संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ९१

पूर्वभागः - अध्यायः ९१

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


सूत उवाच ॥
अत ऊर्ध्वं प्रवक्ष्यामि अरिष्टानि निबोधत ॥
येन ज्ञानविशेषेण मृत्युं पश्यंति योगिनः ॥१॥

अरुंधतीं ध्रुवं चैव सोमच्छायां महापथम् ॥
यो न पश्येन्न जीवेत्स नरः संवत्सरात्परम् ॥२॥

अरश्मिवन्तमादित्यं रश्मिवंतं च पावकम् ॥
यः पश्यति न जीवेद्वै मासादेकादशात्परम् ॥३॥

वमेन्मूत्रं पुरीषं च सुवर्णं रजतं तथा ॥
प्रत्यक्षमथवा स्वप्ने दशमासान्न जीवति ॥४॥

रुक्मवर्णं द्रुमं पश्येद्गंधर्वनगराणि च ॥
पश्येत्प्रेतपिशाचांश्च नवमासान् स जीवति ॥५॥

अकस्माच्च भवेत्स्थूलो ह्यकस्माच्च कृशो भवेत् ॥
प्रकृतेश्च निवर्तेत चाष्टौ मासंश्च जीवति ॥६॥

अग्रतः पृष्ठतो वापि खंडं यस्य पदं भवेत् ॥
पांसुके कर्दमे वापि सप्तमासान्स जीवति ॥७॥

काकः कपोतो गृध्रो वा निलीयेद्यस्य मूर्धनि ॥
क्रव्यादो वा खगो यस्य षण्मासान्नतिवर्तते ॥८॥

गच्छेद्वायसपंक्तीभिः पांसुवर्षेण वा पुनः ॥
स्वच्छायां विकृतां पश्येच्चतुः पंच स जीवति ॥९॥

अनभ्रे विद्युतं पश्येद्दक्षिणां दिशमास्थिताम् ॥
उदके धनुरैद्रं वा त्रीणि द्वौ वा स जीवति ॥१०॥

अप्सु वा यदि वादर्शे यो ह्यात्मानं न पश्यति ॥
अशिरस्कं तथा पश्येन्मासादूर्ध्वं न जीवति ॥११॥

शवगंधि भवेद्गात्रं वसागंधमथापि वा ॥
मृत्युर्ह्युपागतस्तस्य अर्धमासान्न जीवति ॥१२॥

यस्य वै स्नातमात्रस्य हृदयं परिशुष्यति ॥
धूमं वा मस्तकात्पश्येद्दशाहान्न स जीवति ॥१३॥

संभिन्नो मारुतो यस्य मर्मस्थानानि कृंतति ॥
अद्भिः स्पृष्टो न हृष्येत तस्य मृत्युरुपस्थितः ॥१४॥

ऋक्षवानरयुक्तेन रथेनाशां च दक्षिणाम् ॥
गायन्नृत्यन्व्रेजत्स्वप्ने विद्यान्मृत्युरुपस्थितः ॥१५॥

कृष्णांबरधरा श्यामा गायंती वाप्यथांगना ॥
यं नयेद्दक्षिणामाशां स्वप्ने सोपि न जीवति ॥१६॥

छिद्रंवा स्वस्य कंठस्य स्वप्ने यो वीक्षते नरः ॥
नग्नं वा श्रमणं दृष्ट्वा विद्यान्मृत्युमुपस्थितम् ॥१७॥

आमस्तकतलाद्यस्तु निमज्जेत्पंकसागरे ॥
दृष्ट्वा तु तादृशं स्वप्नं सद्य एव न जीवति ॥१८॥

भस्मांगारांश्च केशांश्च नदीं शुष्कां भुजंगमान् ॥
पश्येद्यो दशरात्रं तु न स जीवति तादृशः ॥१९॥

कृष्णैश्च विकटैश्चैव पुरुषैरुद्यतायुधैः ॥
पाषाणैस्ताड्यते स्वप्ने यः सद्यो न स जीवाति ॥२०॥

सूर्योदये प्रत्युषसि प्रत्यक्षं यस्य वै शिवाः ॥
क्रोशंत्यभिमुखं प्रेत्य स गतायुर्भवेन्नरः ॥२१॥

यस्य वा स्नातमात्रस्य हृदयं पीड्यते भृशम् ॥
जायते दंतहर्षश्च तं गतायुषमादिशेत् ॥२२॥

भूयोभूयस्त्रसेद्यस्तु रात्रौ वा यदि वा दिवा ॥
दीपगंधं च नाघ्राति विद्यान्मृत्युमुपस्थितम् ॥२३॥

रात्रौ चेंद्रधनुः पश्येद्दिवा नक्षत्रमंडलम् ॥
परनेत्रेषु चात्मानं न पश्येन्न स जीवति ॥२४॥

नेत्रमेकं स्रवेद्यस्य कर्णौ स्थानाच्च भ्रश्यतः ॥
वक्रा च नासा भवति विज्ञेयो गतजीवितः ॥२५॥

यस्य कृष्णा खरा जिह्वा पद्माभासं च वै मुखम् ॥
गंडेवा पिंडिकारक्ते तस्य मृत्युरुपस्थितः ॥२६॥

मुक्तकेशो हसंश्चैव गायन्नृत्यंश्च यो नरः ॥
याम्यामभिमुखं गच्छेत्तदंतं तस्य जीवितम् ॥२७॥

यस्य श्वेतवनाभासा श्वेतसर्षपसंनिभा ॥
श्वेता च मूर्तिर्ह्यसकृत्तस्य मृत्युरुपस्थितः ॥२८॥

उष्ट्रा वा रासभा वाभियुक्ताः स्वप्ने रथे शुभाः ॥
यस्य सोपि न जीवेत्तु दक्षिणाभिमुखो गतः ॥२९॥

द्वे वाथ परमेऽरिष्टे एकीभूतः परं भवेत् ॥
घोषं न श्रृणुयात्कर्णेज्योतिर्नेत्रे न पश्यति ॥३०॥

श्वभ्रे यो निपतेत्स्वप्ने द्वारं चापि पिधीयते ॥
न चोत्तिष्ठति यः श्वभ्रात्तदंतं तस्य जीवतम् ॥३१॥

ऊर्ध्वा च दृष्टिर्न च संप्रतिष्ठा रक्ता पुनः संपरिवर्तमाना ॥
मुखस्य शोषः सुषिरा च नाभिरत्युष्णमूत्रो विषमस्थ एव ॥३२॥

दिवा वा यदि वा रात्रौ प्रत्यक्षं यो निहन्यते ॥
हंतारं न च पश्येच्च स गतायुर्न जीवति ॥३३॥

अग्निप्रवेशं कुरुते स्वप्नांते यस्तु मानवः ॥
स्मृतिं नोपलभेच्चापि तदंतं तस्य जीवितम् ॥३४॥

यस्तु प्रावरणं शुक्लं स्वकं पश्यति मानवः ॥
कृष्णं रक्तमपि स्वप्ने तस्य मृत्युरुपस्थितः ॥३५॥

अरिष्टे सूचिते देहे तस्मिन्काल उपस्थिते ॥
त्यक्त्वा खेदं विषादं च उपेक्षेद्ब्रुद्धिमान्नरः ॥३६॥

प्राचीं वा यदि वोदीचीं दिशं निष्क्रम्यवै शुचिः ॥
समेऽतिस्थावरे देशे विविक्ते जंतुवर्जिते ॥३७॥

उदङ्मुखः प्राङ्मुखो वा स्वश्थश्चाचांत एव च ॥
स्वस्तिकेनोपविष्टस्तु नमस्कृत्वा महेश्वरम् ॥३८॥

समकायशिरोग्रीवो धारयन्नावलोकयेत् ॥
यथा दीपो निवातस्थो नेंगते सोपमा स्मृता ॥३९॥

प्रागुदक्प्रवणे देशे तथा युंजीत शास्त्रवित् ॥
कामं वितर्कं प्रीतिं च सुखदुःखे उभे तथा ॥४०॥

निगृह्य मनसा सर्वं शुक्लं ध्यानमनुस्मरेत् ॥
घ्राणे च रसने नित्यं चक्षुषी स्पर्शने तथा ॥४१॥

श्रोत्रे मनसि बुद्धौ च तत्र वक्षसि धारयेत् ॥
कालकर्माणि विज्ञाय समूहेष्वेव नित्यशः ॥४२॥

द्वादशाध्यात्ममित्येवं योगधारणमुच्यते ॥
शतमर्धशतं वापि धारणां मूर्ध्नि धारयेत् ॥४३॥

खिन्नस्य धारणायोगाद्वायुरूर्ध्वं प्रवर्तते ॥
ततश्चापूरयेद्देहमोंकारेण समन्वितः ॥४४॥

तथोंकारमयो योगी अक्षरे त्वक्षरी भवेत् ॥
अत ऊर्ध्वं प्रवक्ष्यामि ओंकारप्राप्तिलक्षणम् ॥४५॥

एष त्रिमात्रो विज्ञेयो व्यंजनं चात्र चेश्वरः ॥
प्रथमा विद्युती मात्रा द्वितीया तामसी स्मृता ॥४६॥

तृतीयां निर्गुणां चैव मात्रामक्षरगामिनीम् ॥
गांधारी चैव विज्ञेया गांधरस्वरसंभवा ॥४७॥

पिपीलिकागतिस्पर्शा प्रयुक्ता मूर्ध्नि लक्ष्यते ॥
यथा प्रयुक्त ओंकारः प्रतिनिर्याति मूर्धनि ॥४८॥

तथौकारमयो योगी त्वक्षरो त्वक्षरी भवेत् ॥
प्रणवो धनुः शरो ह्यात्मा ब्रह्मलक्षणमुच्यते ॥४९॥

अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥
ओमित्येकाक्षरं ह्येतद्गुहायां निहितं पदम् ॥५०॥

ओमित्येतत्त्रयो लोकास्त्रयो वेदास्त्रयोऽग्नयः ॥
विष्णुक्रमास्त्रयस्त्वेते ऋक्सामानि यजूंषि च ॥५१॥

मात्रा चार्धं च तिस्रस्तु विज्ञेयाः परमार्थतः ॥
तत्प्रयुक्तस्तु यो योगी तस्य सालोक्यमाप्नुयात् ॥५२॥

अकारो ह्यक्षरो ज्ञेय उकारः सहितः स्मृतः ॥
मकारसहितोंकारस्त्रिमात्र इति संज्ञितः ॥५३॥

अकार स्त्वेष भूर्लोक उकारो भुव उच्यते ॥
सव्यंजनो मकारस्तु स्वर्लोक इति गीयते ॥५४॥

ओंकारस्तु त्रयो लोकाः शिरस्तस्य त्रिविष्टपम् ॥
भुवनांगं च तत्सर्वं ब्राह्मं तत्पदमुच्यते ॥५५॥

मात्रापादो रुद्रलोको ह्यमात्रं तु शिवं पदम् ॥
एवं ज्ञानविशेषेण तत्पदं समुपास्यते ॥५६॥

तस्माद्ध्यानरतिर्नित्यममात्रं हि तदक्षरम् ॥
उपास्यं हि प्रयत्नेन शाश्वतं सुखमिच्छता ॥५७॥

ह्रस्वा तु प्रथमा मात्रा ततो दीर्घा त्वनंतरम् ॥
ततः प्लुतवती चैव तृतीया चोपदिश्यते ॥५८॥

एतास्तु मात्रा विज्ञेया यथावदनुपूर्वशः ॥
यावदेव तु शक्यंते धार्यंते तावदेव हि ॥५९॥

इंद्रियाणि मनो बुद्धिं ध्यायन्नात्मनि यः सदा ॥
अर्धं तन्मात्रमपि चेच्छृणु यत्फलमाप्नुयात् ॥६०॥

मासेमासेऽश्वमेधेन यो यजेत शतं समाः ॥
तेन यत्प्राप्यते पुण्यं मात्रया तदवाप्नुयात्.। ६१॥

न तथा तपसोग्रेण न यज्ञैर्भूरिदक्षिणैः ॥
यत्फलं प्राप्यते सम्यङ्मात्रया तदवाप्नुयात् ॥६२॥

तत्र चैषा तु या मात्रा प्लुता नामोपदिश्यते ॥
एषा एव भवेत्कार्या गृहस्थानां तु योगिनाम् ॥६३॥

एषा चैव विशेषेण ऐश्वर्ये ह्यष्टलक्षणे ॥
अणिमाद्ये तु विज्ञेया तस्माद्युंजीत तां द्विजाः ॥६४॥

एवं हि योगसंयुक्तः शुचिर्दातो जितेंद्रियः ॥
आत्मानं विद्यते यस्तु स सर्वं विंदते द्विजाः ॥६५॥

तस्मात्पाशुपतैर्योगैरात्मानं चिंतयेद्बुधः ॥
आत्मानं जानते ये तु शुचयस्ते न संशयः ॥६६॥

ऋचो यजूंषि सामानि वेदोपनिषदस्तथा ॥
योगज्ञानादवाप्नोति ब्राह्मणोऽध्यात्मचिंतकः ॥६७॥

सर्वदेवमयो भूत्वा अभूतः स तु जायते ॥
योनिसंक्रमणं त्यक्त्वा याति वै शाश्वतं पदम् ॥६८॥

यथा वृक्षात् फलं पक्वं पवनेन समीरितम् ॥
नमस्कारेण रुद्रस्य तथा पापं प्रणश्यति ॥६९॥

यत्र रुद्रनमस्कारः सर्वकर्मफलो ध्रुवः ॥
अन्यदेवनमस्कारान्न तत्फलमवाप्नुयात् ॥७०॥

तस्मात्त्रिःप्रवणं योगी उपासीत महेश्वरम् ॥
दशविस्तारकं ब्रह्म तथा च ब्रह्मविस्तरैः ॥७१॥

एवंध्यानसमायुक्तः स्वदेहं यः परित्यजेत् ॥
स याति शिवसायुज्यं समुद्धृत्य कुलत्रयम् ॥७२॥

अथवारिष्टमालोक्य मरणे समुपस्थिते ॥
अविमुक्तेश्वरं गत्वा वाराणस्यां तु शोधनम् ॥७३॥

येन केनापि देहं संत्यजेन्मुच्यते नरः ॥
श्रीपर्वते वा विप्रेंद्राः संत्यजेत्स्वतनुं नरः ॥७४॥

स याति शिवसायुज्यं नात्र कार्या विचारणा ॥
अविमुक्तं परं क्षेत्रं जंतूनां मुक्तिदं सदा ॥७५॥

सेवेत सततं धीमान् विशेषान्मरणांतिके ॥७६॥

इति श्रीलिंगमहापुराणे पूर्वभागे अरिष्टकथनं नाम एकनवतितमोऽध्यायः ॥९१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP