TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः १०३

पूर्वभागः - अध्यायः १०३

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः १०३
सूत उवाच ॥
अथ ब्रह्मा महादेवमभिवंद्य कृतांजलिः ॥
उद्वाहः क्रियतां देव इत्युवाच महेश्वरम् ॥१॥

तस्य तद्वचनं श्रुत्वा ब्रह्मणः परमेष्ठिनः ॥
यथेष्टमिति लोकेशं प्राह भूतपतिः प्रभुः ॥२॥

उद्वाहार्थं महेशस्य तत्क्षणादेव सुव्रताः ॥
ब्रह्मणा कल्पितं दिव्यं पुरं रत्नमयं शुभम् ॥३॥

अथादितिर्दितिः साक्षाद्दनुः कद्रुः सुकालिका ॥
पुलोमा सुरसा चैव सिंहिका विनता तथा ॥४॥

सिद्धिर्माया क्रिया दुर्गा देवी साक्षात्सुधा स्वधा ॥
सावित्री वेदमाता च रजनी दक्षिणा द्युतिः ॥५॥

स्वाहा स्वधा मतिर्बुद्धिर्ऋद्धिर्वृद्धिः सरस्वती ॥
राका कुहूः सिनीवाली देवी अनुमति तथा ॥६॥

धरणी धारणी चेला शची नारायणी तथा ॥
एताश्चान्याश्च देवानां मातरः पत्नयस्तथा ॥७॥

उद्वाहः शंकरस्येति जग्मुः सर्वा मुदान्विताः ॥
उरगा गरुडा यक्षा गंधर्वाः किन्नरा गणाः ॥८॥

सागरा गिरयो मेघा मासाः संवत्सरा स्तथा ॥
वेदा मंत्रास्तथा यज्ञाः स्तोमा धर्माश्च सर्वशः ॥९॥

हुंकारः प्रणवश्चैव प्रतिहाराः सहस्रशः ॥
कोटिरप्सरसो दिव्यास्तासां च परिचारिकाः ॥१०॥

याश्च सर्वेषु द्वीपेषु देवलोकेषु निम्नगाः ॥
ताश्च स्त्रीविग्रहाः सर्वाः संजग्मुर्हृष्टमानसाः ॥११॥

गणपाश्च महा भागाः सर्वलोकनमस्कृताः ॥
उद्वाहः शंकरस्येति तत्राजग्मुर्मुदान्विताः ॥१२॥

अभ्ययुः शंखवर्णाश्च गणकोट्यो गणेश्वराः ॥
दशभिः केकराक्षश्च विद्युतोष्टाभिरेव च ॥१३॥

चतुःषष्ट्या विशाखाश्च नवभिः पारयात्रिकः ॥
षड्भिः सर्वातकः श्रीमान् तथैव विकृताननः ॥१४॥

ज्वालाकेशो द्वादशभिः कोटिभिर्गणपुंगवः ॥
सप्तभिः समदः श्रीमान्दुंदुभोष्टाभिरेव च ॥१५॥

पंचभिश्च कपालीशः षड्भिः संदारकः शुभः ॥
कोटिकोटिभिरेवेह गंडकः कुंभकस्तथा ॥१६॥

विष्टंभोष्टाभिरेवेह गणपः सर्वसत्तमः ॥
पिप्लश्च सहस्रेण सन्नादश्च तथा द्विजाः ॥१७॥

आवेष्टनस्तथाष्टाभिः सप्तभिश्चंद्रतापनः ॥
महाकेशः सहस्रेण कोटीनां गणपो वृतः ॥१८॥

कुंडी द्वादशभिर्वीरस्तथा पर्वतकः शुभः ॥
कालश्च कालकश्चैव महाकालः शतेन वै ॥१९॥

आग्निकः शतकोट्या वै कोट्याग्निमुख एव च ॥
आदित्य मूर्धा कोट्या च तथा चैव धनावहः ॥२०॥

सन्नामश्च शतेनैव कुमुदः कोटिभिस्तथा ॥
अमोघः कोकिलश्चैव कोटिकोट्या सुमंत्रकः ॥२१॥

काकपाटोऽपरः षष्ट्या षष्ट्या संतानकः प्रभुः ॥
महाबलश्च नवभिर्मधुपिंगश्च पिंगलः ॥२२॥

निलो नवत्या देवेशः पूर्णभद्रस्तथैव च ॥
कोटीनां चैव सप्तत्या चतुर्वक्त्रो महाबलः ॥२३॥

कोटिकोटिसहस्राणां शतैर्विशातिभिर्वृताः ॥
तत्राजग्मुस्तथा देवास्ते सर्वे शंकरं भवम् ॥२४॥

भूतकोटिसहस्रेण प्रमथः कोटिभिस्त्रिभिः ॥
वीरभद्रश्चतुःषष्ट्या रोमजाश्चैव कोटिभिः ॥२५॥

करणश्चैव विंशत्या नवत्या केवलः शुभः ॥
पंचाक्षः शतमन्युश्च मेघमन्युस्तथैव च ॥२६॥

काष्ठकूटश्चतुः षष्ट्या सुकेशो वृषभस्तथा ॥
विरुपाक्षश्च भगवान् चतुःषष्ट्या सनातनः ॥२७॥

तालुकेतुः षडास्यश्च पंचास्यश्च सनातनः ॥
संवर्त्तकस्तथा चैत्रो लकुलीशः स्वयं प्रभुः ॥२८॥

लोकांतकश्च दिप्तास्यो तथा दैत्यांतकः प्रभुः ॥
मृत्युहृत्कालहा कालो मृत्युंजयकरस्तथा ॥२९॥

विषादो विषदश्चैव विद्युतः कांतकः प्रभुः ॥
देवो भृंगी रिटिः श्रीमान् देवदेवप्रियस्तथा ॥३०॥

अशनीर्भासकश्चैव चतुःषष्ट्या सहस्रपात् ॥
एते चान्ये च गणपा असंख्याता महाबलाः ॥३१॥

सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः ॥
चंद्ररेखावतंसाश्च नीलकंठास्त्रिलोचनाः ॥३२॥

हारकुंडलकेयूरमुकुटाद्यैरलंकृताः ॥
ब्रह्मेंद्रविष्णुसंकाशा अणिमादिगुणैर्वृताः ॥३३॥

सूर्यकोटिप्रतीकाशास्तत्राजग्मुर्गणेश्वराः ॥
पातालचारिणश्चैव सर्वलोकनिवासिनः ॥३४॥

तुंबरुर्नारदो हाहा हूहूश्चैव तु सामगाः ॥
रत्नान्यादाय वाद्यांश्च तत्राजग्मुस्तदा पुरम् ॥३५॥

ऋषयः कृत्स्नशस्तत्र देवगीतास्तपोधनाः ॥
पुण्यान्वैवाहिकान्मंत्रानजपुर्हृष्टमानसाः ॥३६॥

तत एवं प्रवृत्ते तु सर्वतश्च समागमे ॥
गिरिजां तामलंकृत्य स्वयमेव शुचिस्मिताम् ॥३७॥

पुरं प्रवेशयामास स्वयमादायकेशवः ॥
सदस्याह च देवेशं नारायणमजो हरिम् ॥३८॥

भवानग्रे समुत्पन्नो भवान्या सह दैवतैः ॥
वामांगादस्य रुद्रस्य दक्षिणांगादहं प्रभो ॥३९॥

मन्मूर्तिस्तुहिनाद्रीशो यज्ञार्थं सृष्ट एव हि ॥
एषा हैमवती जज्ञे मायया परमेष्ठिनः ॥४०॥

श्रौतस्मार्तप्रवृत्त्यर्थमुद्वाहार्थमिहागतः ॥
अतोसौ जगतां धात्री धाता तव ममापि च ॥४१॥

अस्य देवस्य रुद्रस्य मूर्तिभिर्विहितं जगत् ॥
क्ष्माबग्निखेंदुसूर्यात्मपवनात्मा यतो भवः ॥४२॥

तथापि तस्मै दातव्या वचनाच्च गिरेर्मम ॥
एषा ह्यजा शुक्लकृष्णा लोहिता प्रकृतिर्भवान् ॥४३॥

श्रेयोपि शैलराजेन संबंधोऽयं तवापि च ॥
तव पाद्मे समुद्भूतः कल्पे नाभ्यंबुजादहम् ॥४४॥

मदंशस्यास्य शैलस्य ममापि च गुरुर्भवान् ॥
सूत उवाच ॥
बाढमित्यजमाहासौ देवदेवो जनार्दनः ॥४५॥

देवाश्च मुनयः सर्वे देवदेवश्च शंकरः ॥
ततश्चोत्थाय विद्वान्सः पद्मनाभः प्रणम्य ताम् ॥४६॥

पादौ प्रक्षाल्य देवस्य कराभ्यां कमलेक्षणः ॥
अभ्युक्षदात्मनो मूर्ध्नि ब्रह्मणश्च गिरेस्तथा ॥४७॥

त्वदीयैषा विवाहार्थं मेनजा ह्यनुजा मम ॥
इत्युक्त्वा सोदकं दत्वा देवीं देवेश्वराय ताम् ॥४८॥

स्वात्मानमपि देवाय सोदकं प्रददौ हरिः ॥
अथ सर्वे मुनिश्रेष्ठाः सर्ववेदार्थपारगाः ॥४९॥

ऊचुर्दाता गृहीता च फलं द्रव्यं विचारतः ॥
एष देवो हरो नूनं मायया हि ततो जगत् ॥५०॥

इत्युक्त्वा तं प्रणेमुश्च प्रीतिकंटाकितत्वचः ॥
ससृजुः पुष्पवर्षाणि खेचराः सिद्धचारणाः ॥५१॥

देवदुंदुभयो नेदुर्ननृतुश्चाप्सरोगणाः ॥
वेदाश्च मूर्तिमंतस्ते प्रणेमुस्तं महेश्वरम् ॥५२॥

ब्रह्मणा मुनिभिः सार्धं देवदेवमुमापतिम् ॥
देवोपि देवीमालोक्य सलज्जां हिमशैलजाम् ॥५३॥

न तृप्यत्यनवद्यांगी सा च देवं वृषध्वजम् ॥
वरदोस्मीति तं प्राह हरिं सोप्याह शंकरम् ॥५४॥

त्वयि भक्तिः प्रसीदेति ब्रह्माख्यां च ददौ तु सः ॥
ततस्तु पुनरेवाह ब्रह्मा विज्ञापयन्प्रभुम् ॥५५॥

हविर्जुहोमि वह्नौ तु उपाध्यायपदे स्थितः ॥
ददासि मम यद्याज्ञां कर्त्तव्यो ह्यकृतो विधिः ॥५६॥

तमाह शंकरो देवं देवदेवो जगत्पतिः ॥
यद्यदिष्टं सुरश्रेष्ठ तत्कुरुष्व यथेप्सितम् ॥५७॥

कर्त्तास्मि वचनं सर्वं देवदेव पितामह ॥
ततः प्रणम्य हृष्टामा ब्रह्मा लोकपितामहः ॥५८॥

हस्तं देवस्य देव्याश्च युयोज परमं प्रभुः ॥
ज्वलनश्च स्वयं तत्र कृतांजलिरुपस्थितः ॥५९॥

श्रौतैरेतैर्महामंत्रैर्मूर्तिमद्भिरुपस्थितैः ॥
यथोक्तविधिना हुत्वा लाजानपि यताक्रमम् ॥६०॥

आनीतान्विष्णुना विप्रासंपूज्य विविधैर्वरैः ॥
त्रिश्च तं ज्वलनं देवं कारयित्वा प्रदक्षिणम् ॥६१॥

मुक्त्वा हस्तसमायोगं सहितैः सर्वदैवतैः ॥
सुरैश्च मानवैः सर्वैः प्रहृष्टेनांतरात्मना ॥६२॥

ननाम भगवान्ब्रह्मा देवदेवमुमापतिम् ॥
ततः पाद्यं तयोर्दत्वा शंभोराचमनं तथा ॥६३॥

मधुपर्कं तथा गां च प्रणम्य च पुनः शिवम् ॥
अतिष्ठद्भगवान्ब्रह्मा देवैरिन्द्रपुरोगमैः ॥६४॥

भृग्वाद्य मुनयः सर्वे चाक्षतैस्तिलतंडुलैः ॥
सूर्यादयः समभ्यर्च्य तुष्टुवुर्वृषभध्वजम् ॥६५॥

शिवः समाप्य देवोक्तं वह्निमारोप्य चात्मनि ॥
तया समागतो रुद्रः सर्वलोकहिताय वै ॥६६॥

यः पठेच्छृणुयाद्वापि भवोद्वाहं शुचिस्मितः ॥
श्रावयेद्वा द्विजाञ्छुद्धान्वेदवेदांगपारगान् ॥६७॥

स लब्ध्वा गाणपत्यं च भवेन सह मोदते ॥
यत्रायं कीर्त्यते विप्रैस्तावदास्ते तदा भवः ॥६८॥

तस्मात्संपूज्य विधिवत्कीर्तयेन्नायथा द्विजाः ॥
उद्वाहे च द्विजेंद्राणां क्षत्रियाणां द्विजोत्तमाः ॥६९॥

कीर्तनीयमिदं सर्वं भवोद्वाहमनुत्तमम् ॥
कृतोद्वाहस्तदा देव्या हैमवत्या वृषध्वजः ॥७०॥

सगणो नंदिना सार्धं सर्वदेवगणैर्वृतः ॥
पुरीं वाराणसीं दिव्यामाजगाम महाद्युतिः ॥७१॥

अविमुक्ते सुखासीनं प्रणम्य वृषभध्वजम् ॥
अपृच्छत्क्षेत्रमाहात्म्यं भवानी हर्षितानना ॥७२॥

अथाहार्धेन्दुतिलकः क्षेत्रमाहात्म्यमुत्तमम् ॥
अविमुक्तस्य माहात्म्यं विस्तराच्छक्यते नहि ॥७३॥

वक्तुं मया सुरेशानि ऋषिसंघाभिपूजितम् ॥
किं मया वर्ण्यते देवी ह्यविमुक्तफलोदयः ॥७४॥

पापिनां यत्र मुक्तिः स्यान्मृतानामेकजन्मना ॥
अन्यत्र तु कृतं पापं वाराणस्यां व्यपोहति ॥७५॥

वाराणस्यां कृतं पापं पैशाच्यनरकावहम् ॥
कृत्वा पापसहस्राणि पिशाचत्वं वरं नृणाम् ॥७६॥

न तु शक्रसहस्रत्वं स्वर्गे काशीपुरीं विना ॥
यत्र त्रिविष्टपो देवो यत्र विश्वेश्वरो विभुः ॥७७॥

ओंकारेशः कृत्तिवासा मृतानां न पुनर्भवः ॥
उक्त्वा क्षेत्रस्य माहात्म्यं संक्षेपाच्छशिशेखरः ॥७८॥

दर्शयामास चोद्यानं परित्यज्य गणेश्वरान् ॥
तत्रैव भगवान् जातो गजवक्त्रो विनायकः ॥७९॥

दैत्यानां विघ्नरूपार्थमविघ्नाय दिवौकसाम् ॥
एतद्वः कथितं सर्वं कथासर्वस्वमुत्तमम् ॥८०॥

यथाश्रुतं मया सर्वं प्रसादाद्वः सुशोभनम् ॥८१॥

इति श्रीलिंगमहापुराणे पूर्वभागे पार्वतीविवाहवर्णनं नाम त्र्यधिकशततमोऽध्यायः ॥१०३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:28.6930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

डिगडिग

  • उद्ना . मुलांना लाडीकपणानें खेळविण्याचा शब्द . 
  • ind  A word of lullaby for infants. 
RANDOM WORD

Did you know?

चंद्र व सूर्य यांच्या ग्रहणी जन्म झाल्यास त्याचे काय परिणाम होतात? शांती, विधी काही आहे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.