TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ६४

पूर्वभागः - अध्यायः ६४

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः ६४
ऋषय ऊचुः ॥
कथं हि रक्षसा सक्तिर्भक्षितः सोनुजैः सह ॥
वासिष्ठो वदतां श्रेष्ठ सूत वक्तुमिहार्हसि ॥१॥

सूत उवाच ॥
राक्षसो रुधिरो नाम वसिष्ठस्य सुतं पुरा ॥
शक्तिं स भक्षयामास शक्तेः शापात्सहानुजैः ॥२॥

वसिष्ठयाज्यं विप्रेन्द्रास्तदा दिश्यैव भूपतिम् ॥
कल्माषपादं रुधिरो विश्वामित्रेण चोदितः ॥३॥

भक्षितः स इति श्रुत्वा वसिष्ठस्तेन रक्षसा ॥
शक्तिः शक्तिमतां श्रेष्ठो भ्रातृभिः सह धर्मवित् ॥४॥

हा पुत्र पुत्र पुत्रेति क्रंदमानो मुहुर्मुहुः ॥
अरुंधत्या सह मुनिः पपात भुवि दुःखितः ॥५॥

नष्टं कुलमिति श्रुत्वा मर्तुं चक्रे मतिं तदा ॥
स्मरन्पुत्रशतं चैव शक्तिज्येष्ठं च शक्तिमान् ॥६॥

न तं विनाहं जीविष्ये इति निश्चित्य दुःखितः ॥७॥

आरुह्य मूर्धानमजात्मजोसौ तयात्मवान् सर्वविदात्मविच्च ॥
धराधरस्यैव तदा धरायां पपात पत्न्या सहसाश्रृदृष्टिः ॥८॥

धराधरात्तं पतितं धरा तदा दधार तत्रापि विचित्रकण्ठी ॥
करांबुजाभ्यां करिखेलगामिनी रुदन्तमादाय रुरोद सा च ॥९॥

तदा तस्य स्नुषा प्राह पत्नी शक्तेर्महामुनिम् ॥
वसिष्ठं वदतां श्रेष्ठं रुदंती भयविह्वला ॥१०॥

भगवन्ब्राह्मणश्रेष्ठ तव देवमिदं शुभम् ॥
पालयस्व विभो द्रष्टुं तव पौत्रं ममात्मजम् ॥११॥

न त्याज्यं तव विप्रेन्द्र देहमेतत्सुशोभनम् ॥
गर्भस्थो मम सर्वार्थसाधकः शक्तिजो यतः ॥१२॥

एवमुक्त्वाथ धर्मज्ञा कराभ्यां कमलेक्षणा ॥
उत्थाप्य श्वशुरं नत्वा नेत्रे संमृज्य वारिणा ॥१३॥

दुःखितापि परित्रातुं श्वशुरं दुःखितं तदा ॥
अरुन्धतीं च कल्याणीं प्रार्थयामास दुःखिताम् ॥१४॥

स्नुषावाक्यं ततः श्रुत्वा वसिष्ठोत्थाय भूतलात् ॥
संज्ञामवाप्य चालिंग्य सा पपात सुदुःखिता ॥१५॥

अंरुधती कराब्यां तां संस्पृश्यास्राकुलेक्षणाम् ॥
रुरोद मुनिशार्दूलो भार्यया सुतवत्सलः ॥१६॥

अथ नाब्यंबुजे विष्णोर्यथा तस्याश्चतुर्मुखः ॥
आसीनो गर्भशय्यायां कुमार ऋचमाह सः ॥१७॥

ततो निशम्य भगवान्वसिष्ठ ऋचमादरात् ॥
केनोक्तमिति संचिंत्य तदातिष्ठत्समाहितः ॥१८॥

व्योमांगणस्थोथ हरिः पुंडरीकनिभेक्षणः ॥
वसिष्ठमाह विश्वात्मा घृणया स घृणानिधिः ॥१९॥

भो वत्सवत्स विप्रेन्द्र वसिष्ठ सुतवत्सल ॥
तव पौत्रमुखांभोजादृगेषाद्य विनिःसृता ॥२०॥

मत्समस्तव पौत्रोसौ शक्तिजः शक्तिमान्मुने ॥
तस्मादुत्तिष्ठ संत्यस्य शोकं ब्रह्मसुतोत्तम ॥२१॥

रुद्रभक्तश्च गर्भस्थो रुद्रपूजापरायणः ॥
रुद्रदेवप्रभावेण कुलं ते संतरिष्यति ॥२२॥

एवमुक्त्वा घृणी विप्रं भगवान् पुरुषोत्तमः ॥
वसिष्ठं मुनिशार्दूलं तत्रैवान्तरधीयत ॥२३॥

ततः प्रणम्य शिरसा वसिष्ठो वारिजेक्षणम् ॥
अदृश्यंत्या महातेजाः पस्पर्शोदरमादरात् ॥२४॥

हा पुत्र पुत्र पुत्रेति पपात च सुदुःखितः ॥
ललापारुंधती प्रेक्ष्य तदासौ रुदतीं द्विजाः ॥२५॥

स्वपुत्रं च स्मरन् दुःखात्पुनरेह्येहि पुत्रक ॥
तव पुत्रमिमं दृष्ट्वा भो शक्ते कुलधारणम् ॥२६॥

तवांतिकं गमिष्यामि तव मात्रा न संशयः ॥
सूत उवाच ॥
एवमुक्त्वा रुदन्विप्र आलिंग्यारुंधतीं तदा ॥२७॥

पपात ताडयंतीव स्वस्य कुक्षी करेण वै ॥
अदृसश्यंती जघानाथ शक्तिजस्यालयं शुभा ॥२८॥

स्वोदरं दुःखिता भूमौ ललाप च पपात च ॥
अरुंधति तदा भीता वसिष्ठश्च महामतिः ॥२९॥

समुत्थाप्य स्नुषां बालामूचतुर्भयविह्वलौ ॥३०॥

विचारमुग्धे तव गर्भमंडलं करांबुजाभ्यां विनिहत्य दुर्लभम् ॥
कुलं वसिष्ठस्य समस्तमप्यहो निहंतुमार्ये कथमुद्यता वद ॥३१॥

तवात्मजं शक्तिसुतं च दृष्ट्वा चास्वाद्य वक्त्रामृतमार्यसूनोः ॥
त्रातुं यतो देहमिमं मुनींद्रः सुनिश्चितः पाहि ततः शरीरम् ॥३२॥

सूत उवाच ॥
एवं स्नुषामुपालभ्य मुनिं चारुंधती स्थिता ॥
अरंधती वसिष्ठस्य प्राह चार्तेतिविह्वला ॥३३॥

त्वय्येव जीवितं चास्य मुनेर्यत्सुव्रते मम ॥
जीवितं रक्ष देहस्य धात्री च कुरु याद्धितम् ॥३४॥

अदृश्यंति उवाच ॥
मया यदि मुनिश्रेष्ठो त्रातुं वै निश्चितं स्वकम् ॥
ममाशुभं शुभं देहं कथंचित्पालयाम्यहम् ॥३५॥

प्रियदुःखमहं प्राप्त ह्यसती नात्र संशयः ॥
मुने दुःखादहं दग्धा यतः पुत्री मुने तव ॥३६॥

अहोद्भुतं मया दृष्टं दुःखपात्री ह्यहं विभो।
दुःखत्राता भव ब्रह्मन्ब्रह्मसूनो जगद्गुरो ॥३७॥

तथापि भर्तृरहिता दीना नारि भवेदिह ॥
पाहि मां तत आर्येन्द्र परिभूता भविष्यति ॥३८॥

पिता माता च पुत्रास्च पौत्राः श्वशुर एव च ॥
एते न बांधवाः स्त्रीणां भर्ता बंधुः परा गतिः ॥३९॥

आत्मनो यद्धि कथितमप्यर्धमिति पंडितैः ॥
तदप्यत्र मृषा ह्याससीद्गतः शक्तिरहं स्थिता ॥४०॥

अहो ममात्र काठिन्यं मनसो मुनिपुंगव ॥
पतिं प्राणसमं त्यक्त्वा स्थिता यत्र क्षणं यतः ॥४१॥

वसिष्ठाश्वत्थमाश्रित्य ह्यमृता तु यथा लता ॥
निर्मूलाप्यमृता भर्त्रात्यक्ता दीना स्थिताप्यहम् ॥४२॥

स्नुषा वाक्यं निशम्यैव वसिष्ठो भार्यया सह ॥
तदा चक्रे मतिं धीमान् यातुं स्वाश्रममाश्रमी ॥४३॥

कृच्छ्रात्सभार्यो भगवान्वासिष्ठः स्वाश्रमं क्षणात् ॥
अदृश्यंत्या च पुण्यात्मा संविवेश स चिंतयन् ॥४४॥

सा गर्भं पालयामास कथंचिन्मुनिपुंगवाः ॥
कुलसंधारणार्थाय शक्ति पत्नी पतिव्रता ॥४५॥

ततः सासूत तनयं दशमे मासि सुप्रभम् ॥
शक्तिपत्नी यथा शक्तिं शक्तिमंतमरुंधती ॥४६॥

असूत सा दितिर्विष्णुं यता स्वाहा गुहं सुतम् ॥
अग्निं यथारणिः पत्नी शक्तेः साक्षात्पराशरम् ॥४७॥

यदा तदा शक्तिसूजुरवतीर्णो महीतले ॥
शक्तिस्त्यक्त्वा तदा दुःखं पितॄणां समतां ययौ ॥४८॥

भ्रातृभिः सह पुण्यात्मा आदित्यैरिव भास्करः ॥
रराज पितृलोकस्थो वासिष्ठो मुनिपुंगवाः ॥४९॥

जगुस्तदा च पितरो ननृतुश्च पितामहाः ॥
प्रपितामहाश्च विप्रेन्द्रा ह्यवतीर्णे पराशरे ॥५०॥

ये ब्रह्मवादिनो भूमौननृतुर्दिवि देवताः ॥
पुष्कराद्याश्च ससृजुः पुष्पवर्षं च खेचराः ॥५१॥

पुरेषु राक्षसानां च प्रणादं विषमं द्विजाः ॥
आश्रमस्थाश्च मुनयः समूहुर्हर्षसंततिम् ॥५२॥

अवतीर्णो यथा ह्यंडाद्भानुः सोपि पराशरः ॥
अदृश्यंत्याश्चतुर्वक्त्रो मेघजालाद्दिवाकरः ॥५३॥

सुखं च दुःखमभवददृश्यंत्यास्तथा द्विजाः ॥
दृष्ट्वा पुत्रं पतिं स्मृत्वा अरुंधत्या मुनेस्तथा ॥५४॥

दृष्ट्वा च तनयं बाला पराशरमतिद्युतिम् ॥
ललाप विह्वला बाला सन्नकंठी पपात च ॥५५॥

सा पराशरमहो महामतिं देवदानवगणैश्च पूजितम् ॥
जातमात्रमनघं शुचिस्मिता बुध्य साश्रुनयना ललाप च ॥५६॥

हा वसिष्ठसुत कुत्रचिद्गतः पश्य पुत्रमनघं तवात्मजम् ॥
त्यज्य दीनवदनां वनान्तरे पुत्र दर्शनपरामिमां प्रभो ॥५७॥

शक्ते स्वं च सुतं पश्य भ्रातृभिः सह षण्मुखम् ॥
यथा महेश्वरोपश्यत्सगणो हृषिताननः ॥५८॥

अथ तस्यास्तदालापं वसिष्ठो मुनिसत्तमः ॥
श्रुत्वा स्नुषामुवाचेदं मारोदीरिति दुःखितः ॥५९॥

आज्ञया तस्य सा शोकं वसिष्ठस्य कुलांगना ॥
त्यक्त्वा ह्यपालयद्बालं बाला बालमृगेक्षणा ॥६०॥

दृष्ट्वा तामबलां प्राह मङ्गलाभरणैर्विना ॥
आसीनामाकुलां साध्वीं बाष्पपर्याकुले क्षणाम् ॥६१॥

शाक्तेय उवाच ॥
अंब मंगलविभूषणैर्विना देहयष्टिरनघे न शोभते ॥
वक्तुमर्हसि तवाद्य कारणं चंद्रबिंबरहितेव शर्वरी ॥६२॥

