TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ७

पूर्वभागः - अध्यायः ७

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः ७
सुत उवाच ॥
रहस्यं वः प्रवक्ष्यामि भवस्यामिततेजसः ॥
प्रभावं शंकरस्याद्यं संक्षेपात्सर्वदर्शिनः ॥१॥

योगिनः सर्वतत्त्वज्ञाः परं वैराग्यमास्थिताः ॥
प्राणायामादिभिश्चाष्टसाधनैः सहचारिणः ॥२॥

करुणादिगुणोपेताः कृत्वापि विविधानि ते ॥
कर्माणि नरकं स्वर्गं गच्छंत्येव स्वकर्मणा ॥३॥

प्रसादाज्जायते ज्ञानं ज्ञानाद्योगः प्रवर्तते ॥
योगेन जायते मुक्तिः प्रसादादाखिलं ततः ॥४॥

ऋषय ऊचुः ॥
प्रसादाद्यदि विज्ञानं स्वरूपं वक्तुमर्हसि ॥
दिव्यं माहेश्वरं चैव योगं योगविदां वर ॥५॥

कथं करोति भगवान् चिंतया रहितः शिवः ॥
प्रसादं योगमार्गेण कस्मिन्काले नृणां विभुः ॥६॥

रोमहर्षण उवाच ॥
देवानां च ऋषीणां च पितॄणां सन्निधौ पुरा ॥
शैलादिना तु कथितं श्रृण्वंतु ब्रह्मसूनवे ॥७॥

व्यासावताराणि तथा द्वापरांते च सुव्रताः ॥
योगाचार्यावताराणि तथा तिष्ये तु शूलिनः ॥८॥

तत्रतत्र विभोः शिष्याश्चात्वारः शमभाजनाः ॥
प्रशिष्या बहवस्तेषां प्रसीदत्येवमीश्वरः ॥९॥

एवं क्रमागतं ज्ञानं मुखादेव नृणां विभोः ॥
वैश्यांतं ब्राह्मणाद्यं हि घृणया चानुरूपतः ॥१०॥

ऋषय ऊचुः ॥
द्वापरेद्वापरे व्यासाः के वै कुत्रांतरेषु वै ॥
कल्पेषु कस्मिन्कल्पे नो वक्तुमर्हसि चात्र तान् ॥११॥

सूत उवाच ॥
श्रृण्वंतु कल्पे वाराहे द्विजा वैवस्वतांतरे ॥
व्यासांश्च सांप्रतं रुद्रांस्तथा सर्वांतरेषु वै ॥१२॥

वेदानां च पुराणानां तथा ज्ञानप्रदर्शकान् ॥
यथाक्रमं प्रवक्ष्यामि सर्वावर्तेषु साप्रतम् ॥१३॥

क्रतुः सत्यो भार्गवश्च अंगिराः सविता द्विजाः ॥
मृत्युः शतक्रतुर्धीमान् वसिष्ठो मुनिपुंगवः ॥१४॥

सारस्वतस्त्रिधामा च त्रिवृतो मुनिपुंगवः ॥
शततेजाः स्वयं धर्मो नारायण इति श्रुतः ॥१५॥

तरक्षुश्चारुणिर्धीमांस्तथा देवः गृतंजयः ॥
ऋतंजयो भरद्वाजो गौतमः कविसत्तमः ॥१६॥

वाचःश्रवाः मुनिः साक्षात्तथा शुष्मायणिः शुचिः ॥
तृणाबिंदुर्मुनी रुक्षः शक्तिः शाक्तेय उत्तरः ॥१७॥

जातूकर्ण्यो हरिः साक्षात्कृष्णद्वैपायनो मुनिः ॥
व्यासास्त्वेते च श्रृण्वंतु कलौ योगेश्वरान् क्रमात् ॥१८॥

असंख्याता हि कल्पेषु विभोः सर्वांतरेषु च ॥
कलौ रुद्रावताराणां व्यासानां किल गौरवात् ॥१९॥

वैवस्वतांतरे कल्पे वाराहे ये च तान् पुनः ॥
अवतारान् प्रवक्ष्यामि तथा सर्वांतरेषु वै ॥२०॥

ऋषयः ऊचुः ॥
मन्वंतराणि वाराहे वक्तुमर्हसि सांप्रतम् ॥
तथैव चोर्ध्वकल्पेषु सिद्धान्वैवस्वतांतरे ॥२१॥

रोमहर्षण उवाच ॥
मनुः स्वायंभुवस्त्वाद्यस्ततः स्वारोचिषो द्विजाः ॥
उत्तमस्तामसश्चैव रैवताश्चाक्षुषस्तथा ॥२२॥

वैवस्वतश्च सावर्णिर्धर्मः सावर्णिकः पुनः ॥
पिशंगश्चापिशंगाभः शबलो वर्णकस्तथा ॥२३॥

औकारांता अकाराद्या मनवः परीकीर्तिताः ॥
श्वेतः पाण्डुस्तथा रक्तस्ताम्राः पीतश्च कापिलः ॥२४॥

कृष्णः श्यामस्तथा धूम्रः सुधूम्रश्च द्विजोत्तमाः ॥
अपिशंगः पिशंगश्च त्रिवर्णः शबलस्तथा ॥२५॥

कालंधुरस्तु कथिता वर्णतो मनवः शुभाः ॥
नामतो वर्णतश्चैव वर्णतः पुनरेव च ॥२६॥

स्वरात्मानः समाख्याताश्चांतरेशाः समासतः ॥
वैवस्वत ऋकारस्तु मनुः कृष्णः सुरेश्वरः ॥२७॥

सप्तमस्तस्य वक्ष्यामि युगावर्तेषु योगिनः ॥
समतीतेषु कल्पेषु तथा चानागतेषु वै ॥२८॥

वाराहः सांप्रतं ज्ञेयः सप्तमांतरतः क्रमात् ॥
योगावतारांश्च विभोः शिष्याणां संततिस्तथा ॥२९॥

संप्रेक्ष्य सर्वकालेषु तथावर्त्तेषु योगिनाम् ॥
आद्ये श्वेतः कलौ रुद्राः सुतारो मदनस्तथा ॥३०॥

सुहोत्रः कंकणश्चैव लोगाक्षिर्मुनिसत्तमाः ॥
जैगीषव्यो महातेजा भगवान् दधिवाहनः ॥३१॥

ऋषभश्च मुनिर्धीमानुग्रश्चत्रिः सुबालकः ॥
गौतमश्चाथ भगवान् सर्वदेवनमस्कृतः ॥३२॥

वेदशीर्षश्च गोकर्णो गुहावासी शिखंडभृत् ॥
जटा माल्यट्टहासश्च दारुको लांगली तथा ॥३३॥

महाकायमुनिः शूली दंडी मुंडीश्वरः स्वयम् ॥
सहिष्णुः सोमशर्मा च नकुलीशो जगद्गुरुः ॥३४॥

वैवस्वतेऽन्तरे सम्यक् प्रोक्ता हि परमात्मनः ॥
योगाचार्यावतारा ये सर्वावर्तेषु सुव्रताः ॥३५॥

व्यासाश्चैवं मुनिश्रेष्ठा द्वापरेद्वापरे त्विमे ॥
योगेश्वराणां चत्वारः शिष्याः प्रत्येकमव्ययाः ॥३६॥

श्वेतः श्वेतशिखंडी च श्वेताश्वः श्वेतलोहितः ॥
दुंदुभिः शतरूपश्च ऋचीकः केतुमांस्तथा ॥३७॥

विशाकेश्च विकेशश्च विपाशः पापनाशनः ॥
सुमुखो दुर्मुखश्चैव दुर्दमो दुरतिक्रमः ॥३८॥

सनकश्च सनंदश्च प्रभुर्यश्च सनातनः ॥
ऋभुः सनत्कुमारश्च सुधामा विरजास्तथा ॥३९॥

शंखपा द्वैरजश्चैव मेघः सारस्वतस्तथा ॥
सुवाहनो मुनिश्रेष्ठो मेघवाहो महाद्युतिः ॥४०॥

कपिलश्चासुरिश्चैव तथा पंचाशिखो मुनिः ॥
वाल्कलश्च महायोगी धर्मात्मानो महौजसः ॥४१॥

पराशरश्च गर्गश्च भार्गवश्चांगिरास्तथा ॥
बलबंधुर्निरामित्रः केतुश्रृंगस्तपोधनः ॥४२॥

लंबोदरश्च लंबश्च लंबाक्षो लंबकेशकः ॥
सर्वज्ञः समुबुद्धिश्च साध्यः सर्वस्तथैव च ॥४३॥

सुधामा काश्यपश्चैव वासिष्ठो विरजास्तथा ॥
अत्रिर्देवसदश्चैव श्रवणोऽथ श्रविष्ठकः ॥
कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ॥४४॥

कश्यपोप्युशनाश्चैव च्यवनोऽथ बृहस्पतिः ॥
उतथ्यो वामदेवश्च महायोगो महाबलः ॥४५॥

वाचः श्रवाः सुधकिश्च श्यावाश्वश्च यतीश्वरः ॥
हिरण्य नाभः कौशल्यो लोगाक्षिः कुथुमिस्तथा ॥४६॥

सुमंतुर्बर्बरी विद्वान् कबंधः कशिकंधरः ॥
प्लक्षो दाल्भ्यायणिश्चैव केतुमान् गोपनस्तथा ॥४७॥

भल्लावी मधुपिंगश्च श्वेतकेतुस्तपोनिधिः ॥
उशिको बृहदश्वश्च देवलः कविरेव च ॥४८॥

शालिहोत्रोग्निवेशश्च युवनाश्वः शरद्वसुः ॥
छगलः कुंडकर्णश्च कुंभश्चैव प्रवांहकः ॥४९॥

उलूको विद्युतश्चैव मंडूको ह्याश्वलायनः ॥
अक्षपादः कुमारश्च उलूको वत्स एव च ॥५०॥

कुशिकश्चैव गर्भश्च मित्रः कौरुष्य एव च ॥
शिष्यास्त्वेते महात्मानः सर्वावर्तेषु योगिनाम् ॥५१॥

विमला ब्रह्मभूयिष्ठा ज्ञानयोगपरायणाः ॥
एते पाशुपताः सिद्धा भस्मोद्धूलितविग्रहाः ॥५२॥

शिष्याः प्रशिष्याश्चैतेषां शतशोथ सहस्रशः ॥
प्राप्य पाशुपतं योगं रुद्रलोकाय संस्थिताः ॥५३॥

देवादयः पिशाचांताः पशवः परिकीर्तिताः ॥
तेषां पतित्वात्सर्वेशो भवः पशुपतिः स्मृतः ॥५४॥

तेन प्रणीतो रुद्रेण पशूनां पतिना द्विजाः ॥
योगः पाशुपतो ज्ञेयः परावरविभूतये ॥५५॥

इति श्रीलिंगमहापुराणे पूर्वभागे मनुव्यास योगेश्वरतच्छिष्यकथनं नाम सप्तमोऽध्यायः ॥ ७  ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:22.4430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सडकून

  • क्रि.वि. रगडून ; सपाटून , अतिशय , पुष्कळ . हे अव्यय क्रियापदाबरोबर जोर , तीव्रता , आवेश , अतिशयता , वगैरे दाखविण्याकरिता जोडतात . याच अर्थी कचकावून , कचकून , खसाटून , दडपून , रपाटून वगैरे अव्ययेहि जोडण्याचा प्रघात आहे . [ सडकणें ] 
  • क्रि.वि. अतिशय , कडकडून , खूप , पुष्कळ , रगडून , सपाटून . 
RANDOM WORD

Did you know?

श्राद्धाचें प्रयोजन काय ? आणि श्राद्धाचे चार भेद कोणते आहेत ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.