संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः|
प्रदीपव्रज्या

सुभाषितरत्नकोशः - प्रदीपव्रज्या

विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.


रुद्धे वायौ निषिद्धे तमसि शुभवशोन्मीलितालोकशक्तिः कस्मान् निर्वाणलाभी न भवतु परमब्रह्मवद् वीक्ष्य दीपः ।
निद्राणस्त्रीनितम्बाम्बरहरणरणन्मेखलारावधावत्- कन्दर्पानद्धबाणव्यतिकरतरलं कामिनं यामिनीषु २६.१ ॥८५४॥

अतिपीनां तमोराजीं तनीयान् सोढुम् अक्षमः ।
वमतीव शनैर् एष प्रदीपः कज्जलच्छलात् २६.२ ॥८५५॥

अतिपीनां

अतिपीतां

निर्वाणगोचरगतो ऽपि मुहुः प्रदीपः किं वृत्तकं तरुणयोः सुरतावसाने ।
इत्य् एवम् आकलयितुं सकलङ्कलज्जद्- उद्ग्रीविकाम् इव ददाति रतिप्रदीपः २६.३ ॥८५६॥

बालां कृशाङ्गीं सुरतानभिज्ञां गाढं नवोढाम् उपगूढवन्तम् ।
विलोक्य जामातरम् एष दीपो वातायने कम्पम् उपैति भीतः २६.४ ॥८५७॥

इति प्रदीपव्रज्या ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP