TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ६९

पूर्वभागः - अध्यायः ६९

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः ६९
सूत उवाच ॥
सात्त्वतः सत्यसंपन्नः प्रजज्ञे चतुरः सुतान् ॥
भजनं भ्राभमानं च दिव्यं देवावृधं नृपम् ॥१॥

अंधकं च महाभागं वृष्णिं च यदुनंदनम् ॥
तेषां निसर्गांश्चतुरः श्रृणुध्वं विस्तरेण वै ॥२॥

सृंजय्यां भजनाच्चैव भ्राजमानाद्विजज्ञिरे ॥
अयुतायुः शातयुश्च बलवान् हर्षकृत्स्मृतः ॥३॥

तेषां देवावृधो राजा चचार परमं तपः ॥
पुत्रः सर्वगुणोपेतो मम भूयादिति स्मरन् ॥४॥

तस्य बभ्रुरिति ख्यातः पुण्यश्लोको नृपोत्तमः ॥
अनुवंशपुराणज्ञा गायंतीति परिश्रुतम् ॥५॥

गुणान्देवावृधस्याथ कीर्तयंतो महात्मनः ॥
यथैव श्रृणुमो दूरात् संपश्यामस्तथांतिकात् ॥६॥

बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः ॥
पुरुषाः पंच षष्टिस्तु षट् सहस्राणि चाष्ट च ॥७॥

येऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि ॥
यज्वा दानमतिर्वीरो ब्रह्मण्यस्तु दृढव्रतः ॥८॥

कीर्तिमांश्च महातेजाः सात्त्वतानां महारथः ॥
तस्यान्ववाये संभूता भोजा वै दैवतोपमाः ॥९॥

गांधारी चैव माद्री च वृष्णिभार्यो बभूवतुः ॥
गांधरी जनयामास सुमित्रं मित्रनंदनम् ॥१०॥

माद्री लेभे च तं पुत्रं ततः सा देवमीढुषम् ॥
अनमित्रं शिनिं चैव तावुभौ पुरुषोत्तमौ ॥११॥

अनमित्रसुतो नघ्न निघ्नोस्य द्वौ बभूवतुः ॥
प्रसेनश्च महाभागः सत्राजिच्च सुतावुभौ ॥१२॥

तस्य सत्राजितः सूर्यः सखा प्राणसमोऽभवत् ॥
स्यमंतको नाम मणिर्दत्तस्तस्मै विवस्वता ॥१३॥

पृथिव्यां सर्वरत्नानामसौ राजाऽभवन्मणिः ॥
कदाचिन्मृगयां यातः प्रसेनेन सहैव सः ॥१४॥

वधं प्राप्तो सहायश्च सिंहादेव सुदारुणात् ॥
अथ पुत्रः शिनेर्जज्ञे कनिष्ठाद्वृष्णिनंदानात् ॥१५॥

सत्यवाक् सत्यसंपन्नः सत्यकस्तस्य चात्मजः ॥
सात्यकिर्युयुधानस्तु शिनेर्नप्ता प्रतापवान् ॥१६॥

असंगो युयुधानस्य कुणिस्तस्य सुतोऽभवत् ॥
कुणेर्युगंधरः पुत्रः शैनेया इति कीर्तिताः ॥१७॥

माद्याः सुतस्य संजज्ञे सुतो वार्ष्णिर्युधाजितः ॥
श्वफल्क इति विख्यातस्त्रैलोक्यहितकारकः ॥१८॥

श्वफल्कश्च महाराजो धर्मात्मा यत्र वर्तते ॥
नास्ति व्याधिभयं तत्र नावृष्टिभयमप्युत ॥१९॥

श्वफल्कः काशिराजस्य सुतां भार्यामवाप सः ॥
गांदिनीं नाम काश्यो हि ददौ तस्मै स्वकन्यकाम् ॥२०॥

सा मातुरुदरस्था वै बहून्वर्षगणान्किल ॥
वसंती न च संजज्ञे गर्भस्था तां पिताऽब्रवीत् ॥२१॥

जायस्व शीघ्रं भद्रं ते किमर्थं चाभितिष्ठसि ॥
प्रोवाच चैनं गर्भस्था सा कन्या गांदिनी तदा ॥२२॥

वर्षत्रयं प्रतिदिनं गामेकां ब्राह्मणाय तु ॥
यदि दद्यास्ततः कुक्षेर्निर्गमिष्याम्यहं पितः ॥२३॥

तथेत्युवाच तस्या वै पिता काममपूरयत् ॥
दाता शूरश्च यज्वा च श्रुतवानतिथिप्रियः ॥२४॥

तस्याः पुत्रः स्मृतोऽक्रूरः श्वफल्काद्भूरिदक्षिणः ॥
रत्ना कन्या च शैवस्य ह्यक्रूरस्तामवाप्तवान् ॥२५॥

अस्यामुत्पादयामास तनयांस्तान्निबोधत ॥
उपमन्युस्तथा मार्गुवृतस्तु जनमेजयः ॥२६॥

गिरिरक्षस्तथोपेक्षः शत्रुघ्नो योरिमर्दनः ॥
धर्मभृद्दृष्टधर्मा च गोधनोथ वरस्तथा ॥२७॥

आवाहप्रतिवाहौ च सुधारा च वरांगना ॥
अक्रूरस्योग्रसेन्यां तु पुत्रौ द्वौ कुलनंदनौ ॥२८॥

देववानुपदेवश्च जज्ञाते देवसंमतौ ॥
सुमित्रस्य सुतो जज्ञे चित्रकश्च महायशाः ॥२९॥

चित्रकस्याभवन्पुत्रा विपृथुः पृथुरेव च ॥
अश्वग्रीवः सुबाहुश्च सुधासूकगवेक्षणौ ॥३०॥

अरिष्टनेमिरश्वश्च धर्मो धर्मभृदेव च ॥
सुभूमिर्बहुभूमिश्च श्रविष्ठाश्रवणे स्त्रियौ ॥३१॥

अंधकात्काश्यदुहिता लेभे च चतुरः सुतान् ॥
कुकुरं भजमानं च शुचिं कंबलबर्हिषम् ॥३२॥

कुकुरस्य सुतो वृष्मिर्वष्णेः शूरस्ततोऽभवत् ॥
कपोतरोमातिबलस्तस्य पुत्रो विलोमकः ॥३३॥

तस्यासीत्तुंबुरुमखो विद्वान्पुत्रो नलः किल ॥
ख्यायते स सुनाम्ना तु चंदनानकदुंदुभिः ॥३४॥

तस्मादप्यभिजित्पुत्र उत्पन्नोस्य पुनर्वसुः ॥
अश्वमेधं स पुत्रार्थमाजहार नरोत्तमः ॥३५॥

तस्य मध्येतिरात्रस्य सदोमध्यात्समुत्थितः ॥
ततस्तु विद्वान् सर्वज्ञो दाता यज्वा पुनर्वसुः ॥३६॥

तस्यापि पुत्रमिथुनं बभूवाभिजितः किल ॥
आहुकश्चाहुकी चैव ख्यातौ कीर्तिमतां वरौ ॥३७॥

आहुकात्काश्यदुहितुर्द्वौ पुत्रौ संबभूवतुः ॥
देवकश्चोग्रसेनश्च देवगर्भसमावुभौ ॥३८॥

देवकस्य सुता राज्ञो जज्ञिरे त्रिदशोपमाः ॥
देववामनुपदेवश्च सुदेवो देवरक्षितः ॥३९॥

तेषां स्वसारः सप्तासन् वसुदेवाय ता ददौ ॥
वृषदेवोपदेवा च तथान्या देवरक्षिता ॥४०॥

श्रीदेवा शांतिदेवा च सहदेवा तथापरा ॥
देवकी चापि तासां च वरिष्ठाऽभूत्सुमध्यमा ॥४१॥

नवोग्रसेनस्य सुतास्तेषां कंसस्तु पूर्वजः ॥
तेषां पुत्राश्च पौत्राश्च शतशोथ सहस्रशः ॥४२॥

देवकस्य सुता पत्नी वसुदेवस्य धीमतः ॥
बभुव वंद्या पूज्या च देवैरपि पतिव्रता ॥४३॥

रोहिणी च महाभागा पत्नी चानकदुंदुभेः ॥
पौरवी बाह्लिकसुता संपूज्यासीत्सुरैरपि ॥४४॥

असूत रोहिणी रामं बलश्रेष्ठं हलायुधम् ॥
आश्रितं कंसभीत्या च स्वात्मानं शांततेजसम् ॥४५॥

जाते रामेऽथ निहते षङ्गर्भे चातिदक्षिणे ॥
वसुदेवो हरिं धीमान्देवक्यामुदपादयत् ॥४६॥

स एव परमात्मासौ देवदेवो जनार्दनः ॥
हलायुधश्च भगवाननंतो रजतप्रभः ॥४७॥

भृगुशापच्छलेनैव मानयन्मानुषीं तनुम् ॥
बभूव तस्यां देवक्यां वासुदेवो जनार्दन ॥४८॥

उमादेहसमुद्भूता योगनिद्रा च कौशिकी ॥
नियोगाद्देवदेवस्य यशोदातनया ह्यभूत् ॥४९॥

सा चैव प्रकृतिः साक्षात्सर्वदेवनमस्कृता ॥
पुरुषो भगवान्कृष्णो धर्ममोक्षफलप्रदः ॥५०॥

तां कन्यां जगृहे रक्षन्कंसात्स्वस्यात्मजं तदा ॥
चतुर्भुजं विशालाक्षं श्रीवत्सकृतलांछनम् ॥५१॥

शंखचक्रगदापद्मं धारयंतं जनार्दनम् ॥
यशोदायौ प्रदत्त्वा तु वसुदेवश्च बुद्धिमान् ॥५२॥

दत्त्वैनं नंदगोपस्य रक्षतामिति चाब्रवीत् ॥
रक्षकं जगतां विष्णुं स्वेच्छया धृतविग्रहम् ॥५३॥

प्रसादाच्चैव देवस्य शिवस्यामिततेजसः ॥
रामेण सार्धं तं दत्त्वा वरदं परमेश्वरम् ॥५४॥

भूभारनिग्रहार्थं च ह्यवतीर्णं जगद्गुरुम् ॥
अतो वै सर्वकल्याणं यादवानां भविष्यति ॥५५॥

अयं स गर्भो देवक्या यो नः क्लेश्यान्हरिष्यति ॥
उग्रसेनात्मजायाथ कंसायानकदुंदुभिः ॥५६॥

निवेदयामास तदा जातां कन्यां सुलक्षणाम् ॥
अस्यास्त वाष्टमो गर्भो देवक्याः कंस सुव्रत ॥५७॥

मृत्युरेव न संदेह इति वाणी पुरातनी ॥
ततस्तां हंतुमारेभे कंसः सोल्लंघ्य चांबरम् ॥५८॥

उवाचाष्टभुजा देवी मेघगंभीरया गिरा ॥
रक्षस्व तत्स्वकं देहमायातो मृत्युरेव ते ॥५९॥

रक्षमाणस्य देहस्य मायावी कंसरूपिणः ॥
किं कृतं दुष्कृतं मूर्ख जातः खलु तवांतकृत् ॥६०॥

देवक्याः स भयात्कंसो जघानैवाष्टभं त्विति ॥
स्मरंति विहितो मृत्युर्देवक्यास्त नयोऽष्टमः ॥६१॥

यस्तत्प्रतिकृतौ यत्नो भोजस्यासीद्वृथा हरेः ॥
प्रभावान्मुनिसार्दूलास्तया चैव जडीकृतः ॥६२॥

कंसोपि निहतस्तेन कृष्णेनाक्लिष्ट कर्मणा ॥
निहता बहवश्चान्ये देवब्राह्मणघातिनः ॥६३॥

तस्य कृष्णस्य तनयाः प्रद्युम्नप्रमुखास्तथा ॥
बहवः परिसंख्याताः सर्वे युद्धविशारदाः ॥६४॥

कृष्णपुत्राः समाख्याताः कृष्णेन सदृशाः सुताः ॥
पुत्रेष्वेतेषु सर्वेषु चारुदेष्णादयो हरेः ॥६५॥

विशिष्टा बलवंतश्च रौक्मिणेयारिसूदनाः ॥
षोडशस्त्रीसहस्राणि शतमेकं तथाधिकम् ॥६६॥

कृष्णस्य तासु सर्वासु प्रिया ज्येष्ठा च रुक्मिणी ॥
तया द्वादशवर्षाणि कृष्णेनाक्लिष्टकर्मणा ॥६७॥

उष्यता वायुभक्षेण पुत्रार्थं पूजितो हरः ॥
चारुदेष्णः सुचारुश्च चारुवेषो यशोधरः ॥६८॥

चारुश्रवाश्चारुयशाः प्रद्युम्नः सांब एव च ॥
एते लब्धास्तु कृष्णेन शूलपाणिप्रसादतः ॥६९॥

तान् दृष्ट्वा तनयान्वीरान् रौक्मिणेयांश्च रुक्मिणीम् ॥
जांबवत्यब्रवीत्कृष्णं भार्या कृष्णस्य धीमतः ॥७०॥

मम त्वं पुंडरीकाक्ष विशिष्टं गुणवत्तरम् ॥
सुरेशसंमितं पुत्रं प्रसन्नो दातुमर्हसि ॥७१॥

जांबवत्या वचः श्रुत्वा जगन्नाथस्ततो हरिः ॥
तपस्तप्तुं समारेभे तपोनिधिरनिंदितः ॥७२॥

सोऽथ नारायणः कृष्णः शंखचक्रगदाधरः ॥
व्याग्रपादस्य च मुनेर्गत्वा चैवाश्रमोत्तमम् ॥७३॥

ऋषिं दृष्ट्वा त्वंगिरसं प्रणिपत्य जनार्दनः ॥
दिव्यं पाशुपतं योगं लब्धवांस्तस्य चाज्ञया ॥७४॥

प्रलुप्तश्मश्रुकेशश्च घृताक्तो मुंजमेखली ॥
दीक्षितो भगवान्कृष्णस्तताप च परंतपः ॥७५॥

ऊर्ध्व बाहुर्निरालंबः पादांगुष्ठाग्रधिष्ठितः ॥
फलाम्बवनिलभोजी च ऋतुत्रयमधोक्षजः ॥७६॥

तपसा तस्य संतुष्टो ददौ रुद्रो बहून् वरान् ॥
सांबं जांबवतीपुत्रं कृष्णाय च महात्मने ॥७७॥

तथा जांबवती चैव सांबं भार्या हरेः सुतम् ॥
प्रहर्षमतुलं लेभे लब्ध्वादित्यं यथादितिः ॥७८॥

बाणस्य च तदा तेन च्छेदितं मुनिपुंगवाः ॥
भुजानां चैव साहस्रं शापाद्रुद्रस्य धीमतः ॥७९॥

अथ दैत्यवधं चक्रे हलायुधसहायवान् ॥
तथा दुष्टक्षितीशानां लीलयैव रणाजिरे ॥८०॥

स हत्वा देवसंभूतं नरकं दैत्यपुंगवम् ॥
ब्राह्मणस्योर्ध्वचक्रस्य वरदानान्महात्मनः ॥८१॥

स्वोपबोग्यानि कन्यानां षोडशातुलविक्रमः ॥
शताधिकानि जग्राह सहस्राणि महाबलः ॥८२॥

शापव्याजेन विप्राणामुपसंहृतवान् कुलम् ॥
संहृत्य तत्कुलं चैव प्रभासेऽतिष्ठदच्युतः ॥८३॥

तदा तस्यैव तु गंत वर्षाणामधिकं शतम् ॥
कृष्णस्य द्वारकायां वै जराक्लेशापहारिणः ॥८४॥

विश्वामित्रस्य कण्वस्य नारदस्य च धीमतः ॥
शापं पिंडारकेऽरक्षद्वचो दुर्वाससस्तदा ॥८५॥

त्यक्त्वा च मानुषं रूपं जरकास्त्रच्छलेन तु ॥
अनुगृह्य च कृष्णोपि लुब्धकं प्रययौ दिवम् ॥८६॥

अष्टावक्रस्य शापेन भार्याः कृष्णस्य धीमतः ॥
चौरैश्चापहृताः सर्वास्तस्य मायबलेन च ॥८७॥

बलभद्रोपि संत्यज्य नागो भूत्वा जगाम च ॥
महिष्यस्तस्य कृष्णस्य रुक्मिणीप्रमुखाः शुभाः ॥८८॥

सहाग्निं विविशुः सर्वाः कृष्णेनाक्लिष्टकर्मणा ॥
रेवती च तथा देवी बलभद्रेण धीमता ॥८९॥

प्रविष्टा पावकं विप्राः सा च भर्तृपथं गता ॥
प्रेतकार्यं हरेः कृत्वा पार्थः परमवीर्यवान् ॥९०॥

रामस्य च तथान्येषां वृष्णीनामपि सुव्रतः ॥
कंदमूलफलैस्तस्य बलिकार्यं चकार सः ॥९१॥

द्रव्याभावात्स्वंयं पार्थो भ्रातृभिस्च दिवं गतः ॥
एवं संक्षेपतः प्रोक्तः कृष्णस्याक्लिष्टकर्मणः ॥९२॥

प्रभावों विलयश्चैव स्वेच्छयैव महात्मनः ॥
इत्येतत्सोमवंशानां नृपाणां चरितं द्विजाः ॥९३॥

यः पठेच्छृणुयाद्वापि ब्राह्मणान् श्रावयेदपि ॥
स याति वैष्णवं लोकं नात्र कार्या विचारणा ॥९४॥

इति श्रीलिंगमहापुराणे पूर्वभागे सोमवंशानुकीर्तनं नामैकोनसप्ततितमोऽध्याय: ॥६९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:26.3630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Caelum

  • टंक 
RANDOM WORD

Did you know?

अंत्येष्टी म्हणजे काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.