संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ९२

पूर्वभागः - अध्यायः ९२

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


ऋषय ऊचुः ॥
एवं वाराणसी पुण्या यदि सूत महामते ॥
वक्तुमर्हसि चास्माकं तत्प्रभावं हि सांप्रतम् ॥१॥

क्षेत्रस्यास्य च माहात्म्यमविमुक्तस्य शोभनम् ॥
विस्तरेण यतान्यायं श्रोतुं कौतूहलं हि नः ॥२॥

सूत उवाच ॥
वक्ष्ये संक्षेपतः सम्यक् वाराणस्याः सुशोभनम् ॥
अविमुक्तस्य माहात्म्यं यथाह भगवान् भवः ॥३॥

विस्तरेण मया वक्तुं ब्रह्मणा च महात्मना ॥
शक्यते नैव विप्रेंद्रा वर्षकोटिशतैरपि ॥४॥

देवः पुरा कृतोद्वाहः शंकरो नीललोहितः ॥
हिमवच्छिखराद्देव्या हैमवत्या गणेश्वरैः ॥५॥

वाराणसीमनुप्राप्य दर्शयामासशंकरः ॥
अविमुक्तेश्वरं लिंगं वासं तत्र चकार सः ॥६॥

वाराणसीकुरुक्षेत्रश्रीपर्वतमहालये ॥
तुंगेश्वरे च केदारे तत्स्थाने यो यतिर्भवेत् ॥७॥

योगे पाशुपते सम्यक् दिनमेकं यतिर्भवेत् ॥
तस्मात्सर्वं परित्यज्य परेत्पाशुपतं व्रतम् ॥८॥

देवोद्याने वसे तत्र शर्वोद्यानमनुत्तमम् ॥
मनसा निर्ममे रुद्रो विमानं च सुशोभनम् ॥९॥

दर्शयामास च तदा देवोद्यानमनुत्तमम् ॥
हैमवत्याः स्वयं देवः सनंदी परमेश्वरः ॥१०॥

क्षेत्रस्यास्य च महात्म्यमविमुक्तस्य शंकरः ॥
उक्तवान्परमेशानः पार्वत्याः प्रीयते भवः ॥११॥

प्रफुल्लनानाविधगुल्मशोभितं लताप्रतानादिमनोहरं बहिः ॥
विरूढपुष्पैः परितः प्रियंगुभिः सुपुष्पितैः कंटकितैश्च केतकैः ॥१२॥

तमालगुल्मैर्निचितं सुगंधिभिर्निकामपुष्पैर्वकुलैश्च सर्वतः ॥
अशोकपुन्नागशतैः सुपुष्पितैर्द्विरेफमालाकुलपुष्पसंचयैः ॥१३॥

क्वचित्प्रफुल्लाम्बुजरेणुभूषितैर्विहंगमैश्चानुकलप्रणादिभिः ॥
विनादितं सारसचक्रवाकैः प्रमत्तदात्यूहवरैश्च सर्वतः ॥१४॥

क्वचिच्च केकारुत नादितं शुभं क्वचिच्च कारंडवनादनादितम् ॥
क्वचिच्च मत्तालिकुलाकुलीकृतं मदाकुलाभिर्भ्रमरांगनादिभीः ॥१५॥

निषेवितं चारुसुगांधिपुष्पकैः क्वचित्सुपुष्पैः सहकारवृक्षैः ॥
लतोपगूढैस्तिलकैश्च गूढं प्रगीतविद्याधरसिद्धचारणम् ॥१६॥

प्रवृत्तनृत्तानुगताप्सरोगणं प्रहृष्टनानाविधपक्षिसेवितम् ॥
प्रनृत्तहारीतकुलोपनादितं मृगेंद्रनादाकुलमत्तमानसैः ॥१७॥

क्वचित्क्वचिद्गंधकदंबकैर्मृगैर्विलूनदर्भाकुरपुष्पसंचयम् ॥
प्रफुल्लनानाविधचारुपंकजैः सरस्तडागैरुपशोभितं क्वचित् ॥१८॥

विटपनिचयलीनं नीलकंठाभिरामं मदमुदितविहंगं प्राप्तनादाभिरामम् ॥
कुसुमिततरुशाखालीनमत्तद्विरेफं नवकिसलयशोभाशोभितं प्रांशुशाखम् ॥१९॥

क्वचिच्च दंतक्षतचारुवीरुधं क्वचिल्लतालिंगि तचारुवृक्षकम् ॥
क्वचिद्विलासालसगामिनीभिर्निषेवितं किंपुरुषांगनाभिः ॥२०॥

पारावतध्वनिविकूजितचारुश्रृंगैरभ्रंकषैः सितमनोहर चारुरूपैः ॥
आकीर्णपुष्पनिकरप्रविभक्तहंसैर्विभ्राजितं त्रिदशदिव्यकुलैरनेकैः ॥२१॥

फुल्लोत्पलांबुजवितानसहस्रयुक्तं तोयाशयैः समनुशोभितदेवमार्गम् ॥
मार्गांतराकलितपुष्पविचित्रपंक्तिसंबद्धगुल्मविटपैर्विविधैरुपेतम् ॥२२॥

तुंगाग्रैर्निलपुष्पैस्तबकभरनतप्रांशुशाखैरशोकैर्दोलाप्रांतांतलीनश्रुतिसुखजनकैर्भासितांतं मनोज्ञैः ॥
रात्रौ चंद्रस्य भासा कुसुमिततिलकैरेकतां संप्रयातं छायासुप्तप्रबुद्धस्तितहरिणकुलालुप्तदूर्वांकुराग्रम् ॥२३॥

हंसानां पक्षवातप्रचलितकमलस्वच्छविस्तीर्णतोयं तोयानां तीरजातप्रचकितकदलीचाटुनृत्यन्मयूरम् ॥
मायूरैः पक्षचंद्रैः क्वचिदवनिगतै रंजितक्ष्माप्रदेशं देशेदेशे विलीनप्रमुदितविलसन्मत्तहारीतवृंदम् ॥२४॥

सारंगैः क्वचिदुपशोभितप्रदेशं प्रच्छन्नं कुसुमचयैः क्वचिद्विचित्रैः ॥
हृष्टभिः क्वचिदपि किन्नरांगनाभिर्वीणाभिः समधुरगीतनृत्तकंठम् ॥२५॥

संसृष्टैः क्वचिदुपलिप्तकीर्णपुष्पैरावासैः परिवृतपादपं मुनीनाम् ॥
आमूलात्फलनिचितैः क्वचिद्विशालैरुत्तुंगैः पनसमहीरुहैरुपेतम् ॥२६॥

फुल्लातिमुक्तकलतागृहनीतसिद्धसिद्धांगनाकनकनूपुररावरम्यम् ॥
रम्यं प्रियंगुतरुमंजरिसक्तभृंगं भृंगावलीकवलिताम्रकदंबपुष्पम् ॥२७॥

पुष्पोत्करानिलविघूर्णितवारिरम्यं रम्यद्विरेफविनिपातितमंजुगुल्मम् ॥
गुल्मांतरप्रसभभीतमृगीसमूहं वातेरितं तनुभृतामपवर्गदातृ ॥२८॥

चंद्रांशुजालशबलैस्तिलकैर्मनोज्ञैः सिंदूरकुंकुमकुसुंभनिभैरशोकैः ॥
चामीकरद्युतिसमैरथ कर्णिकारैः पुष्पोत्करैरुपचितं सुविशालशाखैः ॥२९॥

क्वचिदंजनचूर्णाभैः क्वचिद्विद्रुमसन्निभैः ॥
क्वचित्कांचनसंकाशैः पुष्पैराचितभूतलम् ॥३०॥

पुन्नागेषु द्विजशतविरुतं रक्ताशोकस्तबकभरनतम् ॥
रम्योपांतक्लमहारभवनं फुल्लाब्जेषु भ्रमरविलसितम् ॥३१॥

सकलभुवनभर्ता लोकनाथस्तदानीं तुहिनशिखरपुत्र्या सार्धमिष्टैर्गणेशैः ॥
विविधतरुविशालं मत्तहृष्टान्नपुष्टैरुपवनमतिरम्यं दर्शयामास देव्याः ॥३२॥

पुष्पैर्वन्यैः शुभशुभतमैः कल्पितैर्दिव्यभूषैर्देवीं दिव्यामुपवनगतां भूषयामास शर्वः ॥
सा चाप्येनं तुहिनगिरिसुता शंकरं देवदेवं पुष्पैर्दिव्यैः शुभतरतमैर्भूषयामास भक्त्या ॥३३॥

संपूज्य पूज्यं त्रिदशेश्वराणां संप्रेक्ष्य चोद्यान मतीव रम्यम् ॥
गणेश्वरैर्नादिमुखैश्च सार्धमुवाच देवं प्रणिपत्य देवी ॥३४॥

श्रीदेव्युवाच ॥
उद्यानं दर्शितं देव प्रभया परया युतम् ॥
क्षेत्रस्य च गुणान्सर्वान्पुनर्मे वक्तुमर्हसि ॥३५॥

अस्य क्षेत्रस्य माहात्म्यमविमुक्तस्य सर्वथा ॥
वक्तुमर्हसि देवेश देवेदेव वृषध्वज ॥३६॥

सूत उवाच ॥
देव्यास्तद्वचनं श्रुत्वा देवदेवो वरप्रभुः ॥
आघ्राय वदनांभोजं तदाह गिरिजां हसन् ॥३७॥

श्रीभगवानुवाच ॥
इदं गुह्यतमं क्षेत्रं सदा वाराणसी मम ॥
सर्वेषामेव जंतूनां हेतुर्मोक्षस्य सर्वदा ॥३८॥

अस्मिन्सिद्धाः सदा देवि मदीयं व्रतमास्थिताः ॥
नानालिंगधरा नित्यं मम लोकाभिकांक्षिणः ॥३९॥

अभ्यस्यंति परं योगं युक्तात्मानो जितेंद्रियाः ॥
नानावृक्षसमाकीर्णे नानाविहगशोभिते ॥४०॥

कमलोत्पलपुष्पाढ्यैः सरोभिः समलंकृते ॥
अप्सरोगणगंधर्वैः सदा संसेविते शुभे ॥४१॥

रोचते मे सदा वासो येन कार्येण तच्छृणु ॥
मन्मना मम भक्तश्च मयि नित्यार्पिताक्रियः ॥४२॥

यथा मोक्षमवाप्नोति अन्यत्र न तथा क्वचित् ॥
कामं ह्यत्र मृतो देवी जंतुर्मोक्षाय कल्पते ॥४३॥

एतन्मम पुरं दिव्यं गुह्याद्गुह्यतमं महत् ॥
ब्रह्मादयो विजानंति ये च सिद्धा मुमुक्षवः ॥४४॥

अतः परमिदं क्षेत्रं परा चेयं गतिर्मम ॥
विमुक्तं न मया यस्मान्मोक्ष्यते वा कदाचन ॥४५॥

मम क्षेत्रमिदं तस्मादविमुक्तमिति स्मृतम् ॥
नैमिषे च कुरुक्षेत्रे गंगाद्वारे च पुष्करे ॥४६॥

स्नानात्संसेवनाद्वापि न मोक्षः प्राप्यते यतः ॥
इह संप्राप्यते येन तत एतद्विशिष्यते ॥४७॥

प्रयागे वा भवेन्मोक्ष इह वा मत्परिग्रहात् ॥
प्रयागादपि तीर्थाग्र्यादविमुक्तमिदं शुभम् ॥४८॥

धर्मस्योपनिषत्सत्यं मोक्षस्योपनिष्च्छमः ॥
क्षेत्रतीर्थोपनिषदं न विदुर्बुधसत्तमाः ॥४९॥

कामं भुंजन्स्वपन् क्रीडन् कुर्वन् हि विविधाः क्रियाः ॥
अविमुक्ते त्यजेत्प्राणान् जंतुर्मोक्षाय कल्पते ॥५०॥

कृत्वा पापसहस्राणि पिशाचत्वं वरं नृणाम् ॥
न तु शक्रसहस्रत्वं स्वर्गे काशीपुरीं विना ॥५१॥

तस्मात्संसेवनीयं हि अविमुक्तं हि मुक्तये ॥
जैगीषव्यः परां सिद्धिं गतो यत्र महातपाः ॥५२॥

अस्य क्षेत्रस्य माहात्म्याद्भक्त्या च मम भावितः ॥
जैगीषव्यगुहा श्रेष्ठा योगिनां स्थानमिष्यते ॥५३॥

ध्यायंतस्तत्र मां नित्यं योगाग्निर्दीप्यते भृशम् ॥
कैवल्यं परमं याति देवानामपि दुर्लभम् ॥५४॥

अव्यक्तलिंगैर्मुनिभिः सर्वसिद्धांतवेदिभिः ॥
इह संप्राप्यते मोक्षो दुर्लभोऽन्यत्र कर्हिचित् ॥५५॥

तेभ्यश्चाहं प्रवक्ष्यामि योगैश्वर्यमनुत्तमम् ॥
आत्मनश्चैव सायुज्यमीप्सितं स्थानमेव च ॥५६॥

कुबेरोत्र मम क्षेत्रे मयि सर्वार्पितक्रियः ॥
क्षेत्रसंसेवनादेव गणेशत्वमवाप ह ॥५७॥

संवर्तो भविता यश्च सोपि भक्तो ममैव तु ॥
इहैवाराध्य मां देवि सिद्धिं यास्यत्यनुत्तमाम् ॥५८॥

पराशरसुतौ योगी ऋषिर्व्यासो महातपाः ॥
मम भक्तो भविष्यश्च वेदसंस्थाप्रवतर्कः ॥५९॥

रंस्यते सोपि पद्माक्षि क्षेत्रेऽस्मिन्मुनिपुंगवः ॥
ब्रह्मा देवर्षिभिः सार्द्धं विष्णुर्वापि दिवाकरः ॥६०॥

देवराजस्तता शक्रो येपि चान्ये दिवौकसः ॥
उपासते महात्मानः सर्वे मामिह सुव्रते ॥६१॥

अन्येपि योगिनो दिव्याश्छन्नरूपा महात्मनः ॥
अनन्यमनसो भूत्वा मामिहोपासते सदा ॥६२॥

विषयासक्तचित्तोपि त्यक्तधर्मरतिर्नरः ॥
इह क्षेत्रे मृतः सोपि संसारे न पुनर्भवेत् ॥६३॥

ये पुनर्निर्ममा धीराः सत्त्वस्था विजितेंद्रियाः ॥
व्रतिनश्च निरारंभाः सर्वे ते मयि भाविताः ॥६४॥

देवदेवं समासाद्य धीमंतः संगवर्जिताः ॥
गता इह परं मोक्षं प्रसादान्मम सुव्रते ॥६५॥

जन्मांतरसहस्रेषु यं न योगी समाप्नुयात् ॥
तमिहैव परं मोक्षं प्रसादान्मम सुव्रते ॥६६॥

गोप्रेक्षकमिदं क्षेत्रं ब्रह्मणा स्थापितं पुरा ॥
कैलासवनं चात्र पश्य दिव्यं वरानने ॥६७॥

गोप्रेक्षकमयागम्य दृष्ट्वामामत्र मानवः ॥
न दुर्गतिमवाप्नोति कल्मषैश्च विमुच्यते ॥६८॥

कपिलाह्रदमित्येवं तथा वै ब्रह्मणा कृतम् ॥
गवांस्तन्यजतोयेन तीर्थं पुण्यतमं महत् ॥६९॥

अत्रापि स्वयमेवाहं वृषध्वज इति स्मृतः ॥
सान्नध्यं कृतवान् देवि सदाहं दृश्यते त्वया ॥७०॥

भद्रतोयं च पश्येह ब्रह्मणा च कृतंह्रदम् ॥
सर्वैर्देवैरहं देवी अस्मिन्देशे प्रसादितः ॥७१॥

गच्छोपशममीशोति उपशांतः शिवस्तथा ॥
अत्राहं ब्रह्मणानीय स्थापितः परमेष्ठिना ॥७२॥

ब्रह्मणा चापि संगृह्य विष्णुना स्थापितः पुनः ॥
ब्रह्मणापि ततो विष्णुः प्रोक्तः संविग्नचेतसा ॥७३॥

मयानीतमिदं लिंगंकस्मात्स्थापितवानसि ॥
तमुवाच पुनर्विष्णुर्ब्रह्मणं कुपिताननम् ॥७४॥

रुद्रे देवे ममात्यंतं परा भक्तिर्महत्तरा ॥
मयैव स्थापितं लिंगंतव नाम्ना भविष्यति ॥७५॥

हिरण्यगर्भ इत्येवं ततोत्राहं समास्थितः ॥
दृष्ट्वैनमपि देवेशं मम लोकं व्रजेन्नरः ॥७६॥

ततः पुनरपि ब्रह्मा मम लिंगमिदं शुभम् ॥
स्थापयामास विधिवद्भक्त्या परमया युतः ॥७७॥

स्वर्लीनेश्वर इत्येवमत्राहं स्वयमागतः ॥
प्राणानिहनरस्त्यक्त्वा न पुनर्जायते क्वचित् ॥७८॥

अनन्या सा गतिस्तस्य योगिनां चैव या स्मृता ॥
अस्मिन्नपि मया देशे दैत्यो दैवतकंटकः ॥७९॥

व्याघ्ररूपं समास्थाय निहतो दर्पितो बली ॥
व्याघ्रेश्वर इति ख्यातो नित्यमत्राहमास्थितः ॥८०॥

न पुनर्दुर्गतिं याति दृष्ट्वैनं व्याघ्रमीश्वरम् ॥
उत्पलो विदलश्चैव यौ दैत्यौ ब्रह्मणा पुरा ॥८१॥

स्त्रीवध्यौ दर्पितौ दृष्ट्वा त्वयैव निहतौ रणे ॥
सावज्ञं कंदुकेनात्र तस्येदं देहमास्थितम् ॥८२॥

आदावत्राहमागम्य प्रस्थितो गणपैः सह ॥
ज्येष्ठस्थानमिदं तस्मादेतन्मे पुण्यदर्शनम् ॥८३॥

देवैः समंतादेतानि लिंगानि स्तापितान्यतः ॥
दृष्ट्वापि नियतो मर्त्यो देहभेदे गणो भवेत् ॥८४॥

पित्रा ते शैलराजेन पुरा हिमवता स्वयम् ॥
मम प्रियहितं स्थानं ज्ञात्वा लिंगं प्रतिष्ठितम् ॥८५॥

शैलेश्वरमिति ख्यातं दृश्यतामिह चादरात् ॥
दृष्ट्वैतन्मनुजो देवि न दुर्गतिमतो व्रजेत् ॥८६॥

नद्येषा वरुणा देवि पुण्या पापप्रमोचनी ॥
क्षेत्रमेतदलंकृत्य जाह्नव्या सह संगता ॥८७॥

स्थापितं ब्रह्मणा चापि संगमे लिंगमुत्तमम् ॥
सगमेश्वरमित्येवं ख्यातं जगति दृश्यताम् ॥८८॥

संगमे देवनद्या हि यः स्नात्वा मनुजः शुचिः ॥
अर्चयेत्संगमेशानं तस्य जन्मभयं कुतः ॥८९॥

इदं मन्ये महाक्षेत्रं निवासो योगिनां परम् ॥
क्षेत्रमध्ये च यत्राहं स्वयं भूत्वाऽग्रमास्थितः ॥९०॥

मध्यमेश्वरमित्येवं ख्यातः सर्वसुरासुरैः ॥
सिद्धानां स्थानमेतद्धि मदीयव्रतधारिणाम् ॥९१॥

योगिनां मोक्षलिप्सूनां ज्ञानयोगरतात्मनाम् ॥
दृष्ट्वैनं मध्यमेशानं जन्मप्रति न शोचति ॥९२॥

स्थापितं लिंगमेतत्तु शुक्रेण भृगुसूनुना ॥
नाम्ना शुक्रेश्वरं नाम सर्वसिद्धामरार्चितम् ॥९३॥

दृष्ट्वैनं नियतः सद्यो मुच्यते सर्वकिल्बिपैः ॥
मृतश्च न पुनर्जंतुः संसारी तु भवेन्नरः ॥९४॥

पुरा जंबुकरूपेण असुरो देवकंटकः ॥
ब्रह्मणो हि वरं लब्ध्वा गोमायुर्बंधशंकितः ॥९५॥

निहतो हिमवत्पुत्रि जंबुकेशस्ततो ह्यहम् ॥
अद्यापि जगति ख्यातं सुरासुरनमस्कृतम् ॥९६॥

दृष्ट्वैनमपि देवेशं सर्वान्कामानवाप्नुयात् ॥
ग्रहैः शुक्रपुरोगैश्च एतानि स्थापितानि ह ॥९७॥

पश्य पुण्यानि लिंगानि सर्वकामप्रदानि तु ॥
एवमेतानि पुण्यानि मन्निवासानि पार्वति ॥९८॥

कथितानि मम क्षेत्रे गुह्यं चान्यदिदं श्रृणु ॥
चतुःक्रोशं चतुर्दिक्षु क्षेत्रमेतत्प्रकीर्तितम् ॥९९॥

योजनं विद्धि चार्वंगि मृत्युकालेऽमृतप्रदम् ॥
महालयगिरिस्थं मां केदारे च व्यवस्तितम् ॥१००॥

गणत्वं लभते दृष्ट्वा ह्यस्मिन्मोक्षो ह्यवाप्यते ॥
गाणपत्यं लभेद्यस्माद्यतः सा मुक्तिरुत्तमा ॥१०१॥

ततो महालयात्तस्मात्केदारान्मध्यमादपि ॥
स्मृतं पुण्यतमं क्षेत्रमविमुक्तं वरानने ॥१०२॥

केदारं मध्यमं क्षेत्रं स्थानं चैव महालयम् ॥
मम पुण्यानि भूर्लोके तेभ्यः श्रेष्ठतमं त्विदम् ॥१०३॥

यतः सृष्टास्त्विमे लोकास्ततः क्षेत्रमिदं शुभम् ॥
कदाचिन्न मया मुक्तमविमुक्तं ततोऽभवत् ॥१०४॥

अविमुक्तेश्वरं लिंगं मम दृष्ट्वेह मानवः ॥
सद्यः पापविनिर्मुक्तः पशुपाशैर्विमुच्यते ॥१०५॥

शैलेशं संगमेशं च स्वर्लीनं मध्यमेश्वरम् ॥
हिरण्यगर्भर्मीशानं गोप्रेक्षं वृषभध्वजम् ॥१०६॥

उपशांतं शिवं चैव ज्येष्ठस्थाननिवासिनम् ॥
शुक्रेश्वरं च विख्यातं व्याघ्रेशं जंबुकेश्वरम् ॥१०७॥

दृष्ट्वा न जायते मर्त्यः संसारे दुःखसागरे ॥
सूत उवाच ॥
एमुक्त्वा महादेवो दिशः सर्वा व्यलोकयत् ॥१०८॥

विलोक्य संस्थिते पश्चाद्देवदेवे महेश्वरे ॥
अकस्मादभवत्सर्वः स देशोज्ज्वलितो यथा ॥१०९॥

ततः पाशुपताः सिद्धा भस्माभ्यंगसितप्रभाः ॥
माहेश्वरा महात्मानस्तथा वै नियतव्रताः ॥११०॥

बहवः शतशोभ्येत्य नमश्चक्रुर्महेश्वरम् ॥
पुनर्निरीक्ष्य योगेशं ध्यानयोगं च कृत्स्नशः ॥१११॥

तस्थुरात्मानमास्थाय लीयमाना इवेश्वरे ॥
स्थितानां स तदा तेषां देवदेव उमापतिः ॥११२॥

स बिभ्रत्परमां मूर्ति बभूव पुरुषः प्रभुः ॥
कृत्स्नं जगदिहैकस्थं कर्तुभंत इव स्थितः ॥११३॥

तस्य तां परमां मूर्तिमास्थितस्य जगत्प्रभोः ॥
न शशाक पुनर्द्रष्टुं हृष्टरोमा गिरिंद्रजा ॥११४॥

ततस्त्वदृष्टमाकारं बुध्वा सा प्रकृतिस्थितम् ॥
प्रकृतेर्मूर्तिमास्थाय योगेन परमेश्वरी ॥११५॥

तं शशाक पुनर्द्रष्टुं हरस्यच महात्मनः ॥
ततस्ते लयमाधाय योगिनः पुरुषस्य तु ॥११६॥

विविशुर्हृदयं सर्वे दग्धसंसारबीजिनः ॥
पंचाक्षरस्य वै बीजं संस्मरंतः सुशोभनम् ॥११७॥

सर्वपापहरं दिव्यं पुरा चैव प्रकाशितम् ॥
नीललोहितमूर्तिस्थं पुनश्चक्रे वपुः शुभम् ॥११८॥

तं दृष्ट्वा शैलजा प्राह हृष्टसर्वतनूरुहा ॥
स्तुवती चरणौ नत्वा क इमे भगवन्निति ॥११९॥

तामुवाच सुरश्रेष्ठस्तदा देवीं गिरद्रिजाम् ॥
श्रीभगवानुवाच ॥
मदीयं व्रतमाश्रित्य भक्तिमद्भिर्द्विजोत्तमैः ॥१२०॥

यैर्यैर्योगा इहाभ्यस्ता स्तेषामेकेन जन्मना ॥
क्षेत्रस्यास्य प्रभावेन भक्त्या च मम भामिनि ॥१२१॥

अनुग्रजो मया ह्येवं क्रियते मूर्तितः स्वयम् ॥
तस्मादेतन्महत्क्षेत्रं ब्रह्माद्यैः सेवितं तथा ॥१२२॥

श्रुतिमद्भिश्च विप्रेंद्रैः संसिद्धैश्च तपस्विभिः ॥
प्रतिमासं तथाष्टम्यां प्रतिमासं चतुर्दशीम् ॥१२३॥

उभयोः पक्षयोर्देवि वाराणस्यामुपास्यते ॥
शशिभानूपरागे च कार्तिक्यां च विशेषतः ॥१२४॥

सर्वपर्वसु पुण्येषु विषुवेष्वयनेषुच ॥
पृथिव्यां सर्वतीर्थानि वाराणस्यां तु जाह्नवीम् ॥१२५॥

उत्तरप्रवहां पुण्यां मम मौलिविनिःसृताम् ॥
पितुस्ते गिरिराजस्य शुभां हिमवतः सुताम् ॥१२६॥

पुण्यस्थानस्थितां पुण्यां पुण्यदिक्‌प्रवहां सदा ॥
भजंते सर्वतोऽभ्येत्य ये ताञ्छुणु वरानने ॥१२७॥

संनिहत्य कुरुक्षेत्रं सार्धं तीर्थशतैस्तथा ॥
पुष्करं निमिषं चैव प्रयागं च पृथूदकम् ॥१२८॥

द्रुमक्षेत्रं कुरुक्षेत्रं नैमिषं तीर्थसंयुतम् ॥
क्षेत्राणि सर्वतो देवी देवता ऋषयस्तथा ॥१२९॥

संध्या च ऋतवश्चैव सर्वा नद्यः सरांसि च ॥
समुद्राः सप्त चैवात्र देवतीर्थानि कृत्स्नशः ॥१३०॥

भागीरथीं समेष्यंति सर्वपर्वसु सुव्रते ॥
अविमुक्तेश्वरं दृष्ट्वा दृष्ट्वा चैव त्रिविष्टपम् ॥१३१॥

कालभैरवमासाद्य धूतपापानि सर्वशः ॥
भवंति हि सुरेशानि सर्वपर्वसु पर्वसु ॥१३२॥

पृथिव्यां यानि पुण्यानि महांत्यायतनानि च ॥
प्रविशंति सदाभ्येत्य पुण्यं पर्वसुपर्वसु ॥

अविमुक्तं क्षेत्रवरं महापापनिबर्हणम् ॥१३३॥
केदारे चैव यल्लिंगं यच्च लिंगं महालये ॥१३४॥

मध्यमेस्वरसंज्ञं च तथा पाशुपतेश्वरम् ॥
शंकुकर्णेश्वरं चैव गोकर्णौ च तथा ह्युभौ ॥१३५॥

द्रुमचंडेश्वरं नाम भद्रेश्वरमनुत्तमम् ॥
स्थानेश्वरं तथैकाग्रं कालेश्वरमजेश्वरम् ॥१३६॥

भैरवेश्वरमीशानं तथोंकारकसंज्ञितम् ॥
अमरेशं महाकालं ज्योतिषं भस्मगात्रकम् ॥१३७॥

यानि चान्यानि पुण्यानि स्थानानि मम भूतले ॥
अष्टषष्टिसमाख्यानि रुढान्यन्यानि कृत्स्नशः ॥१३८॥

तानि सर्वाण्यशेषाणि वाराणस्यां विशंति माम् ॥
सर्वपर्वसु पुण्येषु गुह्यं चैतदुदाहृतम् ॥१३९॥

तेनेह लभते जंतुर्मृतो दिव्यामृतं पदम् ॥
स्नातस्य चैव गंगायां दृष्टेन च मया शुभे ॥१४०॥

सर्वयज्ञफलैस्तुल्यमिष्टैः शतसहस्रशः ॥
सद्य एव समाप्नोति किं ततः परमाद्भुतम् ॥१४१॥

सर्वायतनमुख्यानि दिवि भूमौ गिरिष्वपि ॥
परात्परतरं देवी बुध्यस्वेति मयोदितम् ॥१४२॥

अविशब्देन पापस्तु वेदोक्तः कथ्यते द्विजैः ॥
तेन मुक्तं मया जुष्टमविमुक्तमतोच्यते ॥१४३॥

इत्युक्त्वा भगवान् रुद्रः सर्वलोकमहेश्वरः ॥
सुदृष्टं कुरु देवेशि अविमुक्तं गृहं मम ॥१४४॥

इत्युक्तवा भगवान्देवस्तथा सार्धमुमापतिः ॥
दर्शयामास भगवान् श्रीपर्वतमनुत्तमम् ॥१४५॥

अविमुक्तेश्वरे नित्यमवसच्च सदा तया ॥
सर्वगत्वाच्च सर्वत्वात्सर्वात्मा सदसन्मयः ॥१४६॥

श्रीपर्वतमनुप्राप्यदेव्या देवेश्वरो हरः ॥
क्षेत्राणि दर्शयामास सर्वभूतपतिर्भवः ॥१४७॥

कुण्डिप्रभे च परमं दिव्यं वैश्रवणेश्वरम् ॥
आशालिंगं च देवेशं दिव्यंयच्च बिलेश्वरम् ॥१४८॥

रामेश्वरं च परमं विष्णुना यत्प्रतिष्ठितम् ॥
दक्षिणद्वारपार्श्वे तु कुंडलेश्वरमीश्वरम् ॥१४९॥

पूर्वद्वारसमीपस्थं त्रिपुरांतकमुत्तमम् ॥
विवृद्धं गिरिणा सार्धं देवदेवनमस्कृतम् ॥१५०॥

मध्यमेश्वरमित्युक्तं त्रिषु लोकेषु विश्रुतम् ॥
अमरेश्वरं च वरदं देवैः पूर्वं प्रतिष्टितम् ॥१५१॥

गोचर्मेश्वरमीशानं तथेंद्रेश्वरमद्भुतम् ॥
कर्मेश्वरं च विपुलं कार्यार्थं ब्रह्मणा कृतम् ॥१५२॥

श्रीमत्सिद्धवटंचैव सदावासो ममाव्यये ॥
अजेन निर्मितं दिव्यं साक्षादजबिलं शुभम् ॥१५३॥

तत्रैव पादुके दिव्ये मदीये च बिलेश्वरे ॥
तत्र श्रृंगाटकाकारं श्रृंगाटाचलमध्यमे ॥१५४॥

श्रृंगाटकेश्वरं नाम श्रीदेव्या तु प्रतिष्ठितम् ॥
मल्लिकार्जुनकं चैव मम वासमिदं शुभम् ॥१५५॥

रजेश्वरं च पर्याये रजसा सुप्रतिष्ठितम् ॥
गजेश्वरं च वैशाखं कपोतेश्वरमव्ययम् ॥१५६॥

कोटीश्वरं महातीर्थं रुद्रकोटिगणैः पुरा ॥
सेवितं देवि पश्याद्य सर्वस्मादधिकं शुभम् ॥१५७॥

द्विदेवकुलसंज्ञं च ब्रह्मणा दक्षिणे शुभम् ॥
उत्तरे स्थापितं चैव विष्णुना चैव शैलजम् ॥१५८॥

महाप्रमाणलिंगं च मया पूर्वं प्रतिष्ठितम् ॥
पश्चिमे पर्वते पश्य ब्रह्मेश्वरमलेश्वरम् ॥१५९॥

अलंकृतं त्वया ब्रह्मन् परुस्तान्मुनिभिः सह ॥
इत्युक्त्वा तद्गृहे तिष्ठदलंगृहमिति समृतम् ॥१६०॥

तत्रापि तीर्थं तीर्थज्ञे व्योमलिंगं च पश्य मे ॥
कदंबेश्वरमेतद्धिस्कंदेनैव प्रतिष्ठितम् ॥१६१॥

गोमंलेश्वरं चैव नंदाद्यैः सुप्रतिष्ठितम् ॥
देवैः सर्वैस्तु शक्राद्यैः स्तापितानि वरानने ॥१६२॥

श्रीमद्देवह्रदप्रांते स्थानानीमानि पस्य मे ॥
तथा हारपुरे देवि तव हारे निपातिते ॥१६३॥

त्वया हिताय जगतां हारकुंडमिदं कृतम् ॥
शिवरुद्रपुरे चैव तत्कायोपरि सुव्रते ॥१६४॥

तत्र पित्रा सुशैलेन स्तापितं त्वचलेश्वरम् ॥
अलंकृतं मया ब्रह्मपुरस्तान्मुनिभिः सह ॥१६५॥

चंडिकेश्वरकं देवि चंडिकेशा तवात्मजा ॥
चंडिकानिर्मितं स्थानमंबिकातीर्थमुत्तमम् ॥१६६॥

रुचिकेश्वरकं चैव धारैषा कपिला शुभा ॥
एतेषु देवि स्थानेषु तीर्थेषु विविधेषु च ॥१६७॥

पूजयेन्मां सदा भक्त्या मया सार्धं हि मोदते ॥
श्रीशैले संत्यजेद्देहं ब्राह्मणो दग्धकिल्बिषः ॥१६८॥

मुच्यते नात्र संदेहो ह्यविमुक्ते यथा शुभम् ॥
महास्नानं च यः कुर्याद्‌घृतेन विधिनैव तु ॥१६९॥

स याति मम सायुज्यं स्थानेष्वेतेषु सुव्रते ॥
स्नानं पलशतं ज्ञेयमभ्यंगं पंचविंशति ॥१७०॥

पलानां द्वे सहस्रे तु महास्नानं प्रकीर्तितम् ॥
स्नाप्य लिंगं मदीयं तु गव्येनैव घृतेन च ॥१७१॥

विशोध्य सर्वद्रव्यैस्तु वारिभिरभिषिंचति ॥
संमार्ज्य शतयज्ञानां स्नानेन प्रयुतं तथा ॥१७२॥

पूजया शतसाहस्रमनंतं गीतवादिनाम् ॥
महास्नाने प्रसक्तं तु स्नानमष्टगुणं स्मृतम् ॥१७३॥

जलेन केवलेनैव गंधतोयेन भक्तितः ॥
अनुलेपनं तु तत्सर्वं पंचविंशत्पलेन वै ॥१७४॥

शमिपुष्पं च विधिना बिल्वपत्रं च पंकजम् ॥
अन्यान्यपि च पुष्पाणि बिल्वपत्रं न संत्यजेत् ॥१७५॥

चतुर्द्रोणैर्महादेवमष्टद्रोणैरथापि वा।
दशद्रोणैस्तु नैवेद्यमष्टद्रोणैरथापि वा ॥१७६॥

शतद्रोणसमं पुण्यमाढकेपि विधीयते ॥
वित्तहीनस्य विप्रस्य नात्र कार्या विचारणा ॥१७७॥

भेरीमृदंगमुरजातिमिरापटहादिभिः ॥
वादित्रैर्विविधैश्चान्यैर्निनादैर्विविधैरपि ॥१७८

जागरं कारयेद्यस्तु प्रार्थयेच्च यथाक्रमम् ॥
स भृत्यपुत्रदारैश्च तथा संबंधिबान्धवैः ॥१७९॥

सार्धं प्रदक्षिणं कृत्वा पार्थयेल्लिंगमुत्तमम् ॥
द्रव्यहीनं क्रियाहीनं श्रद्धाहीनं सुरेश्वर ॥१८०॥

कृतं वा न कृतं वापि क्षंतुमर्हसि शंकर ॥
इत्युक्त्वा वै जपेद्रुद्रं त्वरितं शांतिमेव च ॥१८१॥

जपित्वैवं महाबीजं तथा पंचाक्षरस्य वै ॥
स एवं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् ॥१८२॥

तत्फलं समवाप्नोति वाराणस्यां यथा मृतः ॥
तथैव मम सायुज्यं लभते नात्र संशयः ॥१८३॥

मत्प्रियार्थमिदं कार्यं मद्भक्तैर्विधिपूर्वकम् ॥
ये न कुर्वंति ते भक्ता न भवंति न संशयः ॥१८४॥

सूत उवाच ॥
निशम्य वचनं देवी गत्वा वाराणसीं पुरीम् ॥
अविमुक्तेश्वरं लिंगं पयसा च घृतेन च ॥१८५॥

अर्चयामास देवेशं रुद्रं भुवननायकम् ॥
अविमुक्ते च तपसा मंदरस्य महात्मनः ॥१८६॥

कल्पयामास वै क्षेत्रं मंदरे चारुकंदरे ॥
तत्रांधकं महादैत्यं हिरण्याक्षसुतं प्रभुः ॥१८७॥

अनुगृह्य गणत्वं च प्रापयामास लीलया ॥
एतद्वः कथितं सर्वं कथासर्वस्वमादरात् ॥१८८॥

यः पठेच्छृणुयाद्वापि क्षेत्रमाहात्म्यमुत्तमम् ॥
सर्वक्षेत्रेषु यत्पुण्यं तत्सर्वं सहसा लभेत् ॥१८९॥

श्रावयेद्वा द्विजान्सर्वान् कृतशौचान् जितेंद्रियान् ॥
स एव सर्वयज्ञस्य फलं प्राप्नोति मानवः ॥१९०॥

इति श्रीलिंगमहापुराणे पूर्वभागे वाराणसीशैलमाहात्म्यकथनं नामद्विनवतितमोऽध्यायः ॥९२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP