TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः १००

पूर्वभागः - अध्यायः १००

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः १००
ऋषयः ऊचुः ॥
विजित्य विष्णुना सार्धं भगवान्परमेश्वरः ॥
सर्वान्दधीचवचनात्कथं भेजे महेश्वरः ॥१॥

सूत उवाच ॥
दक्षयज्ञे सुविपुले देवान् विष्णुपुरोगमान् ॥
ददाह सार्धं भगवान् रुद्रः सर्वान्मुनिगणानपि ॥२॥

भद्रो नाम गणस्तेन प्रेषितः परमेष्ठिना ॥
विप्रयोगेन देव्या वै दुःसहेनैव सुव्रताः ॥३॥

सोसृजद्वीरभद्रश्च गणेशान्रोमजाञ्छुभान् ॥
गणेश्वरैः समारुह्य रथं भद्रः प्रतावान् ॥४॥

गंतुं चक्रे मतिं यस्य सारथिर्भगवानजः ॥
गणेश्वराश्च ते सर्वे विविधायुधपामयः ॥५॥

विमानैर्विश्वतो भद्रैस्तमन्वयुरथो सुराः ॥
हिमवच्छिखरे रम्ये हेमश्रृंगे सुशोभने ॥६॥

यज्ञवाटस्तथा तस्य गंगाद्वारसमीपतः ॥
तद्देशे चैव विख्यातं शुभं कनखलं द्विजाः ॥७॥

दग्धुं वै प्रेषितश्चासौ भगवान् परमेष्ठिना ॥
तदोत्पातो बभूवाथ लोकानां भयशंसनः ॥८॥

पर्वताश्च व्यशीर्यंत प्रचकंपे वसुंधरा ॥
मरुतश्चाप्यघूर्णंत चुक्षुभे मकरालयः ॥९॥

अग्नयो नैव दीप्यंति न च दीप्यति भास्करः ॥
ग्रहाश्च न प्रकाश्यंते न देवा न च दानवाः ॥१०॥

ततः क्षणात् प्रविश्यैव यज्ञवाटं महात्मनः ॥
रोमजैः सहितो भद्रः कालाग्निरिवचापरः ॥११॥

उवाच भद्रो भगवान् दक्षं चामिततेजसम् ॥
संपर्कादेव दक्षाद्यमुनीन्देवान् पिनाकिना ॥१२॥

दग्धुं संप्रोषितश्चाहं भवंतं समुनीश्वरैः ॥
इत्युक्त्वा यज्ञशालां तां ददाह गणपुंगवः ॥१३॥

गणेश्वराश्च संक्रुद्धा यूपानुत्पाट्य चिक्षिपुः ॥
प्रस्तोत्रा सह होत्रा च दग्धं चैव गणेश्वरैः ॥१४॥

गृहीत्वा गणपाः सर्वान् गंगास्रोतसि चिक्षिपुः ॥
वीरभद्रो महातेजाः शक्रस्योद्यच्छतः करम् ॥१५॥

व्यष्टंभयददीनात्मा तथान्येषां दिवौकसाम् ॥
भगस्य नेत्रे चोत्पाट्य करजाग्रेण लीलया ॥१६॥

निहत्य मुष्टिना दंतान् पूष्णश्चैवं न्यपातयत् ॥
तथा चंद्रमसंदेवं पादांगुष्ठेन लीलया ॥१७॥

घर्षयामास भगवान् वीरभद्रः प्रतापवान् ॥
चिच्छेद च शिरस्तस्य शक्रस्य भगवान्प्रभोः ॥१८॥

वह्नेर्हस्तद्वयं छित्त्वा जिह्वामुत्पाट्य लीलया ॥
जघान मूर्ध्नि पादेन वीरभद्रो महाबलः ॥१९॥

यमस्य दंडं भगवान् प्रचिच्छेद स्वयं प्रभुः ॥
जघान देवमीशानं त्रिशूलेन महाबलम् ॥२०॥

त्रयस्त्रिंशत्सुरानेवं विनिहत्याप्रयत्नतः ॥
त्रयश्च त्रिशतं तेषां त्रिसाहस्रं च लीलया ॥२१॥

त्रयं चैव सुरेंद्राणां जघान च मुनीश्वरान् ॥
अन्यांश्च देवान्देवोसौ सर्वान्युद्धाय संस्थितान् ॥२२॥

जघान भगवान्नुद्रः खड्गमुष्ट्यादिसायकैः ॥
अथ विष्णुर्महातेजाश्चक्रमुद्यम्य मूर्च्छितः ॥२३॥

युयोध भगवांस्तेन रुद्रेण सह माधवः ॥
तयोः समभवद्युद्धं सुघोरं रोमहर्षणम् ॥२४॥

विष्णोर्योगबलात्तस्य दिव्यदेहाः सुदारुणाः ॥२५॥

शंखचक्रगदाहस्ता असंख्याताश्च जज्ञिरे ॥
तान्सर्वानपि देवोसौनारायणसमप्रभ्रान् ॥२६॥

निहत्य गदया विष्णुं ताडयामास मूर्धनि ॥
ततश्चोरसि तं देवं लीलयैव रणाजिरे ॥२७॥

पपात च तदा भूमौ विसंज्ञः पुरुषोत्तमः ॥
पुनरुत्थाय तं हंतुं चक्रमुद्यम्य स प्रभुः ॥२८॥

क्रोधरक्तेक्षमः श्रीमानतिष्ठत्पुरुषर्षभः ॥
तस्य चक्रं च यद्रौद्रं कालादित्यसमप्रभम् ॥२९॥

व्यष्टंभयददीनात्मा करस्थं न चचाल सः ॥
अतिष्ठत्स्तंभितस्तेन श्रृंगवानिव निश्चलः ॥३०॥

त्रिभिश्च धर्षितं शार्ङ्गं त्रिधाभूतं प्रभोस्तदा ॥
शार्ङ्गंकोटिप्रसंगाद्वै चिच्छेद च शिरः प्रभोः ॥३१॥

छिन्नं च निपपातासु शिरस्तस्य रसातले ॥
वायुना प्रेरितं चैव प्राणजेन पिनाकिना ॥३२॥

प्रविवेश तदा चैव तदीयाहवनीयकम् ॥
तत्प्रतिध्वस्तकलशं भग्नयूपं सतोरणम् ॥३३॥

प्रदीपितमहाशालं दृष्ट्वा यज्ञोपि दुद्रुवे ॥
ते तदा मृगरूपेण धावंतं गगनं प्रति ॥३४॥

वीरभद्रः समाधाय विशिरस्कमथाकरोत् ॥
ततः प्रजापतिं धर्मं कश्यपं च जगद्गुरुम् ॥३५॥

अरिष्टनेमिनं वीरो बहुपुत्रं मुनीश्वरम् ॥
मुनीमंगिरसं चैव कृष्णाश्वं च महाबलः ॥३६॥

जघान मूर्ध्नि पादेन दक्षं चैव यशस्विनम् ॥
चिच्छेद च शिरस्तस्य ददाहाग्नौ द्विजोत्तमाः ॥३७॥

सरस्वत्यश्च नासाग्रं देवमातुस्तथैव च ॥
निकृत्य करजाग्रेण वरिभद्रः प्रतापवान् ॥३८॥

तस्थौ श्रिया वृतो मध्ये प्रेतस्थाने यथा भवः ॥
एतस्मिन्नेव काले तु भगवान्पद्मसंभवः ॥३९॥

भद्रमाह महातेजाः प्रार्थयन्प्रणतः प्रभुः ॥
अलं क्रोधेन वै भद्र नष्टाश्चैव दिवौकसः ॥४०॥

प्रसीद क्षम्यतां सर्वं रोमजैः सह सुव्रत ॥
सोपि भद्रः प्रभावेण ब्रह्मणः परमेष्ठिनः ॥४१॥

शमं जगाम शनकैः शांतस्तस्थौ तदाज्ञया ॥
देवोपि तत्र भगवानंरिक्षे वृषध्वजः ॥४२ ॥

सगणः सर्वदः शर्वः सर्वलोकमहेश्वरः ॥
प्रार्थितश्चैव देवेन ब्रह्मणा भगवान् भवः ॥४३॥

हतानां च तदा तेषां प्रददौ पूर्ववत्तनुम् ॥
इंद्रस्य च शिरस्तस्य विष्णोश्चैव महात्मनः ॥४४॥

दक्षस्य च मुनीन्द्रस्य तथान्येषां महेश्वरः ॥
वागीश्याश्चैव नासाग्रं देवमातुस्तथैव च ॥४५॥

नष्टानां जीवितं चैव वराणि विविधानि च ॥
दक्षस्य ध्वस्त वक्त्रस्य शिरसा भगवान्प्रभुः ॥४६॥

कल्पयामास वै वक्त्रं लीलया च महान् भवः ॥
दक्षोपि लब्धसंज्ञश्च समुत्थाय कृतांजलिः ॥४७॥

तुष्टाव देवदेवेशं शंकरं वृषभध्वजम् ॥
स्तुतस्तेन महातेजाः प्रदाय विविधान्वरान् ॥४८॥

गाणपत्यं ददौ तस्मै दक्षायाक्लिष्टकर्मणे ॥
देवाश्च सर्वे देवेशं तुष्टुवुः परमेश्वरम् ॥४९॥

नारायणश्च भगवान् तुष्टाव च कृतांजलिः ॥
ब्रह्मा च मुनयः सर्वे पृथक्पृथगजोद्भवम् ॥५०॥

तुष्टुवुर्देवर्देवेशं नीलकंठं वृषध्वजम् ॥
तान्दोवाननुगृह्यैव भवोप्यंतरधीयत ॥५१॥

इति श्रीलिंगमहापुराणे पूर्वभागे शिवकृद्दक्षयज्ञविध्वंसनो नाम शततमोऽध्यायः ॥१००॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:28.5200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

diphenylmethane dyes

  • पु./अ.व. डायफेनिलमिथेन रंजक 
RANDOM WORD

Did you know?

उगवत्या सूर्याला नमस्कार, मावळत्या का नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.