संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः| सम्भोगव्रज्या सुभाषितरत्नकोशः सुगतव्रज्या लोकेश्वरव्रज्या मञ्जुघोषव्रज्या महेश्वरव्रज्या तद्वर्गव्रज्या हरिव्रज्या सूर्यव्रज्या वसन्तव्रज्या ग्रीष्मव्रज्या प्रावृड्व्रज्या शरद्व्रज्या हेमन्तव्रज्या शिशिरव्रज्या मदनव्रज्या वयःसन्धिव्रज्या युवतिवर्णनव्रज्या ततोऽनुरागव्रज्या दूतीवचनव्रज्या सम्भोगव्रज्या समाप्तनिधुवनचिह्नव्रज्या मानिनीव्रज्या विरहिणीव्रज्या विरहिव्रज्या सतीव्रज्या दूतिकोपालम्भव्रज्या प्रदीपव्रज्या ततोऽपराह्णव्रज्या ततोऽन्धकारव्रज्या ततश्चन्द्रव्रज्या प्रत्यूषव्रज्या मध्याह्नव्रज्या यशोव्रज्या ततोऽन्यापदेशव्रज्या वातव्रज्या जातिव्रज्या माहात्म्यव्रज्या सद्व्रज्या असद्व्रज्या दीनव्रज्या अर्थान्तरन्यासव्रज्या ततश्चाटुव्रज्या निर्वेदव्रज्या वार्धक्यव्रज्या श्मशानव्रज्या वीरव्रज्या प्रशस्तिव्रज्या पर्वतव्रज्या शान्तिव्रज्या संकीर्णव्रज्या कविस्तुतिव्रज्या सुभाषितरत्नकोशः - सम्भोगव्रज्या विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे. Tags : bookvidhyakarविद्याकरसंस्कृतसुभाषितरत्नकोश सम्भोगव्रज्या Translation - भाषांतर प्रौढप्रेमरसान् नितम्बफलकाद् विश्रंसिते ऽप्य् अंशुके काञ्चीदाममणिप्रभाभिर् अनु चारब्धे दुकूलान्तरे ।कान्तेनाशु मुधा विलोकितम् अथो तन्व्या मुधा लज्जितं भूयो ऽनेन मुधावकृष्टम् अथ तत् तन्व्या मुधा संवृतम् १९.१ ॥५५९॥रूढे रतिव्यतिकरे करणीयशेष- मायासभाजि दयिते मुहुर् आतुरायाः ।प्रत्यक्षरं मदनमन्थरम् अर्थयन्त्याः किं किं न हन्त हृदयंगमम् अङ्गनायाः १९.२ ॥५६०॥रतान्तश्रान्तायाः स्तनजघनसंदानितदृशि स्मरावेशव्यग्रे दवयति दुकूलं प्रणयिनि ।क्षणं श्रोणौ पाणी क्षणम् अपि कुचाग्रे प्रियदृशोः क्षणं विन्यस्यन्त्या जगद् अपि न मूल्यं मृगदृशः १९.३ ॥५६१॥तैस् तैर् विजृम्भितशतैर् मदनोपदेशैर् मुग्धा विधाय लडितानि च तानि तानि ।अङ्के निलीय कमितुः शिथिलाङ्गमुद्रा निद्राति नाल्पतपसः फलसम्पद् एषा १९.४ ॥५६२॥यद् व्रीडाभरभुग्नम् आस्यकमलं यच् चक्षुर् अत्युल्लसत् पक्ष्मश्रेणि यद् अङ्गम् अङ्गजमनोराज्यश्रियाम् आश्रयः ।यद् वर्धिष्णु मनोभवप्रनयिता यन् मन्दमन्युग्रहस् तेनैवेह मनो हरत्य् अधरितप्रौढा नवोढा न किम् १९.५ ॥५६३॥स स्वर्गाद् अपरो विधिः स च सुधासेकः क्षणं नेत्रयोस् तत् साम्राज्यम् अगञ्जितं तद् अपरं प्रेम्णः प्रतिष्ठास्पदम् ।यद् बाला बलवन्मनोभवभयभ्रश्यत्तपं सत्रपा तत्कालोचितनर्मकर्म दयिताद् अभ्यास्यम् अभ्यस्यति १९.६ ॥५६४॥समालिङ्गत्य् अङ्गैर् अपसरति यत् प्रेयसि वपुः पिधातुं यद् दृश्यं घटयति घनालिङ्गनम् अपि ।तपोभिर् भूयोभिः किम् उ न कमनीयं सुकृतिनाम् इदं रम्यं वाम्यं मदनविवशाया मृगदृशः १९.७ ॥५६५॥इदम् अमृतम् अमेयं सेयम् आनन्दसिन्धुर् मधुमधुरम् अपीदं किंचिद् अन्तर् धुनोति ।यद् अयम् उदयलीलालालसानां वधूनां रतिविनिमयभाजां केलिभिर् याति कालः १९.८ ॥५६६॥को ऽसौ सुन्दरि पुष्पसायकसखः सौभाग्यवारांनिधः को ऽसाव् इन्दुमुखि प्रसन्नहृदयः कः कुम्भिकुम्भस्तनि ।यस्मिन् विस्मयनीयतप्ततपसे स्वैरं समुच्छृङ्खला विश्राम्यन्ति तव स्मरज्वरहराः कन्दर्पकेलिश्रियः १९.९ ॥५६७॥प्रद्युम्नस्यआत्ते वाससि रोद्धुम् अक्षमतया दोःकन्दलीभ्यां स्तनौ तस्योरःस्थलम् उत्तरीयविषये सद्यो मया सञ्जितम् ।श्रोणीं तस्य करे ऽधिरोहति पुनर् व्रीडाम्बुधौ माम् अथो मञ्जन्तीम् उदतारयन् मनसिजो देवः स मूर्छागुरुः १९.१० ॥५६८॥वल्लणस्ययद् एतद् धन्यानाम् उरसि युवतीसङ्गसमये समारूढं किंचित् पुलकम् इदम् आहुः किल जनाः ।मतिस् त्व् एषास्माकं कुचयुगतटीचुम्बकशिला- निवेशाद् आकृष्टः स्मरशरशलाकोत्कर इव १९.११ ॥५६९॥संकर्षणस्यअङ्गाकृष्टदुकूलया सरभसं गूढौ भुजाभ्यां स्तनाव् आकृष्टे जघनांशुके कृतम् अधःसंसक्तम् ऊरुद्वयम् ।नाभीमूलनिबद्धचक्षुषि मयि व्रीडानताङ्ग्या तया दीपः स्फूत्कृतवातवेपितशिखः कर्णोत्पलेनाहतः १९.१२ ॥५७०॥जिह्रेमि जागर्ति गृहोपकण्ठे सखीजनो वल्लभकौतुकेन ।तदंशुकाक्षेपम् अधीरपाणे विमुञ्च काञ्चीमणयो रणन्ति १९.१३ ॥५७१॥महोदधेःकान्ते तल्पम् उपागते विगलिता नीवी स्वयं बन्धनाद् वासश् च श्लथमेखलागुणधृतं किंचिन् नितम्बे स्थितम् ।एतावत् सखि वेद्मि केवलम् अहं तस्याङ्गसङ्गे पुनः को ऽसौ कास्मि रतं तु किं कथम् अपि स्वल्पापि मे न स्मृतिः १९.१४ ॥५७२॥विकटनितम्बायाःअतिप्रौढा रात्रिर् बहलशिखदीपः प्रभवति प्रियः प्रेमारब्धस्मरविधिरसज्ञः परम् असौ ।सखि स्वैरं स्वैरं सुरतम् अकरोद् व्रीडितवपुर् यतः पर्यङ्गो ऽयं रिपुर् इव कडत्कारमुखरः १९.१५ ॥५७३॥धन्यासि यत् कथयसि प्रियसंगमेन नर्मस्मितं च वचनं च रसं च तस्य ।नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचिद् अपि स्मरामि १९.१६ ॥५७४॥विद्यायाःजयति समरतान्तान्दोलनापाण्डगण्ड- स्थलकृतनिजवासखेदपूरानुजन्मा ।श्लथतनुभुजबन्धप्राप्रदीर्घप्रसारो मुखपरिमलमुग्धः कान्तयोः श्वासवातः १९.१७ ॥५७५॥मनोजन्मप्रौढव्यतिकरशतायासविधिषु प्रियः प्रायो मुग्धो झगिति कृतचेतोभवविधिः ।सहूंकारोज्जृम्भा स्मरपरवशा कान्तविमुखं मुखं मुग्धापाङ्गं क्षिपति विरसं प्रौढयुवती १९.१८ ॥५७६॥नवनवरहोलीलाभ्यासप्रपञ्चितमन्मथ- व्यतिकरकलाकल्लोलान्तर्निमग्नमनस्कयोः ।अपि तरुणयोः किं स्यात् तस्यां दिवि स्पृहयालुता मुकुलितदृशोर् उद्भिद्यन्ते न चेद् विरहत्विषः १९.१९ ॥५७७॥तस्यापाङ्गविलोकितस्य मधुरप्रोल्लासितार्धभ्रुवस् तस्य स्मेरशुचेः क्रमस्य च गिरां मुग्धाक्षराणां ह्रिया ।भावानाम् अपि तादृशां मृगदृशो हावानुगानाम् अहो नाधन्यः कुरुते प्ररूढपुलकैर् आतिथ्यम् अङ्गैर् जनः १९.२० ॥५७८॥समाकृष्टं वासः कथम् अपि हठात् पश्यति मयि क्रमाद् ऊरुद्वन्द्वं जरठशरगौरं मृगदृशः ।तया दृष्टिं दत्त्वा महति मणिदीपे निपुणया निरुद्धं हस्ताभ्यां झगिति मम नेत्रोत्पलयुगम् १९.२१ ॥५७९॥अनल्पं संतापं शमयति मनोजन्मजनितं तथा शीतं स्फीतं हिमवति निशीथे ग्लपयति ।तद् एवं को ऽप्य् ऊष्मा रमणपरिरम्भोत्सवमिलत्- पुरन्ध्रीनीरन्ध्रस्तनकलशजन्मा विजयते १९.२२ ॥५८०॥नाधन्यान् विपरीतमोहनरसप्रेङ्खन्नितम्बस्थली- लोलद्भूषणकिङ्किणीकलरवव्यामिश्रकण्ठस्वनम् ।संरम्भश्लथकेशबन्धविगलन्मुक्ताकलापद्रुत- श्वासच्छेदतरङ्गितस्तनयुगं प्रीणाति शृङ्गारिणी १९.२३ ॥५८१॥सोन्नोकस्यशीत्कारवन्ति दरमीलितलोचनानि रोमाञ्चमुञ्चितनुघर्मकणावलीनि ।एणीदृशां मकरकेतुनिकेतनानि वन्दामहे सुरतविभ्रमचेष्टितानि १९.२४ ॥५८२॥मुहुर् व्रीडावत्याः प्रतिहसितवत्याः प्रतिमुहुर् मुहुर् विश्रान्ताया मुहुर् अभिनिविष्टव्यवसितेः ।श्रमाम्भोभिस् तम्यत्तिलकमलिकाघूर्णदलकं मुखं लीलावत्या हरति विपरीतव्यतिकरे १९.२५ ॥५८३॥सुरभेःआस्तां दूरेण विश्लेषः प्रियाम् आलिङ्गतो मम ।स्वेदः किं न सरिन्नाथो रोमाञ्चः किं न पर्वतः १९.२६ ॥५८४॥चिरारूढप्रेमप्रणयपरिहासेन हृतया तद् आरब्धं तन्व्या न तु यद् अबलायाः समुचितम् ।अनिर्व्यूढे तस्मिन् प्रकृतिसुकुमाराङ्गलतया पुनर् लज्जालोलं मयि विनिहितं लोचनयुगम् १९.२७ ॥५८५॥नखदशननिपातजर्जराङ्गी रतिकलहे परिपीडिता प्रहारैः ।सपदि मरणम् एव सा तु यायाद् यदि न पिबेद् अधरामृतं प्रियस्य १९.२८ ॥५८६॥मुग्धे तवास्मि दयिता दयितो भव त्वम् इत्य् उक्तया न हि न हीति शिरो ऽवधूय ।स्वस्मात् करान् मम करे वलयं क्षिपन्त्या वाचं विनाभ्युपगमः कथितो मृगाक्ष्या १९.२९ ॥५८७॥पततु तवोरसि सततं दयिताधम्मिल्लमल्लिकाप्रकरः ।रतिरसरभसकचग्रहलुलितालकवल्लरीगलितः १९.३० ॥५८८॥बाणस्यआवृण्वाना झगिति जघनं मद्दुकूलाञ्चलेन प्रेङ्खक्रीडाकुलितकबरीबन्धनव्यग्रपाणिः ।अर्धोच्छ्वासस्फुटनखपदालंकृताभ्यां स्तनाभ्यां दृष्टा धार्ष्ट्यस्मृतिनतमुखी मोहनान्ते मया सा १९.३१ ॥५८९॥अभिनन्दस्यहरति रतिविमर्दे लुप्तपात्राङ्कुरत्वात् प्रकटनखपदाङ्कः किं च रोमाञ्चमुद्रः ।हरिणशिशुदृशो ऽस्या मुग्धमुग्धं हसन्त्याः परिणतशरकाण्डस्निग्धपाण्डुः कपोलः १९.३२ ॥५९०॥वीर्यमित्रस्यकरकिसलयं धूत्वा धूत्वा विमार्गति वाससी क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति ।स्थगयति करैः पत्युर् नेत्रे विहस्य समाकुला सुरतविरतौ रम्या तन्वी मुहुर् मुहुर् ईक्षितुम् १९.३३ ॥५९१॥विश्रान्तिं नूपुरे याते श्रूयते रसनाध्वनिः ।प्रायः कान्ते रतिश्रान्ते कामिनी पुरुषायते १९.३४ ॥५९२॥भावोद्गाढम् उपोढकम्पपुलकैर् अङ्गैः समालिङ्गितं रागाच् चुम्बितम् अभ्युपेत्य वदनं पीतं च वक्त्रामृतम् ।जल्पन्त्यैव मुहुर् न नेति निभृतं प्रध्वस्तचारित्रया निःशेषेण समापितो रतविधिर् वाचा तु नाङ्गीकृतः १९.३५ ॥५९३॥यत् पीनस्तनभारलालसलसद्वासःस्फुरद्गण्डया तन्वङ्ग्या रभसार्पितं सरभसं वक्त्रं मुहुः पीयते ।तच् छ्लाघ्यं सुरतं च तत् तद् अमृतं तद् वस्तु तद् ब्रह्म तच् चेतोहारि तद् एव तत् किम् अपि तत् तत्त्वान्तरं सर्वथा १९.३६ ॥५९४॥न बत विधृतः काञ्चीस्थाने करः श्लथवाससि प्रहितम् असकृद् दीपे चक्षुर् घनस्थिरतेजसि ।कुचकलशयोर् ऊढः कम्पस् तया मम संनिधौ मनसिजरुजो भावैर् उक्ता वचोभिर् अपह्नुताः १९.३७ ॥५९५॥अभिनन्दस्यहर्षाश्रुदूषितविलोचनया मयाद्य किं तस्य तत् सखि निरूपितम् अङ्गम् अङ्गम् ।रोमाञ्चकञ्चुकतिरस्कृतदेहया वा ज्ञातानि तानि परिरम्भसुखानि किं वा १९.३८ ॥५९६॥अचलस्यस कस्मान् मे प्रेयान् सखि कथम् अहं तस्य दयिता यतो मां स्पृष्ट्वैव स्नपयति करं स्वेदपयसा ।विलोक्याश्लेषाद् अप्य् अवहित इवामील्य नयने व्युदञ्चद्रोमाञ्चस्थगितवपुर् आलिङ्गति समाम् १९.३९ ॥५९७॥किम् अपि किम् अपि मन्दं मन्दम् आसत्तियोगाद् अविचलितकपोलं जल्पतोश् च क्रमेण ।अशिथिलपरिरम्भव्यापृतैकैकदोष्णोर् अविदितगतयामा रात्रिर् एव व्यरंसीत् १९.४० ॥५९८॥त्तररामचरित १.२७भवभूतेःदाक्षिण्याद् अभिमानतो रसवशाद् विश्रामहेतोर् मम प्रागल्भ्याद् यद् अनुष्ठितं मृगदृशा शक्यं न तद् योषिताम् ।निर्व्यूढं न यदा तया तद् अखिलं खिन्नैस् तरत्तारकैः सव्रीडैश् च विलोकितैर् मयि पुनर् न्यस्तः समस्तो व्ययः १९.४१ ॥५९९॥वलितमनसोर् अप्य् अन्योन्यं समावृतभावयोः पुनर् उपचितप्रायप्रेम्णोः पुनस् त्रपमाणयोः ।इह हि निबिडव्रीडानङ्गज्वरातुरचेतसोर् नवतरुणयोः को जानीते किम् अद्य फलिष्यति १९.४२ ॥६००॥लक्ष्मीधरस्यद्रष्टुं केतकपत्रगर्भसुभगाम् ऊरुप्रभाम् उत्सुकस् तत्संवाहनलीलया च शनकैर् आक्षिप्तचण्डातकः ।लज्जामुग्धविलोचनस्मितसुधानिर्धौतबिम्बाधरं कमप्रश्लथबाहुबन्धनम् असव् आलिङ्गितो बालया १९.४३ ॥६०१॥निद्रार्तं किल लोचनं मृगदृशा विश्लेषयन्त्या कथां दीर्घापाङ्गसरित्तरङ्गतरलं शय्याम् अनुप्रेषितम् ।उज्जृम्भः किल वल्लभो ऽपि विरते वस्तुन्य् अपि प्रस्तुते घूर्णन्ती किल सापि हूंकृतवती शून्यं सखी दक्षिणा १९.४४ ॥६०२॥दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चाद् उपेत्यादराद् एकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः ।तिर्यग्वर्तितकन्धरां सपुलकस्वेदोद्गमोत्कम्पिनीम् अन्तर्हासचलत्कपोलफलकां धूर्तो ऽपरां चुम्बति १९.४५ ॥६०३॥कुचोपान्तं कान्ते लिखति नखराग्रैर् अकलितं ततः किंचित् पश्चाद् वलति च मुखेन्दौ मृगदृशः ।बहिर् व्याजामर्षप्रसरपरुषान्तर्गतरसा निरीक्ष्या रे मायी किम् इदम् इति पूर्वा विजयते १९.४६ ॥६०४॥जीवचन्द्रस्यआश्लेषे प्रथमं क्रमाद् अपहृते हृद्ये ऽधरस्यार्पणे केलिद्यूतविधौ पणं प्रियतमे कान्तां पुनः पृच्छति ।अन्तर्गूढविगाढसम्भ्रमरसस्फारीभवद्गण्डया तूष्णीं शारिविसारणाय निहितः स्वेदाम्बुगर्भः करः १९.४७ ॥६०५॥राजशेखरस्यआश्लेषचुम्बनरतोत्सवकौतुकानि क्रीडा दुरोदरपणः प्रतिभूर् अनङ्गः ।भोगः स यद्य् अपि जये च पराजये च यूनोर् मनस् तद् अपि वाञ्छति जेतुम् एव १९.४८ ॥६०६॥मुरारेःकलहकलया यत् संवृत्यै त्रपावनतानना पिहितपुलकोद्भेदं सुभ्रूश् चकर्ष न कञ्चुकम् ।दयितम् अभितस् ताम् उत्कण्ठां विवव्रुर् अनन्तरं झटिति झटिति त्रुट्यन्तो ऽन्तः स्तनांशुकसन्धयः १९.४९ ॥६०७॥रतिपतिधनुर् ज्याटङ्कारो मदद्विपडिण्डिमः सपुलकजलप्रेमप्रावृट्पयोधरगर्जितम् ।निधुवनयुधस्तूर्यातोद्यं जहार नतभ्रुवां जघनसरसीहंसस्वानः श्रुतिं रसनारवः १९.५० ॥६०८॥युगलम् अगलत् तर्षोत्कर्षे तरूत्पलगौरयोः पटुविघटनाद् ऊर्वोः पूर्वं प्रिये परिपश्यति ।श्रुतिकुवलयं दीपोच्छित्त्यै निरास यद् अङ्गना ज्वलति रसनारोचिर् दीपे तद् आप निरर्थताम् १९.५१ ॥६०९॥अप्फिणाभ्युदय १४.२४दशनदशनैर् ओष्ठो मम्लौ न पल्लवकोमलो व्यसहत नखच्छेदानङ्गं शिरीषमृदुच्छवि ।न भुजलतिकागाढाश्लेषैः श्रमं ललिता ययुर् युवतिषु किम् अप्य् अव्याख्येयं स्मरस्य विजृम्भितम् १९.५२ ॥६१०॥अप्फिणाभ्युदय १४.२८किम् उपगमिता भर्त्रा तप्तद्विलोहवेदकताम् उत रमयितुः स्यूताङ्गे ऽङ्गे शितैः स्मरसायकैः ।विलयनम् अथ प्राप्ता रागानलोष्मभिर् इत्य् अहो न पतिभुजयोर् निष्यन्दान्तः प्रिया निरवीयत १९.५३ ॥६११॥अप्फिणाभ्युदय १४.२९काश्मीरभट्टश्रीशिवस्वामिनश् चैतेइति सम्भोगव्रज्या N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP