संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः १७

पूर्वभागः - अध्यायः १७

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


सूत उवाच ॥
एवं संक्षेपतः प्रोक्तः सद्यादीनां समुद्भवः ॥
यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान् ॥१॥

स याति ब्रह्मसायुज्यं प्रसादात्परमेष्ठिनः ॥
ऋषय ऊचुः ॥
कथं लिंगमभूल्लिंगे समभ्यर्च्यः स शंकरः ॥२॥

किं लिंगं कस्तथा लिंगी सूत वक्तुमिहार्हसि ॥
रोमहर्षण उवाच ॥
एवं देवाश्च ऋषयः प्रणिपत्य पितामहम् ॥३॥

अपृच्छन् भगवाँल्लिंगं कथमासीदिति स्वयम् ॥
लिंगे महेश्वरो रुद्रः समभ्यर्च्यः कथं त्विति ॥४॥

किं लिंगं कस्तथा लिंगी सोप्याह च पितामहः ॥
पितामह उवाच ॥
प्रधानं लिंगमाख्यातं लिंगी च परमेश्वरः ॥५॥

रक्षार्थमंबुधौ मह्यं विष्णोस्त्वासीत्सुरोत्तमाः ॥
वैमानिके गते सर्गे जनलोकं सहर्षिभिः ॥६॥

स्थितिकाले तदा पूर्णे ततः प्रत्याहृते तथा ॥
चतुर्युगसहस्रांते सत्यलोकं गते सुराः ॥७॥

विनाधिपत्यं समतां गतेऽन्ते ब्रह्मणो मम ॥
शुष्के च स्थावरे सर्वे त्वनावृष्ट्या च सर्वशः ॥८॥

पशवो मानुषा वृक्षाः पिशाचाः पिशिताशनाः ॥
गंधर्वाद्याः क्रमेणैव निर्दग्धा भानुभानुभिः ॥९॥

एकार्णवे महाघोरे तमोभूते समंततः ॥
सुष्वापांभसि योगात्मा निर्मलो निरुपप्लवः ॥१०॥

सहस्रशीर्षा विश्वात्मा सहस्राक्षः सहस्रपात् ॥
सहस्रबाहुः सर्वज्ञः सर्वदेवभवोद्भवः ॥११॥

हिरण्यगर्भो रजसा तमसा शंकरः स्वयम् ॥
सत्त्वेन सर्वगो विष्णुः सर्वात्मत्वे महेश्वरः ॥१२॥

कालात्मा कालनाभस्तु शुक्लः कृष्णस्तु निर्गुणः ॥
नारायणो महाबाहुः सर्वात्मा सदसन्मयः ॥१३॥

तथाभूतमहं दृष्ट्वा शयानं पंकजेक्षणम् ॥
मायया मोहितस्तस्य तमवोचममर्षितः ॥१४॥

कस्त्वं वदेति हस्तेन समुत्थाप्य सनातनम् ॥
तदा हस्तप्रहारेण तीव्रेण स दृढेन तु ॥१५॥

प्रबुद्धोहीयशयनात्समासीनः क्षणं वशी ॥
ददर्श निद्राविक्लिन्न नीरजामललोचनः ॥१६॥

मामग्रे संस्थितं भासाध्यासितो भगवान् हरिः ॥
आह चोत्थाय भगवान् हसन्मां मधुरं सकृत् ॥१७॥

स्वागतंस्वागतं वत्स पितामह महाद्युते ॥
तस्य तद्वचनं श्रुत्वा स्मितपूर्वं सुरर्षभाः ॥१८॥

रजसा बद्धवैरश्च तमवोचं जनार्दनम् ॥
भाषसे वत्सवत्सेति सर्गसंहारकारणम् ॥१९॥

मामिहांतः स्मितं कृत्वा गुरुः शिष्यमिवानघ ॥
कर्तारं जगतां साक्षात्प्रकृतेश्च प्रवर्तकम् ॥२०॥

सनातनमजं विष्णुं विरिंचिं विश्वसंभवम् ॥
विश्वात्मानं विधातारं धातारं पंकजेक्षणम् ॥२१॥

किमर्थं भाषसे मोहाद्वक्तुमर्हासि सत्वरम् ॥
सोपि मामाह जगतां कर्ताहमिति लोकय ॥२२॥

भर्ता हर्ता भवानंगादवतीर्णो ममाव्ययात् ॥
विस्मृतोऽसि जगन्नाथं नारायणमनामयम् ॥२३॥

पुरुषं परमात्मानं पुरुहूतं पुरुष्टुतम् ॥
विष्णुमच्युतमीशानं विश्वस्य प्रभवोद्भवम् ॥२४॥

तवापराधो नास्त्यत्र मम मायाकृतं त्विदम् ॥
श्रृणु सत्यं चतुर्वक्त्र सर्वदेवेश्वरो ह्ययम् ॥२५॥

कर्ता नेता च हर्ता च न मयास्ति समो विभुः ॥
अहमेव परं ब्रह्म परं तत्त्वं पितामह ॥२६॥

अहमेव परं ज्योतिः परमात्मा त्वहं विभुः ॥
यद्यदृष्टं श्रुतं सर्वं जगत्यस्मिंश्चराचरम् ॥२७॥

तत्तद्विद्धि चतुर्वक्त्र सर्वं मन्मयमित्यथ ॥
मया सृष्टं पुराव्यक्तं चतुर्विशतिकं स्वयम् ॥२८॥

नित्यांता ह्यणवो बद्धाः सृष्टाः क्रोधोद्भवादयः ॥
प्रसादाद्धि भवानंडान्यनेकानीह लीलया ॥२९॥

सृष्टा बुद्धिर्मया तस्यामहंकारस्त्रिधा ततः ॥
तन्मात्रापंचकं तस्मान्मनः षष्ठेन्द्रियाणि च ॥३०॥

आकाशादीनि भूतानि भौतिकानि च लीलया ॥
इत्युक्तवति तस्मिंश्च मयि चापि वचस्तथा ॥३१॥

आवयोश्चाभवद्युद्धं सुघोरं रोमहर्षणम् ॥
प्रलयार्णवमध्ये तु रजसा बद्धवैरयोः ॥३२॥

एतस्मिन्नन्तरे लिंगमभवच्चावयोः पुरः ॥
विवादशमनार्थं हि प्रबोधार्थं च भास्वरम् ॥३३॥

ज्वालामालासहस्राढ्यं कालानलशतोपमम् ॥
क्षयवृद्धिविनिर्मुक्तमादिमध्यांतवर्जितम् ॥३४॥

अनौपम्यमनिर्देश्यमव्यक्तं विश्वसंभवम् ॥
तस्य ज्वालासहस्रेण मोहितो भगवान् हरिः ॥३५॥

मोहितं प्राह मामत्र परिक्षावोऽग्निसंभवम् ॥
अधोगमिष्याम्यनलस्तंभस्यानुपमस्य च ॥३६॥

भवानूर्द्ध्वं प्रयत्नेन गंतुमर्हसि सत्वरम् ॥
एवं व्याहृत्य विश्वात्मा स्वरूपमकरोत्तदा ॥३७॥

वाराहमहमप्याशु हंसत्वं प्राप्तवान्सुराः ॥
तदाप्रभृति मामाहुर्हंसं हंसो विराडिति ॥३८॥

हंसहंसेति यो ब्रूयान्मां हंसः स भविष्यति ॥
सुश्वेतो ह्यनलाक्षश्च विश्वतः पक्षसंयुतः ॥३९॥

मनोनिलजवो भूत्वा गतोहं चोर्ध्वतः सुराः ॥
नारायणोपि विश्वात्मा नीलांजनचयोपमम् ॥४०॥

दशयोजनविस्तीर्णं शतयोजनमायतम् ॥
मेरुपर्वतवर्ष्माणं गौरतीक्ष्णाग्रदंष्ट्रिणम् ॥४१॥

कालादित्यसमाभासं दीर्घघोणं महास्वनम् ॥
ह्रस्वपादं विचित्रांगं जैत्रं दृढमनौपमम् ॥४२॥

वाराहमसितं रूपमास्थाय गतवानधः ॥
एवं वर्षसहस्रं तु त्वरन्विष्णुरधोगतः ॥४३॥

नापश्यदल्पमप्यस्य मूलं लिंगस्य सूकरः ॥
तावत्कालं गतोह्यूर्द्ध्वमहमप्यरिसूदनः ॥४४॥

सत्वरं सर्वयत्नेन तस्यान्तं ज्ञातुमिच्छया ॥
श्रांतो ह्यदृष्ट्वा तस्यांतमहङ्कारादधोगतः ॥४५॥

तथैव भगवान् विष्णुः श्रांतः संत्रस्तलोचनः ॥
सर्वदेवभवस्तूर्णमुत्थितः सः महावपुः ॥४६॥

समागतो मया सार्धं प्रणिपत्य महामनाः ॥
मायया मोहितः शंभोस्तस्थौ संविग्नमानसः ॥४७॥

पृष्ठतः पार्श्वतश्चैव चाग्रतः परमेश्वरम् ॥
प्रणिपत्य मया सार्धं सस्मार किमिदं त्विति ॥४८॥

तदा समभवत्तत्र नादो वै शब्दलक्षणः ॥
ओमोमिति सुरश्रेष्ठाः सुव्यक्तः प्लुतलक्षणः ॥४९॥

किमिदं त्विति संचित्य मया तिष्ठन्महास्वनम् ॥
लिंगस्य दक्षिणे भागे तदापश्यत्सनातनम् ॥५०॥

आद्यवर्णमकारं तु उकारं चोत्तरे ततः ॥
मकारं मध्यतश्चैव नादांतं तस्य चोमिति ॥५१॥

सूर्यमंडलवद्दृष्ट्वा वर्णमाद्यं तु दक्षिणे ॥
उत्तरे पावकप्रख्यमुकारं पुरुषर्षभः ॥५२॥

शीतांशुमंडलप्रख्यं मकारं मध्यमं तथा ॥
तस्योपरि तदापश्यच्छुद्धस्फटिकवत् प्रभुम् ॥५३॥

तुरीयातीतममृतं निष्कलं निरुपप्लवम् ॥
निर्द्वंद्वं केवलं शून्यं बाह्याभ्यंतरवर्जितम् ॥५४॥

सबाह्याभ्यंतरं चैव सबाह्याभ्यंतरस्थितम् ॥
आदिमध्यांतरहितमानंदस्यापि कारणम् ॥५५॥

मात्रास्तिस्रस्त्वर्धमात्रं नादाख्यं ब्रह्मसंज्ञितम् ॥
ऋग्यजुःसामवेदा वै मात्रारूपेण माधवः ॥५६॥

वेदशब्देभ्य एवेशं विश्वात्मानमचिंतयत् ॥
तदाभवदृषिर्वेद ऋषेः सारतमं शुभम् ॥५७॥

तेनैव ऋषिणा विष्णुर्ज्ञातवान्परमेश्वरम् ॥
देव उवाच ॥
चिंतया रहितो रुद्रो वाचो यन्मनसा सह ॥५८॥

अप्राप्य तं निवर्तंते वाच्यस्त्वेकाक्षरेण सः ॥
एकाक्षरेण तद्वाच्यमृतं परमकारणम् ॥५९॥

सत्यमानंदममृतं परं ब्रह्म परात्परम् ॥
एकाक्षरादकाराख्यो भगवान्कनकांडजः ॥६०॥

एकाक्षरादुकाराख्यो हरिः परमकारणम् ॥
एकाक्षरान्मकाराख्यो भगवान्नीललोहितः ॥६१॥

सर्गकर्ता त्वकाराख्यो ह्युकाराख्यस्तु मोहकः ॥
मकाराख्यास्तयोर्नित्यमनुग्रहकरोऽभवत् ॥६२॥

मकाराख्यो विभुर्बीजी ह्यकारो बीजमुच्यते ॥
उकाराख्यो हरिर्योनिः प्रधानपुरुषेश्वरः ॥६३॥

बीजी च बीजं तद्योनिर्नादाख्यश्च महेश्वरः ॥
बीजी विभज्य चात्मानं स्वेच्छया तु व्यवस्थितः ॥६४॥

अस्य लिंगादभूद्बीजमकारो बीजिनः प्रभोः ॥
उकारयोनौ निक्षिप्तमवर्धत समंततः ॥६५॥

सौवर्णमभवच्चांडमावेष्ट्याद्यं तदक्षरम् ॥
अनेकाब्दं तथा चाप्सु दिव्यमंडं व्यवस्थितम् ॥६६॥

ततो वर्षसहस्रांते द्विधा कृतमजोद्भवम् ॥
अंडमप्सु स्थितं साक्षादाद्याख्येनेश्वरेण तु ॥६७॥

तस्यांडस्य शुभं हैमं कपालं चोर्द्ध्वसंस्थितम् ॥
जज्ञे यद्द्यौस्तदपरं पृथिवी पंचलक्षणा ॥६८॥

तस्मादंडोद्भवो जज्ञे त्वकाराख्यश्चतुर्मुखः ॥
स स्रष्टा सर्वलोकानां स एव त्रिविधः प्रभुः ॥६९॥

एवमोमोमिति प्रोक्तमित्याहुर्यजुषां वराः ॥
यजुषां वचनं श्रुत्वा ऋचः सामानि सादरम् ॥७०॥

एवमेव हरे ब्रह्मन्नित्याहुः श्रुतयस्तदा ॥
ततो विज्ञाय देवेशं यथावच्छ्रुतिसंभवैः ॥७१॥

मंत्रैर्महेश्वरं देवं तुष्टाव सुमहोदयम् ॥
आवयोः स्तुतिसंतुष्टो लिंगे तस्मिन्निरंजनः ॥७२॥

दिव्यं शब्दमयं रूपमास्थाय प्रहसन् स्थितः ॥
अकारस्तस्य मूर्द्धा तु ललाटं दीर्घमुच्यते ॥७३॥

इकारो दक्षिणं नेत्रमीकारो वामलोचनम् ॥
उकारो दक्षिणं श्रोत्रमूकारो वाममुच्यते ॥७४॥

ऋकारो दक्षिणं तस्य कपोलं परमेष्ठिनः ॥
वामं कपोलमॄकारो लृलॄ नासापुटे उभे ॥७५॥

एकारमोष्ठमूर्द्ध्वश्च एकारस्त्वधरो विभोः ॥
ओकारश्च तथौकारो दंतपंक्तिद्वयं क्रमात्७६॥

अमस्तु तालुनी तस्य देवदेवस्य धीमतः ॥
कादिपंचाक्षराण्यस्य पंच हस्तानि दक्षिणे ॥७७॥

चादिपंचाक्षराण्येवं पंच हस्तानि वामतः ॥
टादिपंचाक्षरं पादस्तादिपंचाक्षरं तथा ॥७८॥

पकारमुदरं तस्य फकारः पार्श्वमुच्यते ॥
बकारो वामपार्श्वं वै भकारं स्कंधमस्य तत् ॥७९॥

मकारं हृदयं शंभोर्महादेवस्य योगिनः ॥
यकारादिसकारांतं विभोर्वै सप्त धातवः ॥८०॥

हकार आत्मरूपं वै क्षकारः क्रोध उच्यते ॥
तं दृष्ट्वा उमया सार्द्धं भगवंतं महेश्वरम् ॥८१॥

प्रणम्य भगवान् विष्णुः पुनश्चापश्यदूर्द्ध्वतः ॥
ॐकारप्रभवं मंत्रं कलापञ्चक संयुतम् ॥८२॥

शुद्धस्फटिकसंकाशं सुभाष्टत्रिंशदक्षरम् ॥
मेधाकरमभूद्भूयः सर्वधर्मार्थसाधकम् ॥८३॥

गायत्रीप्रभवं मंत्रं हरितं वश्यकारकम् ॥
चतुर्विशतिवर्णाढ्यं चतुष्कलमनुत्तमम् ॥८४॥

अथर्वमसितं मंत्रं कलाष्टकसमायुतम् ॥
अभिचारिकमत्यर्थ त्रयस्त्रिंशच्छुभाक्षरम् ॥८५॥

यजुर्वेदसमायुक्तं पंचत्रिंशच्छुभाक्षरम् ॥
कलाष्टकसमायुक्तं सुश्वेतं शांतिकं तथा ॥८६॥

त्रयोदशकलायुक्तं बालाद्यैः सह लोहितम् ॥
समोद्भवं जगत्याद्यं वृद्धिसंहारकारणम् ॥८७॥

वर्णाः षडधिकाः षष्टिरस्य मंत्रवरस्य तु ॥
पंच मंत्रांस्तथा लब्ध्वा जजाप भगवान् हरिः ॥८८॥

अथ दृष्ट्वा कलावर्णमृग्यजुःसामरूपिणम् ॥
ईशानमीशमुकुटं पुरुषास्यं पुरातनम् ॥८९॥

अघोरहृदयं हृद्यं वामगुह्यं सदाशिवम् ॥
सद्यः पादं महादेवं महाभोगीन्द्रभूषणम् ॥९०॥

विश्वतः पादवदनं विश्वतोक्षिकरं शिवम् ॥
ब्रह्मणोधिपतिं सर्गस्थितिसंहारकारणम् ॥९१॥

तुष्टाव पुनरिष्टाभिर्वाग्भिर्वरदमीश्वरम् ॥९२॥
इति श्रीलिंगमहापुराणे पूर्वभागे लिंगोद्भवो नाम सप्तदशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP