संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः १५

पूर्वभागः - अध्यायः १५

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


सूत उवाच
ततस्तस्मिन् गते कल्पे कृष्णवर्णे भयानके ॥
तुष्टाव देवदेवेशं ब्रह्मा तं ब्रह्मरूपिणम् ॥१॥

अनुगृह्य ततस्तुष्टो ब्रह्माणमवदद्धरः ॥
अनेनैव तु रूपेण संहरामि न संशयः ॥२॥

ब्रह्महत्यादिकान् घोरांस्तथान्यानपि पातकान् ॥
हीनांश्चैव महाभाग तथैव विविधान्यपि ॥३॥

उपपातकमप्येवं तथा पापानि सुव्रत ॥
मानसानि सुतीक्ष्णानि वाचिकानि पितामह ॥४॥

कायिकानि सुमिश्राणि तथा प्रासंगिकानि च ॥
बुद्धिपूर्वं कृतान्येव सहजागंतुकानि च ॥५॥

मातृदेहोत्थतान्येवं पितृदेहे च पातकम् ॥
संहरामि न संदेहः सर्वं पातकजं विभो ॥६॥

लक्षं जप्त्वा ह्यघोरेभ्यो ब्रह्महा मुच्यते प्रभो ॥
तदर्धं वाचिके वत्स तदर्धं मानसे पुनः ॥७॥

चतुर्गुणं बुद्धिपूर्वे क्रोधादष्टगुणं स्मृतम् ॥
वीरहा लक्षमात्रेण भ्रूणहा कोटिमभ्यसेत् ॥८॥

मातृहा नियुतं जप्त्वा शुद्ध्यते नात्र संशयः ॥
गोघ्नश्चैव कृतघ्नश्च स्त्रीघ्नः पापयुतो नरः ॥९॥

अयुताघोरमभ्यस्य मुच्यते नात्र संशयः ॥
सुरापो लक्षमात्रेण बुद्ध्याबुद्ध्यापि वै प्रभो ॥१०॥

मुच्यते नात्र संदेहस्तदर्धेन च वारुणीम् ॥
अस्नाताशी सहस्रेण अजपी च तथा द्विजः ॥११॥

अहुताशी सहस्रेण अदाता च विशुद्ध्यति ॥
ब्राह्मणस्वापहर्ता च स्वर्णस्तेयी नराधमः ॥१२॥

नियुतं मानसं जप्त्वा मुच्यते नात्र संशयः ॥
गुरुतल्प रतो वापि मातृघ्नो वा नराधमः ॥१३॥

ब्रह्मघ्नश्च जपेदेवं मानसं वै पितामह ॥
संपर्कात्पापिनां पापं तत्समं परिभाषितम् ॥१४॥

तथाप्ययुतमात्रेण पातकाद्वै प्रमुच्यते ॥
संसर्गात्पातकी लक्षं जपेद्वै मानसं धिया ॥१५॥

उपांशु यच्चतुर्धा वै वाचिकं चाष्टधा जपेत् ॥
पातकादर्धमेव स्यादुपपातकिनां स्मृतम् ॥१६॥

तदर्धं केवले पापे नात्र कार्या विचारणा ॥
ब्रह्महत्या सुरापानं सुवर्णस्तेयमेव च ॥१७॥

कृत्वा च गुरुतल्पं च पापकृद्ब्राह्मणो यदि ॥
रुद्रगायत्रिया ग्राह्यं गोमूत्रं कापिलं द्विजाः ॥१८॥

गंधद्वारेति तस्या वै गोमयं खस्थमाहरेत् ॥
तेजोसि शुक्तमित्याज्यं कापिलं संहरेद्बुधः ॥१९॥

आप्यायस्वेति च क्षीरं दधिक्राव्णोति चाहरेत् ॥
गव्यं दधि नवं साक्षात्कापिलं वै पितामह ॥२०॥

देवस्यत्वेतिमंत्रेण संग्रहेद्वै कुशोदकम् ॥
एकस्थां हेमपात्रे वा कृत्वाघोरेण राजते ॥२१॥

ताम्रे वा पद्म पत्रे वा पालशे वा दले शुभे ॥
सकूर्चं सर्वरत्नाढ्यं क्षिप्त्वा तत्रैद कांचनम् ॥२२॥

जपेल्लक्षमघोराख्यं हुत्वा चैव घृतादिभिः ॥
घृतेन चरुणा चैव समिद्भिश्च तिलैस्तथा ॥२३॥

यवैश्च व्रीहिभिश्चैव जुहुयाद्वै पृथक्पृथक् ॥
प्रत्येकं सप्तवारं तु द्रव्यालाभे घृतेन तु ॥२४॥

हुत्वाघोरेण देवेशं स्नात्वाऽघोरेण वै द्विजाः ॥
अष्टद्रोणघृतेनैव स्नाप्य पश्चाद्विशोध्य च ॥२५॥

अहोरात्रोषितः स्नातः पिबेत्कूर्चं शिवाग्रतः ॥
ब्राह्मं ब्रह्मजपं कुर्यादाचम्य च यथा विधि ॥२६॥

एवं कृत्वा कृतघ्नोऽपि ब्रह्महा भ्रूणहा तथा ॥
वीरहा गुरुवाती च मित्रविश्वासघातकः ॥२७॥

स्तेयी सुवर्णस्तेयी च गुरुतल्परतः सदा ॥
मद्यपो वृषलीसक्तः परदारविधर्षकः ॥२८॥

ब्रह्मस्वहा तथा गोघ्नो मातृहा पितृहा तथा ॥
देवप्रच्यावकश्चैव लिंगप्रध्वंसकस्तथा ॥२९॥

तथान्यानि च पापानि मानसानि द्विजो यदि ॥
वाचिकानि तथान्यानि कायिकानि सहस्रशः ॥३०॥

कृत्वा विमुच्यते तद्यो जन्मांतरशतैरपि ॥
एतद्रहस्यं कथितमघोरेशप्रसंगतः ॥३१॥

तस्माज्जपेद्द्विजो नित्यं सर्वपापविशुद्धये ॥३२॥

इति श्रीलिङ्गमहापुराणे पूर्वभागेऽघोरेशमहात्म्यं पंचदशोऽध्यायः ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP