TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः २९

पूर्वभागः - अध्यायः २९

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः २९
सनत्कुमार उवाच ॥
इदानीं श्रोतुमिच्छामि पुरा दारुवने विभो ॥
प्रवृत्तं तद्वनस्थानां तपसा भावितात्मनाम् ॥१॥

कथं दारुवनं प्राप्तो भगवान्नीललोहितः ॥
विकृतं रूपमास्थाय चोर्ध्वरेता दिगंबरः ॥२॥

किं प्रवृत्तं वने तस्मिन् रुद्रस्य परमात्मनः ॥
वक्तुमर्हसि तत्त्वेन देवदेवस्य चेष्टितम् ॥३॥

सूत उवाच ॥
तस्य तद्वचनं श्रुत्वा श्रुतिसारविदां वरः ॥
शिलादसूनुर्भगवान्प्राह किंचिद्भवं हसन् ॥४॥

शैलादिरुवाच ॥
मुनयो दारुगहने तपस्तेपुः सुदारुणम् ॥
तुष्ट्यर्थं देवदेवस्य सदारतनयाग्नयः ॥५॥

तुष्टो रुद्रो जगन्नाथश्चेकितानो वृषध्वजः ॥
धूर्जटिः परमेशानो भगवान्नीललोहितः ॥६॥

प्रवृत्तिलक्षणं ज्ञानं ज्ञातुं दारुवनौकसाम् ॥
परीक्षार्थं जगन्नाथाः श्रद्धया क्रीडया च सः ॥७॥

निवृत्तिलक्षणज्ञानप्रतिष्ठार्थं च शंकरः ॥
देवदारुवनस्थानां प्रवृत्तिज्ञानचेतसाम् ॥८॥

विकृतं रूपमास्थाय दिग्वासा विषमेक्षणः ॥
मुग्धो द्विहस्तः कृष्णांगो दिव्यं दारुवनं ययौ ॥९॥

मंदस्मितं च भगवान् स्त्रीणां मनसिजोद्भवम् ॥
भ्रूविलासं च गानं च चकारातीव सुंदरः ॥१०॥

संप्रोक्ष्य नारीवृंदं वै मुहुर्मुहुरनंगहा ॥
अंनगवृद्धिमकरोदतीव मधुराकृतिः ॥११॥

वने तं पुरुषं दृष्ट्वा विकृतं नीललोहितम् ॥
स्त्रियः पतिव्रताश्चापि तमेवान्वयुरादरात् ॥१२॥

वनोटजद्वारगताश्च नार्यो विस्रस्तवस्त्राभरणा विचेष्टाः ॥
लब्ध्वा स्मितं तस्य मुखारविंदाद्द्रुमालयस्थास्तमथान्वयुस्ताः ॥१३॥

दृष्ट्वा काश्चिद्भवं नार्यो मदघूर्णितलोचनाः ॥
विलासबाह्यस्ताश्चापि भ्रूविलासं प्रचक्रिरे ॥१४॥

अथ दृष्ट्वापरा नार्यः किंचित्प्रहसिताननाः ॥
किंचिद्विस्रस्तवसनाः स्रस्तकांचीगुणा जगुः ॥१५॥

काश्चित्तदा तं विपिने तु दृष्ट्वा विप्रांगनाः स्रस्तनवांशुकं वा ॥
स्वान्स्वान्विचित्रान् वलयान्प्रविध्य मदान्विता बंधुजनांश्च जग्मुः ॥१६॥

काचित्तदा तं न विवेद दृष्ट्वा विवासना स्रस्तमहांशुका च ॥
शाखाविचित्रान् विटपान्प्रसिद्धान्मदान्विता बंधुजनांस्तथान्याः ॥१७॥

काश्चिज्जगुस्तं ननृतुर्निपेतुश्च धरातले ॥
निषेदुर्गजवच्चान्या प्रोवाच द्विजपुंगवाः ॥१८॥

अन्योन्यं सस्मितं प्रेक्ष्य चालिलिंगुः समंततः ॥
निरुध्य मार्गं रुद्रस्य नैपुणानि प्रचक्रिरे ॥१९॥

को भवानिति चाहुस्तं आस्यतामिति चापराः ॥
कुत्रेत्यथ प्रसीदेति जजल्पु प्रीतमानसाः ॥२०॥

विपरीता निपेतुर्वै विस्रस्तांशुकमूर्धजाः ॥
पतिव्रताः पतीनां तु सन्निधौ भवमायया ॥२१॥

दृष्ट्वा श्रुत्वा भवस्तासां चेष्टावाक्यानि चाव्ययः ॥
शुभं वाप्यशुभं वापि नोक्तवान्परमेश्वरः ॥२२॥

दृष्ट्वा नारीकुलं विप्रास्तथाभूतं च शंकरम् ॥
अतीव परुषं वाक्यं जजल्पुस्ते मुनीश्वराः ॥२३॥

तपांसि तेषां सर्वेषां प्रत्याहन्यंत शंकरे ॥
यथादित्यप्रकाशेन तारका नभसि स्थिताः ॥२४॥

श्रूयते ऋषिशापेन ब्रह्मणस्तु महात्मनः ॥
समृद्धश्रेयसां योनिर्यज्ञा वै नाशमाप्तवान् ॥२५॥

भृगोरपि च शापेन विष्णुः परमवीर्यवान् ॥
प्रादुर्भावान्दश प्राप्तो दुःखितश्च सदा कृतः ॥२६॥

इंद्रस्यापि च धर्मज्ञ छिन्नं सवृषणं पुरा ॥
ऋषिणा गौतमेनोर्व्यां क्रुद्धेन विनिपातितम् ॥२७॥

गर्भवासो वसूनां च शापेन विहितस्तथा ॥
ऋषीणां चैव शापेन नहुषः सर्पतां गतः ॥२८॥

क्षीरोदश्च समुद्रोसौ निवासः सर्वदा हरेः ॥
द्वितीयश्चामृताधारो ह्यपेयो ब्राह्मणैः कृतः ॥२९॥

अविमुक्तेश्वरं प्राप्य वाराणस्यां जनार्दनः ॥
क्षीरेण चाभिषिच्येशं देवदेवं त्रियंबकम् ॥३०॥

श्रद्धया परया युक्तो देहाश्लेषामृतेन वै ॥
निषिक्तेन स्वयं देवः क्षीरेण मधुसूदनः ॥३१॥

सेचयित्वाथ भगवान्ब्रह्मणा मुनिभिः समम् ॥
क्षीरोदं पूर्ववच्चक्रेनिवासं चात्मनः प्रभुः ॥३२॥

धर्मश्चैव तथा शप्तो मांडव्येन महात्मना ॥
वृष्णयश्चैव कृष्णेन दुर्वासाद्यैर्महात्मभिः ॥३३॥

राघवः सानुजश्चापि दुर्वासेन महात्मना ॥
श्रीवत्सश्च मुनेः पादपतनात्तस्य धीमतः ॥३४॥

एते चान्ये च बहवो विप्राणां वशमागताः ॥
वर्जयित्वा विरूपाक्षं देवदेवमुमापतिम् ॥३५॥

एवं हि मोहितास्तेन नावबुध्यंत शंकरम् ॥
अत्युग्रवचनं प्रोचुश्चोग्रोप्यंतरधीयत ॥३६॥

तेपि दारुवनात्तस्मात्प्रातः संविग्नमानसाः ॥
पितामहं महात्मानमासीनं परमासने ॥३७॥

गत्वा विज्ञापयामासुः प्रवृत्तमखिलं विभोः ॥
शुभे दारुवने तस्मिन् मुनयः क्षीणचेतसः ॥३८॥

सोपि संचिंत्य मनसा क्षणादेव पितामहः ॥
तेषां प्रवृत्तमखिलं पुण्ये दारुवने पुरा ॥३९॥

उत्थाय प्रांजलिर्भूत्वा प्रणिपत्य भवाय च ॥
उवाच सत्वरं ब्रह्मा मुनीन्दारुवनालयान् ॥४०॥

धिग्युष्मान्प्राप्तनिधनान्महानिधिमनुत्तमम् ॥
वृथाकृतं यतो विप्रा युष्माभिर्भाग्यवर्जितैः ॥४१॥

यस्तु दारुवने तस्मिल्लिंगी दृष्टोप्यलिंगिभिः ॥
युष्माभिर्विकृताकारः स एव परमेश्वरः ॥४२॥

गृहस्थैश्च न निंद्यास्तु सदा ह्यतिथयो द्विजाः ॥
विरूपाश्च सुरूपाश्च मलिनाश्चाप्यपंडिताः ॥४३॥

सुदर्शनेन मुनिना कालमृत्युरपि स्वयम् ॥
पुरा भूमौ द्विजाग्र्येण जिता ह्यतिथिपूजया ॥४४॥

अन्यथा नास्ति संतर्तुं गृहस्थैश्च द्विजोत्तमैः ॥
त्यक्त्वा चातिथिपूजां तामात्मनो भुवि शोधनम् ॥४५॥

गृहस्थोपि पुरा जेतुं सुदर्शन इति श्रुतः ॥
प्रतिज्ञामकरोज्जायां भार्यामाह पतिव्रताम् ॥४६॥

सुव्रते सुभ्रु सुभगे श्रृणु सर्वं प्रयत्नतः ॥
त्वया वै नावमंतव्या गृहे ह्यतिथयः सदा ॥४७॥

सर्व एव स्वयं साक्षादतिथिर्यत्पिनाकधृक् ॥
तस्मादतिथये दत्त्वा आत्मानमपि पूजय ॥४८॥

एवमुक्त्वाथ संतप्ता विवशा सा पतिव्रता ॥
पतिमाह रुदंती च किमुक्तं भवता प्रभो ॥४९॥

तस्यास्तद्वचनं श्रुत्वा पुनः प्राह सुदर्शनः ॥
देयं सर्वं शिवायार्ये शिव एवातिथिः स्वयम् ॥५०॥

तस्मात्सर्वे पूजनीयाः सर्वेप्यतिथयः सदा ॥
एवमुक्ता तदा भर्त्रा भार्या तस्य पतिव्रता ॥५१॥

शेषामिवाज्ञामादाय मूर्ध्ना सा प्राचरत्तदा ॥
परीक्षितुं तथा श्रद्धां तयोः साक्षाद्द्विजोत्तमाः ॥५२॥

धर्मो द्विजोत्तमो भूत्वा जगामाथ मुनेर्गृहम् ॥
तं दृष्ट्वाचार्चयामास सार्घाद्यैरनघा द्विजम् ॥५३॥

संपूजितस्तया तां तु प्राह धर्मो द्विजः स्वयम् ॥
भद्रे कुतः पतिर्धीमांस्तव भर्ता सुदर्शनः ॥५४॥

अन्नाद्यैरलमद्यार्ये स्वं दातुमिह चार्हसि ॥
सा च लज्जावृता नारी स्मरंती कथितं पुरा ॥५५॥

भर्त्रा न्यमीलयन्नेत्रे चचाल च पतिव्रता ॥
किंचैत्याह पुनस्तं वै धर्मे चक्रे च सा मतिम् ॥५६॥

निवेदितुं किलात्मानं तस्मै पत्युरिहाज्ञया ॥
एतस्मिन्नन्तरे भर्ता तस्या नार्याः सुदर्शनः ॥५७॥

गृहद्वारं गतो धीमांस्तामुवाच महामुनिः ॥
एह्येहि क्व गता भद्रे तमुवाचातिथिः स्वयम् ॥५८॥

भार्यया त्वनया सार्धं मैथुनस्थोऽहमद्य वै ॥
सुदर्शन महाभाग किं कर्तव्यमिहोच्यताम् ॥५९॥

सुरतांतस्तु विप्रेंद्र संतुष्टोहं द्विजोत्तम ॥
सुदर्शनस्ततः प्राह सुप्रहृष्टो द्विजोत्तमः ॥६०॥

भुंक्ष्य चैनां यताकामं गमिष्येहं द्विजोत्तम ॥
हृष्टोथ दर्शयामास स्वात्मानं धर्मराट् स्वयम् ॥६१॥

प्रददौ चेप्सितं सर्वं तमाह च महाद्युतिः ॥
एषा न भुक्ता विप्रेंद्र मनसापि सुशोभना ॥६२॥

मया चैषा न संदेहः श्रद्धां ज्ञातुमिहागतः ॥
जितो वै यस्त्वया मृत्युर्धर्मेणैकेन सुव्रत ॥६३॥

अहोस्य तपसो वीर्यमित्युक्त्वा प्रययौ च सः ॥
तस्मात्तथा पूजनीयाः सर्वे ह्यतिथयः सदा ॥६४॥

बहुनात्र किमुक्तेन भाग्यहीना द्विजोत्तमाः ॥
तमेव शरणं तूर्णं गंतुमर्हथ शंकरम् ॥६५॥

तस्य तद्वचनं श्रुत्वा ब्रह्मणो ब्राह्मणर्षभाः ॥
ब्रह्माणमभिवंद्यार्ताः प्रोचुराकुलितेक्षणाः ॥६६॥

ब्राह्मणा ऊचुः ॥
नापेक्षितं महाभाग जीवितं विकृताः स्त्रियः ॥
दृष्टोस्माभिर्महादेवो निंदितो यस्त्वनिंदितः ॥६७॥

शप्तश्च सर्वगः शूली पिनाकी नीललोहितः ॥
अज्ञानाच्छापजा शक्तिः कुंठितास्यनिरीक्षणात् ॥६८॥

वक्तुमर्हसि देवेश संन्यासं वै क्रमेण तु ॥
द्रष्टुं वै देवदेवेशमुग्रं भीमं कपर्दिनम् ॥६९॥

पितामह उवाच ॥
आदौ वेदानधीत्यैव श्रद्धया च गुरोः सदा ॥
विचार्यार्थं मुनेर्धर्मान् प्रतिज्ञाय द्विजोत्तमाः ॥७०॥

ग्रहणान्तं हि वा विद्वानथ द्वादश वार्षिकम् ॥
स्नात्वाहृत्य च दारान्वै पुत्रानुत्पाद्य सुव्रतान् ॥७१॥

वृत्तिभिश्चानुरूपाभिस्तान्विभज्य सुतान्मुनिः ॥
अग्निष्टोमादिभिश्चेष्ट्वा यज्ञैर्यज्ञेश्वरं विभुम् ॥७२॥

पूयेत्परमात्मानं प्राप्यारण्यं विभावसौ ॥
मुनिर्द्वादशवर्षं वा वर्षमात्रमथापि वा ॥७३॥

पक्षद्वादशकं वापि दिनद्वादशकं तु वा ॥
क्षीरभुक् संयुतः शांतः सर्वान् संपूजयेत्सुरान् ॥७४॥

इष्ट्वैवं जुहुयादग्नौ यज्ञपात्राणि मंत्रतः ॥
अप्सु वै पार्थिवं न्यस्य गुरवे तैजसानि तु ॥७५॥

स्वधनं सकलं चैव ब्राह्मणेब्यो विशंकया ॥
प्रणिपत्य गुरुं भूमौ विरक्तः संन्यसेद्यतिः ॥७६॥

निकृत्य केशान्सशिखानुपवीतं विसृज्य च ॥
पंचभिर्जुहुयादप्सु भूः स्वाहेति विचक्षणः ॥७७॥

ततश्चोर्ध्वं चरेदेवं यतिः शिवविमुक्तये ॥
व्रतेनानशनेनापि तोयवृत्त्यापि वा पुनः ॥७८॥

पर्णवृत्त्या पयोवृत्त्या फलवृत्त्यापि वा यतिः ॥
एवं जीवन्मृतो नो चेत् षण्मासाद्वत्सरात्तु वा ॥७९॥

प्रस्थानादिकमायासं स्वदेहस्य चरेद्यतिः ॥
शिवसायुज्यमाप्नोति कर्मणाप्येवमाचरन् ॥८०॥

सद्योपि लभते मुक्तिं भक्तियुक्तो दृढव्रताः ॥८१॥

त्यागेन वा किं विधिनाप्यनेन भक्तस्य रुद्रस्य शुभैर्व्रतैश्च ॥
यज्ञैश्च दानैर्विविधैश्च होमैर्लब्धैश्चशास्त्रैर्विविधैश्च वेदैः ॥८२॥

श्वेतेनैवं जितो मृत्युर्भवभक्त्या महात्मना ॥
वोस्तु भक्तिर्महादेवे शंकरे परमात्मनि ॥८३॥

इति श्रीलिंगमहापुराणे पूर्वभागे एकोनत्रिंशोध्यायः ॥२९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:23.6630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

long drill

  • दीर्घ वेधनी 
RANDOM WORD

Did you know?

मंगळवारी येणार्‍या संकष्टी चतुर्थीस ‘ अंगारकी चतुर्थी ’ असे कां म्हणतात ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.