TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः १०७

पूर्वभागः - अध्यायः १०७

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः १०७
ऋषय ऊचुः ॥
पुरोपमन्युना सूत गाणपत्यं महेश्वरात् ॥
क्षीरार्णवः कथं लब्धो वक्तुमर्हसि सांप्रतम् ॥१॥

सूत उवाच ॥
एवं कालीमुपालभ्य गते देवे त्रियंबके ॥
उपमन्युः समभ्यर्च्य तपसा लब्धवान्फलम् ॥२॥

उपमन्युरिति ख्यातो मुनिश्च द्विजसत्तमाः ॥
कुमार इव तेजस्वी क्रीडमानो यदृच्छया ॥३॥

कदाचित्क्षीरमल्पं च पीतवान्मातुलाश्रमे ॥
ईर्ष्यया मातुलसुतो ह्यपिबत् क्षीरमुत्तमम् ॥४॥

पीत्वा स्थितं यथाकामं दृष्ट्वा प्रोवाच मातरम् ॥
मातर्मातर्महाभागे मम देही तपस्विनि ॥५॥

गव्यं क्षीरमतिस्वादु नाल्पमुष्णं नमाम्यहम् ॥
सूत उवाच ॥
उपलालितैवं पुत्रेण पुत्रमालिंग्य सादरम् ॥६॥

दुःखिता विललापार्ता स्मृत्वा नैर्धन्यमात्मनः ॥
स्मृत्वास्मृत्वापुनः क्षीरमुपमन्युरपि द्विजाः ॥
देहिदेहीति तामाह रोदमानो महाद्युतिः ॥७॥

उंछवृत्त्याजिंतान्वीजान्स्वयं विष्ट्वा च सा तदा ॥
वीजपिष्टं तदालोड्य तोयेन कलभाषिणी ॥८॥

ऐह्येहि मम पुत्रेति सामपूर्वं ततः सुतम् ॥
आलिंग्यादाय दुःखार्ता प्रददौ कृत्रिमं पयः ॥९॥

पीत्वा च कृत्रिमं क्षीरं मात्रा दत्तं द्विजोत्तमः ॥
नैतत्क्षीरमिति प्राह मातरं चातिविह्वलः ॥१०॥

दुःखिता सा तदा प्राह संप्रेक्ष्याघ्रायमूर्धनि ॥
संमार्ज्य नेत्रे पुत्रस्य कराभ्यां कमलायते ॥११॥

तटिनी रत्नपूर्णास्ते स्वर्गपातालगोचराः ॥
भाग्यहीना न पश्यंति भक्तिहिनाश्च ये शिवे ॥१२॥

राज्यं स्वर्गं च मोक्षं च भोजनं क्षीरसंभवम् ॥
न लभंते प्रियाण्येषां नो तुष्यति सदा भवः ॥१३॥

भवप्रसादजं सर्वं नान्यदेवप्रसादजम् ॥
अन्यदेवेषु निरता दुःखार्त्ता विभ्रमंति च ॥१४॥

क्षीरं तत्र कुतोऽस्माकं महादेवो न पूजितः ॥
पूर्वजन्मनि यद्दत्तं शिवमुद्यम्य वै सुत ॥१५॥

तदेव लभयं नान्यत्तु विष्णुमुद्यम्य वा प्रभुम् ॥
निशम्य वचनं मातुरुपमन्युर्महाद्युतिः ॥१६॥

बालोपि मातरं प्राह प्रणिपत्य तपस्विनीम् ॥
त्यज शोकं महाभागे महादेवोस्ति चेत्क्वचित् ॥१७॥

चिराद्वा ह्यचिराद्वापि क्षीरोदं साधयाम्यहम् ॥
सूत उवाच ॥
तां प्रणम्यैवमुक्त्वा स तपः कर्त्तुं प्रचक्रमे ॥१८॥

तमाह माता शुशुभं कुर्वीति सुतरां सुतम् ॥
अनुज्ञातस्तया तत्र तपस्तेपे सुदुस्तरम् ॥१९॥

हिमवत्पर्वतं प्राप्य वायुभक्षः समाहितः ॥
तपसा तस्य विप्रस्य विधूपितमभूज्जगत् ॥२०॥

प्रणम्याहुस्त तत्सर्वे हरये देवसत्तमाः ॥
श्रुत्वा तेषां तदा वाक्यं भगवान्पुरुषोत्तमः ॥२१॥

किमिदंत्विति संचिंत्य ज्ञात्वा तत्कारणं च सः ॥
जगाम मंदरं तूर्णं महेश्वरदिदृक्षया ॥२२॥

दृष्ट्वा देवं प्रणम्यैवं प्रोवाचेदं कृतांजलिः ॥
भगवन् ब्राह्मणः कश्चिदुपमन्युरितिश्रुतः ॥२३॥

क्षीरार्थमदहत्सर्वं तपसा तं विवारय ॥
एतस्मिन्नंतरे देवः पिनाकी परमेश्वरः ॥
शक्ररूपं समास्थाय गंतुं चक्रे मतिं तदा ॥२४॥

अथ जगाम मुनेस्तु तपोवनं गजवरेण सितेन सदाशिवः ॥
सह सुरासुरसिद्धमहोरगैरमरराजतनुं स्वयमास्थितः ॥२५॥

सहैव चारुह्य तदा द्विपं तं प्रगृह्य वालव्यजनं विवस्वान् ॥
वामेन शच्या सहितं सुरेन्द्रं करेण चान्येन सितातपत्रम् ॥२६॥

रराज भगवान् सोमः शक्ररूपी सदाशिवः ॥
सितातपत्रेण यथा चंद्रबिंबेन मंदरः ॥२७॥

आस्थायैवं हि शक्रस्य स्वरूपं परमेश्वरः ॥
जगामानुग्रहं कर्त्तुमुपमन्योस्तदाश्रमम् ॥२८॥

तं दृष्ट्वा परमेशानं शक्ररूपधरं शिवम् ॥
प्रणम्य शिरसा प्राह मुनिर्मुनिवराः स्वयम् ॥२९॥

पावितश्चाश्रमश्चायं मम देवेश्वरः स्वयम् ॥
प्राप्तः शक्रो जगन्नाथो भगवान्भानुना प्रभुः ॥३०॥

एवमुक्त्वा स्थितं वीक्ष्य कृतांजलिपुटं द्विजम् ॥
प्राह गंभीरया वाचा शक्ररूपधरो हरः ॥३१॥

तुष्टोस्मि ते वरं ब्रूहि तपसानेन सुव्रत ॥
ददामिचेप्सितान्सर्वान्धौम्याग्रज महामते ॥३२॥

एवमुक्तस्तदा तेन शक्रेण मुनिसत्तमः ॥
वरयामि शिवे भक्तिमित्युवाच कृतांजलिः ॥३३॥

ततो निशम्य वचनं मुनेः कुपितवत्प्रभुः ॥
प्राह सव्यग्रमीशानः शक्ररूपधरः स्वयम् ॥३४॥

मां न जानासि देवर्षे देवराजानमीश्वरम् ॥
त्रैलोक्याधिपतिं शक्रं सर्वदेवनमस्कृतम् ॥३५॥

मद्भक्तो भव विप्रर्षे मामेवार्चय सर्वदा ॥
ददामि सर्वं भद्रं ते त्यज रुद्रं च निर्गुणम् ॥३६॥

ततः शक्रस्य वचनं श्रुत्वा श्रोत्रविदारणम् ॥
उपमन्युरिदं प्राह जपन्पंचाक्षर शुभम् ॥३७॥

मन्ये शक्रस्य रूपेण नूनमत्रागतः स्वयम् ॥
कर्त्तुं दैत्याधमः कश्चिद्वर्मविघ्नं च नान्यथा ॥३८॥

त्वयैव कथितं सर्वं भवनिंदारतेन वै ॥
प्रसंगाद्देवदेवस्य निर्गुणत्वं महात्मनः ॥३९॥

बहुनात्र किमुक्तेन मयाद्यानुमितं महत् ॥
भवांतरकृतं पापं श्रुता निंदा भवस्य तु ॥४०॥

श्रुत्वा निंदां भवस्याथ तत्क्षणादेव संत्यजेत् ॥
स्वदेहं तं निहत्याशु शिवलोकं स गच्छति ॥४१॥

यो वाचोत्पाटयोज्जिह्वां शिवनिंदारतस्य तु ॥
त्रिः सप्तकुलमुद्धृत्य शिवलोकं स गच्छति ॥४२॥

आस्तां तावन्ममेच्छायाः क्षीरं प्रति सुराधमम् ॥
निहत्य त्वां शिवास्त्रेण त्यजाम्येतत्कलेवरम् ॥४३॥

पुरा मात्रा तु कथितं तत्थ्यमेव न संशयः ॥
पूर्वजन्मनि चास्माभिरपूजित इति प्रभुः ॥४४॥

एवमुक्त्वा तु तं देवमुपमन्युरभीतवत् ॥
शक्रं चक्रे मतिं हंतुमथर्वास्त्रेण मंत्रवित् ॥४५॥

भस्माधारान्महातेजा भस्ममुष्टिं प्रगृह्य च ॥
अथर्वास्त्रं ततस्तस्मै ससर्ज च ननाद च ॥४६॥

दग्धुं स्वदेह माग्नेयीं ध्यात्वा वै धारणां तदा ॥
अतिष्ठच्च महातेजाः शुष्केंधनमिवाव्ययः ॥४७॥

एवं व्यवसिते विप्रे भगवान्भगनेत्रहा ॥
वारयामास सौम्येन धारणां तस्य योगिनः ॥४८॥

अथर्वास्त्रं तदा तस्य संहृतं चंद्रिकेण तु ॥
कालाग्निसदृशं चेदं नियोगान्नंदिनस्तथा ॥४९॥

स्वरूपमेव भगवानास्थाय परमेश्वरः ॥
दर्शयामास विप्राय बालेंदुकृतशेखरम् ॥५०॥

क्षीरधारासहस्रं च क्षीरोदार्णवमेव च ॥
दध्यादेरर्णवं चैव घृतोदार्णवमेव च ॥५१॥

फलार्णवं च बालस्य भक्ष्यभोज्यार्णवं तथा ॥
अपूपगिरयश्चैव तथातिष्ठन् समंततः ॥५२॥

उपमन्युमुवाच सस्मितो भगवान्बंधुजनैः समावृतम् ॥
गिरिजावलोक्य सस्मितां सघृणं प्रेक्ष्यतु तं तदा घृणी ॥५३॥

भुंक्ष्व भोगान्यथाकामं बांधवैः पश्य वत्स मे ॥
उपमन्यो महाभाग तवांबैषा हि पार्वती ॥५४॥

मया पुत्रीकृतोस्यद्य दत्तः क्षीरोदधिस्तथा ॥
मधुनश्चार्णवश्चैव दध्नश्चार्णव एव च ॥५५॥

आज्योदनार्णवश्चैव फललेह्यार्णवस्तथा ॥
अपूपगिरयश्चैव भक्ष्यभोज्यार्णवः पुनः ॥५६॥

पिता तव महादेवः पिता वै जगतां मुने ॥
माता तव महाभागा जगन्माता न संशयः ॥५७॥

अमरत्वं मया दत्तं गाणपत्यं च शाश्वतम् ॥
वरान्वरय दास्यामि नात्र कार्या विचारणा ॥५८॥

एवमुक्त्वा महादेवः कराभ्यामुपगृह्य तम् ॥
आघ्राय मूर्धनि विभुर्ददौ देव्यास्तदा भवः ॥५९॥

देवी तनयमालोक्य ददौ तस्मै गिरीन्द्रजा ॥
योगैश्वर्यं तदा तुष्टा ब्रह्मविद्यां द्विजोत्तमाः ॥६०॥

सोपि लब्ध्वा वरं तस्याः कुमारत्वं च सर्वदा ॥
तुष्टाव च महादेवं हर्षगद्गदया गिरा ॥६१॥

वरयामास च तदा वरेण्यं विरजेक्षणम् ॥
कृतांजलिपुटो भूत्वा प्रणिपत्य पुनः पुनः ॥६२॥

प्रसीद देवदेवेश त्वयि चाव्यभिचारिणी ॥
श्रद्धा चैव महादेव सान्निध्यंचैव सर्वदा ॥६३॥

एवमुक्तस्तदा तेन प्रहसन्निव शंकरः ॥
दत्वेप्सितं हि विप्राय तत्रैवांतरधीयत ॥६४॥

इति श्रीलिंगमहापुराणे पूर्वभागे उपमन्युचरितं नाम सप्ताधिकशततमोऽध्यायः ॥१०७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:28.9130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

sensitise

  • (to cause to become sensitive; to become sensitive) संवेदी करणे, संवेदी होणे, संवेदनशील करणे, संवेदनशील होणे 
RANDOM WORD

Did you know?

सूतक कोणाचे नसते?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site