संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः| वीरव्रज्या सुभाषितरत्नकोशः सुगतव्रज्या लोकेश्वरव्रज्या मञ्जुघोषव्रज्या महेश्वरव्रज्या तद्वर्गव्रज्या हरिव्रज्या सूर्यव्रज्या वसन्तव्रज्या ग्रीष्मव्रज्या प्रावृड्व्रज्या शरद्व्रज्या हेमन्तव्रज्या शिशिरव्रज्या मदनव्रज्या वयःसन्धिव्रज्या युवतिवर्णनव्रज्या ततोऽनुरागव्रज्या दूतीवचनव्रज्या सम्भोगव्रज्या समाप्तनिधुवनचिह्नव्रज्या मानिनीव्रज्या विरहिणीव्रज्या विरहिव्रज्या सतीव्रज्या दूतिकोपालम्भव्रज्या प्रदीपव्रज्या ततोऽपराह्णव्रज्या ततोऽन्धकारव्रज्या ततश्चन्द्रव्रज्या प्रत्यूषव्रज्या मध्याह्नव्रज्या यशोव्रज्या ततोऽन्यापदेशव्रज्या वातव्रज्या जातिव्रज्या माहात्म्यव्रज्या सद्व्रज्या असद्व्रज्या दीनव्रज्या अर्थान्तरन्यासव्रज्या ततश्चाटुव्रज्या निर्वेदव्रज्या वार्धक्यव्रज्या श्मशानव्रज्या वीरव्रज्या प्रशस्तिव्रज्या पर्वतव्रज्या शान्तिव्रज्या संकीर्णव्रज्या कविस्तुतिव्रज्या सुभाषितरत्नकोशः - वीरव्रज्या विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे. Tags : bookvidhyakarविद्याकरसंस्कृतसुभाषितरत्नकोश वीरव्रज्या Translation - भाषांतर श्रुत्वा दाशरथी सुवेलकटके सानन्दम् अर्धे धनुष्- टङ्कारैः परिपूरयन्ति ककुभः प्रोञ्छन्ति कौक्षेयकान् ।अभ्यस्यन्ति तथैव चित्रफलके लङ्कापतेस् तत् पुनर् वैदेहीकुचपत्रवल्लिवलनावैदग्ध्यम् अर्धे कराः ४५.१ ॥१५४२॥संतुष्टे तिसृणां पुराम् अपि रिपौ कण्डूलदोर्मण्डल- क्रीडाकृत्तपुनःप्ररूढशिरसो वीरस्य लिप्सोर् वरम् ।याच्ञादैन्यपराञ्चि यस्य कलहायन्ते मिथस् त्वं वृणु त्वं वृण्व् इत्य् अभितो मुखानि स दशग्रीवः कथं कथ्यते ४५.२ ॥१५४३॥एको भवान् मम समं दश वा नमन्ति ज्याघोषपूरितवियन्ति शरासनानि ।तल् लोकपालसहितः सह लक्ष्मणेन चापं गृहाण सदृशं क्षणम् अस्तु युद्धम् ४५.३ ॥१५४४॥रे वृद्धगृध्र किम् अकाण्डम् इह प्रवीर दावानले शलभतां लभसे प्रमत्त ।लक्पावसानपवनोल्लसितस्य सिन्धोर् अम्भो रुणद्धि किम् उ सैकतसेतुबन्धः ४५.४ ॥१५४५॥एतौ संघश्रियः ॥आस्कन्धावधि कण्ठकाण्डविपिने द्राक् चन्द्रहासासिना छेत्तुं प्रक्रमिते मयैव तरसा त्रुट्यछिरासंततौ ।अस्मेरं गलिताश्रुगद्गदपदं भिन्नभ्रुवा यद्य् अभूद् वक्त्रेष्व् एकम् अपि स्वयं स भगवांस् तन् मे प्रमाणं शिवः ४५.५ ॥१५४६॥देवो यद्य् अपि ते गुरुः स भगवान् अर्धेन्दुचूडामणिः क्षोणीमण्डलम् एकविंशतिम् इदं वाराञ् जितं यद्य् अपि ।द्रष्टव्यो ऽस्य् अमुम् एव भार्गवबटः कण्ठे कुठारं वहन् पौलस्त्यस्य पुरः प्रणामरचितप्रत्यग्रसेवाञ्जलिः ४५.६ ॥१५४७॥रुद्रादेस् तुलनं स्वकण्ठविपिनच्छेदो हरेर् वासनं कारावेश्मनि पुष्पकस्य च जयो यस्येदृशः केलयः ।सो ऽहं दुर्जयबाहुदण्डसचिवो लङ्केश्वरस् तस्य मे का श्लाघा घुणजर्जरेण धनुषा कृष्टेन भग्नेन वा ४५.७ ॥१५४८॥वीरप्रसूर् जयति भार्गवरेणुकैव यत् त्वां त्रिलोकतिलकं सुतम् अभ्यसूत ।शक्रेभकुम्भतटखण्डनचण्डधामा येनैष मे न गणितो युधि चन्द्रहासः ४५.८ ॥१५४९॥रामे रुद्रशरासनं तुलयति स्मित्वा स्थितं पार्थिवैः सिञ्जासञ्जनतत्परे ऽवहसितं दत्त्वा मिथस् तालिकाः ।आरोप्य प्रचलाङ्गुलीकिशलये म्लानं गुणास्फालने स्फाराकर्षणभग्नपर्वणि पुनः सिंहासने मूर्छितम् ४५.९ ॥१५५०॥पृथ्वि स्थिरा भव भुजंगम धारयैनां त्वं कूर्मराज तद् इदं द्वितयं दधीथाः ।दिक्कुञ्जराः कुरुत तत्त्रितये दिधीर्षां रामः करोतु हरकार्मुकम् आततज्यम् ४५.१० ॥१५५१॥राजशेखरस्यामीलाङ्गूलेन गभस्तिमान् वलयितः प्रोतः शशी मौलिना जीमूता विधुताः शटाभिर् उडवो दंष्ट्राभिर् आसादिताः ।उत्तीर्णो ऽम्बुनिधिर् दृशैव विषदैस् तेनाट्टहासोर्मिभिर् लङ्केशस्य च लङ्घितो दिशि दिशि क्रूरः प्रतापानलः ४५.११ ॥१५५२॥अभिनन्दस्ययो यः कृत्तो दशमुखभुजस् तस्य तस्यैव वीर्यं लब्ध्वा दृप्यन्त्य् अधिकम् अधिकं बाहवः शिष्यमाणाः ।यद्य् अच्छिन्नं दशमुखशिरस् तस्य तस्यैव कान्तौ संक्रामन्त्याम् अतिशयवती शेषवक्त्रेषु लक्ष्मीः ४५.१२ ॥१५५३॥मुरारेःभग्नं देव समस्तवानरभटैर् नष्टं च यूथाधिपैः किं धैर्येण पुरो विलोक्य दशग्रीवो ऽयम् आराद् अभूत् ।इत्थं जल्पति सम्भ्रमोल्बणमुखे सुग्रीवराजे मुहुस् तेनाकेकरम् ईक्षितं दश शनैर् बाणान् ऋजूकुर्वता ४५.१३ ॥१५५४॥भ्रमणजवसमीरैः शेरते शालषण्डा मम नखकुलिशाग्रैर् ग्रावगर्भाः स्फुटन्ति ।अजगरम् अपि चाहं मुष्टिनिष्पिष्टवक्त्रं निजभुजतरुमूलस्यालवालं करोमि ४५.१४ ॥१५५५॥कृष्टा येन शिरोरुहेषु रुदती पाञ्चालराजात्मजा येनास्याः परिधानम् अप्य् अपहृतं राज्ञां गुरूणां पुरः ।यस्योरःस्थलशोणितासवम् अहं पातुं प्रतिज्ञातवान् सो ऽयं मद्भुजपञ्जरे निपतितः संरक्ष्यतां कौरवाः ४५.१५ ॥१५५६॥कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रकमलम् ।मुहुः पश्यञ् श्रुत्वा रजनिचरसेनाकलकलं जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः ४५.१६ ॥१५५७॥हरिर् अलसविलोचनः सगर्वं बलम् अवलोक्य पुनर् जगाम निद्राम् ।अधिगतपतिविक्रमास्तभीतिस् तु दयितापि विलोकयांचकार ४५.१७ ॥१५५८॥मेठस्यभूयः काञ्चनकेनिपातनिकरप्रोत्क्षिप्तदूरोद्गतैर् यत्संख्येषु चकार शीकरकणैर् एव द्विषां दुर्दिनम् ।किं चाकाण्डकृतोद्यमस् त्रिपथगासंचारिनौकागणो गीर्वाणेन्द्रफणीन्द्रयोर् अपि ददौ शङ्कां विशङ्को ऽपि यः ४५.१८ ॥१५५९॥नरसिंहस्यमैनाकः किम् अयं रुणद्धि गगने मन्मार्गम् अव्याहतं शक्तिस् तस्य कुतः स वज्रपतनाद् भीतो महेन्द्राद् अपि ।तार्क्ष्यः सो ऽपि समं निजेन विभुना जानाति मां रावणं विज्ञातं स जटायुर् एष जरसा क्लिष्टो वधं वाञ्छति ४५.१९ ॥१५६०॥पुत्रस् त्वं त्रिपुरद्रुहः पुनर् अहं शिष्यः किम् एतावता तुल्यः सो ऽपि कृतस् तवायम् अधिकः कोदण्डदीक्षाविधिः ।तत्राधारनिबन्धनो यदि भवेद् आधेयधर्मोदयस् तद् भोः स्कन्द गृहाण कार्मुकम् इदं निर्णीयताम् अन्तरम् ४५.२० ॥१५६१॥द्राङ् निष्पेषविशीर्णवज्रशकलप्रत्युप्तरूढव्रण- ग्रन्थ्युद्भासिनि भङ्गम् ओघम् अघवन् मातङ्गदन्तोद्यमे ।भर्तुर् नन्दनदेवताविरचितस्रग्दाम्नि भूमेः सुता वीरश्रीर् इव यस्य वक्षसि जगद्वीरस्य विश्राम्यतु ४५.२१ ॥१५६२॥चेः ॥इति वीरव्रज्या ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP