संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः|
ततश्चन्द्रव्रज्या

सुभाषितरत्नकोशः - ततश्चन्द्रव्रज्या

विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.


शृङ्गारे सूत्रधारः कुसुमशरमुनेर् आश्रमे ब्रह्मचारी नारीणाम् आदिदेवस् त्रिभुवनमहितो रागराज्ये पुरोधाः ।
ज्योत्स्नासत्रं दधानः पुरमथनजटाजूटकोटीशयालुर् देवः क्षीरोदजन्मा जयति कुमुदिनीकामुकः श्वेतभानुः २९.१ ॥८९७॥
वसुकल्पस्य

शशधरः कुमुदाकरबान्धवः कमलषण्डनिमीलनपण्डितः ।
अयम् उदेति करेण दिगङ्गनाः परिमृषन्न् इव कुङ्कुमकान्तिना २९.२ ॥८९८॥
राजश्रियः

लोकाः शोकं त्यजत न चिरस्थायिनी ध्वान्तवृत्तिर् भद्रे यायाः कुमुदिनि मुदं मुञ्च मोहं चकोर ।
स्वच्छज्योत्स्नामृतरसनदीस्रोतसाम् एकशैलः सो ऽयं श्रीमान् उदयति शशी विश्वसामान्यदीपः २९.३ ॥८९९॥
एतौ राजश्रियः

कर्पूरैः किम् अपूरि किं मलयजैर् आलेपि किं पारदैर् अक्षालि स्फटिकोपलैः किम् अघटि द्यावापृथिव्योर् वपुः ।
एतत् तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ दिक्कान्तामुकुरे चकोरसुहृदि प्रौढे तुषारत्विषु २९.४ ॥९००॥

कलाधारो वक्रः स्फुरदधररागो नवतनुर् गलन्मानावेशास् तरुणरमणीर् नागर इव ।
घनश्रोणीबिम्बे नयनमुकुले चाधरदले कपोले ग्रीवायां कुचकलशयोश् चुम्बति शशी २९.५ ॥९०१॥
श्रीकण्ठस्य

सम्बन्धी रघुभूभुजां मनसिजव्यापारदीक्षागुरुर् गौराङ्गीवदनोपमापरिचितस् तारावधूवल्लभः ।
चन्द्रः सुन्दरि दृश्यताम् अयम् इतश् चण्डीशचूडामणिः सद्योमार्जितदाक्षिणात्ययुवतीदन्तावदातद्युतिः २९.६ ॥९०२॥

लेखाम् अनङ्गपुरतोरणकान्तिभाजम् इन्दोर् विलोकय तनूदरि नूतनस्य ।
देशान्तरप्रणयिनोर् अपि यत्र यूनोर् नूनं मिथः सखि मिलन्ति विलोकितानि २९.७ ॥९०३॥
एतौ राजशेखरस्य

नैतन् नभो लवणतोयनिधिर् एष पश्य छायापथश् च न भवत्य् अयम् अस्य सेतुः ।
नायं शशि निबिडपिण्डितभोग एष शेषो न लाञ्छनम् इदं हरिर् एष सुप्तः २९.८ ॥९०४॥

कपाले मार्जारः पय इति करांल् लेढि शशिनस् तरुच्छिद्रप्रोतान् बिसम् इव करी संकलयति ।
रतान्ते तल्पस्थान् हरति वनिताप्य् अंशुकम् इति प्रभामत्तश् चन्द्रो जगद् इदम् अहो विक्लवयति २९.९ ॥९०५॥

भवति भविष्यति किम् इदं निपतिष्यति बिम्बम् अम्बराच् छशिनः ।
अहम् अपि चन्दनपङ्कैर् अङ्कम् अनङ्कं करिष्यामि २९.१० ॥९०६॥
भिक्षुसुमतेः

चिताचक्रं चन्द्रः कुसुमधनुषो दग्धवपुषः कलङ्कस् तत्रत्यो वहति मलिनाङ्गारतुलनाम् ।
इदं त्व् अस्य ज्योतिर् दरदलितकर्पूरधवलं मरुद्भिर् भस्मेव प्रसरति विकीर्णं दिशि दिशि २९.११ ॥९०७॥

सद्यश् चन्दनपङ्कपिच्छिलम् इव व्योमाङ्गणं कल्पयन् पश्यैरावतकान्तदन्तमुसलच्छेदोपमेयाकृतिः ।
उद्गच्छत्य् अयम् अच्छमौक्तिकमणिप्रालम्बलम्बैः करैर् मुग्धानां स्मरेलखवाचनकलाकेलिप्रदीपः शशी २९.१२ ॥९०८॥

असाव् एकद्वित्रिप्रभृतिपरिपाट्या प्रकटयन् कलाः स्वैरं स्वैरं नवकमलकन्दाङ्कुररुचः ।
पुरन्ध्रीणां प्रेयोविरहदहनोद्दीपितदृशां कटाक्षेभ्यो बिभ्यन् निभृतम् इव चन्द्रो ऽभ्युदयते २९.१३ ॥९०९॥

उन्मीलन्ति मृणालकोमलरुचो राजीवसंवर्तिका- संवर्तव्रतवृत्तयः कतिपये पीयूषभानोः कराः ।
अप्य् उस्रैर् धवलीभवत्सु गिरिषु क्षुब्धो ऽयम् उन्मज्जता विश्वेनेव तमोमयो निधिर् अपाम् अह्नाय फेनायते २९.१४ ॥९१०॥

काश्मीरेण दिहानम् अम्बरतलं वामभ्रुवाम् आनन- द्वैराज्यं विदधानम् इन्दुदृषदां भिन्दानम् अम्भःशिराः ।
प्रत्युद्यत्पुरुहूतपत्तनवधूदत्तार्घदूर्वाङ्कुर- क्षीवोत्सङ्गकुरङ्गम् ऐन्दवम् इदं तद्बिम्बम् उज्जृम्भते २९.१५ ॥९११॥

नैवायं भगवान् उदञ्चति शशी गव्यूतिमात्रीम् अपि द्याम् अद्यापि तमस् तु कौरवकुलश्रीचाटुकाराः कराः ।
मथ्नन्ति स्थलसीम्नि शैलगहनोत्सङ्गेषु संरुन्धते जीवग्राहम् इव क्वचित् क्वचिद् अपि च्छायासु गृह्णन्ति च २९.१६ ॥९१२॥

किं नु ध्वान्तपयोधिर् एष कतकक्षोदैर् इवेन्दोः करैर् अत्यच्छो ऽयम् अधश् च पङ्कम् अखिलं छायापदेशाद् अभूत् ।
किं वा तत्करकर्तरीभिर् अभितो निस्तक्षणाद् उज्ज्वलं व्योमैवेदम् इतस् ततश् च पतिताश् छायाछलेन त्वचः २९.१७ ॥९१३॥

दलविततिभृतां तले तरूणाम् इह तिलतण्डुलितं मृगाङ्करोचिः ।
मदचपलचकोरचञ्चुकोटी- कवलनतुच्छम् इवान्तरान्तराभूत् २९.१८ ॥९१४॥

तथा पौरस्त्यायां दिशि कुमुदकेदारकलिका- कपाटघ्नीम् इन्दुः किरणलहरीम् उल्ललयति ।
समन्ताद् उन्मीलद्बहलजलबिन्दुस्तबकिनो यथा पुञ्जायन्ते प्रतिगुडकम् एणाङ्कमणयः २९.१९ ॥९१५॥

भूयस्तराणि यद् अमूनि तमस्विनीषु ज्योत्स्नीषु च प्रविरलानि ततः प्रतीमः ।
संध्यानलेन भृशम् अम्बरमूषिकायाम् आवर्तितैर् उडुभिर् एव भृतो ऽयम् इन्दुः २९.२० ॥९१६॥

यं प्राक् प्रत्यग् अवाग् उदञ्चि ककुभां नामानि सम्बिभ्रतं ज्योत्स्नाजालझलज्झलाभिर् अभितो लुम्पन्तम् अन्धं तमः ।
प्राचीनाद् अचलाद् इतस् त्रिजगताम् आलोकबीजाद् बहिर् निर्यान्तं हरिणाङ्कम् अङ्कुरम् इव द्रष्टुं जनो जीवति २९.२१ ॥९१७॥

प्राचीनाचलचूलचन्द्रमणिभिर् निर्व्यूढपाद्यं निजैर् निर्यासैर् उडुभिर् निजेन वपुषा दत्तार्घलाजाञ्जलि ।
अन्तःप्रौढकलङ्कतुच्छम् अभितः सान्द्रं परिस्तीर्यते बिम्बाद् अङ्कुरभग्ननैशिकतमःसंदोहम् इन्दोर् महः २९.२२ ॥९१८॥
मुरारेर् अमी

शशिनम् असूत प्राची नृत्यति मदनो हसन्ति ककुभो ऽपि ।
कुमुदरजःपटवासं विकिरति गगनाङ्गणे पवनः २९.२३ ॥९१९॥
धर्मकीर्तेः

कह्लारस्पर्शिगर्भैः शिशिरपरिगमात् कान्तिमद्भिः कराग्रैश् चन्द्रेणालिङ्गितायास् तिमिरनिवसने स्रंसमाने रजन्याः ।
अन्योन्यालोकिनीभिः परिचयजनितप्रेमनिष्यन्दिनीभिर् दूरारूढे प्रमोदे हसितम् इव परिस्पष्टम् आशावधूभिः २९.२४ ॥९२०॥
पाणिनेः

अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि स्थातुं वाञ्छति मान एष झगिति क्रोधाद् इवालोहितः ।
उद्यन् दूरतरप्रसारितकरः कर्षत्य् असौ तत्क्षणात् स्फायत्कैरवकोषनिःसरदलिश्रेणीकृपाणं शशी २९.२५ ॥९२१॥
वसुकल्पस्य

यातस्यास्तम् अनन्तरं दिनकृतो वेषेण रागान्वितः स्वैरं शीतकरः करं कमनिलीम् आलिङ्गितुं योजयन् ।
शीतस्पर्शम् अवेत्य सान्द्रम् अनया रुद्धे मुखाम्भोरुहे हास्येनेव कुमद्वतीदयितया वैलक्ष्यपाण्डूकृतः २९.२६ ॥९२२॥
राजशेखरस्य

तथोद्दामैर् इन्दोः सरसबिसदण्डद्युतिधरैर् मयूखैर् विक्रान्तं सपदि परितः पीततिमिरैः ।
दिनंमन्या रात्रिश् चकितचकितं कौशिककुलं प्रफुल्लं निद्राणैः कथम् अपि यथाम्भोरुवहनैः २९.२७ ॥९२३॥
धोयीकस्य

उद्गर्भहूणतरुणीरमणोपमर्द- भुग्नोन्नतस्तननिवेशनिभं हिमांशोः ।
बिम्बं कठोरबिसकाण्डकडारगौरैर् विष्णोः पदं प्रथमम् अग्रकरैर् व्यनक्ति २९.२८ ॥९२४॥

तमोभिर् दिक्कालैर् वियद् अपि विलङ्घ्य क्व नु गतं गता द्राङ् मुद्रापि क्व नु कुमुदकोषस्य सरसः ।
क्व धैर्यं तच् चाब्धेर् विदितम् उदयाद्रेः प्रतिसर- स्थलीमध्यासीने शशिनि जगद् अप्य् आकुलम् इदम् २९.२९ ॥९२५॥
अपराजितस्य

प्रथमम् अरुणच्छायस् तावत् ततः कनकप्रभस् तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः ।
प्रसरति पुनर् ध्वान्तध्वंसक्षमः क्षणदामुखे सरसबिसिनीकन्दच्छेदच्छविर् मृगलाञ्छनः २९.३० ॥९२६॥

चन्द्रः क्षीरम् अपि क्षरत्य् अविरतं धारासहस्रोत्करैर् उद्ग्रीवैस् तृषितैर् इवाद्य कुमुदैर् ज्योत्स्नापयः पीयते ।
क्षीरोदाम्भसि मज्जतीव दिवसव्यापारखिन्नं जगत् तत्क्षोभाज् जलबुद्बुधा इव तरन्त्य् आलोहितास् तारकाः २९.३१ ॥९२७॥
चतुर्णाम्

स्फटिकालवाललक्ष्मीं प्रवहति शशिबिम्बम् अम्बरोद्याने ।
किरणजलसिक्तलाञ्छनबालतमालैकविटपस्य २९.३२ ॥९२८॥

इह बहलितम् इन्दोर् दीधितीनां प्रभाभिर् मदविकलचकोरीचञ्चुमुद्राङ्किताभिः ।
रतिभरपरिखेदस्रस्तरार्थं वधूनां करकिसलयलीलाभञ्जनव्यञ्जिकाभिः २९.३३ ॥९२९॥

रजनिपुरन्ध्रिरोध्रतिलकस् तिमिरद्विपयूथकेसरी रजतमयो ऽभिषेककलशः कुसुमायुधमेदिनीपतेः ।
अयम् उदयाचलैकचूडामणिर् अभिनवदर्पणो दिशाम् उदयति गगनसरसि हंसस्य हसन्न् इव विभ्रमं शशी २९.३४ ॥९३०॥
बाणस्य

एष सान्द्रतिमिरे गगनान्ते वारिणीव मलिने यमुनायाः ।
भाति पक्षपुटगोपितचञ्चू राजहंस इव शीतमयूखः २९.३५ ॥९३१॥

गगनतलतडागप्रान्तसीम्नि प्रदोष- प्रबलतरवराहोत्खन्यमानश् चकास्ति ।
परिकलितकलङ्कः स्तोकपङ्कानुलेपो निजकिरणमृणालीमूलकन्दो ऽयम् इन्दुः २९.३६ ॥९३२॥

परिणतलवलीफलाभिपाण्डुस् तनुर् अभवन् मलिनोदरा हिमांशोः ।
जनहृदयविभेदकुण्ठितेषोर् विशिखनिशातशिलेव मन्मथस्य २९.३७ ॥९३३॥

लब्धोदये सुहृदि चन्द्रमसि स्ववृद्धिर् आसाद्य भिन्नसमयस् त्रिदशोद्धृतानि ।
रत्नानि लिप्सुर् इव दिग्भुवनान्तराले ज्योत्स्नाछलेन धवलो जलधिर् जगाह २९.३८ ॥९३४॥
गणपतेः

पिनष्टीव तरङ्गाग्रैर् अर्णवः फेनचन्दनम् ।
तद् आदाय करैर् इन्दुर् लिम्पतीव दिगङ्गनाम् २९.३९ ॥९३५॥

सर्वस्वं गगनश्रिया रतिपतेर् विश्वासपात्रं सखा वास्तव्यो हरमूर्ध्नि सर्वभुवनध्वान्तौघमुष्टिंधयः ।
क्षीराम्भोधिरसायनं कमलिनीनिद्रौषधीपल्लवो देवः कान्तिमहाधनो विजयते दाक्षायणीवल्लभः २९.४० ॥९३६॥

कर्पूरद्रवशीकरोत्करमहानीहारमग्नाम् इव प्रत्यग्रामृतफेनपङ्कपङ्कपटलीलेपोपदिग्धाम् इव ।
स्वच्छैकस्फटिकाश्मवेश्मजठरक्षिप्ताम् इव क्ष्माम् इमां कुर्वन् पार्वणशर्वरीपतिर् असऊद्दामम् उद्द्योतते २९.४१ ॥९३७॥
परमेश्वरस्य

असौ बिभ्रत्ताम्रत्विषम् उदयशैलस्य शिरसि स्खलन् प्रालेयांशुर् यदि भवति मत्तो हलधरः ।
तदानीम् एतत् तु प्रतिनवतमालद्युतिहरं तमो ऽपि व्यालोलं विगलति तदीयं निवसनम् २९.४२ ॥९३८॥
योगेश्वरस्य

यथायं भात्य् अंशून् दिशि दिशि किरन् कुन्दविशदान् शशाङ्कः काश्मीरीकुचकलशलावण्यलडितः ।
तथायं कस्तूरिमदलिखितपत्रावलितुलां नवाम्भोदच्छेदच्छविर् अपि समारोहति मृगः २९.४३ ॥९३९॥
शर्वस्य

यथैवैष श्रीमांश् चरमगिरिवप्रान्तलजधौ सुधासूतिश्चेतः कनककमलाशङ्कि कुरुते ।
तथायं लावण्यप्रसरमकरन्दद्रवतृषा- पतद्भृङ्गश्रेणीश्रियम् अपि कलङ्कः कलयति २९.४४ ॥९४०॥

स्फुटकोकनदारुणं पुरस्ताद् अथ जाम्बूनदपत्रपिञ्जराभम् ।
क्रमलङ्घितमुग्धभावम् इन्दोः स्फटिकच्छेदनिभं विभाति बिम्बम् २९.४५ ॥९४१॥
भगीरथस्य

वियति विसर्पतीव कुमुदेषु बहूभवतीव योषितां प्रतिफलतीव जठरशरकाण्डविपाण्डुषु गण्डभित्तिषु ।
अम्भसि विकसतीव हसतीव सुधाधवलेषु धामसु ध्वजपटपल्लवेषु ललतीव समीरचलेषु चन्द्रिका २९.४६ ॥९४२॥

अनलसजवापुष्पोत्पीडच्छवि प्रथमं ततः समदयवनीगण्डच्छायं पुनर् मधुपिङ्गलम् ।
तदनु च नवस्वर्णादर्शप्रभं शशिनस् ततस् तरुणतगराकारं बिम्बं विभाति नभस्तले २९.४७ ॥९४३॥

रक्तः करं किरति पाण्डुपयोधराग्रे चन्द्रो विधूय तिमिरावरणं निशायाः ।
दिग्योषितस् तद् अवलोक्य कुतूहलिन्यो ह्रीणाश् च सस्मितम् इवापसरन्ति दूरम् २९.४८ ॥९४४॥

गोरोचनारुचकभङ्गपिशङ्गिताङ्गस् तारापतिर् मसृणम् आक्रमते क्रमेण ।
गोभिर् नवीनबिसतन्तुवितानगौरैर् आढ्यं भविष्णुर् अयम् अम्बरम् आवृणोति २९.४९ ॥९४५॥

असौ समालोकितकाननान्तरे विकीर्णविस्पष्टमरीचिकेसरः ।
विनिर्गतः सिंह इवोदयाचलाद् गृहीतनिष्पन्दमृगो निशाकरः २९.५० ॥९४६॥
पाणिनेः

इन्दुम् इन्द्रदिग् असूत सरस्वान् उत्तरङ्गभुजराजिर् अनृत्यन् ।
उज्जहर्ष झषकेतुर् अवापुः षट्पदाः कुमुदबन्धनमोक्षम् २९.५१ ॥९४७॥
अभिनन्दस्य

मृगेन्द्रस्येव चन्द्रस्य मयूखैर् नखरैर् इव ।
पाटितध्वान्तमातङ्ग- मुक्ताभा भान्ति तारकाः २९.५२ ॥९४८॥

गौरत्विषां कुचतटेषु कपोलपीठेष्व् एणीदृशां रभसहासम् इवारभन्ते ।
तन्वन्ति वेल्लनविलासम् इवामलासु मुक्तावलीषु विशदाः शशिनो मयूखाः २९.५३ ॥९४९॥

कचमूलबद्धपन्नगनिश्वासविषाग्निधूमहतमध्यम् ।
ऐशानम् इव कपालं स्फुटलक्ष्म स्फुरति शशिबिम्बम् २९.५४ ॥९५०॥
दक्षस्य

गते ज्योत्स्नासितव्योम- प्रासादाद् दृकतुल्यताम् ।
हिमांशुमण्डले लक्ष्म नीलपारावतायते २९.५५ ॥९५१॥

सद्यःपाटितकेतकोदरदलश्रेणीश्रियं बिभ्रती येयं मौक्तिकदामगुम्फनविधौ योग्य-च्छविः प्राग् अभूत् ।
उन्मेयाकुलशीभिर् अञ्जलिपुटैर् ग्राह्या मृणालाङ्कुरैः पातव्या च शशिन्यमुग्धविभवे सा वर्तते चन्द्रिका २९.५६ ॥९५२॥

ये पूर्वं यवसूचिसूत्रसुहृदो ये केतकाग्रच्छद- च्छायाधामभृतो मृणाललतिकालावण्यभाजो ऽत्र ये ।
ये धाराम्बुविडम्बिनः क्षणम् अथो ये तारहारश्रियस् ते ऽमी स्फाटिकदण्डडम्बरजितो जाताः सुधांशोः कराः २९.५७ ॥९५३॥
राजेशेखरस्यैतौ

त्रियामावामायाः कमलमृदुगण्डस्थलधृति- प्रगल्भो गण्डाली न विधुरयमक्षुण्णकिरणः ।
तदक्षणः सीम्नेयं यदुरसि मनाग् अञ्जनमयी मृगच्छाया दैवाद् अघटि न कलङ्कः पुनर् अयम् २९.५८ ॥९५४॥

ज्योत्स्नामुग्धवधूविलासभवनं पीयूषवीचीसरः क्षीराब्धेर् नवनीतकूटम् अवनीतापार्तितोयोपलः ।
यामिन्यास् तिलकः कला मृगदृशां प्रेमव्रतैकाश्रमः क्रामत्य् एष चकोरयाचकमहः कर्पूरवर्षः शशी २९.५९ ॥९५५॥

ताराकोरकराजिभाजिगगनोद्याने तमोमक्षिकाः संध्यापल्लवपातिनीः कवलयन्न् एकान्ततस् तर्कय ।
एतस्मिन्न् उदयास्तभूधरतरुद्वन्द्वान्तराले ततैर् एभिर् भाति गभस्तितन्तुपटलैः श्वेतोर्णनाभः शशी २९.६० ॥९५६॥
वसुकल्पस्य

इति चन्द्रव्रज्या ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP