TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ६३

पूर्वभागः - अध्यायः ६३

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः ६३
ऋषय ऊचुः ॥
देवानां दानवानां च गंधर्वोरगरक्षसाम् ॥
उत्पत्तिं ब्रूहि सूताद्य यथाक्रममनुत्तमम् ॥१॥

सूत उवाच ॥
संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते ॥
दक्षात्प्राचेतसादूर्ध्वं सृष्टिर्मैथुनसंभवा ॥२॥

यदा तु सृजतस्तस्य देवर्षिगण पन्नगान् ॥
न वृद्धिमगमल्लोकस्तदा मैथुनयोगतः ॥३॥

दक्षः पुत्रसहस्राणि पंच सूत्यामजीजनत् ॥
तांस्तु दृष्ट्वा महाभागान् सिसृक्षुर्विविधाः प्रजाः ॥४॥

नारदः प्राह हर्यश्वान्दक्षपुत्रान्समागतान् ॥
भुवः प्रमाणं सर्वं तु ज्ञात्वोर्ध्वमध एव च ॥५॥

ततः सृष्टिं विशेषेण कुरुध्वं मुनिसत्तमाः ॥
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशम् ॥६॥

अद्यापि न निवर्तंते समुद्रादिव सिंधवः ॥
हर्यश्वेषु च नष्टेषु पुनर्दक्षः प्रजापतिः ॥७॥

सूत्यामेव च पुत्राणां सहस्रमसृजत्प्रभुः ॥
शबला नाम ते विप्राः समेताः सृष्टिहेतवः ॥८॥

नारदोनुगतान्प्राह पुनस्तान्सूर्यवर्चसः ॥
भुवः प्रमाणं सर्वं तु ज्ञात्वा भ्रातॄन् पुनः पुनः ॥९॥

आगत्य वाथ सृष्टिं वै करिष्यथ विशेषतः ॥
तेपि तेनैव मार्गेण जग्मुर्भ्रातृगतिं तथा ॥१೦  ॥

ततस्तेष्वपि नष्टेषु षष्टिकन्याः प्रजापतिः ॥
वैरिण्यां जनयामास दक्षः प्राचेतसस्तदा ॥११॥

प्रादात्स दशकं धर्मे कश्यपाय त्रयोदश ॥
विंशत्सप्त च सोमाय चतस्रोऽरिष्टनेमये  ॥१२॥

द्वे चैव भृगुपुत्त्राय द्वे कृशाश्वाय धीमते ॥
द्वे चैवाङ्गिरसे तद्वत्तासां नामानि विस्तरात् ॥१३॥

श्रृणुध्वं देवमातॄणां प्रजाविस्तारमादितः ॥
मरुत्वती वसूर्यामिर्लबा भानुररुंधती ॥१४॥

संकल्पा च मुहूर्ता च साध्या विश्वा च भामिनि ॥
धर्मपत्न्यः समाख्यातास्तासां पुत्रान्वदामि वः ॥१५॥

विश्वेदेवास्तु विश्वायाः साध्या साध्यानजीजनत् ॥
मरुत्वत्यां मरुत्वंतो वसोस्तु वसवस्तथा ॥१६॥

भानोस्तु भानवः प्रोक्ता मुहूर्ताया मुहूर्तकाः ॥
लंबाया घोषनामानो नागवीथिस्तु यामिजः ॥१७॥

संकल्पायास्तु संकल्पो वसुसर्गं वदामि वः ॥
ज्योतिष्मंतस्तु ये देवा व्यापकाः सर्वतोदिशम् ॥१८॥

वसवस्ते समाख्याताः सर्वभूतहितैषिणः ॥
आपो ध्रुवश्च सोमश्च धरश्चैवानिलोनलः ॥१९॥

प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः ॥
अजैकपादहिर्बुध्यो विरुपाक्षः सभैरवः ॥२೦  ॥

हरश्च बहुरूपश्च त्र्यंबकश्च सुरेश्वरः ॥
सावित्रश्च जयंतश्च पिनाकी चापराजितः ॥२१॥

एते रुद्राः समाख्याता एकादश गणेश्वराः ॥
कश्यपस्य प्रवक्ष्यामि पत्नीभ्यः पुत्रपौत्रकम् ॥२२॥

अदितिश्च दितिश्चैव अरिष्टा सुरसा मुनिः ॥
सुरभिर्विनता ताम्रा तद्वत् क्रोधवशा इला ॥२३॥

कद्रूस्त्विषा दनुस्तद्वत्तासां पुत्रान्वदामि वः ॥
तुषिता नाम ये देवाश्चाक्षुषास्यांतरे मनोः ॥२४॥

वैवस्वतांतरे ते वै आदित्या द्वादश स्मृताः ॥
इंद्रो धाता भगस्त्वष्ट मित्रोथ वरुणोर्यमा ॥२५॥

विवस्वान्सविता पूषा अंशुमान् विष्णुरेव च ॥
एते सहस्रकिरणा आदीत्या द्वादश स्मृताः ॥२६॥

दितिः पुत्रद्वयं लेभे कश्यपादिति नः श्रुतम् ॥
हिरण्यकशिपुं चैव हिरण्याक्षं तथैव च ॥२७॥

दनुः पुत्रशतं लेभे कश्यपाद्बलदर्पितम् ॥
विप्रचित्तिः प्रधानोभूत्तेषां मध्ये द्विजोत्तमाः ॥२८॥

ताम्रा च जनयामास षट् कन्या द्विजपुंगवाः ॥
शुकीं श्येनीं च भासीं च सुग्रीवीं गृध्रिकां शुचिम् ॥२९॥

शुकी शुकानुलूकांश्च जनयामास धर्मतः ॥
श्येनी श्येनांस्तथा भासी कुरंगांश्च व्यजीजनत् ॥३೦  ॥

गृध्री गृध्रान् कपोतांश्च पारावतीविहंगमान् ॥
हंससारसकारंडप्लवाञ्छुचिरजीजनत् ॥३१॥

अजाश्वमेषोष्ट्रखरान् सुग्रीवी चाप्यजीजनत् ॥
विनता जनया मास गरुडं चारुणं शुभा ॥३२॥

सौदामिनीं तथा कन्यां सर्वलोकभयंकरीम् ॥
सुरसायाः सहस्रं तु सर्पाणामभवत्पुरा ॥३३॥

कद्रूः सहस्रशिरसां सहस्रं प्राप सुव्रता ॥
प्रधानास्तेषु विख्याताः षड्विंशतिरनुत्तमाः ॥३४॥

शेषवासुकिकर्कोचशंखैरावतकंबलाः ॥
धनंजयमहानीलपद्माश्वतरतक्षकाः ॥३५॥

एलापत्रमहापद्मधृतराष्ट्रबलाहकाः ॥
शंखपालमहाशंखपुष्पदंष्ट्रशुभाननाः ॥३६॥

शंख लोमा च नहुषो वामनः फणितस्तथा ॥
कपिलो दुर्मुखश्चापि पतंजलिरिति स्मृतः ॥३७॥

रक्षोगणं क्रोधवशा महामायं व्यजीजनत् ॥
रुद्राणां च गणं तद्वद्गोमहिष्यौ वरांगना ॥३८॥

सुरभिर्जनयामास कश्यपादिति नः श्रुतम् ॥
मुनिर्मुनीनां च गणं गणमप्सरसां तथा ॥३९॥

तता किंनरगंधर्वानरिष्टाजनयद्बहून् ॥
तृणवृक्षलतागुल्ममिला सर्वमजीजनत् ॥४೦  ॥

त्विषा तु यक्षरक्षांसि जनयामास कोटिशः ॥
एते तु काश्यपेयाश्च संक्षेपात्परिकीर्तिताः ॥४१॥

एतेषां पुत्रपौत्रादिवंशाश्च बहवः स्मृताः ॥
एवं प्रजासु सृष्टासु कश्य पेन महात्मना ॥४२॥

प्रतिष्ठितासु सर्वासु चरासु स्थावरासु च ॥
अभिषिच्याधिपत्येषु तेषां मुख्यान्प्रजापतिः ॥४३॥

ततो मनुष्याधिपतिं चक्रे वैवस्वतं मनुम् ॥
स्वायंभुवेन्तरे पूर्वं ब्रह्मणा येऽभिषेचिताः ॥४४॥

तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता ॥
यथोपदेशमद्यापि धर्मेण प्रतिपाल्यते ॥४५॥

स्वायंभुवेन्तरे पूर्वे ब्रह्मणा येऽभिषेचिताः ॥
ते ह्येते चाभिषिच्यंते मनवश्च भवन्ति ते ॥४६॥

मन्वंतरेष्वतीतेषु गता ह्येतेषु पार्थिवाः ॥
एवमन्येभिषिच्यन्ते प्राप्ते मन्वंतरे ततः ॥४७॥

अतीतानागताः सर्वे नृपा मन्वन्तरे स्मृताः ॥
एतानुत्पाद्य पुत्रांस्तु प्रजासंतानकारणात् ॥४८॥

कश्यपो गोत्रकामस्तु चचार स पुनस्तपः ॥
पुत्रो गोत्रकरो मह्यं भवतादिति चिंतयन् ॥४९॥

तस्यैवं ध्यायमानस्य कश्यपस्य महात्मनः ॥
ब्रह्मयोगात्सुतौ पश्चात्प्रादुर्भूतौ महौजसौ ॥५೦  ॥

वत्सरश्चासितश्चैव तावुभौ ब्रह्मवादिनौ ॥
वत्सरान्नैध्रुवो जज्ञे रैभ्यश्च सुमहायशाः ॥५१॥

रैभ्यस्य रैभ्या विज्ञेया नैध्रुवस्य वदामि वः ॥
च्यवनस्य तु कन्यायां सुमेधाः समपद्यत ॥५२॥

नैध्रुवस्य तु सा पत्नी माता वै कुंडपायिनाम् ॥
असितस्यैकपर्णायां ब्रह्मिष्ठः समपद्यत ॥५३॥

शांडिल्यानां वरः श्रीमान्देवलः सुमहातपाः ॥
शांडिल्या नैध्रुवा रैभ्यास्त्रयः पक्षास्तु काश्यपाः ॥५४॥

नव प्रकृतयो देवाः पुलस्त्यस्य वदामि वः ॥
चतुर्युगे ह्यतिक्रांते मनोरेकादशे प्रभोः ॥५५॥

अर्धावशिष्टे तस्मिंस्तु द्वापरे संप्रवर्तिते ॥
मानवस्य नरिष्यन्तः पुत्र सीद्दमः किल ॥५६॥

दमस्य तस्य दायादस्तृणबिंदुरिति स्मृतः ॥
त्रेतायुगमुखे राजा तृतीये संबभूव ह ॥५७॥

तस्य कन्या त्विलविला रूपेणाप्रतिमाभवत् ॥
पुरस्त्याय स राजर्षिस्तां कन्यां प्रत्यपादयत् ॥५८॥

ऋषिरैरविलो यस्यां विश्रवाः समपद्यत ॥
तस्य पत्न्यश्चतस्रस्तु पौलस्त्यकुलवर्धनाः ॥५९॥

बृहस्पतेः शुभा कन्या नाम्ना वै देववर्णिनी ॥
पुष्पोत्कटा बलाका च सुते माल्यवतः स्मृतेः ॥६೦  ॥

कैकसी मालिनः कन्या तासां वै श्रृणुत प्रजाः ॥
ज्येष्ठं वैश्रवणं तस्मात्सुषुवे देव वर्णिनी ॥६१॥

कैकसी चाप्यजनयद्रावणं राक्षसाधिपम् ॥
कुंभकर्णं शूर्पनखां धीमन्तं च विभीषणम् ॥६२॥

पुष्पोत्कटा ह्यजनयत्पुत्रांस्तस्माद्द्विजोत्तमाः ॥
महोदरं प्रहस्तं च महापार्श्वं खरं तथा ॥६३॥

कुंभीनसीं तथा कन्यां बलायाः श्रृणुत प्रजाः ॥
त्रिशिरा दूषमश्चैव विद्युज्जिह्वश्च राक्षसः ॥६४॥

कन्या वै मालिका चापि बलायाः प्रसवः स्मृतः ॥
इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा नव ॥६५॥

विभीषणोतिशुद्धात्मा धर्मज्ञः परिकीर्तितः ॥
पुलस्त्यस्य मृगाः पुत्राः सर्वे व्याघ्रश्च दंष्ट्रिणः ॥६६॥

भूताः पिशाचाः सर्पाश्च सूकरा हस्तिनस्तथा ॥
वानराः किंनराश्चैव ये च किंपुरुषास्तथा ॥६७॥

अनपत्यः क्रतुस्तस्मिन् स्मृतो वैवस्वतेन्तरे ॥
अत्रेः पत्न्यो दशैवासन् सुंदर्यश्च पतिव्रताः ॥६८॥

भद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः ॥
भद्राभद्रा च जलदा मंदा नंदा तथैव च ॥६९॥

बलाबला च विप्रेन्द्रा या च गोपाबला स्मृता ॥
तथा तामरसा चैव वरक्रीडा च वै दश ॥७೦  ॥

आत्रेयवंशप्रभवा स्तासां भर्ता प्रभाकरः ॥
स्वर्भानुपिहिते सूर्ये पतितेस्मिन्दिवो महीम् ॥७१॥

तमोऽभिभूते लोकेस्मिन्प्रभा येन प्रवर्तिता ॥
स्वस्त्यस्तु हि तवेत्युक्ते पतन्निह दिवाकरः ॥७२॥

ब्रह्मर्षेर्वचनात्तस्य पपात न विभुर्दिवः ॥
ततः प्रभाकरेत्युक्तः प्रभुरत्रिर्महर्षिभिः ॥७३॥

भद्रायां जनयामास सोमं पुत्रं यशस्विनम् ॥
स तासु जनयामास पुनः पुत्रांस्तपोधनः ॥७४॥

स्वस्त्यात्रेया इति ख्याता ऋषयो वेदपारगाः ॥
तेषां द्वौ ख्यातयशसौ ब्रह्मिष्ठौ च महौजसौ ॥७५॥

दत्तो ह्यत्रिवरो ज्येष्ठो दुर्वासास्तस्य चानुजः ॥
यवीयसी स्वसा तेषाममला ब्रह्मवादिनी ॥७६॥

तस्य गोत्रद्वये जाताश्चत्वारः प्रथिता भुवि ॥
श्यावश्च प्रत्वसश्चैव ववल्गुश्चाथ गह्वरः ॥७७॥

आत्रेयाणां च चत्वारः स्मृताः पक्षा महात्मनाम् ॥
काश्यपो नारदश्चैव पर्वतानुद्धतस्तथा ॥७८॥

जज्ञिरे मानसा ह्येते अरुंधत्या निबोधत ॥
नारदस्तु वसिष्ठायारुन्धतीं प्रत्यपादयत् ॥७९॥

ऊर्ध्वरेता महातेजा दक्षशापात्तु नारदः ॥
पुरा देवासुरे युद्धे घोरे वै तारकामये ॥८೦  ॥

अनावृष्ट्या हते लोके ह्युग्रे लोकेश्वरैः सह ॥
वसिष्ठस्तपसा धीमान्धारयामास वै प्रजाः ॥८१॥

अन्नोदकं मूलफलमोषधीश्च प्रवर्तयन् ॥
तानेताञ्जीवयामास कारुण्यादौषधेन च ॥८२॥

अरुन्धत्यां वसिष्ठस्तु सुतानुत्पादयच्छतम् ॥
ज्यायसोजनयच्छक्तेरदृश्यंती पराशरम् ॥८३॥

रक्षसा भक्षिते शक्तौ रुधिरेण तु वै तदा ॥
काली पराशराज्जज्ञे कृष्णद्वैपायनं प्रभुम् ॥८४॥

द्वैपायनो ह्यरण्यां वै शुकमुत्पादयत्सुतम् ॥
उपमन्युं च पीवर्यां विद्धीमे शुकसूनवः ॥८५॥

भूरिश्रवाः प्रभुः शंभुः कृष्णो गौरस्तु पंचमः ॥
कन्या कीर्ति मती चैव योगमाता धृतव्रता ॥८६॥

जननी ब्रह्मदत्तस्य पत्नी सा त्वनुहस्य च ॥
श्वेतः कृष्णश्च गौरश्च श्यामो धूम्रस्तथारुणः ॥८७॥

नीलो बादरिकश्चैव सर्वे चैते पराशराः ॥
पराशराणामष्टौ ते पक्षाः प्रोक्ता महात्मनाम् ॥८८॥

अत ऊर्ध्वं निबोधध्वमिंद्रप्रमितिसंभवम् ॥
वसिष्ठस्य कपिंजल्यो घृताच्यामुदपद्यत ॥८९॥

त्रिमूर्तिर्यः समाख्यात इंद्रप्रमितिरुच्यते ॥
पृथोः सुतायां संभूतो भद्रस्तस्या भवद्वसुः ॥९೦  ॥

उपमन्युः सुतस्तस्य बहवो ह्यौपमन्यवः ॥
मित्रावरुणयोश्चैव कौण्डिन्या ये परिश्रुताः ॥९१॥

एकार्षेयास्तथा चान्ये वासिष्ठा नाम विश्रुताः ॥
एते पक्षा वसिष्ठानां स्मृता दश महात्मनाम् ॥९२॥

इत्येते ब्रह्मणः पुत्रा मानसा विश्रुता भुवि ॥
भर्तारश्च महाभागा एषां वंशाः प्रकीर्तिताः ॥९३॥

त्रिलोकधारणे शक्ता देवर्षिकुलसंभवाः ॥
तेषां पुत्राश्च पौत्राश्च शतशोथ सहस्रशः ॥९४॥

यैस्तु व्याप्तास्त्रयो लोकाः सूर्यस्येव गभस्तिभिः ॥९५॥

इति श्रीलिंगमहापुराणे पूर्वभागे देवादिसृष्टिकथनं नाम त्रिषष्टितमोऽध्यायः ॥६३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:26.0070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

cheesy

  • चीझवत 
  • पनीरवत 
RANDOM WORD

Did you know?

गोकुळ अष्टमी उपास आज करायचा? की उद्या करायचा?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site