संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः| श्मशानव्रज्या सुभाषितरत्नकोशः सुगतव्रज्या लोकेश्वरव्रज्या मञ्जुघोषव्रज्या महेश्वरव्रज्या तद्वर्गव्रज्या हरिव्रज्या सूर्यव्रज्या वसन्तव्रज्या ग्रीष्मव्रज्या प्रावृड्व्रज्या शरद्व्रज्या हेमन्तव्रज्या शिशिरव्रज्या मदनव्रज्या वयःसन्धिव्रज्या युवतिवर्णनव्रज्या ततोऽनुरागव्रज्या दूतीवचनव्रज्या सम्भोगव्रज्या समाप्तनिधुवनचिह्नव्रज्या मानिनीव्रज्या विरहिणीव्रज्या विरहिव्रज्या सतीव्रज्या दूतिकोपालम्भव्रज्या प्रदीपव्रज्या ततोऽपराह्णव्रज्या ततोऽन्धकारव्रज्या ततश्चन्द्रव्रज्या प्रत्यूषव्रज्या मध्याह्नव्रज्या यशोव्रज्या ततोऽन्यापदेशव्रज्या वातव्रज्या जातिव्रज्या माहात्म्यव्रज्या सद्व्रज्या असद्व्रज्या दीनव्रज्या अर्थान्तरन्यासव्रज्या ततश्चाटुव्रज्या निर्वेदव्रज्या वार्धक्यव्रज्या श्मशानव्रज्या वीरव्रज्या प्रशस्तिव्रज्या पर्वतव्रज्या शान्तिव्रज्या संकीर्णव्रज्या कविस्तुतिव्रज्या सुभाषितरत्नकोशः - श्मशानव्रज्या विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे. Tags : bookvidhyakarविद्याकरसंस्कृतसुभाषितरत्नकोश श्मशानव्रज्या Translation - भाषांतर चञ्चत्पक्षाभिघातग्लपितहुतभुजः प्रौढधाम्नश् चितायाः क्रोडाद् आकृष्टमूर्तेर् अहमहमिकया चण्डचञ्चुग्रहेण ।सद्यस् तप्तं शवस्य ज्वलद् इव पिशितं भूरि जग्ध्वार्धदग्धं पश्यान्तःप्लुष्यमाणः प्रविशति सलिलं सत्वरं गृध्रसंघः ४४.१ ॥१५२८॥पाणिनेःउद्बद्धेभ्यः सुदूरं घनरजनितमःपूरितेषु द्रुमेषु प्रोद्ग्रीवं पश्य पादद्वितयधृतभुवः श्रेणयः फेरवाणाम् ।उल्कालोकैः स्फुरद्भिर् निजवदनगुहोत्सर्पिभिर् वीक्षितेभ्यश् च्योतत् सान्द्रं वसाम्भः क्वथितशववपुर्मण्डलेभ्यः पिबन्ति ४४.२ ॥१५२९॥पाणिनेःउत्कृत्योत्कृत्य कृत्तिं प्रथमम् अथ पृथूच्छोफभूयांसो मांसान्य् अङ्गस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्य् अग्रपूतीनि जग्ध्वा ।आत्तस्नाय्वन्त्रनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्काद् अङ्कस्थाद् अस्थिसंस्थस्थपुटगतम् अपि क्रव्यम् अव्यग्रम् अत्ति ४४.३ ॥१५३०॥कर्णाभ्यर्णविदीर्णसृक्कविकटव्यादानदीप्ताग्निभिर् दंष्ट्राकोटिविसंकटैर् इत इतो धावद्भिर् आकीर्त्यते ।विद्युत्पुञ्जनिकाशकेशनयनभ्रूश्मश्रुजालैर् नभो लक्ष्यालक्ष्यविशुष्कदीर्घवपुषाम् उल्कामुखानां मुखैः ४४.४ ॥१५३१॥अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल- व्यक्तोत्तंसभृतः पिनह्य सहसा हृत्पुण्डरीकस्रजः ।एताः शोणितपङ्ककुङ्कुमकुषः सम्भूय कान्तैः पिबन्त्य् अस्थिस्नेहसुराः कपालचषकैः प्रीताः पिशाचाङ्गनाः ४४.५ ॥१५३२॥एतत् पूतनचक्रम् अक्रमकृतश्वासार्धमुक्तैर् वृकान् उत्पुष्णत् परितो नृमांसविघसैर् आदर्दरं क्रन्दतः ।खर्जूरद्रुमदध्नजङ्घमसितत्वङ्नद्धविष्वक्तत- स्नायुग्रन्थिघनास्थिपञ्जरजरत्कङ्कालम् आलोक्यते ४४.६ ॥१५३३॥गुञ्जत्कुञ्जकुटीरकौशिकघटाघूत्कारसंवल्लित- क्रन्दत्फेरवचण्डहात्कृतिभृतिप्राग्भारभीमैस् तटैः ।अन्तःशीर्णकरङ्ककर्करतरत्संरोधिकूलंकष- स्रोतोनिर्गमघोरघर्घररवा पारेश्मशानं सरित् ४४.७ ॥१५३४॥भवभूतेर् अमीअत्रास्थः पिशितं शवस्य कठिनैर् उत्कृत्य कृत्स्नं नखैर् नग्नस्नायुकरालघोरकुहरैर् मस्तिष्कदिग्धाङ्गुलिः ।संदश्यौष्ठपिटेन भुग्नवदनः प्रेतश् चिताग्निद्रुतं सूत्कारैर् नलकास्थिकोटरगतं मज्जानम् आकर्षति ४४.८ ॥१५३५॥जयादित्यस्यचञ्चच्चञ्चूद्वृतार्धच्युतपिशितलवग्राससंवृद्धगर्धैर् गृध्रैर् आरब्धपक्षद्वितयविधुतिभिर् बद्धसान्द्रान्धकारे ।वक्त्रोद्वान्ताः पतन्त्यश् छिमितिशिखिशिखाश्रेणयो ऽस्मिञ् शिवानाम् अस्रस्रोतस्य् अजस्रस्रुतबहलवसा वासविस्रे स्वनन्ति ४४.९ ॥१५३६॥श्रीहर्षदेवस्यविदूराद् अभ्यस्तैर् वियति बहुशो मण्डलशतैर् उदञ्चत्पुच्छाग्रस्तिमितविततैः पक्षतिपुटैः ।पतन्त्य् एते गृध्राः शवपिशितलोलाननगुहा- गलल्लालाक्लेदस्नपितनिजचञ्चूभयपुटाः ४४.१० ॥१५३७॥पिबत्य् एको ऽन्यस्माद् घनरुधिरम् आछिद्य चषकं ललज्जिह्वो वक्त्राद् गलितम् अपरो लेढु पिबतः ।ततः स्त्यानाः कश्चिद् भुवि निपतिताः शोणितकणाः क्षणाद् उच्चग्रीवो रसयति लसद्दीर्घरसनः ४४.११ ॥१५३८॥चिताग्नेर् आकृष्टं नलकशिखरप्रोतम् असकृत् स्फुरद्भिर् निर्वाप्य प्रबलपवनैः स्फूत्कृतशतैः ।शिरो नारं प्रेतः कबलयति तृष्णावशवलत्- करालास्यः प्लुष्यद्वदनकुहरस् तूद्गिरति च ४४.१२ ॥१५३९॥अमी श्रीक्षेमीश्वरस्यअन्यादानाकुलान्तःकरणवशविपद्बाधितप्रेतरङ्कं ग्रासभ्रश्यत्करालश्लथपिशितशवाग्रग्रहे मुक्तनादम् ।सर्वैः क्रामद्भिर् उल्काननकवलरसव्यात्तवक्त्रप्रभाभिर् व्यक्तैस् तैः संवलद्भिः क्षणम् अपरम् इव व्योम्नि वृत्तं श्मशानम् ४४.१३ ॥१५४०॥वल्लणस्यनेत्राकुञ्चनसारणक्रमकृतप्रव्यक्तनक्तंदिनो दिक्चक्रान्तविसर्पिसल्लरिसटाभारावरुद्धाम्बरः ।हस्तन्यस्तकपालकन्दरदरीमुक्ताभ्रधाराः पिबन्न् उन्मुक्तध्वनिभिन्नकर्णकुहरः क्रव्याद् अयं नृत्यति ४४.१४ ॥१५४१॥इति श्मशानव्रज्या ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP