामाधवयोः परस्पररहःप्रस्तावनागीतयः ३०.२४ ॥९८०॥डिम्बोकस्यइति प्रत्यूषव्रज्या ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP