संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः| कविस्तुतिव्रज्या सुभाषितरत्नकोशः सुगतव्रज्या लोकेश्वरव्रज्या मञ्जुघोषव्रज्या महेश्वरव्रज्या तद्वर्गव्रज्या हरिव्रज्या सूर्यव्रज्या वसन्तव्रज्या ग्रीष्मव्रज्या प्रावृड्व्रज्या शरद्व्रज्या हेमन्तव्रज्या शिशिरव्रज्या मदनव्रज्या वयःसन्धिव्रज्या युवतिवर्णनव्रज्या ततोऽनुरागव्रज्या दूतीवचनव्रज्या सम्भोगव्रज्या समाप्तनिधुवनचिह्नव्रज्या मानिनीव्रज्या विरहिणीव्रज्या विरहिव्रज्या सतीव्रज्या दूतिकोपालम्भव्रज्या प्रदीपव्रज्या ततोऽपराह्णव्रज्या ततोऽन्धकारव्रज्या ततश्चन्द्रव्रज्या प्रत्यूषव्रज्या मध्याह्नव्रज्या यशोव्रज्या ततोऽन्यापदेशव्रज्या वातव्रज्या जातिव्रज्या माहात्म्यव्रज्या सद्व्रज्या असद्व्रज्या दीनव्रज्या अर्थान्तरन्यासव्रज्या ततश्चाटुव्रज्या निर्वेदव्रज्या वार्धक्यव्रज्या श्मशानव्रज्या वीरव्रज्या प्रशस्तिव्रज्या पर्वतव्रज्या शान्तिव्रज्या संकीर्णव्रज्या कविस्तुतिव्रज्या सुभाषितरत्नकोशः - कविस्तुतिव्रज्या विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे. Tags : bookvidhyakarविद्याकरसंस्कृतसुभाषितरत्नकोश कविस्तुतिव्रज्या Translation - भाषांतर सुबन्धौ भक्तिर् नः क इह रघुकारे न रमते धृतिर् दाक्षीपुत्रे हरति हरिचन्द्रो ऽपि हृदयम् ।विशुद्धोक्तिः शूरः प्रकृतिसुभगा भारवगिरस् तथाप्य् अन्तर्मोदं कम् अपि भवभूतिर् वितनुते ५०.१ ॥१६९८॥तातः सृष्टिम् अपूर्ववस्तुविषयाम् एको ऽत्र निर्व्यूढवान् निष्णातः कविकुञ्जरेन्द्रचरिते मार्गे गिरां वागुरः ।रेवाविन्ध्यपुलीन्द्रपामरवधूझञ्झानिलप्रेषित- प्राये ऽर्थे वचनानि पल्लवयितुं जानाति योगेश्वरः ५०.२ ॥१६९९॥अभिनन्दस्यपातुं कर्णरसायनं रचयितुं वाचः सतां संमतां व्युत्पत्तिं परमाम् अवाप्तुम् अवधिं लब्धुं रसस्रोतसः ।भोक्तुं स्वादुफलं च जीविततरोर् यद्य् अस्ति ते कौतुकं तद् भ्रातः शृणु राजशेखरकवेः सूक्तीः सुधास्यन्दिनीः ५०.३ ॥१७००॥शंकरवर्मणःदेवीं वाचम् उपासते हि बहवः सारं तु सारस्वतं जानीते नितराम् असौ गुरुकुलक्लिष्टो मुरारिः कविः ।अब्धिर् लङ्घित एव वानरभटैः किं त्व् अस्य गम्भीरताम् आपातालविलग्नपीवरवपुर् जानाति मन्थाचलः ५०.४ ॥१७०१॥तत् तादृग् उज्ज्वलककुत्स्थकुलप्रशस्ति- सौरभ्यनिर्भरगभीरमनोहराणि ।वाल्मीकिवागमृतकूपनिपातलक्ष्मीम् एतानि बिभ्रति मुरारिकवेर् वचांसि ५०.५ ॥१७०२॥मुरारेर् एतौधिग् धिक् तान् समयान् परिश्रमरुजो धिक् ता गिरो निष्फला यत्रामूर् न भवन्ति वल्लणगुणोत्खातामृतप्रीतयः ।रोम्णां नृत्यभुवो विलोचनपयःपूराब्धिचन्द्रोदयाः साहित्यप्रतिगण्डगर्वगलनग्लानिक्रियाहेतवः ५०.६ ॥१७०३॥उत्तानोल्लपितप्रतारितनवश्रोत्रैः कथं भाव्यतां वाक्प्रत्यंशनिवेशिताखिलजगत्तत्त्वा कवीनां कला ।रथ्यागर्तविगाहनाद्भुतकृतैर् गाह्यः क्व रत्नाकरो यस्यान्तःशफरावमाननटतीमज्जद्गिरीन्द्राः श्रियः ५०.७ ॥१७०४॥अनुद्घुष्टः शब्दैर् अथ च घटनातः स्फुटरसः पदानाम् अर्थात्मा रमयति न तूत्तानितरसः ।यथा किंचित् किंचित् पवनचलचीनांशुकतया स्तनाभोगः स्त्रीणां हरति न तथोन्मुद्रिततनुः ५०.८ ॥१७०५॥वल्लणस्यैतेअस्तंगतभारविरवि कालवशात् कालिदासविधुविधुरम् ।निर्वाणबाणदीपं जगद् इदम् अद्योति रत्नेन ५०.९ ॥१७०६॥जानकीहरणं कर्तुं रघुवंशे पुरःस्थिते ।कविः कुमारदासो वा रावणो वा यदि क्षमः ५०.१० ॥१७०७॥शब्दास् ते न तथाविधाः पथि धियां लोकस्य ये नासते नार्थात्मापि स को ऽपि धावति गिरां भूपालमार्गे न यः ।अस्त्य् अन्यस् तु स संनिवेशशिशिरः शब्दार्थयोः संगमो येनामी स्ववशेन दग्धकवयो मथ्नन्ति चेतांसि नः ५०.११ ॥१७०८॥जयति कविकण्ठहरः श्रीरघुकारः प्रमेयकेदारे ।यन्मतिदात्रविलूने शिलोञ्छम् इव कुर्वते कवयः ५०.१२ ॥१७०९॥कवीनाम् अगलद् दर्पो नूनं वासवदत्तया ।शक्त्येव पाण्डुपुत्राणां गतया कर्णगोचरम् ५०.१३ ॥१७१०॥कीर्तिः प्रवरसेनस्य प्रयाता कुसुमोज्ज्वला ।समुद्रस्य परं पारं कपिसेनेव सेतुना ५०.१४ ॥१७११॥सन्ति श्वान इवासंख्या जातिभाजो गृहे गृहे ।उत्पादका न बहवः कवयः शरभा इव ५०.१५ ॥१७१२॥बाणस्यामीकवयः कालिदासाद्याः कवयो वयम् अप्य् अमी ।पर्वते परमाणौ च वस्तुत्वम् उभयोर् अपि ५०.१६ ॥१७१३॥सौजन्याङ्कुरकन्द सुन्दरकथासर्वस्व सीमन्तिनी- चित्ताकर्षणमन्त्र मन्मथसरित्कल्लोल वाग्वल्लभ ।सौभाग्यैकनिवेश पेशलगिराम् आधार धैर्याम्बुधे धर्माद्रिद्रुम राजशेखर सखे दृष्टो ऽसि यामो वयम् ५०.१७ ॥१७१४॥यद् एतद् वागर्थव्यतिकरमयं किंचिद् अमृतं प्रमोदप्रस्यन्दैः सहृदयमनांसि स्नपयति ।इदं काव्यं तत्त्वं स्फुरति तु यद् अत्राणु परमं तद् अन्तर्बुद्धीनां स्फुटम् अथ च वाचाम् अविषयः ५०.१८ ॥१७१५॥सुवर्णालंकारा प्रकटितरसाश्लेषनिपुणा स्फुरद्वैदर्भोक्तिर् ललितपदबन्धक्रमगतिः ।लसद्भूयोभावा मृदुर् अपि विमर्दोचिततनुः कवीन्द्र त्वद्वाणी हरति हरिणाक्षीव हृदयम् ५०.१९ ॥१७१६॥अम्बा येन सरस्वती सुतवती तस्यार्पयन्ती रसान् नानाचाटुमुखी स दुर्लडितवान् खेलाभिर् उच्छृङ्खलः ।जिह्वादुर्व्यसनैर् उपद्रवरुजः कुर्वन्ति ये दुःसुतास् तान् दृष्ट्वार्थम् इतस् ततो निखनति स्वं निःस्वम् आतन्वती ५०.२० ॥१७१७॥वल्लणस्यअविदितगुणापि सत्कविभणितिः कर्णेषु वमति मधुधाराम् ।अनधिगतपरिमलापि हि हरति दृशं मालतीमाला ५०.२१ ॥१७१८॥सुबन्धोःबभूव वल्मीकभवः पुरा कविस् ततः प्रपेदे भुवि भर्तृमेठताम् ।पुनः स्थितो यो भवभूतिरेखया स वर्तते सम्प्रति राजशेखरः ५०.२२ ॥१७१९॥उच्छ्वासो ऽपि न निर्याति बाणे हृदयवर्तिनि ।किं पुनर् विकटाटोप- पदबन्धा सरस्वती ५०.२३ ॥१७२०॥यल्लग्नं हृदि पुंसां भूयो भूयः शिरो न घूर्णयति ।तद् अपि कवेः किम् उ काव्यं काण्डो वा धन्विनां किम् असौ ५०.२४ ॥१७२१॥तामरसस्यकथंचित् कालिदासस्य कालेन बहुना मया ।अवगाढेव गम्भीर- मसृणौघा सरस्वती ५०.२५ ॥१७२२॥कश्चिद् वाचं रचयितुम् अलं श्रोतुम् एवापरस् तां कल्याणी ते मतुर् उभयतो विस्मयं नस् तनोति ।न ह्य् एकस्मिन्न् अतिशयवतां संनिपातो गुणानाम् एकः सूते कनकम् उपलस् तत्परीक्षाक्षमो ऽन्यः ५०.२६ ॥१७२३॥कालिदास्य ॥प्रयोगव्युत्पत्तौ प्रतिपदविशेषार्थकथने प्रसत्तौ गाम्भीर्ये रसवति च वाक्यार्थघटने ।अगम्यायाम् अन्यैर् दिशि परिणतेश् चार्थवचसोर् मतं चेद् अस्माकं कविर् अमरसिंहो विजयते ५०.२७ ॥१७२४॥शालिकस्यइयं गौर् उद्दामा तव निबिडबन्धापि हि कथं न वैदर्भाद् अन्यत् स्पृशति सुलभत्वे ऽपि हि कथम् ।अवन्ध्या च ख्याता भुवि कथम् अगम्या कविवृषैः कथं वा पीयूषं स्रवति बहु दुग्धापि बहुभिः ५०.२८ ॥१७२५॥शब्दार्णवस्यशैलैर् बन्धयति स्म वानरहृतैर् वाल्मीकिर् अम्भोनिधिं व्यासः पार्थशरैस् तथापि न तयोर् अत्युक्तिर् उद्भाव्यते ।वागर्थौ च तुलाधृताव् इव तथाप्य् अस्मिन् निबन्धान् अयं लोको दूषयति प्रसारितमुखस् तुभ्यं प्रतिष्ठे नमः ५०.२९ ॥१७२६॥धर्मकीर्तेःहा कष्टं कविचक्रमौलिमणिना दक्षेण यन् नेक्षितः श्रीमान् उत्पलराजदेवनृपतिर् विद्यावधूवल्लभः ।तस्याप्य् अर्थिजनैकरोहणगिरेर् लक्ष्मीर् वृथैवाभवद् दक्षस्यास्य न येन सुन्दरगिरः कर्णावतंसीकृताः ५०.३० ॥१७२७॥दक्षस्ययस्य यथा विज्ञानं तादृक् तस्येह हृदयसद्भावः ।उन्मीलति कविपुङ्गवचने च पुराणपुरुषे च ५०.३१ ॥१७२८॥वहति न पुरः कश्चित् पश्चान् न को ऽप्य् अनुयाति मां न च नवपदक्षुण्णो मार्गः कथं न्व् अहम् एककः ।भवति विदितं पूर्वव्यूढो ऽधुना खिलतां गतः स खलु बहुलो वामः पन्था मया स्फुटम् उर्जितः ५०.३२ ॥१७२९॥धर्मकीर्तिपदानाम्विद्यावधूम् अपरिणीय कुलानुरूपां श्लाघ्यां सुताम् इव ततः श्रियम् अप्रसूय ।तां चार्थिने प्रणयपेशलम् अप्रदाय धिक् तं मनुष्यपदम् आत्मनि यः प्रयुङ्क्ते ५०.३३ ॥१७३०॥भर्तृहरेःये नाम केचिद् इह नः प्रथयन्त्य् अवज्ञां जानन्ति ते किम् अपि तान् प्रति नैष यत्नः ।उत्पत्स्यते तु मम को ऽपि समानधर्मा कालो ह्य् अयं निरवधिर् विपुला च लक्ष्मीः ५०.३४ ॥१७३१॥चेः|निधानं विद्यानां कुलगृहम् अपारस्य यशसः शुचि क्ष्मापालानां सुचरितकथादर्पणतलम् ।कलासम्पद्रत्नव्रततिविटपानां सुरतरुः प्रकृत्या गम्भीरः कविर् इह सशब्दो विजयते ५०.३५ ॥१७३२॥उन्नीतो भवभूतिना प्रतिदिनं बाणे गते यः पुरा यश् चीर्णः कमलायुधेन सुचिरं येनागमत् केशटः ।यः श्रीवाक्पतिराजपादरजसां सम्पर्कपूतश् चिरं दिष्ट्या श्लाघगुणस्य कस्यचिद् असौ मार्गः समुन्मीलति ५०.३६ ॥१७३३॥परमाद्भुतरसधामन्य् उत्सलिते जगति वल्लनाम्भोधौ ।विश्रान्तो रसभागस्तिमितयति यथा गभीरिमा को ऽपि ५०.३७ ॥१७३४॥वल्लणस्यआढ्यराजकृतारम्भैर् हृदयस्थैः स्मृतैर् अपि ।जिह्वान्तः कृष्यमाणेव न कवित्वे प्रगल्भते ५०.३८ ॥१७३५॥बाणस्यवाल्मीकेर् मुकुलीकृतैव कविता कः स्तोतुम् अस्त्य् आदरो वैयासानि वचांसि भारविगिरां भूतैव निर्भर्त्सना ।काव्यं चेद् अवतंसभूपम् अभजद् धर्मायणं कर्णयोस् तातः किं बहु वर्ण्यते स भगवान् वैदर्भगर्भेश्वरः ५०.३९ ॥१७३६॥धर्माशोकस्यवामाङ्गं पृथुलस्तनस्तबकितं यावद् भवानीपतेर् लक्ष्मीकण्ठहठग्रहव्यसनिता यावच् च दोषाणां हरेः ।यावच् च प्रतिसामसारणविधिव्यग्रौ करौ ब्रह्मणः स्थेयासुः श्रुतिशुक्तिलेह्यमधवस् तावत् सतां सूक्तयः ५०.४० ॥१७३७॥कीर्त्या समं त्रिदिववासम् उपस्थितानां मर्त्यावतीर्णमरुताम् अपि सत्कवीनाम् ।जग्रन्थ दुर्लभसुभाषितरत्नकोषं विद्याकरः सुकृतिकण्ठविभूषणाय ५०.४१ ॥१७३८॥इति कविवर्णनव्रज्या समाप्ता ॥समाप्तो ऽयं सुभाषितरत्नकोष इति ॥पण्डितश्रीभीमार्जुनसोमस्य ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP