TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ३

पूर्वभागः - अध्यायः ३

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः ३
सूत उवाच ॥
अलिंगो लिंगमूलं तु अव्यक्तं लिंगमुच्यते ॥
अलिंगः शिव इत्युक्तो लिंगं शैवमिति स्मृतम् ॥१॥

प्रधानं प्रकृतिश्चेति यदाहुर्लिंगमुत्तमम् ॥
गंधवर्णरसैर्हीनं शब्दस्पर्शादिवर्जितम् ॥२॥

अगुणं ध्रुवमक्षय्यमलिंगं शिवलक्षणम् ॥
गंधवर्णरसैर्युक्तं शब्दस्पर्शादिलक्षणम् ॥३॥

जगद्योनिं महाभूतं स्थूलं सूक्ष्मं द्विजोत्तमाः ॥
विग्रहो जगतां लिंगमालिंगादभवत्स्वयम् ॥४॥

सप्तधाचाष्टधा चैव तथैकादशधा पुनः ॥
लिंगान्यलिंगस्य तथा मायया विततानि तु ॥५॥

तेभ्यः प्रधानदेवानां त्रयमासीच्छिवात्मकम् ॥
एकस्मात्त्रिष्वभूद्विश्वमेकेन परिरक्षितम् ॥६॥

एकेनैव हृतं विश्वं व्याप्तं त्वेवं शिवेन तु ॥
अलिंगं चैव लिंगं च लिंगालिंगानि मूर्तयः ॥७॥

यथावत्कथिताश्चैव तस्माद्ब्रह्म स्वयं जगत् ॥
अलिंगी भगवान् बीजी स एव परमेश्वरः ॥८॥

बीजं योनिश्च निर्बीजं निर्बीजो बीजमुच्यते ॥
बीजयोनिप्रधानानामात्माख्या वर्तते त्विह ॥९॥

परमात्मा मुनिर्ब्रह्म नित्यबुद्धस्वभावतः ॥
विशुद्धोयं तथा रुद्रः पुराणे शिव उच्यते ॥१०॥

शिवेन दृष्टा प्रकृतिः शैवी समभवद्द्विजाः ॥
सर्गादौ सा गुणैर्युक्ता पुराव्यक्ता स्वभावतः ॥११॥

अव्यक्तादिविशेषांतं विश्वं तस्याः समुच्छ्रितम् ॥
विश्वधात्री त्वजाख्या च शैवी सा प्रकृतिः स्मृता ॥१२॥

तामजां लोहितां शुक्लां कृष्णामेका बहुप्रजाम् ॥
जनित्रीमनुशेते स्म जुषमाणः स्वरूपिणीम् ॥१३॥

तामेवाजामजोऽन्यस्तु भुक्तभोगां जहाति च ॥
अजा जनित्री जगतां साजेन समधिष्ठिता ॥१४॥

प्रादुर्बभूव स महान् पुरुषाधिष्ठितस्य च ॥
अजाज्ञया प्रधानस्य सर्गकाले गुणैस्त्रिभिः ॥१५॥

सिसृक्षया चोद्यमानः प्रविश्याव्यक्तमव्ययम् ॥
व्यक्तसृष्टिं विकुरुते चात्म नाधिष्ठितो महान् ॥१६॥

महतस्तु तथा वृत्तिः संकल्पाध्यवसायिका ॥
महतस्त्रिगुणस्तस्मादहंकारो रजोधिकः ॥१७॥

तेनैव चावृतः सम्यगहंकारस्तमोधिकः ॥
महतो भूततन्मात्रं सर्गकृद्वै बभूव च ॥१८॥

अहंकाराच्छब्दमात्रं तस्मादाकाशमव्ययम् ॥
सशब्दमावृणोत्पश्चादाकाशं शब्दकारणम् ॥१९॥

तन्मात्राद्भूतसर्गश्च द्विजास्त्वेवं प्रकीर्तितः ॥
स्पर्शमात्रं तथाकाशात्तस्माद्वायुर्महान्मुने ॥२०॥

तस्माच्च रूपमात्रं तु ततोग्निश्च रसस्ततः ॥
रसादापः शुभास्ताभ्यो गंधमात्रं धरा ततः ॥२१॥

आवृणोद्धि तथाकाशं स्पर्शमात्रं द्विजोत्तमाः ॥
आवृणोद्रूपमात्रं तु वायुर्वाति क्रियात्मकः ॥२२॥

आवृणोद्रसमात्रं वै देवः साक्षाद्विभावसुः ॥
आवृण्वाना गंधमात्रमापः सर्वरसात्मिकाः ॥२३॥

क्ष्मा सा पंचगुणा तस्मादेकोना रससंभवाः ॥
त्रिगुणो भगवान्वह्निर्द्विगुणः स्पर्श संभवः ॥२४॥

अवकाशस्ततो देव एकमात्रस्तु निष्कलः ॥
तन्मात्राद्भूतसर्गश्च विज्ञेयश्च परस्परम् ॥२५॥

वैकारिकः सात्त्विको वै युगपत्संप्रवर्तते ॥
सर्गस्तथाप्यहंकरादेवमात्र प्रकीर्तिंतः ॥२६॥

पंच बुद्धींद्रियाण्यस्य पंच कर्मेद्रियाणि तु ॥
शब्दादीनामवाप्त्यर्थं मनश्चैवोभयात्मकम् ॥२७॥

महदादिविशेषांता ह्यंडमुत्पादयंति च ॥
जलबुद्बुदवत्तस्मादवतीर्णः पितामहः ॥२८॥

स एव भगवान् रुद्रो विष्णुर्विश्वगतः प्रभुः ॥
तस्मिन्नंडे त्विमे लोका अंतर्विश्वमिदं जगत् ॥२९॥

अंडं दशगुणेनैव वारिणा प्रावृतं बहिः ॥
आपो दशगुणेनैव तद्ब्राह्ये तेजसा वृताः ॥३०॥

तेजो दशगुणेनैव बाह्यतो वायुना वृतम् ॥
वायुर्दशगुणेनैव बाह्यतो नभसा वृतः ॥३१॥

आकाशेनावृतो वायुरहंकारेण शब्दजः ॥
महताशब्दहेतुर्वै प्रधानेनावृतः स्वयम् ॥३२॥

सप्तांडावरणान्याहुस्तस्यात्मा कमलासनः ॥
कोटिकोटियुतान्यत्र चांडानि कथितानि तु ॥३३॥

तत्रतत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः ॥
सृष्टाः प्रधानेन तदा लब्ध्वा शंभोस्तु संनिधिम् ॥३४॥

लयश्चैव तथान्योन्यमांद्यतमिति कीर्तितम् ॥
सर्गस्य प्रतिसर्गस्य स्थितेः कर्ता महेश्वरः ॥३५॥

सर्गे च रजसा युक्तः सत्त्वस्थः प्रतिपालने ॥
प्रतिसर्गे तमोद्रिक्तः स एव त्रिविधः क्रमात् ॥३६॥

आदिकर्ता च भूतानां संहर्ता परिपालकः ॥
तस्मान्महेश्वरो देवो ब्रह्मणोधिपतिः शिवः ॥३७॥

सदाशिवो भवो विष्णुर्ब्रह्मा सर्वात्मको यतः ॥
एकदंडे तथा लोका इमे कर्ता पितामहः ॥३८॥

प्राकृतः कथितस्त्वेष पुरुषाधिष्ठितो मया ॥
सर्गश्चाबुद्धिपूर्वस्तु द्विजाः प्राथमिकः शुभः ॥३९॥

इति श्रीलिंगमहापुराणे पूर्वभागे प्राकृतप्राथमिकसर्गकथनं नाम तृतीयोऽध्यायः ॥३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:22.2400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

MṚGADHŪMA(मृगधूम)

  • A sacred place on the border of Kurukṣetra. If one goes there and worships Mahādeva one will get the benefit of conducting an Aśvamedhayajña. [Śloka 101, Chapter 83, Vana Parva]. 
RANDOM WORD

Did you know?

Are the advertisements necessary on your pages?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.