TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ७७

पूर्वभागः - अध्यायः ७७

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः ७७
ऋषय ऊचुः ॥
लिंगप्रतिष्ठापुण्यं च लिंगस्थापनमेव च ॥
लिंगानां चैव भेदाश्च श्रुतं तव मुखादिह ॥१॥

मृदादिरत्नपर्यंतैर्द्रव्यैः कृत्वा शिवालयम् ॥
यत्फलं लभते मर्त्यस्तत्फलं वक्तुमर्हसि ॥२॥

सूत उवाच ॥
यस्य भक्तोपि लोकेस्मिन्पुत्र दारगृहादिभिः ॥
बध्यते ज्ञानयुक्तश्चेन्न च तस्य गृहैस्तु किम् ॥३॥

तथापि भक्ताः परमेश्वरस्य कृत्वेष्टलोष्टैरपि रुद्रलोकम् ॥
प्रयांति दिव्यं हि विमानवर्यं सुरेंद्रपद्मोद्भववंदितस्य ॥४॥

बाल्यात्तु लोष्टेन शिवं च कृत्वा मृदापि वा पांसुभिरादिदेवम् ॥
गृहं च तादृग्विधमस्य शंभोः संपूज्य रुद्रत्वमवाप्नुवंति। ५॥

तस्मात्सर्वप्रयत्नेन भक्त्या भक्तैः शिवालयम् ॥
कर्तव्यं सर्वयत्नेन धर्मकामार्थसिद्धये ॥६॥

केसरं नागरं वापि द्राविडं वा तथापरम् ॥
कृत्वा रुद्रालयं भक्त्या शिवलोके महीयते ॥७॥

कैलासाख्यं च यः कुर्यात्प्रासादं परमेष्ठिनः ॥
कैलासशिखराकारैर्विमानैर्मोदते सुखी ॥८॥

मंदरं वा प्रकुर्वीत शिवाय विधिपूर्वकम् ॥
भक्त्या वित्तानुसारेण उत्तमाधममध्यमम् ॥९॥

मंदराद्रिप्रतीकाशैर्विमानैर्विश्वतोमुखैः ॥
अप्सरोगणसंकीर्णैर्देवदानवदुर्लभैः ॥१०॥

गत्वा शिवपुरं रम्यं भुक्त्वा भोगान् यथेप्सितान् ॥
ज्ञानयोगं समासाद्य गाणपत्यं लभेन्नरः ॥११॥

यः कुर्यान्मेरुनामानं प्रासादं परमेष्ठिनः ॥
स यत्फलमवाप्नोति न तत्सर्वैर्महामखैः ॥१२॥

सर्वयज्ञतपोदानतीर्थवेदेषु यत्फलम् ॥
तत्फलं सकलं लब्ध्वा शिववन्मोदते चिरम् ॥१३॥

निषधं नाम यः कुर्यात्प्रासादं भक्तितः सुधीः ॥
शिवलोकमनुप्राप्य शिववन्मोदते चिरम् ॥१४॥

कुर्याद्वा यः शुभं विप्रा हिमशैलमनुत्तमम् ॥
हिमशैलोपमैर्यानैर्गत्वा शिवपुरं शुभम् ॥१५॥

ज्ञानयोगं समासाद्य गाणपत्यमवाप्नुयात् ॥
नीलाद्रिशिखराख्यं वा प्रासादं यः सुशोभनम् ॥१६॥

कृत्वा वित्तानुसारेण भक्त्या रुद्राय शंभवे ॥
यत्फलं लभते मर्त्यस्तत्फलं प्रवदाम्यहम् ॥१७॥

हिमशैले कृते भक्त्या यत्फलं प्राक्तवोदितम् ॥
तत्फलं सकलं लब्ध्वा सर्वदेवनमस्कृतः ॥१८॥

रुद्रलोकमनुप्राप्य रुद्रैः सार्धं प्रमोदते ॥
महेंद्रशैलनामानं प्रासादं रुद्रसंमतम् ॥१९॥

कृत्वा यत्फलमाप्नोति तत्फलं प्रवदाम्यहम् ॥
महेंद्रपर्वताकारैर्विमानैर्वृषसंयुतैः ॥२०॥

गत्वा शिवपुरं दिव्यं भुक्त्वा भोगान्यथेप्सितान् ॥
ज्ञानं विचारितं रुद्रैः संप्राप्य मुनिपुंगवाः ॥२१॥

विषयान् विषवत्त्यक्त्वा शिवसायुज्यमाप्नुयात् ॥
हेम्ना यस्तु प्रकृर्वीत प्रासादं रत्नशोभितम् ॥२२॥

द्रविडं नागरं वापि केसरं वा विधानतः ॥
कूटं वा मंडपं वापि समं वा दीर्घमेव च ॥२३॥

न तस्य शक्यते वक्तुं पुण्यं शतयुगैरपि ॥
जीर्णं वा पतितं वापि खंडितं स्फुटितं तथा ॥२४॥

पूर्ववत्कारयेद्यस्तु द्वाराद्यैः सुशुभं द्विजाः ॥
प्रसादं मंडपं वापि प्राकारं गोपुरं तु वा ॥२५॥

कर्तुरप्यधिकं पुण्यं लभते नात्र संशयः ॥
वृत्त्यर्थं वा प्रकुर्वीत नरः कर्म शिवालये ॥२६॥

यः स याति न संदेहः स्वर्गलोकं सबांधवः ॥
यश्चात्मभोगसिद्ध्यर्थमपि रुद्रालये सकृत् ॥२७॥

कर्म कुर्याद्यदि सुखं लब्ध्वा चापि प्रमोदते ॥
तस्मादायतनं भक्त्या यः कुर्यान्मुनिसत्तमाः ॥२८॥

काष्ठेष्टकादिभिर्मर्त्यः शिवलोके महीयते ॥
प्रसादार्थ महेशस्य प्रासादे मुनिपुंगवाः ॥२९॥

कर्तव्यः सर्वयत्नेन धर्मकामार्थमुक्तये ॥
अशक्तश्चेन्मुनिश्रेष्ठाः प्रासादं कर्तुमुत्तमम् ॥३०॥

संमार्जना दिभिर्वापि सर्वान्कामानवाप्नुयात् ॥
संमार्जनं तु यः कुर्यान्मार्जन्या मृदुसूक्ष्मया ॥३१॥

चान्द्रायणसहस्रस्य फलं मासेन लभ्यते ॥
यः कुर्याद्वस्त्रपूतेन गंधगोमयवारिणा ॥३२॥

आलेपनं यथान्यायं वर्षचांद्रायणं लभेत् ॥
अर्धक्रोशं शिवक्षेत्रं शिवलिंगात्समंततः ॥३३॥

यस्त्यजेद्दुस्त्यजान्प्राणाञ्शिवसायुज्यमाप्नुयात् ॥
स्वायंभुवस्य मानं हि तथा बाणस्य सुव्रताः ॥३४॥

स्वायंभुवे तदर्धं स्यात्स्यादार्षे च तदर्धकम् ॥
मानुषे च तदर्धं स्यात्क्षेत्रमानं द्विजोत्तमाः ॥३५॥

एवं यतीनामावासे क्षेत्रमानं द्विजोत्तमाः ॥
रुद्रावतारे चाद्यं यच्छिष्ये चैव प्रशिष्यके ॥३६॥

नरावतारे तच्चिष्ये तच्छिष्ये च प्रशिष्यके ॥
श्रीपर्वते महापुण्ये तस्य प्रांते च वा द्विजाः ॥३७॥

तस्मिन्वा यस्त्यजेत्प्राणाञ्छिवसायुज्यमाप्नुयात् ॥
वाराणस्यां तथाप्येवमविमुक्ते विशेषतः ॥३८॥

केदारे च महाक्षेत्रे प्रयागे च विशेषतः ॥
कुरुक्षेत्र च यः प्राणान्संत्यजेद्याति निर्वृतिम् ॥३९॥

प्रभासे पुष्करेऽवंत्यां तथा चैवामरेश्वरे ॥
वणीशेलाकुले चैव मृतो याति शिवात्मताम् ॥४०॥

वाराणस्यां मृतो जंतुर्न जातु जंतुतां व्रजेत् ॥
त्रिविष्टपे विमुक्ते च केदारे संगमेश्वरे ॥४१॥

शालके वा त्यजेत्प्राणांस्तथा वै जंबुकेश्वरे ॥
शुक्रेश्वरे वा गोकर्णे भास्करेशे गुहेश्वरे ॥४२॥

हिरण्यगर्भे नंदीशे स याति परमां गतिम्  ॥
नियमैः शोष्य यो देहं त्यजेत्क्षेत्रे शिवस्य तु ॥४३॥

स याति शिवतां योगी मानुषे दैविकेपि वा ॥
आर्षे वापि मुनिश्रेष्ठास्तथा स्वायंभुवेपि वा ॥४४॥

स्वयंभूते तथा देवे नात्र कार्या विचारणा ॥
आधायाग्निं शिवक्षेत्रे संपूज्य परमेश्वरम् ॥४५॥

स्वदेह पिंडं जुहुयाद्यः स याति परां गतिम् ॥
यावत्तावन्निराहारो भूत्वा प्राणान्परित्यजेत् ॥४६॥

शिवक्षेत्रे मुनिश्रेष्ठाः शिवसायुज्यमाप्नुयात् ॥
छित्त्वा पादद्वयं चापि शिवक्षेत्रे वसेत्तु यः ॥४७॥

स याति शिवतां चैव नात्र कार्या विचारणा ॥
क्षेत्रस्य दर्शनं पुण्यं प्रवेशस्तच्छ ताधिकः ॥४८॥

तस्माच्छतगुणं पुण्यं स्पर्शनं च प्रदक्षिणम् ॥
तस्माच्छतगुणं पुण्यं जलस्नानमतः परम् ॥४९॥

क्षीरस्नानं ततो विप्राः शताधिकमनुत्तमम् ॥
दध्ना सहस्रमाख्यातं मधुना तच्छताधिकम् ॥५०॥

घृतस्नानेन चानंतं शार्करे तच्छताधिकम् ॥
शिवक्षेत्रसमीपस्थां नदीं प्राप्यावगाह्य च ॥५१॥

त्यजेद्देहं विहायान्नं शिवलोके महीयते ॥
शिवक्षेत्रसमीपस्था नद्यः सर्वाः सुशोभनाः ॥५२॥

वापीकूपतडागाश्च शिवतीर्था इति स्मृताः ॥
स्नात्वा तेषु नरो भक्त्या तीर्थेषु द्विजसत्तमाः ॥५३॥

ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ॥
प्रातः स्नात्वा मुनिश्रेष्ठाः शिवतीर्थेषु मानवः ॥५४॥

अश्वमेधफलं प्राप्य रुद्रलोकं स गच्छति ॥
मध्याह्ने शिवतीर्थेषु स्नात्वा भक्त्या सकृन्नरः ॥५५॥

गंगास्नानसमं पुण्यं लभते नात्र संशयः ॥
अस्तं गते तथा चार्के स्नात्वा गच्छेच्चिवं पदम् ॥५६॥

पापकंचुकमुत्सृज्य शिवतीर्थेषु मानवः ॥
द्विजास्त्रिषवणं स्नात्वा शिवतीर्थे सकृन्नरः ॥५७॥

शिवसायुज्यमाप्नोति नात्र कार्या विचारणा ॥
पुराथ सूकरः कश्चित् श्वानं दृष्ट्वा भयात्पथि ॥५८॥

प्रसंगाद्वारमेकं तु शिवतीर्थेऽवगाह्य च ॥
मृतः स्वयं द्विजश्रेष्ठा गाणपत्यमवाप्तवान् ॥५९॥

यः प्रातर्देवदेवेशं शिवं लिंगस्वरूपिणम् ॥
पश्येत्स याति सर्वस्मादधिकां गतिमेव च ॥६०॥

मध्याह्ने च महादेवं दृष्ट्वा यज्ञफलं लभेत् ॥
सायाह्ने सर्वयज्ञानां फलं प्राप्य विमुच्यते ॥६१॥

मानसैर्वाचिकैः पापैः कायिकैश्च महत्तरैः ॥
तथोपपातकैश्चैव पापैश्चैवानुपातकैः ॥६२॥

संक्रमे देवमीशानं दृष्ट्वा लिंगाकृतिं प्रभुम् ॥
मासेन यत्कृतं पापं त्यक्त्वा याति शिवं पदम् ॥६३॥

अयने चार्धमासेन दक्षिणे चोत्तरायणे ॥
विषुवे चैव संपूज्य प्रयाति परमां गतिम् ॥६४॥

प्रदक्षिणात्रयं कुर्याद्यः प्रासादं समंततः ॥
सव्यापसव्यन्यायेन मृदुगत्या शुचिर्नरः ॥६५॥

पदेपदेऽश्वमेधस्य यज्ञस्य फलमाप्नुयात् ॥
वाचा यस्तु शिवं नित्यं संरौति परमेश्वरम् ॥६६॥

सोपि याति शिवं स्थानं प्राप्य किं पुनरेव च ॥
कृत्वा मंडलकं क्षेत्रं गंधगोमयवारिणा ॥६७॥

मुक्ताफलमयैश्चूर्णैरिंद्रनीलमयैस्तथा ॥
पद्मरागमयैश्चैव स्फाटिकैश्च सुशोभनैः ॥६८॥

तथा मारकतैश्चैव सौवर्णै राजतैस्तथा ॥
तद्वर्णैर्लौकिकैश्चैव चूर्णैर्वित्तविवर्जितैः ॥६९॥

आलिख्या कमलं भद्रंदशहस्तप्रमाणतः ॥
सकर्णिकं महाभागा महादेवसमीपतः ॥७०॥

तत्रावाह्य महादेवं नवशक्तिसमन्वितम् ॥
पंचभिच्च तथा षड्‌भिरष्टाभिश्चेष्टदं परम् ॥७१॥

पुनरष्टाभिरीशानं दशारे दशभिस्तथा ॥
पुनर्बाह्ये च दशभिः संपूज्य प्रणिपत्य च ॥७२॥

निवेद्य देवदेवाय क्षितिदानफलं लभेत् ॥
शालिपिष्टादिभिर्वापि पद्ममालिख्य निर्धनः ॥७३॥

पूर्वोक्तमखिलं पुण्यं लभते नात्र संशयः ॥
द्वादशारं तथालिख्य मंडलं पदमुत्तमम् ॥७४॥

रत्नचूर्णादिभिश्चूर्णैस्तथा द्वादशमूर्तिभिः ॥
मंडलस्य च मध्ये तु भास्करं स्थाप्य पूजयेत् ॥७५॥

ग्रहैश्च संवृतं वापि सूर्यसायुज्यमुत्तमम् ॥
एवं प्राकृतमप्यार्यां षडस्रं परिकल्प्य च ॥७६॥

मध्यदेशे च देवेशीं प्रकृतिं ब्रह्मरूपिणीम् ॥
दक्षिणे सत्त्वमूर्तिं च वामतश्च रजोगुणम् ॥७७॥

अग्रतस्तु तमोमूर्तिं मध्ये देवीं तथांबिकाम् ॥
पंचभूतानि तन्मात्रापंचकं चैव दक्षिणे ॥७८॥

कर्मेंद्रियाणि पंचैव तथा बुद्धींद्रियाणि च ॥
उत्तरे विधिवत्पूज्य ष़डस्रे चैव पूजयेत् ॥७९॥

आत्मानं चांतरात्मानं युगलं बुद्धिमेव च ॥
अहंकारं च महता सर्वयज्ञफलं लभेत् ॥८०॥

एवं वः कथितं सर्वं प्राकृतं मंडलं परम् ॥
अतो वक्ष्यामि विप्रेंद्राः सर्वकामार्थसाधनम् ॥८१

गोचर्ममात्रमालिख्य मंडलं गोमयेन तु ॥
चतुरस्रं विधानेन चाद्भिरभ्युक्ष्य मंत्रवित् ॥८२॥

अलंकृत्य वितानाद्यैश्छत्रैर्वापि मनोरमैः ॥
बुद्बुदैरर्धचंद्रैश्च हैमैरश्वत्थपत्रकैः ॥८३॥

सितैर्विकसितैः पद्मै रक्तैर्निलोत्पलैस्तथा ॥
मुक्तादामैर्वितानांते लंबितस्तु सितैर्ध्वजैः ॥८४॥

सितमृत्पात्रकैश्चैव सुश्लक्ष्णैः पूर्णकुंभकैः ॥
फलपल्लवमालाभिर्वैजयंतीभिरंशुकैः ॥८५॥

पंचाशद्दीपमालाभिर्धूपैः पंचविधैस्तथा ॥
पंचाशद्दलसंयुक्तमालिखेत्पद्ममुत्तमम् ॥८६॥

तत्तद्वर्णैस्तथा चूर्णैः श्वेतचूर्णैरथापि वा ॥
एकहस्तप्रमाणेन कृत्वा पद्मं विधानतः ॥८७॥

कर्णिकायांन्यसेद्देवं देव्या देवेश्वरं भवम् ॥
वर्णानि च न्यसेत्पत्रे रुद्रैः प्रागाद्यनुक्रमात् ॥८८॥

प्रणवादिनमोंतानि सर्ववर्णानि सुव्रताः ॥
संपूज्यैवं मुनिश्रेष्ठा गंधपुष्पादिभिः क्रमात् ॥८९॥

ब्राह्मणान् भोजयेत्तत्र पंचाशद्विधिपूर्वकम् ॥
अक्षमालोपवीतं च कुंडलं च कमंडलुम् ॥९०॥

आसनं च तथा दंडमुष्णीषं वस्त्रमेव च ॥
दत्वा तेषां मुनींद्राणां देवदेवाय शंभवे ॥९१॥

महाचरुं निवेद्यैवं कृष्णं गोमिथुनं तथा ॥
अंते च देवदेवाय दापयेच्चूर्णमण्डलम् ॥९२॥

यागोपयोगद्रव्याणि शिवाय विनिवेदयेत् ॥
ओंकाराद्यं जपेद्धीमान्प्रतिवर्णमनुक्रमात् ॥९२॥(९३)

एवमालिख्य यो भक्त्या सर्वमंडलमुत्तमम् ॥
यत्फलं लभते मर्त्यस्तद्वदामि समासतः ॥९४॥

सांगान्वेदान्यथान्यायमधीत्य विधिपूर्वकम् ॥
इष्ट्वा यज्ञैर्यथान्यायं ज्योतिष्टोमादिभिः क्रमात् ॥९५॥

ततो विश्वजिदंतैश्च पुत्रानुत्पाद्य तादृशान् ॥
वानप्रस्थाश्रमं गत्वा सदारः साग्निरेव च ॥९६॥

चांद्रायणादिकाः सर्वाः कृत्वा न्यस्य क्रिया द्विजाः ॥
ब्रह्मविद्यामधीत्यैव ज्ञानमासाद्य यत्नतः ॥९७॥

ज्ञानेन ज्ञेयमालोक्य योगी यत्काममाप्नुयात् ॥
तत्फलं लभते सर्वं वर्णमंडलदर्शनात् ॥९८॥

येन केनापि वा मर्त्यः प्रलिप्यायतनाग्रतः ॥
उत्तरे दक्षिणे वापि पृष्ठतो वा द्विजोत्तमा ॥९९॥

चतुष्कोणं तु वा चूर्णैरलंकृत्य समंतत ॥
पुष्पाक्षतादिभिः पूज्य सर्वपापैः प्रमुच्यते ॥१००॥

यस्तु गर्भगृहं भक्त्या सकृदालिप्य सर्वतः ॥
चंदनाद्यैः सकर्पूरैर्गंधद्रव्यैः समंततः ॥१०१॥

विकीर्य गंधकुसुमैर्धूपैर्धूप्य चतुर्विधैः ॥
प्रार्थयेद्देवमीशानं शिवलोकं स गच्छति ॥१०२॥

तत्र भुक्त्वा महाभोगान्कल्पकोटिशतं नरः ॥
स्वदेहगंधकुसुमैः पूरयञ्छिवमंदिरम् ॥१०३॥

क्रमाद्गांधर्वमासाद्य गंधर्वैश्च सुपूजितः ॥
क्रमादागत्य लोकेऽस्मिन् राजा भवति वीर्यवान् ॥१०४॥

आदिदेवो महादेवः प्रलयस्थितिकारकः ॥
सर्गश्च भुवनाधीशः शर्वव्यापी सदाशिवः ॥
शिवब्रह्मामृतं ग्राह्यं मोक्षसाधनमुत्तमम् ॥१०५॥

व्यक्ताव्यक्तं सदा नित्यमचिंत्यमर्चयेत्प्रभुम् ॥१०६॥

इति श्रीलिंगमहापुराणे पूर्वभागे उपलेपनादिकथनं नाम सप्तसप्ततितमोध्यायः ॥७७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:26.8500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

बाप जातो देऊळीं, पोर्‍या जातो राऊळीं

  • बापलेक सारखेच चोर. बीज तसा अंकुर. 
  • बाप तसा बेटा. 
RANDOM WORD

Did you know?

विवाहासाठीच्या मुहूर्तांची नांवे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.