संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः| सद्व्रज्या सुभाषितरत्नकोशः सुगतव्रज्या लोकेश्वरव्रज्या मञ्जुघोषव्रज्या महेश्वरव्रज्या तद्वर्गव्रज्या हरिव्रज्या सूर्यव्रज्या वसन्तव्रज्या ग्रीष्मव्रज्या प्रावृड्व्रज्या शरद्व्रज्या हेमन्तव्रज्या शिशिरव्रज्या मदनव्रज्या वयःसन्धिव्रज्या युवतिवर्णनव्रज्या ततोऽनुरागव्रज्या दूतीवचनव्रज्या सम्भोगव्रज्या समाप्तनिधुवनचिह्नव्रज्या मानिनीव्रज्या विरहिणीव्रज्या विरहिव्रज्या सतीव्रज्या दूतिकोपालम्भव्रज्या प्रदीपव्रज्या ततोऽपराह्णव्रज्या ततोऽन्धकारव्रज्या ततश्चन्द्रव्रज्या प्रत्यूषव्रज्या मध्याह्नव्रज्या यशोव्रज्या ततोऽन्यापदेशव्रज्या वातव्रज्या जातिव्रज्या माहात्म्यव्रज्या सद्व्रज्या असद्व्रज्या दीनव्रज्या अर्थान्तरन्यासव्रज्या ततश्चाटुव्रज्या निर्वेदव्रज्या वार्धक्यव्रज्या श्मशानव्रज्या वीरव्रज्या प्रशस्तिव्रज्या पर्वतव्रज्या शान्तिव्रज्या संकीर्णव्रज्या कविस्तुतिव्रज्या सुभाषितरत्नकोशः - सद्व्रज्या विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे. Tags : bookvidhyakarविद्याकरसंस्कृतसुभाषितरत्नकोश सद्व्रज्या Translation - भाषांतर असन्तो नाभ्यर्थ्याः सुहृद् अपि न याच्यस् तनुधनः प्रिया वृत्तिर् न्याय्या चरितम् असुभङ्गे ऽप्य् अमलिनम् ।विपद्य् उच्चैः स्थेयं पदम् अनुविधेयं च महतां सतां केनोद्दिष्टं विषमम् असिधाराव्रतम् इदम् ३७.१ ॥१२१३॥धर्मकीर्तेःप्रियप्राया वृत्तिर् विनयमधुरो वाचि नियमः प्रकृत्या कल्याणी मतिर् अनवगीतः परिचयः ।पुरो वा पश्चाद् वा तद् इदम् अविपर्यासितरसं रहस्यं साधूनाम् अनुपदि विशुद्धं विजयते ३७.२ ॥१२१४॥निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः परापततु गच्छतु वा यथेष्टम् ।अद्यैव वा मरणम् अस्तु युगान्तरे वा न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ३७.३ ॥१२१५॥भर्तृहरेःनिर्मलानां कुतो रन्ध्रं कथंचिद् अपविध्यते ।विधीयते गुणैर् एव तच् च मुक्तामणेर् इव ३७.४ ॥१२१६॥त्र्यम्बकस्ययदा किंचिज्ज्ञो ऽहं गज इव मदान्धः समभवं तदा सर्वज्ञो ऽस्मीत्य् अभवद् अवलिप्तं मम मनः ।यदा किंचित् किंचिद् बुधजनसकाशाद् अधिगतं तदा मूर्खो ऽस्मीति ज्वर इव मदो मे व्यपगतः ३७.५ ॥१२१७॥कालिदासस्यअनुहरतः खलसुजनाव् अग्रिमपाश्चात्यभागयोः सूच्योः ।एकः कुरुते च्छिद्रं गुणवान् अन्यः प्रपूरयति ३७.६ ॥१२१८॥गोभट्टस्यपुण्ड्रेक्षुकाण्डसुहृदो मधुराम्बुभावाः सन्तः स्वयं यदि नमन्ति नमन्ति कामम् ।आन्दोलितास् तु नमनस्पृहया परेण भज्यन्त एव शतधा न पुनर् नमन्ति ३७.७ ॥१२१९॥जतुपङ्कायते दोषः प्रविश्यैवासतां हृदि ।सतां तु न विशत्य् एव यदि वा पारदायते ३७.८ ॥१२२०॥कुसुमस्तबकस्येव द्वयी वृत्तिर् मनस्विनः ।सर्वलोकस्य वा मूर्ध्नि शीर्यते वन एव वा ३७.९ ॥१२२१॥व्यासस्यराजा त्वं वयम् अप्य् उपासितगुरुप्रज्ञाभिमानोन्नताः ख्यातस् त्वं विभवैर् यशांसि कवयो दिक्षु प्रतन्वन्ति नः ।इत्थं मानद नातिदूरम् उभयोर् अप्य् आवयोर् अन्तरं यद्य् अस्मासु पराङ्मुखो ऽसि वयम् अप्य् एकान्ततो निःस्पृहाः ३७.१० ॥१२२२॥भर्तृहरेःउदन्वच्छिन्ना भूः स च निधिर् अपां योजनशतं सदा पान्थः पूषा गगनपरिमाणं कलयति ।इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः सतां प्रज्ञोन्मेषः पुनर् अयम् असीमा विजयते ३७.११ ॥१२२३॥राजशेखरस्यसत्पक्षा ऋजवः शुद्धाः सफला गुणसेविनः ।तुल्यैर् अपि गुणैश् चित्रं सन्तः सन्तः शराः शराः ३७.१२ ॥१२२४॥विपदि धैर्यम् अथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः ।यशसि चाभिरतिर् व्यसनं श्रुतौ प्रकृतिसिद्धम् इदं हि महात्मनाम् ३७.१३ ॥१२२५॥स साधुर् यो विपन्नानां साहाय्यम् अधिगच्छति ।न तु दुर्विहितातीत- वस्तुपालनपण्डितः ३७.१४ ॥१२२६॥सत्यं गुणा गुणवतां विधिवैपरीत्याद् यत्नार्जिता अपि कलौ विफला भवन्ति ।साफल्यम् अस्ति सुतराम् इदम् एव तेषां यत् तापयन्ति हृदयानि पुनः खलानाम् ३७.१५ ॥१२२७॥अपूर्वः को ऽपि कोपाग्निः सज्जनस्य खलस्य च ।एकस्य शाम्यति स्नेहाद् वर्धते ऽन्यस्य वारितः ३७.१६ ॥१२२८॥छायां कुर्वन्ति चान्यस्य तापं तिष्ठन्ति वातपे ।फलन्ति च परार्थाय पादपा इव सज्जनाः ३७.१७ ॥१२२९॥अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् ।सदा लोकहिते सक्ता रत्नदीपा इवोत्तमाः ३७.१८ ॥१२३०॥लक्ष्मीं तृणाय मन्त्यन्ते तद्भरेण नमन्ति च ।अहो किम् अपि चित्राणि चरित्राणि महात्मनाम् ३७.१९ ॥१२३१॥अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयम् ।अहो सुमनसां वृत्तिर् वामदक्षिणयोः समा ३७.२० ॥१२३२॥परगुणतत्त्वग्रहणं स्वगुणावरणं परव्यसनमौनम् ।मधुरम् अशठं च वाक्यं केनाप्य् उपदिष्टम् आर्याणाम् ३७.२१ ॥१२३३॥विचिन्त्यमानो हि करोति विस्मयं विसारिणा सच्चरितेन सज्जनः ।यदा तु चक्षुःपथम् एति देहिनां तदामृतेनेव मनांसि सिञ्चति ३७.२२ ॥१२३४॥सम्पर्केण तमोभिदां जगदघप्रध्वंसिनां धीमतां क्रूरो ऽपि प्रकृतं विहाय मलिनाम् आलम्बते भद्रताम् ।यत् तृष्णाग्लपितो ऽपि नेच्छति जनः पातुं तद् एव क्षणाद् उज्झत्य् अम्बुधरोदरस्थितम् अपांपत्युः पयः क्षारताम् ३७.२३ ॥१२३५॥क्वाकराणारुषां संख्या संख्याताः कारणक्रुधः ।कारणे ऽपि न कुप्यन्ति ये ते जगति पञ्चषाः ३७.२४ ॥१२३६॥सुजनाः परुषाभिधायिनो यदि कः स्याद् अपरो ऽपि मञ्जुवाक् ।यदि चन्द्रकराः सवह्नयो ननु जायेत सुधा कृतो ऽन्यतः ३७.२५ ॥१२३७॥मङ्गलस्य ॥ये दीनेषु कृपालवः स्पृशति यान् अल्पो ऽपि न श्रीमदः श्रान्ता ये च परोपकारकरणे हृष्यन्ति ये याचिताः ।स्वस्थाः सत्य् अपि यौवनोदयमहाव्याधिप्रकोपे ऽपि ये ते भूमण्डलमण्डनैकतिलकाः सन्तः कियन्तो जनाः ३७.२६ ॥१२३८॥यशो रक्षन्ति न प्राणान् पापाद् बिभति न द्विषः ।अन्विष्यन्त्य् अर्थिनो नार्थान् निसर्गो ऽयं महात्मनाम् ३७.२७ ॥१२३९॥यथा यथा परां कोटिर् गुणः समधिरोहति ।सन्तः कोदण्डधर्माणो विरमन्ति तथा तथा ३७.२८ ॥१२४०॥अयं निजः परो वेति गणना लघुचेतसाम् ।उदारचरितानां तु वसुधैव कुटुम्बकम् ३७.२९ ॥१२४१॥ये प्राप्ते व्यसने ऽप्य् अनाकुलधियः सम्पत्सु नैवोन्नताः प्राप्ते नैव पराङ्मुखाः प्रणयिनि प्राणोपयोगैर् अपि ।ह्रीमन्तः स्वगुणप्रशंसनविधाव् अन्यस्तुतौ पण्डिता धिग् धात्रा कृपणेन येन न कृताः कल्पान्तदीर्घायुषः ३७.३० ॥१२४२॥करे श्लाघ्यस् त्यागः शिरसि गुरुपादप्रणयिता मुखे सत्या वाणी श्रुतम् अनवगीतं श्रवणयोः ।हृदि स्वच्छा वृत्तिर् विजयिभुजयोर् वीर्यम् अतुलं विनाप्य् ऐश्वर्येण स्फुरति महतां मण्डनम् इदम् ३७.३१ ॥१२४३॥वज्राद् अपि कठोराणि मृदूनि कुसुमाद् अपि ।लोकोत्तराणां चेतांसि को हि विज्ञातुम् अर्हति ३७.३२ ॥१२४४॥चेःआ परितोषाद् विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।बलवद् अपि शिक्षितानाम् आत्मन्य् अप्रत्ययं चेतः ३७.३३ ॥१२४५॥पुराणम् इत्य् एव न साधु सर्वं न चापि काव्यं नवम् इत्य् अवद्यम् ।सन्तः परीक्ष्यान्यतरद् भजन्ते मूढः परप्रत्ययहार्यबुद्धिः ३७.३४ ॥१२४६॥कालिदासस्यैतौगुह्यपिधानैकपरः सुजनो वस्त्रायते सदा पिशुनम् ।भवताम् अयं विडम्बो यद् इदं छिद्रैर् विसूत्रयतु ३७.३५ ॥१२४७॥ब्रूत नूतनकूष्माण्ड- फलानां के भवन्त्य् अमी ।अङ्गुलीकथनाद् एव यन् न जीवन्ति मानिनः ३७.३६ ॥१२४८॥यन् नेत्रैस् त्रिभिर् ईक्षते न गिरिशो नाष्टाभिर् अप्य् अब्जभूः स्कन्दो द्वादशभिर् न वा न मघवा चक्षुःसहस्रेण वा ।सम्भूयापि जगत्त्रयस्य नयनैर् द्रष्टुं न तच् छक्यते प्रत्यादिश्य दृशौ समाहितधियः पश्यन्ति यत् पण्डिताः ३७.३७ ॥१२४९॥नीरसान्य् अपि रोचन्ते कर्पासस्य फलानि नः ।येषां गुणमयं जन्म परेषां गुह्यगुप्तये ३७.३८ ॥१२५०॥गुणवत्पात्र मात्रैक- हार्यनिर्यासम् आशयन् ।आत्मनावैति ते लोकः स्वबन्धुर् इति धावति ३७.३९ ॥१२५१॥सततम् असत्याद् बिभ्यति मा भैषीर् इति वदन्ति भीतेषु ।अतिथिजनशेषम् अश्नति सज्जनजिह्वे कृताथासि ३७.४० ॥१२५२॥यद्य् अपि दैवात् स्नेहो नश्यति साधोस् तथापि सत्त्वेषु ।घण्टाध्वनेर् इवान्तश् चिरम् अनुबध्नाति संस्कारः ३७.४१ ॥१२५३॥रविगुप्तस्यइति सद्व्रज्या ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP