TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ८५

पूर्वभागः - अध्यायः ८५

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः ८५
सूत उवाच ॥
सर्वव्रतेषु संपूज्य देवदेवमुमापतिम् ॥
जपेत्पंचाक्षरीं विद्यां विधिनैव द्विजोत्तमाः ॥१॥

जपादेव न संदेहो व्रतानां वै विशेषतः ॥
समाप्तिर्नान्यथा तस्माज्जपेत्पंचाक्षरीं शुभाम् ॥२॥

ऋषय ऊचुः ॥
कथं पंचाक्षरी विद्या प्रभावो वा कथं वद ॥
क्रमोपायं महाभाग श्रोतुं कौतूहलं हि नः ॥३॥

सूत उवाच ॥
पुरा देवेन रुद्रेण देवदेवेन शंभुना ॥
पार्वत्याः कथितं पुण्यं प्रवदामि समासतः ॥४॥

श्रीदेव्युवाच ॥
भगवन्देवदेवेश सर्वलोकमहेश्वर ॥
पंचाक्षरस्य महात्म्यं श्रोतुमिच्छामि तत्त्वतः ॥५॥

श्रीभगवानुवाच ॥
पंचाक्षरस्य महात्म्यं वर्षकोटिशतैरपि ॥
न शक्यं कथितुं देवि तस्मात्संक्षेपतः श्रृणु ॥६॥

प्रलये समनु प्राप्ते नष्टे स्थावरजंगमे ॥
नष्टे देवासुरे चैव नष्टे चोरगराक्षसे ॥७॥

सर्वं प्रकृतिमापन्नं त्वया प्रलयमेष्यति ॥
एकोहं संस्थितो देवि न द्वितीयोस्ति कुत्रचित् ॥८॥

तस्मिन्वेदाश्च शास्त्राणि मंत्रे पंचाक्षरे स्थिताः ॥
ते नाशं नैव संप्राप्ता मच्छक्त्या ह्यनुपालिताः ॥९॥

अहमेको द्विधाप्यासं प्रकृत्यात्मप्रभेदतः ॥
स तु नारायणः शेते मायामयीं तनुम् ॥१०॥

आस्थाय योगपर्यंकशयने तोयमध्यगः ॥
तन्नाभिपंकजाज्जातः पंचवक्त्रः पितामहः ॥११॥

सिसृक्षमाणो लोकान्वै त्रीनशक्तोऽसहायवान् ॥
दश ब्रह्मा ससर्जादौ मानसानमितौजसः ॥१२॥

तेषां सृष्टिप्रसिद्ध्यर्थं मां प्रोवाच पितामहः ॥
मत्पुत्राणां महादेव शक्तिं देहि महेश्वर ॥१३॥

इति तेन समादिष्टः पंचवक्त्रधरो ह्यहम् ॥
पंचाक्षरान्पंचमुखैः प्रोक्तवान् पद्मयोनये ॥१४॥

तान्पंचवदनैर्गृह्णन् ब्रह्मा लोकपितामहः ॥
वाच्यवाचकभावेन ज्ञातवान्परमेश्वरम् ॥१५॥

वाच्यः पंचाक्षरैर्देवि शिवस्त्रैलोक्यपूजितः ॥
वाचकः परमो मंत्रस्तस्य पंचाक्षरः स्थितः ॥१६॥

ज्ञात्वा प्रयोगं विधिना च सिद्धिं लब्ध्वा तथा पंचमुखो महात्मा ॥
प्रोवाच पुत्रेषु जगद्धिताय मंत्रं महार्थं किल पंचवर्णम् ॥१७॥

ते लब्ध्वा मंत्ररत्नं तु साक्षाल्लोकपितामहात् ॥
तमाराधयितुं देवं परात्परतरं शिवम् ॥१८॥

ततस्तुतोष भगवान् त्रिमूर्तीनां परः शिवः ॥
दत्तवानखिलं ज्ञानमणिमादिगुणाष्टकम् ॥१९॥

तेपि लब्ध्वा वरान्विप्रास्तदाराधनकांक्षिणः ॥
मेसोस्तु शिखरे रम्ये मुंजवान्नाम पर्वतः ॥२०॥

मत्प्रियः सततं श्रीमान्मद्भूतैः परिरक्षितः ॥
तस्याभ्याशे तपस्तीव्रं लोकसृष्टिसमुत्सुकाः ॥२१॥

दिव्यवर्षसहस्रं तु वायुभक्षाः समाचरन् ॥
तिष्ठंतोनुग्रहार्थाय देवि ते ऋषयः पुरा ॥२२॥

तेषां भक्तिमहं दृष्ट्वा सद्यः प्रत्यक्षतामियाम् ॥
पंचाक्षरमृषिच्छन्दौ दैवतं शक्तिबीजवत् ॥२३॥

न्यासं षडंगं दिग्बंधं विनियोगमशेषतः ॥
प्रोक्तवानहमार्याणां लोकानां हितकाम्यया ॥२४॥

तच्छ्रुत्वा मंत्रमाहात्म्यमृषयस्ते तपोधनाः ॥
मंत्रस्य विनियोगं च कृत्वा सर्वमनुष्ठिताः ॥२५॥

तन्माहात्यात्तदालोकान्सदेवासुरमानुषान् ॥
वर्णान्वर्णविभागांश्च सर्वधर्मांश्च शोभनान् ॥२६॥

पूर्वकल्पसमुद्भूताञ्छ्रुतवंतो यथा पुरा ॥
पंचाक्षरप्रभावाच्च लोका वेदा महर्षयः ॥२७॥

तिष्ठंति शाश्वता धर्मा देवाः सर्वमिदं जगत् ॥
तदिदानीं प्रवक्ष्यामि श्रृणु चावहिताखिलम् ॥२८॥

अल्पाक्षरं महार्थं च वेदसारं विमुक्तिदम् ॥
आज्ञासिद्धमसंदिग्धं वाक्यमेतच्छिवात्मकम् ॥२९॥

नानासिद्धियुतं दिव्यं लोकचित्तानुरंजकम् ॥
सुनिश्चितार्थं गंभीरं वाक्यं मे पारमेश्वरम् ॥३०॥

मंत्रं मुखसुखोच्चार्यमशेषार्थप्रसाधकम् ॥
तद्बीजं सर्वविद्यानां मंत्रमाद्यं सुशोभनम् ॥३१॥

अतिसूक्ष्मं महार्थं च ज्ञेयं तद्वटबीजवत् ॥
वेदः स त्रिगुणातीतः सर्वज्ञः सर्वकृत्प्रभुः ॥३२॥

ओमित्येकाक्षरं मंत्रं स्थितः सर्वगतः शिवः ॥
मंत्रेषडक्षरे सूक्ष्मे पंचाक्षरतनुः शिवः ॥३३॥

वाच्यवाचकभावेन स्थितः साक्षात्स्वभावतः ॥
वाच्यः शिवः प्रमेयत्वान्मंत्रस्तद्वाचकः स्मृतः ॥३४॥

वाच्यवाचकभावोयमनादिः संस्थितस्तयोः ॥
वेदे शिवागमे वापि यत्रयत्र ष़डक्षरः ॥३५॥

मंत्रः स्थितः सदा मुख्यो लोके पंचाक्षरो मतः ॥
किं तस्य बहुभिर्मंत्रैः शास्त्रैर्वा बहुविस्तृतैः ॥३६॥

यस्यैवं हृदि संस्थोयं मंत्रः स्यात्पारमेश्वरः ॥
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ॥३७॥

यो विद्वान्वै जपेत्सम्यगधीत्यैव विधानतः ॥
एतावद्धि शिवज्ञानमेतावत्परमं पदम् ॥३८॥

एतावद्ब्रह्मविद्याच तस्मान्नित्यं जपेद्बुधः ॥
पंचाक्षरैः सप्रणवो मंत्रोयं हृदयं मम ॥३९॥

गुह्याद्गुह्यतरं साक्षान्मोक्षज्ञानमनुक्तमम् ॥
अस्य मंत्रस्य वक्ष्यामि ऋषिच्छंदोधिदैवतम् ॥४०॥

बीजं शक्तिं स्वरं वर्णं स्थानं चैवाक्षरं प्रति ॥
वामदेवो नाम ऋषिः पंक्तिश्छंद उदाहृतः ॥४१॥

देवता शिव एवाहं मंत्रस्यास्य वरानने ॥
नकारादीनि बीजानि पंचभूतात्मकानि च ॥४२॥

आत्मानं प्रणवं विद्धि सर्वव्यापिनमव्ययम् ॥
शक्तिस्त्वमेव देवेशि सर्वदेवनमस्कृते ॥४३॥

त्वदीयं प्रणवं किंचिन्मदीयं प्रणवं तथा ॥
त्वदीयं देवि मंत्राणां शक्तिभूतं न संशयः ॥४४॥

अकारोकारमकारा मदीये प्रणवे स्थिताः ॥
उकारं च मकारं च अकारं च क्रमेण वै ॥४५॥

त्वदीयं प्रणवं विद्धि त्रिमात्रं प्लुतमुत्तमम् ॥
ओंकारस्य स्वरोदात्त ऋषिर्ब्रह्म सितं वपुः ॥४६॥

छंदो देवी च गायत्री परमात्माधिदेवता ॥
उदात्तः प्रथमस्तद्वच्चतुर्थश्च द्वितीयकः ॥४७॥

पंचमः स्वरितश्चैव मध्यमो निषधः स्मृताः ॥
नकारः पीतवर्णश्च स्थानं पूर्वमुखं स्मृतम् ॥४८॥

इंद्रोधिदैवतं छंदो गायत्री गौतमो ऋषिः ॥
मकारः कृष्णवर्णोस्य स्थानं वै दाक्षिणामुखम् ॥४९॥

छंदोनुष्टुप् ऋषिश्चात्री रुद्रो दैवतमुच्यते ॥
शिकारो धूम्रवर्णोस्य स्थानं वै पश्चिमं मुखम् ॥५०॥

विश्वामित्र ऋषिस्त्रिष्टुप् छंदो विष्णुस्तु दैवतम् ॥
वाकारो हेमवर्णोस्य स्थानं चैवोत्तरं मुखम् ॥५१॥

ब्रह्माधिदैवतं छंदो बृहती चांगिरा ऋषिः ॥
यकारो रक्तवर्णश्च स्थानमूर्ध्वं मुखंविराट् ॥५२॥

छंदो ऋषिर्भरद्वाजः स्कंदो दैवतमुच्यते ॥
न्यासमस्य प्रवक्ष्यामि सर्वसिद्धिकरं शुभम् ॥५३॥

सर्वपापहरं चैव त्रिविधोन्यास उच्यते ॥
उत्पत्तिस्थितिसंहारभेदतस्त्रिविधः स्मृतः ॥५४॥

ब्रह्मचारिगृहस्थानां यतीनां क्रमशो भवेत् ॥
उत्पत्तिर्ब्रह्मचारीणां गृहस्थानां स्थितिः सदा ॥५५॥

यतीनां संहृतिन्यासः सिद्धिर्भवति नान्यथा ॥
अंगन्यासः करन्यासो देहन्यास इति त्रिधा ॥५६॥

उत्पत्त्यादि त्रिभेदेन वक्ष्यते ते वरानने ॥
न्यसेत्पूर्वं करन्यासं देहन्यासमनंतरम् ॥५७॥

अंगन्यासं ततः पश्चादक्षराणां विधिक्रमात् ॥
मूर्धादिपादपर्यंतमुत्पत्तिन्यास उच्यते ॥५८॥

पादादिमूर्धपर्यंतं संहारो भवति प्रिये ॥
हृदयास्यगलन्यासः स्थितिन्यास उदाहृतः ॥५९॥

ब्रह्मचारिगृहस्थानां यतीनां चैव शोभने ॥
सशिरस्कं ततो देहं सर्वमंत्रेण संस्पृशेत् ॥६०॥

स देहन्यास इत्युक्तः सर्वेषां सम एव स ॥
दक्षिणांगुष्ठमारभ्य वामांगुष्ठांत एव हि ॥६१॥

न्यस्यते यत्तदुत्पत्तिर्विपरीतं तु संहृतिः ॥
अंगुष्ठादिकनिष्ठांतं न्यस्यते हस्तयोर्द्वियोः ॥६२॥

अतीव भोगदो देवी स्थितिन्यासः कुटुंबिनाम् ॥
करन्यासं पुरा कृत्त्वा देहन्यासमनं तरम् ॥६३॥

अंगन्यासं न्यसेत्पश्चादेष साधारणो विधिः ॥
ओंकारं संपुटीकृत्य सर्वांगेषु च विन्यसेत् ॥६४॥

करयोरुभयोश्चैव दशाग्रां गुलिषु क्रमात् ॥
प्रक्षाल्य पादावाचम्य शुचिर्भूत्वा समाहितः ॥६५॥

प्राङ्मुखोदङ्मुखो वापि न्यासकर्म समाचरेत् ॥
स्मरेत्पूर्वमृषिंछंदो दैवतं बीजमेव च ॥६६॥

शक्तिं च परमात्मानं गुरुं चैव वरानने ॥
मंत्रेण पाणी संमृज्य तलयोः प्रणवं न्यसेत् ॥६७॥

अंगुलीनां च सर्वेषां तथा चाद्यंतपर्वसु ॥
सबिंदुकानि बीजानि पंच मध्यमपर्वसु ॥६८॥

उत्पत्त्यादित्रिभेदेन न्यसेदाश्रमतः क्रमात् ॥
उभाभ्यामेव पाणिभ्यामापादतलमस्तकम् ॥६९॥

मंत्रेण संस्पृशेद्देहं प्रणवेनैव संपुटम् ॥
मूर्ध्नि वक्त्रे च कंठे च हृदये गुह्यके तथा ॥७०॥

पादयो रुभयोश्चैव गुह्ये च हृदये तथा ॥
कंठे च मुखमध्ये च मूर्ध्नि च प्रणवादिकम् ॥७१॥

हृदये गुह्यके चैव पादयोर्मूर्ध्नि वाचि वा ॥
कंठे चैव न्यसेदेव प्रणवादित्रिभेदतः ॥७२॥

कृत्वांगन्यासमेवं हि मुखानि परिकल्पयेत् ॥
पूर्वादि चोर्ध्वपर्यंतं नकारादि यथाक्रमम् ॥७३॥

षडंगानि न्यसेत्पश्चाद्यथास्थानं च शोभनम् ॥
नमः स्वाहा वषड्ढुं च वैषट्फट्कारकैः सह ॥७४॥

प्रणवं हृदयं विद्यान्नकारः शिरउच्यते ॥
शिखा मकार आख्यातः शिकारः कवचं तथा ॥७५॥

वाकारो नेत्रमस्त्रं तु यकारः परिकीर्तितः ॥
इत्थमंगानि विन्यस्य ततो वै बंधयेद्दिशः ॥७६॥

विघ्नेशो मातरो दुर्गा क्षेत्रज्ञो देवता दिशः ॥
आग्नेयादिषु कोणेषु चतुर्ष्वपि यथाक्रमम् ॥७७॥

अंगुष्ठतर्जन्यग्राभ्यां संस्थाप्य सुमुखं शुभम् ॥
रक्षध्वमिति चोक्त्वा तु नमस्कुर्यात्पृथक्पृथक् ॥७८॥

गले मध्ये तथांगुष्ठे तर्जन्याद्यांगुलीषु च ॥
अंगुष्ठेन करन्यासं कुर्यादेव विचक्षणः ॥७९॥

एवं न्यासमिमं प्रोक्तं सर्वपापहरं शुभम् ॥
सर्वसिद्धिकरं पुण्यं सर्वरक्षाकरं शिवम् ॥८०॥

न्यस्ते मंत्रेऽथ सुभगे शंकरप्रतिमो भवेत् ॥
जन्मांतरकृतं पापमपि नश्यति तत्क्षणात् ॥८१॥

एवं विन्यस्य मेधावी शुद्धकायो दृढव्रतः ॥
जपेत्पंचाक्षरं मंत्रं लब्ध्वाचार्यप्रसादतः ॥८२॥

अतः परं प्रवक्ष्यामि मंत्रसंग्रहणं शुभे ॥
यं विना निष्फलं नित्यं येन वा सफलं भवेत् ॥८३॥

आज्ञाहीनं क्रियाहीनं श्रद्धाहीनममानसम् ॥
आज्ञप्तं दक्षिणाहीनं सदा जप्तं च निष्फलम् ॥८४॥

आज्ञासिद्धं क्रियासिद्धं श्रद्धासिद्धं सुमानसम् ॥
एवं च दक्षिणासिद्धं मंत्रं सिद्धं यतस्ततः ॥८५॥

उपागम्य गुरुं विप्रं मंत्रतत्त्वार्थवेदिनम् ॥
ज्ञानिनं सद्गुणोपेतं ध्यानयोगपरायणम् ॥८६॥

तोषयेत्तं प्रयत्नेन भावशुद्धिसमन्वितः ॥
वाचा च मनसा चैव कायेन द्रविणेन च ॥८७॥

आचार्यं पूजयेच्छिष्यः सर्वदातिप्रयत्नतः ॥
हस्त्यश्वरथरत्नानि क्षेत्राणि च गृहाणि च ॥८८॥

भूषणानिं च वासांसि धान्यानि विविधानि च ॥
एतानि गुरवे दद्याद्बक्त्या च विभवे सति ॥८९॥

वित्तशाठ्यं न कुर्वीत यदीच्छेत्सिद्धिमात्मनः ॥
पश्चान्निवेदयेद्देवि आत्मानं सपरिच्छदम् ॥९०॥

एवं संपूज्य विधिवद्यथाशक्ति त्ववंचयन् ॥
आददीत गुरोर्मंत्रं ज्ञानं चैव क्रमेण तु ॥९१॥

एवं तुष्टो गुरुः शिष्यं पूजितं वत्सरोषितम् ॥
शुश्रूषुमनहंकारमुपवासकृशं शुचिम् ॥९२॥

स्नापयित्वा तु शिष्याय ब्राह्मणानपि पूज्य च ॥
समुद्रतीरे नद्यां च गोष्ठे देवालयेपि वा ॥९३॥

शुचौ देशे गृहे वापि काले सिद्धिकरे तिथौ ॥
नक्षत्रे शुभयोगे च सर्वदा दोषवर्जिते ॥९४॥

अनुगृह्य ततो दद्याच्चिवज्ञानमनुत्तमम् ॥
स्वरेणोच्चारयेत्सम्यगेकांतेपि प्रसन्नधीः ॥९५॥

उच्चर्योच्चारयित्वा तु आचार्यः सिद्धिदः स्वयम् ॥
शिवं चास्तु शुभं चास्तु शोभनोस्तु प्रियोस्त्विति ॥९६॥

एवं लब्ध्वा परं मंत्रं ज्ञानं चैव गुरोस्ततः ॥
जपेन्नित्यं ससंकल्पं पुरश्चरणमेव च ॥९७॥

यावज्जीवं जपेन्नित्यमष्टोत्तरसहस्रकम् ॥
अनश्नस्तत्परो भूत्वा स याति परमां गतिम् ॥९८॥

जपेदक्षरलक्षं वै चतुर्गुणितमादरात् ॥
नक्तासी संयमी यश्च पौरश्चरणिकः स्मृतः ॥९९॥

पुरश्चरणजापी वा अपि वा नित्यजापकः ॥
अचिरात्सिद्धिकांक्षी तु तयोरन्यतरो भवेत् ॥१००॥

यः पुरश्चरणं कृत्वा नित्यजापी भवेन्नरः ॥
तस्य नास्ति समो लोके स सिद्धः सिद्धिदो वशी ॥१०१॥

आसनं रुचिरं बद्ध्वा मौनी चैकाग्रमानसः ॥
प्राङ्मुखोदङ्मुखो वापि जपेन्मंत्रमनुत्तमम् ॥१०२॥

आद्यांतयोर्जपस्यापि कुर्याद्वै प्राणसंयमान् ॥
तथा चांते जपेद्बीजं शतमष्टोत्तरं शुभम् ॥१०३॥

चत्वारिंशत्समावृत्ति प्राणानायम्य संस्मरेत् ॥
पंचाक्षरस्य मंत्रस्य प्राणायाम उदाहृतः ॥१०४॥

प्राणायामाद्भवेत्क्षिप्रं सर्वपापपरिक्षयः ॥
इंद्रियाणां वशित्वं च तस्मात्प्राणांश्च संयमेत् ॥१०५॥

गृहे जपः समं विद्याद्गोष्ठे शतगुणं भवेत् ॥
नद्यां शतसहस्रं तु अनंतः शिवसन्निधौ ॥१०६॥

समुद्रतीरे देवह्रदे गिरौ देवालयेषु च ॥
पुण्याश्रमेषु सर्वेषु जपः कोटिगुणो भवेत् ॥१०७॥

शिवस्य सन्निधाने च सूर्यस्याग्रे गुरोरपि ॥
दीपस्य गोर्जलस्यापि जपकर्म प्रशस्तये ॥१०८॥

अंगुलीजपसंख्यानमेकमेकं शुभानने ॥
रेखैरष्टगुणं प्रोक्तं पुत्रजीवफलैर्दश ॥१०९॥

शतं वै शंखमणिभिः प्रवलैश्च सहस्रकम् ॥
स्फाटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते ॥११०॥

पद्माक्षैर्दशलक्षं तु सौवर्णैः कोटिरुच्यते ॥
कुशग्रंथ्या च रुद्राक्षैरनंतगुणमुच्यते ॥१११॥

पंचविंशति मोक्षार्थं सप्तविंशति पौष्टिकम् ॥
त्रिंशच्च धनसंपत्त्यै पंचाशच्चाभिचारिकम् ॥११२॥

तत्पूर्वाभिमुखं वश्यं दक्षिणं चाभिचारिकम् ॥
पश्चिमं धनदं विद्यादुत्तरं शांतिकं भवेत् ॥११३॥

अंगुष्ठं मोक्षदं विद्यात्तर्जनी शत्रुनाशनी ॥
मध्यमा धनदा शांतिं करगोत्येषा ह्यनामिका ॥११४॥

कनिष्ठा रक्षणीया सा जपकर्मणिशोभने ॥
अंगुष्ठेन जपेज्जप्यमन्यैरंगुलिभिः सह ॥११५॥

अंगुष्ठेन विना कर्म कृतं तदफलं यतः ॥
शृणुष्व सर्वयज्ञेभ्यो जपयज्ञो विशिष्यते ॥११६॥

हिंसया ते प्रवर्तंते जपयज्ञो न हिंसया ॥
यावंतः कर्मयज्ञाः स्युः प्रदानानि तपांसि च ॥११७॥

सर्वे ते जपयज्ञस्य कलां नार्हंति षोडशीम् ॥
माहात्म्यं वाचिकस्यैव जपयज्ञस्य कीर्तितम् ॥११८॥

तस्माच्छतगुणोपांशुः सहस्रो मानसः स्मृतः ॥
यदुच्चनीचस्वरितैः शब्दैः स्पष्टपदाक्षरैः ॥११९॥

मंत्रमुच्चारयेद्वाचा जपयज्ञः स वाचिकः ॥
शनैरुच्चारयेन्मंत्रमीषदेष्ठौ तु चालयेत् ॥१२०॥

किंचित्कर्णांतरं विद्यादुपांशुः स जपः स्मृतः ॥
धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम् ॥१२१॥

शब्दार्थं चिंतयेद्भूयः स तूक्तो मानसो जपः ॥
त्रयाणां जपयज्ञानां श्रेयान् स्यादुत्तरोत्तरः ॥१२२॥

भवेद्यज्ञविशेषेण वैशिष्ट्यं तत्फलस्य च ॥
जपेन देवता नित्यं स्तूयमाना प्रसीदति ॥१२३॥

प्रसन्ना विपुलान् भोगान्दद्यान्मुक्तिं च शाश्वतीम् ॥
यक्षरक्षःपिशाचाश्च ग्रहाः सर्वे च भीषणाः ॥
जापिनं नोपसर्पंति भयभीताः समंततः ॥१२४॥

जपेन पापं शमयेदशेषं यत्तत्कृतं जन्मपरंपरासु ॥
जपेन भोगान् जयते च मृत्युं जपेन सिद्धिं लभते च मुक्तिम् ॥१२५॥

एवं लब्ध्वा शिवं ज्ञानं ज्ञात्वा जपविधिक्रमम् ॥१२६॥

सदाचारी जपन्नित्यं ध्यायन् भद्रं समश्नुते ॥
सदाचारं प्रवक्ष्यामि सम्यग्धर्मस्य साधनम् ॥१२७॥

यस्मादाचारहीनस्य साधनं निष्फलं भवेत् ॥
आचारः परमो धर्म आचारः परमंतपः ॥१२८॥

आचारः परमा विद्या आचारः परमा गतिः ॥
सदाचारवतां पुंसां सर्वत्राप्यभयं भवेत् ॥१२९॥

तद्वदाचारहीनानां सर्वत्रैवभयं भवेत् ॥
सदाचारेण देवत्वमृषित्वं च वरानने ॥१३०॥

उपयांति कुयोनित्वं तद्वदाचरलंघनात् ॥
आचारहीनः पुरुषो लोके भवतिनिंदितः ॥१३१॥

तस्मात्संसिद्धिमन्विच्छन्सम्यगाचारवान् भवेत् ॥
दुर्वृत्तो शुद्धिभूयिष्ठो पापीयान् ज्ञानदूषकः ॥१३२॥

वर्णाश्रमविधानोक्तं धर्मं कुर्वीत यत्नतः ॥१३३॥

यस्य यद्विहितं कर्म तत्कुर्वन्मत्प्रियः सदा ॥
संध्योपासनशीलः स्यात्सायं प्रातः प्रसन्नधीः ॥१३४॥

उदयास्तमयात्पूर्वमारम्य विधिना शुचिः ॥
कामान्मोहाद्भयाल्लोभात्संध्यां नातिक्रमेद्द्विजः ॥१३५॥

संध्यातिक्रमणाद्विप्रो ब्राह्मण्यात्पतते यतः ॥
असत्यं न वदेत्किंचिन्न सत्यं च परित्यजेत् ॥१३६॥

यत्सत्यं ब्रह्म इत्याहुरसत्यं ब्रह्मदूषणम् ॥
अनृतं परुषं शाठ्यं पैशुन्यं पापहेतुकम् ॥१३७॥

परदारान्परद्रव्यं परहिंसां च सर्वदा ॥
क्वचिच्चापि न कुर्वीत वाचा च मनसा तथा ॥१३८॥

शूद्रान्नं यातयामान्नं नैवेद्यं श्राद्धमेव च ॥
गणान्नं समुदायान्नं राजान्नं च विवर्जयेत् ॥१३९॥

अन्नशुद्धौ सत्त्वशुद्धिर्न मृदा न जलेन वै ॥
सत्त्वशुद्धौ भवेत्सिद्धिस्ततोन्नं परिशोधयेत् ॥१४०॥

राजप्रतिग्रहैर्दग्धान् ब्राह्मणान् ब्रह्मवादिनः ॥
स्विन्नानामपि बीजानां पुनर्जन्म न विद्यते ॥१४१॥

राजप्रतिग्रहो घोरो बुद्ध्वा चादौ विषोपमः ॥
बुधेन परिहर्तव्यः श्वमांसं चापि वर्जयेत् ॥१४२॥

अस्नात्वा न च भुंजीयादजपोग्निमपूज्य च ॥
पर्णपृष्ठे न भुञ्जीयाद्रात्रौ दीपं विना तथा ॥१४३॥

भिन्नभांडे च रथ्यायां पतितानां च सन्निधौ ॥
शूद्रशेषं न भुंजीयात्सहान्नं शिशुकैरपि  ॥१४४॥

शुद्धान्नं स्निग्धमश्रीयात्संस्कृतं चाभिमंत्रितम् ॥
भोक्ता शिव इति स्मृत्वा मौनी चैकाग्रमानसः ॥१४५॥

आस्येन न पिबेत्तोयं तिष्ठन्नंजलिनापि वा ॥
वामहस्तेन श्य्यायां तथैवान्यकरेण वा ॥१४६॥

विक्षीतकार्कारंजस्नुहिच्छायां न चाश्रयेत् ॥
स्तंभदीपमनुष्याणामन्येषां प्राणिनां तथा ॥१४७॥

एको न गच्छेदध्वानं बाहुभ्यां नोत्तरेन्नदीम् ॥
नावरोहेत कूपादिं नारोहेदुच्चपादपान् ॥१४८॥

सूर्याग्निजलदेवानां गुरूणां विमुखः शुभे ॥
न कुर्यादिह कार्याणि जपकर्म शुभानि वा ॥१४९॥

अग्नौ न तापयेत्पादौ हस्तं पद्भ्यां न संस्पृशेत् ॥
अग्नेर्नोच्छ्रयमासति नाग्नौ किंचिन्मलं त्यजेत् ॥१५०॥

न जलं ताडयेत्पद्भ्यां नांभस्यंगमलं त्यजेत् ॥
मलं प्रक्षालयेत्तीरे प्रक्षाल्य स्नानमाचरेत् ॥१५१॥

नखाग्रकेशनिर्धूतस्नानवस्त्रघटोदकम् ॥
अश्रीकरं मनुष्याणामशुद्धं संस्पृशेद्यदि ॥१५२॥

अजाश्वानखरोष्ट्राणां मार्जनात्तुपरेणुकान् ॥
सस्पृशीद्यादि मूढात्मा श्रियं हंति हरेरपि ॥१५३॥

मार्जारश्च गृहे यस्य सोप्यंत्यजसमो नरः ॥
भोजयेद्यस्तु विप्रेंद्रान्मार्जारान्संनिधौ यदि ॥१५४॥

तच्चांडालसमं ज्ञेयं नात्र कार्याविचारणा ॥
स्फिग्वातं शूर्पवातं च वातं प्राणमुखानिलम् ॥१५५॥

सुकृतानि हरंत्येते संस्पृष्टाः पुरुषस्य तु ॥
उष्णीषी कंचुकी नग्नो मुक्तकेशो मलावृतः ॥१५६॥

अपवित्रकरोशुद्धः प्रलपन्न जपेत् क्वचित् ॥
क्रोधो मदः क्षुधा तंद्रा निष्ठीवनविजृंभणे ॥१५७॥

श्वनीचदर्शनं निद्रा प्रलापास्ते जपद्विषः ॥
एतेषां संभवे वापि कुर्यात्सूर्यादिदर्शनम् ॥१५८॥

आचम्य वा जपेच्छेषं कृत्वा वा प्राणसंयमम् ॥
सूर्योग्निश्चंद्रमाश्चैव ग्रहनक्षत्रतारकाः ॥१५९॥

एते ज्योतींषि प्रोक्तानि विद्वद्भिर्बाह्मणैस्तथा ॥
प्रसार्य पादौ न जपेत्कुक्कुटासन एव च ॥१६०॥

अनासनः शयानो वा रथ्यायां शूद्रसन्निधौ ॥
रक्तभूम्यां च खट्वायां न जपेज्जापकस्तथा ॥१६१॥

आसनस्थो जपेत्सम्यक् मंत्रार्थगतमानसः ॥
कौशेयं व्याघ्रचर्मं वा चैलं तौलमथापि वा ॥१६२॥

दारवं तालपर्णं वा आसनं परिकल्पयेत् ॥
त्रिसंध्यं तु गुरोः पूजा कर्तव्या हितमिच्छता ॥१६३॥

यो गुरुः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः ॥
यथा शिवस्तथा विद्या यथा विद्या तथा गुरुः ॥१६४॥

शिवविद्यागुरोस्तस्माद्भक्त्या च सदृशं फलम् ॥
सर्वदेवमयो देवी सर्वशक्तिमयो हि सः ॥१६५॥

सगुणो निर्गुणो वापि तस्याज्ञां शिरसा वहेत् ॥
श्रेयोर्थि यस्तु गुर्वाज्ञां मनसापि न लंघयेत् ॥१६६॥

गुर्वाज्ञापालकः सम्यक् ज्ञानसंपत्तिमश्नुते ॥
गच्छंस्तिष्ठन्स्वपन् भुंजन्यद्यत्कर्म समाचरेत् ॥१६७॥

समक्षं यदि तत्सर्वं कर्तव्यं गुर्वनुज्ञया ॥
गुरोर्देवसमक्षं वा न यथेष्टासनो भवेत् ॥१६८॥

गुरुर्देवो यतः साक्षात्तद्गृहं देवमंदिरम् ॥
पापिना च यतासंगात्तत्पापैः पतनं भवेत् ॥१६९॥

तद्वदाचार्यसंगेन तद्वर्मफलभाग्भवेत् ॥
यथैव वह्निसंपर्कान्मलं त्यजति कांचनम् ॥१७०॥

तथैव गुरुसंपर्कात्पापं त्यजति मानवः ॥
यथा वह्निसमीपस्थो घृतकुंभो विलीयते ॥१७१॥

तथा पापं विलीयेत आचार्यस्य समीपतः ॥
यथा प्रज्वलितो वह्निर्विष्ठा काष्ठं च निर्दहेत् ॥१७२॥

गुरुस्तुष्टो दहत्येवं पापं तन्मंत्रतेजसा ॥
ब्रह्मा हरिस्तथा रुद्रो देवाश्च मुनयस्तथा ॥१७३॥

कुर्वंत्यनुग्रहं तुष्टा गुरौ तुष्टे न संशयः ॥
कर्मणा मनसा वाचा गुरोः क्रोधं न कारयेत् ॥१७४॥

तस्य क्रोधेन दह्यंते आयुःश्रीज्ञानसत्क्रियाः ॥
तत्क्रोधं ये करिष्यंति तेषां यज्ञाश्च निष्फलाः ॥१७५॥

जपान्यनियमाश्चैव नात्र कार्या विचारणा ॥
गुरोर्विरुद्धं यद्वाक्यं न वदेत्सर्वयत्नतः ॥१७६॥

वदेद्यदिमामोहाद्रौरवं नरकं व्रजेत् ॥
चित्तेनैव च वित्तेन तथा वाचा च सुव्रताः ॥१७७॥

मिथ्या न कारयेद्देवि क्रियया च गुरोः सदा ॥
दुर्गुणेख्यापिते तस्य नैर्गुण्यशतभाग्भवेत् ॥१७८॥

गुणे तु ख्यापिते तस्य सार्वगुण्यफलं भवेत् ॥
गुरोर्हितं प्रियं कुर्यादादिष्टो वा न वा सदा ॥१७९॥

असमक्षं समक्षं वा गुरोः कार्यं समाचरेत् ॥
गुरोर्हितं प्रियं कुर्यान्मनोवाक्कायकर्मभिः ॥१८०॥

कुर्वन्पतत्यधो गत्वा तत्रैव परिवर्तते ॥
तस्मात्स सर्वदोपास्यो वन्दनीयश्च सर्वदा ॥१८१॥

समीपस्थोप्यनुज्ञाप्य वदेत्तद्विमुखो गुरुम् ॥
एवमाचारवान् भक्तो नित्यं जपपरायणः ॥१८२॥

गुरुप्रियकरो मंत्रं विनियोक्तं ततोर्हति ॥
विनियोगं प्रवक्ष्यामि सिद्धमंत्रप्रयोजनम् ॥१८३॥

दौर्बल्यं याति तन्मंत्रं विनियोगमजानतः ॥
यस्य येन वियुंजीत कार्येण तु विशेषतः ॥१८४॥

विनियोगः स विज्ञेय ऐहिकामुष्मिकं फलम् ॥
विनियोगजमायुष्यमारोग्यं तनुनित्यता ॥१८५॥

राज्यैश्वर्यं च विज्ञानं स्वर्गो निर्वाण एव च ॥
प्रोक्षणं चाभिषेकं च अघमर्षणमेव च ॥१८६॥

स्नाने च संध्ययोश्चैव कुर्यादेकादशेन वै ॥
शुचिः पर्वतमारुह्य जपेल्लक्षमतंद्रितः ॥१८७॥

महानद्यां द्विलक्षं तु दीर्घमायुरवाप्नुयात् ॥
दूर्वांकुरास्तिला वाणी गुडूची घुटिका तथा ॥१८८॥

तेषां तु दशसाहस्रं होममायुष्यवर्धनम् ॥
अश्वत्थवृक्षमाश्रित्य जपेल्लक्षद्वयं सुधीः ॥१८९॥

शनैश्चरदिने स्पृष्ट्वा दीर्घायुष्यं लभेन्नरः ॥
शनैश्चरदिनेऽश्वत्थं पाणिभ्यां संस्पृशेत्सुधीः ॥१९०॥

जपेदष्टोत्तरशतं सोममृत्युहरो भवेत् ॥
आदित्याभिमुखो भूत्वा जपेल्लक्षमनन्यधीः ॥१९१॥

अर्कैरष्टशतं जप्त्वा जुह्वन्व्याधेर्विमुच्यते ॥
समस्तव्याधिशांत्यर्थं पलाशसमिदैर्नरः ॥१९२॥

हुत्वा दशसहस्रं तु निरोगी मनुजो भवेत् ॥
नित्यमष्टशतं जप्त्वा पिबेदंभोर्कसन्निधौ ॥१९३॥

औदर्यैर्व्याधिभिः सर्वैर्मासेनैकेन मुच्यते ॥
एकादशेन भुंजीयादन्नं चैवाभिमंत्रितम् ॥१९४॥

भक्ष्यं चान्यत्तथा पेयं विषमप्यमृतं भवेत् ॥
जपेल्लक्षं तु पूर्वाह्णे हुत्वा चाष्टशतेन वै ॥१९५॥

सूर्यं नित्यमुपस्थाय सम्यगारोग्यमाप्नुयात् ॥
नदीतोयेन संपूर्णं घटं संस्पृश्य शोभनम् ॥१९६॥

जप्त्वायुतं च तत्स्नानाद्रोगाणां भेषजं भवेत् ॥
अष्टाविंशज्जपित्वान्नमश्रीयादन्वहं शुचिः ॥१९७॥

हुत्वा च तावत्पालाशैरेवं वारोग्यमश्नुते ॥
चंद्रसूर्यग्रहनक्षत्रपीडासु जपेद्भक्त्यायुतं नरः ॥१९८॥

यावद्ग्रहणमोक्षं तु तावन्नद्यां समाहितः ॥
जपेत्समुद्रगामिन्यां विमोक्षे ग्रहणस्य तु ॥१९९॥

अष्टोत्तरसहस्रेण पिबेद्ब्राह्मीरसं द्विजाः ॥
एहिकां लभते मेधां सर्वशास्त्रधरां शुभाम् ॥२००॥

सारस्वती भवेद्देवी तस्य वागतिमानुषी ॥
ग्रहनक्षत्रपीडासु जपेद्भक्त्यायुतं नरः ॥२०१॥

हुत्वा चाष्टसहस्रं तु ग्रहपीडां व्यपोहति ॥
दुःस्वप्नदर्शने स्नात्वा जपेद्वै चायुतं नरः ॥२०२॥

घृतेनाष्टशतं हुत्वा सद्यः शांतिर्भविष्यति ॥
चंद्रसूर्यग्रहे लिंगं समभ्यर्च्य यथाविधि ॥२०३॥

यत्किंचित्प्रार्थयेद्देवि जपेदयुतमादरात् ॥
संनिधावस्य देवस्य शुचिः संयतमानसः ॥२०४॥

सर्वान्कामानवाप्नोति पुरुषो नात्र संशयः ॥
गजानां तुरगाणां तु गोजातीनां विशेषतः ॥२०५॥

व्याध्यागमे शुचिर्भूत्वा जुहुयात्समिधाहुतिम् ॥
मासमभ्यर्च्य विधिनाऽयुतं भक्तिसमन्वितः ॥२०६॥

तेषामृद्धिश्च शांतिश्च भविष्यति न संशयः ॥
उत्पाते शत्रुबाधायां जुहुयादयुतं शुचिः ॥२०७॥

पालाशसमिधैर्देवि तस्य शांतिर्भविष्यति ॥
आभिचारिकबाधायामेतद्देवि समाचरेत् ॥२०८॥

प्रत्यग् भवति तच्छक्तिः शत्रोः पीडा भविष्यति ॥
विद्वेषणार्थं जुहुयाद्वैभीतसमिधाष्टकम् ॥२०९॥

अक्षरप्रतिलोम्येन आर्द्रेण रुधिरेण वा ॥
विषेण रुधिराभ्यक्तो विद्वेषणकरं नृणाम् ॥२१०॥

प्रायश्चित्तं प्रवक्ष्यामि सर्वपापविशुद्धये ॥
पापशुद्धिर्यथा सम्यक् कर्तुमभ्युद्यतो नरः ॥२११॥

पापसुद्धिर्यतः सम्यग् ज्ञानसंपत्तिहैतुकी ॥
पापशुद्धिर्न चेत्पुंसः क्रियाः सर्वाश्चनिष्फलाः ॥२१२॥

ज्ञानं च हीयते तस्मात्कर्तव्यं पापशोधनम् ॥
विद्यालक्ष्मीविशुद्ध्यर्थं मां ध्यात्वांजलिना शुभे ॥२१३॥

शिवेनैका दशेनाद्भिरभिषिंचेत्समंततः ॥
अष्टोत्तरशतेनैव स्नायात्पापविशुद्धये ॥२१४॥

सर्वतीर्थफलं तच्च सर्वपापहरं शुभम् ॥
संध्योपासनविच्छेदे जपेदष्टशतं नरः ॥२१५॥

विड्वराहैश्च चांडालैर्दुर्जनैः कुक्कुटैरपि ॥
स्पृष्टमन्नं न भुंजीत भुक्त्वा चाष्टशतं जपेत् ॥२१६॥

ब्रह्महत्या विशुद्ध्यर्थं जपेल्लक्षायुतं नरः ॥
पातकानां तदर्धं स्यान्नात्र कार्या विचारणा ॥२१७॥

उपपातकदुष्टानां तदर्धं परिकीर्तितम् ॥
शेषाणामपि पापानां जपेत्पंचसहस्रकम् ॥२१८॥

आत्मबोधपरं गुह्यं शिवबोधप्रकाशकम् ॥
शिवः स्यात्स जपेन्मंत्रं पंचलक्षमनाकुलः ॥२१९॥

पंचवायुजयं भद्रे प्राप्नोति मनुजः सुखम् ॥
जपेच्च पंचलक्षं तु विगृहीतेंद्रियः शुचिः ॥२२०॥

पंचेंद्रियाणां विजयो भविष्यति वरानने ॥
ध्यानयुक्तो जपेद्यस्तु पंचलक्षमनाकुलः ॥२२१॥

विषयाणां च पंचानां जयं प्राप्नोति मानवः ॥
चतुर्थं पंचलक्षं तु यो जपेद्भक्तिसंयुतः ॥२२२॥

भूतानामिह पंचानां विजयं मनुजो लभेत् ॥
चतुर्लक्षं जपेद्यस्तु मनः संयम्य यत्नतः ॥२२३॥

सम्यग्विजयमाप्नोति करणानां वरानने ॥
पंचविंशतिलक्षाणां जपेन कमलानने ॥२२४॥

पंचविंशतितत्त्वानां विजयं मनुजो लभेत् ॥
मध्यरात्रेतिनिर्वाते जपेदयुतमादरात् ॥२२५॥

ब्रह्मसिद्धिमवाप्नोति व्रतेनानेन सुंदरि ॥
जपेल्लक्षमनालस्यो निर्वाते ध्वनिवर्जिते ॥२२६॥

मध्यारात्रे च शिवयोः पश्यत्येव न संशयः ॥
अंधकारविनाशश्च दीपस्येव प्रकाशनम् ॥२२७॥

हृदयांतर्बहिर्वापि भविष्यति न संशयः ॥
सर्वसंपत्समृद्ध्यर्थं जपेदयुतमात्मवान् ॥२२८॥

सबीजसंपुटं मंत्रं शतलक्षं जपेच्छुचिः ॥
मत्सायुज्यमवाप्नोति भक्तिमान् किमतः परम् ॥२२९॥

इति ते सर्वमाख्यातं पंचाक्षरविधिक्रमम् ॥
यः पठेच्छृणुयाद्वापि स याति परमां गतिम् ॥२३०॥

श्रावयेच्च द्विजाञ्छुद्धान्पंचाक्षरविधिक्रमम् ॥
दैवे कर्मणि पित्र्ये वा शिवलोके महीयते ॥२३१॥

इति श्रीलिंगमहापुराणे पूर्वभागे पंचाक्षरमाहात्म्यं नाम पंचाशीतितमोध्यायः ॥८५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:27.2870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

बाध्योग

  • n. जिह्रावत् नामक आचार्य का पैतृक नाम [बृ.उ. माध्यं ६.४.३३.];जिह्रावत् देखिये । बध्योग का वंशज होने के कारण उसे यह पैतृक नाम प्राप्त हुआ होगा । 
RANDOM WORD

Did you know?

मंदार गणेश उपासनेची सविस्तर माहिती द्यावी.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.