मातर्मातः कथं त्यक्त्वा मंगलाभरणानि वै ॥
आसीना भर्तृहीनेव वक्तुमर्हसि शोभने ॥६३॥

अदृश्यंती तदा वाक्यं श्रुत्वा तस्य सुतस्य सा ॥
न किंचिदब्रवीत्पुत्रं शुभं वा यदि वेतरत् ॥६४॥

अदृश्यंतीं पुनः प्राह शाक्तेयो भगवान्मम ॥
मातः कुत्र महातेजाः पिता वद वदेति ताम् ॥६५॥

श्रुत्वा रुरोद सा वाक्यं पुत्रस्यातीव विह्वला ॥
भक्षितो रक्षसा तातस्तवेति निपपात च ॥६६॥

श्रुत्वा वसिष्ठोपि पपात भूमौ पौत्रस्य वाक्यं स रुदन्दयालुः ॥
अरुंधती चाश्रमवासिनस्तदा मुनेर्वसिष्ठस्य मुनीश्वराश्च ॥६६॥

श्रुत्वा वसिष्ठोपि पपात भूमौ पौत्रस्य वाक्यं स रुदन्दयालुः ॥
अरुंधती चाश्रमवासिनस्तदा मुनेर्वसिष्ठस्य मुनीश्वराश्च ॥६७॥

भक्षितो रक्षसा मातुः पिता तव मुकादिति ॥
श्रुत्वा पराशरो धीमान्प्राह चास्राविलेक्षणः ॥६८॥

पराशर उवाच ॥
अभ्यर्च्य देवदेवेशं त्रैलोक्यं सचराचरम् ॥
क्षणेन मातः पितरं दर्शयामीति मे मतिः ॥६९॥

सा निशम्य वचनं तदा शुभं सस्मिता तनयमाह विस्मिता ॥
तथ्यमे तदिति तं निरीक्ष्य सा पुत्रपुत्र भवमर्चयेति च ॥७०॥

ज्ञात्वा शक्तिसुतस्यास्य संकल्पं मुनिपुंगवः ॥
वसिष्ठो भगवान्प्राह पौत्रं धीमान् घृणानिधिः ॥७१॥

स्थाने पौत्रं मुनिश्रेष्ठ संकल्पस्तव सुव्रत ॥
तथापि श्रृणु लोकस्य क्षयं कर्तुं न चार्हसि ॥७२॥

राक्षसानामभावाय कुरु सर्वेश्वरार्चनम् ॥
त्रैलोक्यं श्रृणु शाक्तेय अपराध्यति किं तव ॥७३॥

ततस्तस्य वसिष्ठस्य नियोगाच्छक्तिनंदनः ॥
राक्षसानामभावाय मतिं चक्रे महामतिः ॥७४॥

अदृश्यंतीं वसिष्ठं च प्रणम्यारुन्धतीं ततः ॥
कृत्वैकलिंगं क्षणिकं पांसुना मुनिसन्निधौ ॥७५॥

संपूज्य शिवसूक्तेन त्र्यंबकेन शुभेन च ॥
जप्त्वा त्वरितरुद्रं च शिवसंकल्पमेव च ॥७६॥

नीलरुद्रं च शाक्तेयस्तथा रुद्रं च शोभनम् ॥
वामीयं पवमानं च पंचब्रह्म तथैव च ॥७७॥

होतारं लिंगसूक्तं च अथर्वशिर एव च ॥
अष्टांगमर्घ्यं रुद्राय दत्वाभ्यर्च्य यथाविधि ॥७८॥

पराशर उवाच ॥
भगवन्रक्षसा रुद्र भक्षितो रुधिरेण वै ॥
पिता मम महातेजा भ्रातृभिः सह शंकर ॥७९॥

द्रष्टुमिच्छामि भगवन् पितरं भ्रातृभिः सह ॥
एवं विज्ञापयाँल्लिङ्गं प्रणिपत्य मुहुर्मुहुः ॥८०॥

हा रुद्र रुद्ररुद्रेति रुरोद निपपात च ॥
तं दृष्ट्वा भगवान्नुद्रो देवीमाह च शंकरः ॥८१॥

पश्य बालं महाभागे बाष्पपर्याकुलेक्षणम् ॥
ममानुस्मरणे युक्तं मदाराधनतत्परम् ॥८२॥

सा च दृष्ट्वा महादेवी पराशरमनिन्दिता ॥
दुःखात्संक्लिन्नसर्वाङ्गमस्राकुलविलोचनम् ॥८३॥

लिंगार्चनविधौ सक्तं हर रुद्रेति वादिनम् ॥
प्राह भर्तारमीशानं शंकरं जगतामुमा ॥८४॥

ईप्सितं यच्छ सकलं प्रसीद परमेश्वर ॥
निशम्य वचनं तस्याः शंकरः परमेश्वरः ॥८५॥

भार्यामार्यामुमां प्राह ततो हालाहलाशनः ॥
रक्षाम्येनं द्विजं बालं फुल्लेन्दीवरलोचनम् ॥८६॥

ददामि दृष्टिं मद्रूपदर्शनक्षम एष वै ॥
एवमुक्त्वा गणैर्दिव्यैर्भगवान्नीललोहितः ॥८७॥

ब्रह्मेन्द्रविष्णुरुद्राद्यैः संवृतः परमेश्वरः ॥
ददौ च दर्शनं तस्मै मुनिपुत्राय धीमते ॥८८॥

सोपि दृष्ट्वा महादेवमानन्दास्राविलेक्षणः ॥
निपपात च हृष्टात्मा पादयोस्तस्य सादरम् ॥८९॥

पुनर्भवान्याः पादौ च नंदिनश्च महात्मनः ॥
सफलं जीवितं मेद्य ब्रह्माद्यांस्तांस्तदाह सः ॥९०॥

रक्षार्थमागतस्त्वद्य मम वालेन्दुभूषणः ॥
कोन्यः समो मया लोके देवो वा दानवोपि वा ॥९१॥

अथ तस्मिन्क्षणादेव ददर्श दिवि संस्थितम् ॥
पितरं भ्रातृभिः सार्ध शाक्तेयस्तु पराशरः ॥९२॥

सूर्यमंडलसंकाशे विमाने विश्वतो मुखे ॥
भ्रातृभिः सहितं दृष्ट्वा ननाम च जहर्ष च ॥९३॥

तदा वृषध्वजो देवः सभार्यः सगणेश्वरः ॥
वसिष्ठपुत्रं प्राहेदं पुत्रदर्शनतत्परम् ॥९४॥

श्रीदेव उवाच ॥
शक्ते पश्य सुतं बालमानन्दास्राविलेक्षणम् ॥
अदृश्यन्तीं च विप्रेन्द्र वसिष्ठं पितरं तव ॥९५॥

अरुंधतीं महाभागां कल्याणीं देवतोपमाम् ॥
मातरं पितरं चोभौ नमस्कुरु महामते ॥९६॥

तदा हरं प्रणम्याशु देवदेवमुमां तथा ॥
वसिष्ठं च तदा श्रेष्ठंशक्तिर्वै शंकराज्ञया ॥९७॥

मातरं च महाभागां कल्याणीं पतिदेवताम् ॥
अरुंधतीं जगन्नाथनियोगात्प्राह शक्तिमान् ॥९८॥

वासिष्ठ उवाच ॥
भो वत्सवत्स विप्रेन्द्र पराशर महाद्युते ॥
रक्षितोहं त्वया तात गर्भस्थेन महात्मना ॥९९॥

अणिमादिगुणैश्वर्यं मया वत्स पराशर ॥
लब्धमद्याननं दृष्टं तव बाल ममाज्ञया ॥१೦०॥

अदृश्यन्तीं महाभागां रक्ष वत्स महामते ॥
अरुंधतीं च पितरं वसिष्ठं मम सर्वदा ॥१೦१॥

अन्वयः सकलो वत्स मम संतारितस्त्वया ॥
पुत्रेण लोकाञ्जयतीत्युक्तं सद्भिः सदैव हि ॥१೦२॥

ईप्सितं वरयेशानं जगतां प्रभवं प्रभुम् ॥
गमिष्याम्यभिवंद्येशं भ्रातृभिः सह शंकरम् ॥१೦३॥

एवं पुत्रमुपामंत्र्य प्रणम्य च महेश्वरम् ॥
निरीक्ष्य भार्यां सदसि जगाम पितरं वशी ॥१೦४॥

गतं दृष्ट्वाथ पितरं तदाभ्यर्च्यैव शंकरम् ॥
तुष्टाव वाग्भिरिष्टाभिः शाक्तेयः शशिभूषणम् ॥१೦५॥

ततस्तुष्टो महादेवो मन्मथांधकमर्दनः ॥
अनुगृह्याथ शाक्तेयं तत्रैवांतरधीयत ॥१೦६॥

गते महेश्वरे सांबे प्रणम्य च महेश्वरम् ॥
ददाह राक्षसानां तु कुलं मंत्रेण मंत्रवित् ॥१೦७॥

तदाह पौत्रं धर्मज्ञो वसिष्ठो मुनिभिर्वृतः ॥
अलमत्यंतकोपेन तात मन्युमिमं जहि ॥१೦८॥

राक्षसा नापराध्यन्ति पितुस्ते विहितं तथा ॥
मूढानामेव भवति क्रोधो बुद्धिमतां न हि ॥१೦९॥

हन्यते तात कः केन यतः स्वकृतभुक्पुमान् ॥
संचितस्यातिमहता वत्स क्लेशेन मानवैः ॥११०॥

यशसस्तपसश्चैव क्रोधो नाशकरः स्मृतः ॥
अलं हि राक्षसैर्दग्धैर्दीनैरनपराधिभिः ॥१११॥

सत्रं ते विरमत्वेतत्क्षमासारा हि साधवः ॥
एवं वसिष्ठवाक्येन शाक्तेयो मुनिपुंगवः ॥११२॥

उपसंहृतवान् सत्रं सद्यस्तद्वाक्यगौरवात् ॥
ततः प्रीतश्च भगवान्वसिष्ठो मुनिसत्तमः ॥११३॥

संप्राप्तश्च तदा सत्रं पुलस्त्यो ब्रह्मणः सुतः ॥
वसिष्ठेन तु दत्तार्घ्यः कृतासनपरिग्रहः ॥११४॥

पराशरमुवाचेदं प्रणिपत्य स्थितं मुनिः ॥
वैरे महति यद्वाक्याद्गुरोरद्याश्रिताक्षमा ॥११५॥

त्वया तस्मात्समस्तानि भवाञ्छास्त्राणि वेत्स्यति ॥
संततेर्मम न च्छेदः क्रुद्धेनापि यतः कृतः ॥११६॥

त्वया तस्मान्महाभाग ददम्यन्यं महावरम् ॥
पुराणसंहिताकर्ता भवान्वत्स भविष्यति ॥११७॥

देवतापरमार्थं च यथावद्वेत्स्यते भवान् ॥
प्रवृत्तौ वा निवृत्तौ वा कर्मणस्तेऽमला मतिः ॥११८॥

मत्प्रसादादसंदिग्धा तव वत्स भविष्यति ॥
ततश्च प्राह भगवान्वसिष्ठो वदतां वरः ॥११९॥

पुलस्त्येन यदुक्तं ते सर्वमेतद्भविष्यति ॥
अथ तस्य पुलस्त्यस्य वसिष्ठस्य च धीमतः ॥१२०॥

प्रसादाद्वैष्णवं चक्रे पुराणं वै पराशरः ॥
षट्प्रकारं समस्तार्थसाधकं ज्ञानसंचयम् ॥१२१॥

षट्साहस्रमितं सर्वं वेदार्थेन च संयुतम् ॥
चतुर्थं हि पुराणानां संहितासु सुशोभनम् ॥१२२॥

एष वः कथितः सर्वे वासिष्ठानां समासतः ॥
प्रभवः शक्तिसूनोश्च प्रभावो मुनिपुंगवाः ॥१२३॥

इति श्रीलिंगमहापुराणे पूर्वभागे वासिष्ठकथनं नाम चतुःषष्टिमोऽध्यायः ॥६४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:26.0670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

SUMATI I(सुमति)

RANDOM WORD

Did you know?

what is the history behind " HARI MERE HALAR KI LAKARI" made by Surdasji?
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.