संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः| शान्तिव्रज्या सुभाषितरत्नकोशः सुगतव्रज्या लोकेश्वरव्रज्या मञ्जुघोषव्रज्या महेश्वरव्रज्या तद्वर्गव्रज्या हरिव्रज्या सूर्यव्रज्या वसन्तव्रज्या ग्रीष्मव्रज्या प्रावृड्व्रज्या शरद्व्रज्या हेमन्तव्रज्या शिशिरव्रज्या मदनव्रज्या वयःसन्धिव्रज्या युवतिवर्णनव्रज्या ततोऽनुरागव्रज्या दूतीवचनव्रज्या सम्भोगव्रज्या समाप्तनिधुवनचिह्नव्रज्या मानिनीव्रज्या विरहिणीव्रज्या विरहिव्रज्या सतीव्रज्या दूतिकोपालम्भव्रज्या प्रदीपव्रज्या ततोऽपराह्णव्रज्या ततोऽन्धकारव्रज्या ततश्चन्द्रव्रज्या प्रत्यूषव्रज्या मध्याह्नव्रज्या यशोव्रज्या ततोऽन्यापदेशव्रज्या वातव्रज्या जातिव्रज्या माहात्म्यव्रज्या सद्व्रज्या असद्व्रज्या दीनव्रज्या अर्थान्तरन्यासव्रज्या ततश्चाटुव्रज्या निर्वेदव्रज्या वार्धक्यव्रज्या श्मशानव्रज्या वीरव्रज्या प्रशस्तिव्रज्या पर्वतव्रज्या शान्तिव्रज्या संकीर्णव्रज्या कविस्तुतिव्रज्या सुभाषितरत्नकोशः - शान्तिव्रज्या विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे. Tags : bookvidhyakarविद्याकरसंस्कृतसुभाषितरत्नकोश शान्तिव्रज्या Translation - भाषांतर यद् एतत् स्वच्छन्दं विरहणम् अकार्पण्यम् अशनं सहार्यैः संवासः श्रुतम् उपशमैकश्रमफलम् ।मनो मन्दस्पन्दं विहरति चिरायाभिविमृशन् न जाने कस्यैषा परिणतिर् उदारस्य तपसः ४८.१ ॥१५९४॥हरिणचरणक्षुण्णोपान्ताः सशाद्वलनिर्झराः कुसुमशबलैर् विष्वग्वातैस् तरङ्गितपादपाः ।मुदितविहगश्रेणीचित्रध्वनिप्रतिनादिता मनसि न मुदं कस्यादध्युः शिवा वनभूमयः ४८.२ ॥१५९५॥गुणाकरभद्रस्यपूरयित्वार्थिनाम् आशां प्रियं कृत्वा द्विषाम् अपि ।पारं गत्वा श्रुतौघस्य धन्या वनम् उपासते ४८.३ ॥१५९६॥ते तीक्ष्णदुर्जननिकारशरैर् न भिन्ना धीरास् त एव शमसौख्यभुजस् त एव ।सीमन्तिनीविषलतागहनं व्युदस्य ये ऽवस्थिताः शमफलेषु तपोवनेषु ४८.४ ॥१५९७॥वासो वल्कलम् आस्तरः किसलयान्य् ओकस् तरूणां तलं मूलानि क्षतये क्षुधां गिरिनदीतोयं तृषां शान्तये ।क्रीडा मुग्धमृगैर् वयांसि सुहृदो नक्तं प्रदीपः शशी स्वाधीने ऽपि वने तथापि कृपणा याचन्त इत्य् अद्भुतम् ४८.५ ॥१५९८॥गतः कालो यत्र प्रियसखि मयि प्रेमकुटिलः कटाक्षः कालिन्दीलघुलहरिवृत्तिः प्रभवति ।इदानीम् अस्माकं जठरकमठीपृष्ठकठिना मनोवृत्तिस् तत् किं व्यसनिनि मुधैव क्षपयसि ४८.६ ॥१५९९॥मातर् जरे मरणम् अन्तिकम् आनयन्त्याप्य् अन्तस् त्वया वयम् अमी परितोषिताः स्मः ।नानासुखव्यसनभङ्गुरपर्वपूर्वं धिग् यौवनं यद् अपनीय तवावतारः ४८.७ ॥१६००॥एकं वा कुपितप्रियाप्रणयिनीं कृत्वा मनोनिर्वृतिं तिष्ठामो निजचारुपीवरकुचक्रीडारसास्वादने ।अन्यद् वा सुरसिन्धुसैकततटीदर्भाष्टकस्रस्तर- स्थाने ब्रह्मपदं समाहितधियो ध्यायन्त एवास्महे ४८.८ ॥१६०१॥ज्ञानानन्तस्ययद् वक्त्रं मुहुर् ईक्षसे न धनिनां ब्रूषे न चाटुं मृषा नैषां गर्वगिरः शृणोषि न पुनः प्रत्याशया धावसि ।काले बालतृणानि खादसि सुखं निद्रासि निद्रागमे तन् मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तप्तं तपः ४८.९ ॥१६०२॥क्वचिद् वीणागोष्ठी क्वचिद् अमृतकीर्णाः कविगिरः क्वचिद् व्याधिक्लेशः क्वचिद् अपि वियोगश् च सुहृदाम् ।इति ध्यात्वा हृष्यन् क्षणम् अथ विघूर्णन् क्षणम् अहो न जाने संसारः किम् अमृतमयः किं विषमयः ४८.१० ॥१६०३॥आत्मज्ञानविवेकनिर्मलधियः कुर्वन्त्य् अहो दुष्करं यन् मुञ्चन्त्य् उपभोगभाञ्ज्य् अपि धनान्य् एकान्ततो निःस्पृहाः ।न प्राप्तानि पुरा न सम्प्रति न च प्राप्तौ दृढप्रत्ययो वाञ्छामात्रपरिग्रहाण्य् अपि वयं त्यक्तुं न तानि क्षमाः ४८.११ ॥१६०४॥अग्रे गीतं सरसकवयः पार्श्वयोर् दाक्षिणात्याः पश्चाल् लीलावलयरणितं चामरग्राहिणीनाम् ।यद्य् एतत् स्यात् कुरु भवरसे लम्पटत्वं तदानीं नो चेच् चेतः प्रविश परमब्रह्मणि प्रार्थनैषा ४८.१२ ॥१६०५॥उत्पलराजस्यआस्तां सकण्टकम् इदं वसुधाधिपत्यं त्रैलोक्यराज्यम् अपि देव तृष्णाय मन्ये ।निःशङ्कसुप्तहरिणीकुलसंकुलासु चेतः परं वलति शैलवनस्थलीषु ४८.१३ ॥१६०६॥ददति तावद् अमी विषयाः सुखं स्फुरति यावद् इयं हृदि मूढता ।मनसि तत्त्वविदां तु विवेचके क्व विषयाः क्व सुखं क्व परिग्रहः ४८.१४ ॥१६०७॥सत्यं मनोहरा रामाः सत्यं रम्या विभूतयः ।किं तु मत्ताङ्गनापाङ्ग- भङ्गिलोकं हि जीवितम् ४८.१५ ॥१६०८॥धिग् धिक् तान् क्रिमिनिर्विशेषवपुषः स्फूर्जन्महासिद्धयो निष्कन्दीकृतशान्ति ये ऽपि च तपःकारागृहेष्व् आसते ।तं विद्वांसम् इह स्तुमः करपुटीभिक्षाल्पशाके ऽपि वा मुग्धावक्त्रमृणालिनीमधुनि वा यस्याविशेषो रसः ४८.१६ ॥१६०९॥बीभत्सा विषया जुगुप्सिततमः कायो वयो गत्वरं प्रायो बन्धुभिर् अध्वनीव पथिकैः सङ्गो वियोगावहः ।हातव्यायम् असंस्तवाय विसरः संसार इत्यादिकं सर्वस्यैव हि वाचि चेतसि पुनः पुण्यात्मनः कस्यचित् ४८.१७ ॥१६१०॥भर्तृहरेःयदासीद् अज्ञानं स्मरतिमिरसंस्कारजनितं तदा दृष्टं नारीमयम् इदम् अशेषं जगद् अपि ।इदानीं त्व् अस्माकं पटुतरविवेकाञ्जनजुषां समीभूता दृष्टिस् त्रिभुवनम् अपि ब्रह्म मनुते ४८.१८ ॥१६११॥मातर् लक्ष्मि भजस्व कंचिद् अपरं मत्काङ्क्षिणी मा स्म भूर् भोगेभ्यः स्पृहयालवस् तव वशाः का निःस्पृहाणाम् असि ।सद्यःस्यूतपलाशपत्रपुटिकापात्रीपवित्रीकृतैर् भिक्षासक्तुभिर् एव सम्प्रति वयं वृत्तिं समीहामहे ४८.१९ ॥१६१२॥धर्मस्योत्सववैजयन्ति मुकुटस्रग्वेणि गौरीपतेस् त्वां रत्नाकरपत्नि जह्नुतनये भागीरथि प्रार्थये ।त्वत्तोयान्तशिलानिषण्णवपुषस् त्वद्वीचिभिः प्रेङ्खतस् त्वन्नाम स्मरतस् त्वदर्पितदृशः प्राणाः प्रयसयन्ति मे ४८.२० ॥१६१३॥वाक्कूटस्यतडिन्मालालोलं प्रतिविरतिदत्तान्धतमसं भवत्सौख्यं हित्वा शमसुखम् उपादेयम् अनघम् ।इति व्यक्तोद्गारं चटुलवचसः शून्यमनसो वयं वीतव्रीडाः शुक इव पठामः परम् अमी ४८.२१ ॥१६१४॥विषयसरितस् तीर्णाः कामं रुजो ऽप्य् अवधीरिता विषयविरहग्लानिः शान्ता गता मलिनाथ धीः ।इति चिरसुखप्राप्तः किंचिन्निमीलितलोचनो व्रजति नितरां तुष्टिं पुष्टः श्मशानगतः शवः ४८.२२ ॥१६१५॥कामं शीर्णपलाशसंहतिकृतां कन्थां वसानो वने कुर्याम् अम्बुभिर् अप्य् अयाचितसुखैः प्राणावबन्धस्थितिम् ।साङ्गग्लानि सवेपितं सचकितं सान्तर्निदाघज्वरं वक्तुं न त्व् अहम् उत्सहेय कृपणं देहीत्य् अवद्यं वचः ४८.२३ ॥१६१६॥अवश्यं यातरश् चिरतरम् उषित्वापि विषया वियोगे को भेदस् त्यजति न जनो यत् स्वयम् इमान् ।व्रजन्तः स्वातन्त्र्यात् परमपरितापाय मनसः स्वयं त्यक्त्वा ह्य् एते शमसुखम् अनन्तं विदधति ४८.२४ ॥१६१७॥भाग्यं नः क्व नु तादृग् अल्पतपसां येनाटवीमण्डनाः स्यामः क्षोणिरुहो दहत्य् अविरतं यान् एव दावानलः ।येषां धूमसमूहबद्धवपुषः सिन्धोर् अमी बन्धवो निर्व्याजं परिपालयन्ति जगतीरम्भोभिर् अम्भोमुचः ४८.२५ ॥१६१८॥एतत् तद् वक्त्रम् अत्र क्व तद् अधरमधु क्वायातास् ते कटाक्षाः क्वालापाः कोमलास् ते क्व स मदनधनुर्भङ्गुरो भ्रूविलासः ।इत्थं खट्वाङ्गकोटौ प्रकटितदशनं मञ्जुगुञ्जत्समीरं रागान्धानाम् इवोच्चैर् उपहसितम् अहो मोहजालं कपालम् ४८.२६ ॥१६१९॥इत्थं बाला मां प्रत्य् अनवरतम् इन्दीवरदल- प्रभाचौरं चक्षुः क्षिपति किम् अभिप्रेतम् अनया ।गतो मोहो ऽस्माकं स्मरसमरबाणव्यतिकर- ज्वरज्वाला शान्ता तद् अपि न वराकी विरमति ४८.२७ ॥१६२०॥शिशुत्वं तारुण्यं तदनु च दधानाः परिणतिं गताः पांशुक्रीडां विषयपरिपाटीम् उपशमम् ।लसन्तो ऽङ्के मातुः कुवलयदृशां पुण्यसरितां पिबन्ति स्वच्छन्दं स्तनम् अधरम् अम्भः सुकृतिनः ४८.२८ ॥१६२१॥वहति निकटे कालस्रोतः समस्तभयावहं दिवसरजनीकुलच्छेदैः पतद्भिर् अनारतम् ।इह हि पततां नास्त्य् आलम्बो न वापि निवर्तनं तद् अपि महतां को ऽयं मोहो यद् एवम् अनाकुलाः ४८.२९ ॥१६२२॥भार्या मे पुत्रो मे द्रव्यं सकलं च बन्धुवर्गो मे ।इति मे मे कुर्वन्तं पशुम् इव बद्ध्वा नयति कालः ४८.३० ॥१६२३॥दिशो वासः पात्रं करकुहरम् एणाः प्रणयिनः समाधानं निद्रा शयनम् अवनी मूलम् अशनम् ।कदैतत् सम्पूर्णं मम हृदयवृत्तेर् अभिमतं भविष्यत्य् अत्युग्रं परमपरितोषोपचितये ४८.३१ ॥१६२४॥शरदम्बुधरच्छाया- गत्वर्यो यौवनश्रियः ।आपातरम्या विषयाः पर्यन्तपरितापिनः ४८.३२ ॥१६२५॥कुरङ्गाः कल्याणं प्रतिविटपम् आरोग्यम् अटवि स्रवन्ति क्षेमं ते पुलिन कुशलं भद्रम् उपलाः ।निशान्ताद् अस्वन्तात् कथम् अपि विनिष्क्रान्तमधुना मनो ऽस्माकं दीर्घाम् अभिलषति युष्मत्परिचितिम् ४८.३३ ॥१६२६॥मन्निन्दया यदि जनः परितोषम् एति नन्व् अप्रयत्नजनितो ऽयम् अनुग्रहो मे ।श्रेयार्थिनो हि पुरुषाः परतुष्टिहेतोर् दुःखार्जितान्य् अपि धनानि परित्यजन्ति ४८.३४ ॥१६२७॥क्रिमुकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं निरुपमरसप्रीत्या खादन् नरास्थि निरामिषम् ।सुरपतिम् अपि श्वा पार्श्वस्थं सशङ्कितम् ईक्षते गणयति न हि क्षुद्रो लोकः परिग्रहफल्गुताम् ४८.३५ ॥१६२८॥विवेकः किं सो ऽपि स्वरसवलिता यत्र न कृपा स किं मार्गो यस्मिन् न भवति परानुग्रहरसः ।स किं धर्मो यत्र स्फुरति न परद्रोहविरतिः श्रुतं किं तद् वा स्याद् उपशमपदं यन् न नयति ४८.३६ ॥१६२९॥गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।किं तैर् भाव्यं मम सुदिवसैर् यत्र ते निर्विशङ्काः सम्प्राप्स्यन्ते जरठहरिणाः शृङ्गकण्डूविनोदम् ४८.३७ ॥१६३०॥प्रेम्णा पुरा परिगृहीतम् इदं कुटुम्बं चेल् लालितं तदनु पालितम् अद्य यावत् ।सम्प्रत्य् अपि स्तिमितवस्त्रम् इवाङ्गलग्नम् एतज् जिहासुर् अपि हातुम् अनीश्वरो ऽस्मि ४८.३८ ॥१६३१॥क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः सोढा दुःसहशीतवाततपनक्लेशा न तप्तं तपः ।ध्यातं वित्तम् अहर्निशं न च पुनस् तत्त्वान्तरं शाश्वतं तत् तत् कर्म कृतं यद् एव मुनिभिस् तैस् तैः फलैर् वञ्चितम् ४८.३९ ॥१६३२॥भिक्षाशनं भवनम् आयतनैकदेशः शय्या भुवः परिजनो निजदेहभारः ।वासश् च कीर्णपटखण्डनिबद्धकन्था हा हा तथापि विषयान् न जहाति चेतः ४८.४० ॥१६३३॥रेतःशोणितयोर् इयं परिणतिर् यद् वर्ष्म तच् चाभवन् मृत्योर् आमिषम् आस्पदं गुरुशुचां रोगस्य विश्रामभूः ।जानन्न् अप्य् अवशी विवेकविरहान् मज्जन्न् अविद्याम्बुधौ शृङ्गारीयति पुत्रकाम्यति बत क्षेत्रीयति स्त्रीयति ४८.४१ ॥१६३४॥यदा पूर्वं नासीद् उपरि च यदा नैव भविता तदा मध्यावस्थातनुपरिचयो भूतनिचयः ।अतः संयोगे ऽस्मिन् परवति वियोगे च सहजे किमाधारः प्रेमा किमधिकरणाः सन्तु च शुचः ४८.४२ ॥१६३५॥भर्तृहरेःगोमायवः शकुनयश् च शुनां गणो ऽयं लुम्पन्ति कीटकृमयः परितस् तथैव ।स्वां सम्पदं सकलसत्त्वकृतोपकारान् नो दृष्टवान् यद् असि तच् छव वञ्चितो ऽसि ४८.४३ ॥१६३६॥केशटस्यधूर्तैर् इन्द्रियनामभिः प्रणयिताम् आपादयद्भिः स्वयं सम्भोक्तुं विषयानयं किल पुमान् सौख्याशया वञ्चितः ।तैः शेषे कृतकृत्यताम् उपगतैर् औदास्यम् आलम्बितं सम्प्रत्य् एष विधेर् नियोगवशगः कर्मान्तरैर् बध्यते ४८.४४ ॥१६३७॥दशरथस्यइति शान्तिव्रज्या N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP