TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ८६

पूर्वभागः - अध्यायः ८६

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः ८६
ऋषय ऊचुः ॥
जपाच्छ्रेष्ठतमं प्राहुर्ब्राह्मणा दग्धकिल्बिषाः ॥
विरक्तानां प्रबुद्धानां ध्यानयज्ञं सुशोभनम् ॥१॥

तस्माद्वदस्व सूताद्य ध्यानयज्ञमशेषतः ॥
विस्तारात्सर्वयत्नेन विरक्तानां महात्मनाम् ॥२॥

तेषां तद्वचनं श्रुत्वा मुनीनां दीर्घसत्त्रिणाम् ॥
रुद्रेण कथितं प्राह गुहां प्राप्य महात्मनाम् ॥३॥

संहृत्य कालकूटाख्यं विषं वै विश्वकर्मणा ॥
सूत उवाच ॥
गुहां प्राप्य सुखासीनं भवान्या सह शंकरम् ॥४॥

मुनयः संशितात्मानः प्रणेमुस्तं गुहाश्रयम् ॥
अस्तुवंश्च ततः सर्वे नीलकंठमुमापतिम् ॥५॥

अत्युग्रं कालकूटाख्यं संहृतं भगवंस्त्वया ॥
अतः प्रतिष्ठितं सर्वं त्वया देव वृषध्वज ॥६॥

तेषां तद्वचनं श्रुत्वा भगवान्नीललोहितः ॥
प्रहसन्प्राह विश्वात्मा सनंदनपुरोगमान् ॥७॥

किमनेन द्विजश्रेष्ठा विषं वक्ष्ये सुदारुणम् ॥
संहरेत्तद्विषं यस्तु स समर्थो ह्यनेन किम् ॥८॥

न विषं कालकूटाख्यं संसारो विषमुच्यते ॥
तस्मात्सर्वप्रयत्नेन संहरेत सुदारुणम् ॥९॥

संसारो द्विविधः प्रोक्तः स्वाधिकारानुरूपतः ॥
पुंसां संमूढचित्तानामसंक्षीणः सुदारुणः ॥१०॥

ईषणारागदोषेण सर्गो ज्ञानेन सुव्रताः ॥
तद्वशादेव सर्वेषां धर्माधर्मौ न संशयः ॥११॥

असन्निकृष्टे त्वर्थेपि शास्त्रं तच्छ्रवणात्सताम् ॥
बुद्धिमुत्पादयत्येव संसारे विदुषां द्विजाः ॥१२॥

तस्माद्दृष्टानुश्रविकं दुष्टमित्युभयात्मकम् ॥
संत्यजेत्सर्वयत्नेन विरक्तः सोभिधीयते ॥१३॥

शास्त्रमित्युच्यतेऽभागं श्रुतेः कर्मसु तद्द्विजाः ॥
मूर्धानं ब्रह्मणः सारमृषीणां कर्मणः फलम् ॥१४॥

ननु स्वभावः सर्वेषां कामो दृष्टो न चान्यथा ॥
श्रुतुः प्रवर्तिका तेषामिति कर्मण्यताद्विदः ॥१५॥

निवृत्तिलक्षणो धर्मः समर्थानामिहोच्यते ॥
तस्मादज्ञानमूलो हि संसारः सर्वदेहिनाम् ॥१६॥

कला संशोषमायाति कर्मणान्यस्वभावतः ॥
सकलस्त्रिविधो जीवो ज्ञानहीनस्त्वविद्यया ॥१७॥

नारकी पापकृत्स्वर्गी पुण्यकृत्पुण्यगैरवात् ॥
व्यतिमिश्रेण वै जीवश्चतुर्धा संव्यवस्थितः ॥१८॥

उद्भिजः स्वेदजश्चैव अंडजो वै जरायुजः ॥
एवं व्यवस्थितो देही कर्मणाज्ञो ह्यनिर्वृतः ॥१९॥

प्रजया कर्मणा मुक्तिर्धनेन च सतां न हि ॥
त्यागेनैकेन मुक्तिः स्यात्तदभावाद्भ्रमत्यसौ ॥२०॥

एवमज्ञानदोषेण नानाकर्मवशेन च ॥
षट्कौशिकं समुद्भूतं भजत्येष कलेवरम् ॥२१॥

गर्भेदुःखान्यनेकानि योनिमार्गे च भूतले ॥
कौमारे यौवने चैव वार्धके मरणेपि वा ॥२२॥

विचारतः सतां दुःखं स्त्रीसंसर्गादिभिद्विजाः ॥
दुःखेनैकेन वै दुःखं प्रशाम्यंतीह दुःखिनः ॥२३॥

न जातु कामः कामानमुपभोगेन शाम्यति ॥
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥२४॥

तस्माद्विचारतो नास्ति संयोगादपि वै नृणाम् ॥
अर्थानामर्जनेप्येवं पालने च व्यये तथा ॥२५॥

पैशाचे राक्षसे दुःखं याक्षे चैव विचारतः ॥
गांधर्वे च तथा चांद्रे सौम्यलोके द्विजोत्तमाः ॥२६॥

प्राजापत्ये तथा ब्राह्मे प्राकृते पौरुषे तथा ॥
क्षयसातिशयाद्यैस्तु दुःखैर्दुःखानि सुव्रताः ॥२७॥

तानि भाग्यान्यशुद्धानि संत्यजेच्च धनानि च ॥
तस्मादष्टगुणं भोगं तथा षोडशधा स्थितम् ॥२८॥

चतुर्विशत्प्रकारेण संस्थितं चापि सुव्रताः ॥
द्वात्रिंशद्भेदमनघाश्चत्वारिंशद्गुणं पुनः ॥२९॥

तथाष्टचत्वारिंश्च्च षट्पंचाशत्प्रकारतः ॥
चतुःषष्टिविधं चैव दुःखमेव विवेकिनः ॥३०॥

पार्थिवं च तथाप्यं च तैजसं च विचारतः ॥
वायव्यं च तथा व्योम मानसं च यथाक्रमम् ॥३१॥

आभिमानिकमप्येवं बौद्धं प्राकृतमेव च ॥
दुःखमेव न संदेहो योगिनां ब्रह्मवादिनाम् ॥३२॥

गौणं गणेश्वराणां च दुःखमेव विचारतः ॥
आदौ मध्ये तथा चांते सर्वलोकेषु सर्वदा ॥३३॥

वर्तमानानि दुःखानि भविष्याणि यथातथम् ॥
दोषदुष्टेषु देशेषु दुःखानि विविधानि च ॥३४॥

न भावयंत्यतीतानि ह्यज्ञाने ज्ञानमानिनः ॥
क्षुद्व्याधेः परिहारार्थं न सुखायान्नमुच्यते ॥३५॥

यथेतरेषां रोगाणामौषधं न सुखाय तत् ॥
शीतोष्णवातवर्षाद्यैस्तत्तत्कालेषु देहिनाम् ॥३६॥

दुःखमेव न संदेहो न जानंति ह्यपंडिताः ॥
स्वर्गेप्येवं मुनिश्रेष्ठा ह्यविशुद्धक्षयादिभिः ॥३७॥

रोगौर्नानाविधैर्ग्रस्ता रागद्वेषभयादिभिः ॥
छिन्नमूलतरुर्यद्वदवशः पतति क्षितौ ॥३८॥

पुण्यवृक्षक्षयात्तद्वद्गां पतंति दिवौकसः ॥
दुःखाभिलाषनिष्ठानां दुःखभोगादिसंपदाम् ॥३९॥

अस्मात्तु पततां दुःखं कष्टं स्वर्गाद्दिवौकसाम् ॥
नरके दुःखमेवात्र नाकाणां निषेवणात् ॥४०

विहिताकरणाच्चैव वर्णिनां मुनिपुंगवाः ॥४१॥

यथा मृगो मृत्युभयस्य भीतो उच्छिन्नवासो न लभेत निद्राम् ॥
एवं यतिर्ध्यानपरो महात्मा संसारभीतो न लभेत निद्राम् ॥४२॥

कीटपक्षिमृगाणां च पशूनां गजवाजिनाम् ॥
दृष्टमेवासुखं तस्मात्त्यजतः सुखमुत्तमम् ॥४३॥

वैमानिकानामप्येवं दुःखं कल्पाधिकारिणाम् ॥
स्थानाभिमानिनां चैव मन्वादीनां च सुव्रताः ॥४४॥

देवानां चैव दैत्यानामन्योन्यविजिगीषया ॥
दुःखमेव नृपाणां च राक्षसानां जगत्त्रये ॥४५॥

श्रमार्थमाश्रमश्चापि वर्णानां परमार्थतः ॥
आश्रमैर्न च देवैश्च यज्ञः सांख्यैर्व्रतैस्तथा ॥४६॥

उग्रैस्तपोभिर्विविधैर्दानैर्नानाविधैरपि ॥
न लभंते तथात्मानं लभंते ज्ञानिनः स्वयम् ॥४७॥

तस्मात्सर्वप्रयत्नेन चरेत्पाशुपतव्रतम् ॥
भस्मशायी भवेन्नित्यं व्रते पाशुपते बुधः ॥४८॥

पंचार्थज्ञानसंपन्नः शिवतत्त्वे समाहितः ॥
कैवल्यकरणं योगविधिकर्माच्छिदं बुधः ॥४९॥

पंचार्थयोगसंपन्नो दुःखांतं व्रजते सुधीः ॥
परया विद्यया वेद्यं विदंत्यपरया न हि ॥५०॥

द्वे विद्ये वेदितव्ये हि परा चैवापरा तथा ॥
अपरा तत्र ऋग्वेदो यजुर्वेदो द्विजोत्तमाः ॥५१॥

सामवेदस्तथाऽथर्वो वेदः सर्वार्थसाधकः ॥
शिक्षा कल्पो व्याकरणं निरुक्तं छंद एव च ॥५२॥

ज्योतिषं चापरा विद्या पराक्षरमिति स्थितम् ॥
तददृश्यं तदग्राह्यमगोत्रं तदवर्णकम् ॥५३॥

तदचक्षुस्तदश्रोत्रं तदपाणि अपादकम् ॥
तदजातमभूतं च तदशब्दं द्विजोत्तमाः ॥५४॥

अस्पर्शं तदरूपं च रसगंध विवर्जितम् ॥
अव्ययं चाप्रतिष्ठं च तन्नित्यं सर्वगं विभुम् ॥५५॥

महांतं तद्गृहं तं च तदजं चिन्मयं द्विजाः ॥
अप्राणममनस्कं च तदस्निग्धमलोहितम् ॥५६॥

अप्रमेयं तदस्थूलमदीर्घं तदनुल्बणम् ॥
अह्रस्वं तदपारं च तदानंदं तदच्युतम् ॥५७॥

अनपावृतमद्वैतं तदनंतमगोचरम् ॥
असंवृतं तदात्मैकं परा विद्या न चान्यथा ॥५८॥

परापरेति कथिते नैवेह परमार्थतः ॥
अहमेव जगत्सर्वं मय्येव सकलं जगत् ॥५९॥

मत्त उत्पद्यते तिष्ठन्मयि मय्येव लीयते ॥
मत्तो नान्यदितीक्षेत मनोवाक्पाणिभिस्तथा ॥६०॥

सर्वमात्मनि संपश्येत्सच्चासच्च समाहितः ॥
सर्वं ह्यात्मनि संपश्यन्नबाह्ये कुरुते मनः ॥६१॥

अधोदृष्ट्या वितस्त्यां तु नाभ्यामुपरितिष्ठति ॥
हृदयं तद्विजानीयाद्विश्वस्यायतनं महत् ॥६२॥

हृदयस्यास्य मध्ये तु पुंडरीकमवस्थितम् ॥
धर्मकंदसमुद्भूतं ज्ञाननालं सुशोभनम् ॥६३॥

ऐश्वर्याष्टदलं श्वेतं परं वैराग्यकर्णिकम् ॥
छिद्राणि च दिशो यस्य प्राणाद्याश्च प्रतिष्ठिताः ॥६४॥

प्राणाद्यैश्चैव संयुक्तः पश्यते बहुधा क्रमात् ॥
दशप्राणवहा नाड्यः प्रत्येकं मुनिपुंगवाः ॥६५॥

द्विसप्ततिसहस्राणि नाड्यः संपरिकीर्तिताः ॥
नेत्रस्थंजाग्रतं विद्यात्कंठे स्वप्नं समादिशेत् ॥६६॥

सुषुप्तं हृदयस्थं तु तुरीयं मूर्धनि स्थितम् ॥
जाग्रे ब्रह्मा च विष्णुश्च स्वप्ने चैव यथाक्रमात् ॥६७॥

ईश्वरस्तु सुषुप्ते तु तुरीये च महेश्वरः ॥
वदंत्येमथान्येपि समस्तकरणैः पुमान् ॥६८॥

वर्तमानस्तदा तस्य जाग्रदित्यभिधीयते ॥
मनोबुद्धिरहंकारं चित्तं चेति चतुष्टयम् ॥६९॥

यदा व्यवस्थितस्त्वेतैः स्वप्न इत्यभिधीयते ॥
करणानि विलीनानि यदा स्वात्मनि सुव्रताः ॥७०॥

सुषुप्तः करणैर्भिन्नस्तुरीयः परिकीर्त्यते ॥
परस्तुरीयातीतोसौ शिवः परमकारणम् ॥७१॥

जाग्रत्स्वप्नसुषुप्तिश्च तुरीयं चाधिभौतिकम् ॥
आध्यात्मिकं च विप्रेंद्राश्चाधिदैविकमुच्यते ॥७२॥

तत्सर्वमहमेवोति वेदितव्यं विजानता ॥
बुद्धींद्रियाणि विप्रेंद्रास्तथा कर्मोंद्रियाणि च ॥७३॥

मनोबुद्दिरहंकारश्चित्तं चेति चतुष्टयम् ॥
अध्यात्मं पृथगेवेदं चतुर्दशविधंस्मृतम् ॥७४॥

द्रष्टव्यं चैव श्रोतव्यं घ्रातव्यं च यथाक्रमम् ॥
रसितव्यं मुनिश्रेष्ठाः स्पर्शितव्यं तथैव च ॥७५॥

मंतव्यं चैव बोद्धव्यमहंकर्तव्यमेव च ॥
तथा चेतयितव्यं च वक्तव्यं मुनिपुंगवाः ॥७६॥

आदातव्यं च गंतव्ये विसर्गयितमेव च ॥
आनंदितव्यमित्येते ह्यधिभूतमनुक्रमात् ॥७७॥

आदित्योपि दिशश्चैव पृथिवी वरुणस्तथा ॥
वायुश्चंद्रस्तथा ब्रह्मा रुद्रः क्षेत्रज्ञ एव च ॥७८॥

अग्निरिंद्रस्तथा विष्णुर्मित्रो देवः प्रजापतिः ॥
आधिदैविकमेवं हि चतुर्दशविधं क्रमात् ॥७९॥

राज्ञी सुदर्शना चैव जिता सौम्या यथाक्रमम् ॥
मोघा रुद्रामृता सत्या मध्यमा च द्विजोत्तमाः ॥८०॥

नाडी राशिशुका चैव असुरा चैव कृत्तिका ॥
भास्वती नाडयश्चैताश्चतुर्दशनिबंधनाः ॥८१॥

वायवो नाडिमध्यस्था वाहकाश्च चतुर्दश ॥
प्राणो व्यानस्त्वपानश्च उदानश्च समानकः ॥८२॥

वैरंभश्च तथा मुख्यो ह्यंतर्यामः प्रभंजनः ॥
कूर्मकश्च तथा श्येनः श्वेतः कृष्मस्तथानिलः ॥८३॥

नाग इत्येव कथिता वायवश्च चतुर्दश ॥
यश्चक्षुष्वथ द्रष्टव्ये तथादित्ये च सुव्रताः ॥८४॥

नाड्यां प्राणे च विज्ञाने त्वानंदे च यथाक्रमम् ॥
हृद्याकाशे य एतस्मिन्सर्वस्मिन्नंतरे परः ॥८५॥

आत्मा एकश्च चरति तमुपासीत मां प्रभुम् ॥
अजरं तमनंतं च अशोकममृतं ध्रुवम् ॥८६॥

चतुर्दशविधेष्वेव संचरत्येक एव सः ॥
लीयंते तानि तत्रैव यदन्यं नास्ति वै द्विजाः ॥८७॥

एक एव हि सर्वज्ञः सर्वेशस्त्वेक एव सः ॥
एष सर्वाधिपो देवस्त्वंतर्यामी महाद्युतिः ॥८८॥

उपास्यमानः सर्वस्य सर्वसौख्यः सनातनः ॥
उपास्यति न चैवेह सर्वसौख्यं द्विजोत्तमाः ॥८९॥

उपास्यमानो वेदैश्च शास्त्रैर्नानाविधैरपि ॥
न वैष वेदशास्त्राणि सर्वज्ञे यास्यति प्रभुः ॥९०॥

अस्यैवान्नमिदं सर्वं न सोन्नं भवति स्वयम् ॥
स्वात्मना रक्षितं चाद्यादन्नभूतं न कुत्रचित् ॥९१॥

सर्वत्र प्राणिनामन्नं प्राणिनां ग्रंथिरस्म्यहम् ॥
प्रशास्ता नयनश्चैव पंचात्मा स विभागशः ॥९२॥

अन्नमयोसौ भूतात्मा चाद्यते ह्यन्नमुच्यते ॥
प्राणमयश्चेंद्रियात्मा संकल्पात्मा मनोमयः ॥९३॥

कालात्मा सोम एवेह विज्ञानमय उच्यते ॥
सदानंदमयो भूत्वा महेशः परमेश्वरः ॥९४॥

सोहमेवं जगत्सर्वं मय्येव सकलं स्थितम् ॥
परतंत्रं स्वतंत्रेपि तदभावाद्विचारतः ॥९५॥

एकत्वमपि नास्त्येव द्वैतं तत्र कुतस्त्वहो ॥
एवं नास्त्यथ मर्त्यं च कुतोऽमृतमजोद्भवः ॥९६॥

नांतःप्रज्ञोबहिः प्रज्ञो न चोभयगतस्तथा ॥
न प्रज्ञानघनस्त्वेवं न प्राज्ञो ज्ञानपूर्वकः ॥९७॥

विदितं नास्ति वेद्यं च निर्वाणं परमार्थतः ॥
निर्वाणं चैव कैवल्यं निःश्रेयसमनामयम् ॥९८॥

अमृतं चाक्षरं ब्रह्म परमात्मा परापरम् ॥
निर्विकल्पं निराभासं ज्ञानं पर्यायवाचकम् ॥९९॥

प्रसन्नं च यदेकाग्रं तदा ज्ञानमिति स्मृतम् ॥
अज्ञानमितरत्सर्वं नात्र कार्या विचारणा ॥१००॥

इत्थं प्रसन्नं विज्ञानं गुरुसंपर्कज ध्रुवम् ॥
रागद्वेषानृतक्रोधं कामतृष्णादिभिः सदा ॥१०१॥

अपरामृष्टमद्यैव विज्ञेयं मुक्तिदं त्विदम् ॥
अज्ञानमलपूर्वत्वात्पुरुषो मलिनः स्मृतः ॥१०२॥

तत्क्षयाद्धि भवेन्मुक्तिर्नान्यथा जन्मकोटिभिः ॥
ज्ञानमेकं विना नास्ति पुण्यपापपरिक्षयः ॥१०३॥

ज्ञानमेवाभ्यसत्तस्मान्मुक्त्यर्थं ब्रह्मवित्तमाः ॥
ज्ञानाभ्यासाद्धि वै पुंसां बुद्धिर्भवति निर्मला ॥१०४॥

तस्मात्सदाभ्यसेज्ज्ञानं तन्निष्ठस्तत्परायणः ॥
ज्ञानेनैकेन तृप्तस्य त्यक्तसंगस्य योगिनः ॥१०५॥

कर्तव्यं नास्ति विप्रेन्द्रा अस्ति चेत्तत्त्वविन्न च ॥
इह लोके परे चापि कर्तव्यं नास्ति तस्य वै ॥१०६॥

जीवन्मुक्तो यतस्तस्माद्ब्रह्मवित्परमार्थतः ॥
ज्ञानाभ्यासरतो नित्यं ज्ञानतत्त्वार्थवित्स्वयम् ॥१०७॥

कर्तव्याभ्यासमुत्सृज्य ज्ञानमेवाधिगच्छति ॥
वर्णाश्रमाभिमानी यस्त्यक्तक्रोधो द्विजोत्तमाः ॥१०८॥

अन्यत्र रमते मूढः सोऽज्ञानी नात्र संशयः ॥
संसारहेतुरज्ञानं संसारस्तनुसंग्रहः ॥१०९॥

मोक्षहेतुस्तथा ज्ञानं मुक्तः स्वात्मन्यवस्थितः ॥
अज्ञाने सति विप्रेंद्राः क्रोधाद्या नात्र संशयः ॥११०॥

क्रोधो हर्षस्तथा लोभो मोहोदंभो द्विजोत्तमाः ॥
धर्माधर्मौ हि तेषां च तद्वशात्तनुसंग्रहः ॥१११॥

शरीरे सति वै क्लेशः सोविद्यां संत्यजेद्बुधः ॥
अविद्यां विद्यया हित्वा स्थितस्यैव च योगिनः ॥११२॥

क्रोधाद्या नाशमायांति धर्माधर्मौ च वै द्विजाः ॥
तत्क्षयाच्च शरीरेण न पुनः संप्रयुज्यते ॥११३॥

स एव मुक्तः संसाराद्दुःखत्रयविवर्जितः ॥
एवं ज्ञानं विना नास्ति ध्यानं ध्यातुर्द्विजर्षभाः ॥११४॥

ज्ञानं गुरोर्हि संपर्कान्न वाचा परमार्थतः ॥
चतुर्व्यूहमिति ज्ञात्वा ध्याता ध्यानं समभ्यसेत् ॥११५॥

सहजागंतुकं पापमस्थिवागुद्भवं तथा ॥
ज्ञानाग्निर्दहते क्षिप्रंसुष्केंधनमिवानलः ॥११६॥

ज्ञानात्परतरं नास्ति सर्वपापविनाशनम् ॥
अभ्यसेच्च सदा ज्ञानं सर्वसंगविवर्जितः ॥११७॥

ज्ञानिनः सर्वपापानि जीर्यंते नात्र संशयः ॥
क्रीडन्नपि न लिप्येत पापैर्नानाविधैरपि ॥११८॥

ज्ञानं यथा तथा ध्यानं तस्माद्ध्यानं समभ्यसेत् ॥
ध्यानं निर्विष्यं प्रोक्तमादौ सविषयं तथा ॥११९॥

षट्प्रकारं समभ्यस्य चतुःषट्दशभिस्तथा ॥
तथा द्वादशधा चैव पुनः षोडशधा क्रमात् ॥१२०॥

द्विधाभ्यस्य च योगींद्रो मुच्यते नात्र संशयः ॥
शुद्धजांबूनदाकारं वधूमांगारसन्निभम् ॥१२१॥

पीतं रक्तं सितं विद्युत्कोटिकोटिसमप्रभम् ॥
अथवा ब्रह्मरंध्रस्थं चित्तं कृत्वा प्रयत्नतः ॥१२२॥

न सितं वासितं पीतं न स्मरेद्ब्रह्मविद्भवेत् ॥
अहिंसकः सत्यवादी अस्तेयी सर्वयत्नतः ॥१२३॥

परिग्रहविनिर्मुक्तो ब्रह्मचारी दृढव्रतः ॥
संतुष्टः शौचसंपन्नः स्वाध्यायनिरतः सदा ॥१२४॥

मद्भक्तश्चाभ्यसेद्ध्यानं गुरुसंपर्कजं ध्रुवम् ॥
न बुध्यति तथा ध्याता स्थाप्य चित्तं द्विजोत्तमाः ॥१२५॥

न चाभिमन्यते योगी न पश्यति समंततः ॥
न घ्राति न श्रृणोत्येव लीनः स्वात्मनि यः स्वयम् ॥१२६॥

न च स्पर्शं विजानाति स वै समरसः स्मृतः ॥
पार्थिवे पटले ब्रह्मा वारितत्त्वे हरिः स्वयम् ॥१२७॥

वाह्नेन कालरुद्राख्यो वायुतत्त्वे महेश्वरः ॥
सुषिरे स शिवः साक्षात्क्रमादेवं विचिंतयेत् ॥१२८॥

क्षितौ शर्वः स्मृतो देवो ह्यपरं भव इति स्मृतः ॥
रुद्र एव तथा वह्नौ उग्रो वायौ व्यवस्थितः ॥१२९॥

भीमः सुषिनाकेऽसौ भास्करे मंडले स्थितः ॥
ईशानः सोमबिंबे च महादेव इति स्मृतः ॥१३०॥

पुंसा पशुपतिर्देवश्चाष्टधाहं व्यवस्थितः ॥
काठिन्यं यत्तनौ सर्वं पार्थिवं परिगीयते ॥१३१॥

आप्यं द्रवमिति प्रोक्तं वर्णाक्यो वह्निरुच्यते ॥
यत्संचरति तद्वायुः सुषिरं यद्द्विजोत्तमाः ॥१३२॥

तदाकाशं च विज्ञानं शब्दजं व्योमसंभवम् ॥
तथैव विप्रा विज्ञानं स्पर्शाख्यं वायुसंभवम् ॥१३३॥

रूपं वाह्नेयमित्युक्तमाप्यं रसमयं द्विजाः ॥
गंधाख्यं पार्थिवं भूयश्चिंतयेद्भास्करं क्रमात् ॥१३४॥

नेत्रे च दक्षिणे वामे सोमं हृदि विभुं द्विजाः ॥
आजानु पृथिवीतत्त्वमानाभेर्वारिमंडलम् ॥१३५॥

आकंठं वह्नितत्त्वं स्याल्ललाटांतं द्विजोत्तमाः ॥
वायव्यं वै ललाटाद्यं व्योमाख्यं वा शिखाग्रकम् ॥१३६॥

हंसाख्यं च ततो ब्रह्म व्योम्नश्चोर्ध्वं ततः परम् ॥
व्योमाख्यो व्योममध्यस्थो ह्ययं प्राथमिकः स्मरेत् ॥१३७॥

न जीवः प्रकृतिः सत्त्वं रजश्चाथ तमः पुनः ॥
महांस्तथाभिमानश्च तन्मात्राणींद्रियाणि च ॥१३८॥

व्योमादीनि च भूतानि नैवेह परमार्थतः ॥
व्याप्य तिष्ठद्यतो विश्वं स्थाणुरित्यभिधीयते ॥१३९॥

उदेति सूर्यो भीतश्च पवते वात एव च ॥
द्योतते चंद्रमा वह्निर्ज्वलत्यापो वहंति च ॥१४०॥

दधाति भूमिराकाशमवकाशं ददाति च ॥
तदाज्ञया ततं सर्वं तस्माद्वै चिंतयेद्द्विजाः ॥१४१॥

तेनैवाधिष्ठितं तस्मादेतत्सर्वं द्विजोत्तमाः ॥
सर्वरूपमयः शर्व इति मत्वा स्मरेद्भवम् ॥१४२॥

संसारविषतप्तानां ज्ञानध्यानामृतेन वै ॥
प्रतीकारः समाख्यातो नान्यथा द्विजसत्तमाः ॥१४३॥

ज्ञानं धर्मोद्भवं साक्षज्ज्ञानाद्वैराग्यसंभवः ॥
वैराग्यात्परमं ज्ञानं परमार्थप्रकाशकम् ॥१४४॥

ज्ञानवैराग्ययुक्तस्य योगसिद्धिर्द्विजोत्तमाः ॥
योगसिद्ध्या विमुक्तिः स्यात्सत्त्वनिष्ठस्य नान्यथा ॥१४५॥

तमोविद्यापदच्छन्नं चित्रं यत्पदमव्ययम् ॥
सत्त्वशक्तिं समास्थाय शिवमभ्यर्चयेद्द्विजाः ॥१४६॥

यः सत्त्वनिष्ठो मद्भक्तो मदर्चनपरायणः ॥
सर्वतो धर्मनिष्ठश्च सदोत्साही समाहितः ॥१४७॥

सर्वद्वंद्वसहो धीरः सर्वभूतहिते रतः ॥
ऋजुस्वभावः सततं स्वस्थचित्तो मृदुः सदा ॥१४८॥

अमानी बुद्धिमाञ्छांतस्त्यक्तस्पर्धो द्विजोत्तमाः ॥
सदा मुमुक्षुर्धर्मज्ञः स्वात्मलक्षणलक्षणः ॥१४९॥

ऋणत्रयविनिर्मुक्तः पूर्वजन्मनि पुण्यभाक् ॥
जरायुक्तो द्विजो भूत्वा श्रद्धया च गुरोः क्रमात् ॥१५०॥

अन्यथा वापि शुश्रूषां कृत्वा कृत्रिमवर्जितः ॥
स्वर्गलोकमनुप्राप्य भुक्त्वा भोगाननुक्रमात् ॥१५१॥

आसाद्य भारतं वर्षं ब्रह्मविज्जायते द्विजाः ॥
संपर्काज्ज्ञानमासाद्य ज्ञानिनो योगविद्भवेत् ॥१५२॥

क्रमोयं मलपूर्णस्य ज्ञानप्राप्तेर्द्विजोत्तमाः ॥
तस्मादनेन मार्गेण त्यक्तसंगो दृढव्रतः ॥१५३॥

संसारकालकूटाख्यान्मुच्यते मुनिपुंगवाः ॥
एवं संक्षेपतः प्रोक्तं मया युष्माकमच्युतम् ॥१५४॥

ज्ञानस्यैवेह माहात्म्यं प्रसंगादिह शोभनम् ॥
एवं पाशुपतं योगं कथितं त्वीश्वरेण तु ॥१५५॥

न देयं यस्य कस्यापि शिवोक्तं मुनिपुंगवाः ॥
दातव्यं योगिने नित्यं भस्मनिष्ठाय सुप्रियम् ॥१५६॥

यः पठेच्छृणुयाद्वापि संसारशमनं नरः ॥
स याति ब्रह्मसायुज्यं नात्र कार्या विचारणा ॥१५७॥

इति श्रीलिंगमहापुराणे पूर्वभागे संसारविषकथनं नाम षडशीतितमोध्यायः ॥८६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:27.3330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

राजा मेहेरबान, गद्धा पेहेलवान

  • राजाची जर कृपा झाली तर तो गाढवालाहि पेहेलवान बनवूं शकतो. 
RANDOM WORD

Did you know?

जानवे म्हणजे नेमके काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.