TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ५५

पूर्वभागः - अध्यायः ५५

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः ५५
सूत उवाच ॥
सौरं संक्षेपतो वक्ष्ये रथं शशिन एव च ॥
ग्रहणामितरेषां च यथा गच्छति चांबुपः ॥१॥

सौरस्तु ब्रह्मणा सृष्टो रथस्त्वर्थवशेन सः ॥
संवत्सरस्यावयवैः कल्पितश्च द्विजर्षभाः ॥२॥

त्रिणा भिना तु चक्रेण पंचारेण समन्वितः ॥
सौवर्णः सर्वदेवानामावासो भास्करस्य तु ॥३॥

नवयोजनसाहस्रो विस्तारायामतः स्मृतः ॥
द्विगुणोपि रथोपस्थादीषादण्डः प्रमाणतः ॥४॥

असंगौस्तु हयैर्युक्तो यतश्चक्रं ततः स्थितैः ॥
वाजिनस्तस्य वै सप्त छन्दोभिर्निर्मितास्तु ते ॥५॥

चक्रपक्षे निबद्धास्तु ध्रुवे चाक्षः समर्पितः ॥
सहाश्वचक्रो भ्रमते सहाक्षो भ्रमते ध्रुवः ॥६॥

अक्षः सहैकचक्रेण भ्रमतेऽसौ ध्रुवेरितः ॥
प्रेरको ज्योतिषां धीमान् ध्रुवो वै वातरशिमभिः ॥७॥

युगाक्षकोटिसंबद्धौ द्वौ रश्मी स्यन्दनस्य तु ॥
ध्रुवेण भ्रमते रश्मिनिबद्धः स युगाक्षयोः ॥८॥

भ्रमतो मंडलानि स्युः खेचरस्य रथस्य तु ॥
युगाक्षकोटी ते तस्य दक्षिणे स्यंदनस्य हि ॥९॥

ध्रुवेण प्रगृहीते वै विचक्राश्वे च रज्जुभिः ॥
भ्रमंतमनुगच्छंति ध्रुवं रश्मी च तावुभौ ॥१०॥

युगाक्षकोटिस्त्वेतस्य वातोर्मिस्यन्दनस्य तु ॥
कीले सक्ता यथा रज्जुर्भ्रमते सर्वतोदिशम् ॥११॥

भ्राम्यतस्तस्य रश्मी तु मंडलेषूत्तरायणे ॥
वर्धेते दक्षिणे चैव भ्रमता मंडलानि तु ॥१२॥

आकृष्येते यदा ते वै ध्रुवेणाधिष्ठिते तदा ॥
आभ्यंतरस्थः सूर्योथ भ्रमते मंडलानि तु ॥१३॥

अशीतिमंडलशतं काष्ठयोरंतरं द्वयोः ॥
ध्रुवेण मुच्यमानाभ्यां रश्मिभ्यां पुनरेव तु ॥१४॥

तथैव बाह्यतः सूर्यो भ्रमते मंडलानि तु ॥
उद्वेष्टयन् स वेगेन मंडलानि तु गच्छति ॥१५॥

देवाश्चैव तथा नित्यं मुनयश्च दिवानिशम् ॥
यजंति सततं देवं भास्करं भवमीश्वरम् ॥१६॥

स रथोधिष्ठितो देवैरादित्यैर्मुनिभिस्तथा ॥
गंधर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥१७॥

एते वसंति वै सूर्ये द्वौ द्वौ मासौ क्रमेण तु ॥
आप्याययंति चादित्यं तेजोभिर्भास्करं शिवम् ॥१८॥

ग्रथितैः स्वैर्वचोभिस्तु स्तुवंति मुनयो रविम् ॥
गंधर्वाप्सरसश्चैव नृत्यगेयैरुपासते ॥१९॥

ग्रामणीयक्षभूतानि कुर्वतेऽभीषुसंग्रहम् ॥
सर्पा वहंति वै सूर्यं यातुधानानुयांति च ॥२०॥

वालखिल्या नयंत्यस्तं परिवार्योदयाद्रविम् ॥
इत्येते वै वसंतीह द्वौ द्वौ मासौ दिवाकरे ॥२१॥

मधुश्च माधवश्चैव शुक्रश्च शुचिरेव च ॥
नभोनभस्यौ विप्रेन्द्रा इषश्चोर्जस्तथैव च ॥२२॥

सहः सहस्यौ च तथा तपस्यश्च तपः पुनः ॥
एते द्वादश मासास्तु वर्षं वै मानुषं द्विजाः ॥२३॥

वासंतिकस्तथा ग्रैष्मः शुभो वै वार्षिकस्तथा ॥
शारदश्च हिमश्चैव शैशिरो ऋतवः स्मृताः ॥२४॥

धाताऽर्यमाऽथ मित्रश्च वरुणश्चेन्द्र एव च ॥
विवस्वांश्चैव पूषा च पर्जन्योंशुर्भगस्तथा ॥२५॥

त्वष्टा विष्णुः पुलस्त्यश्च पुलहश्चत्रिरेव च ॥
वसिष्ठश्चाङ्गिगश्चैव भृगुर्बुद्धिमतां वरः ॥२६॥

भारद्वाजो गौतमश्च कश्यपश्च क्रतुस्तथा ॥
जमदग्निः कौशिकश्च वासुकिः कंकणी करः ॥२७॥

तक्षकश्च तथा नाग एलापत्रस्तथा द्विजाः ॥
शंखपालस्तथा चान्यस्त्वैरावत इति स्मृतः ॥२८॥

धनंजयो महापद्मस्तथा कर्कोटकः स्मृतः ॥
कंबलोऽश्वतरश्चैव तुंबुरुर्नारदस्तथा ॥२९॥

हाहा हूहूर्मुनिश्रेष्ठा विश्वावसुरनुत्तमः ॥
उग्रसेनोऽथ सुरुचिरन्यश्चैव परावसुः ॥३०॥

चित्रसेनो महातेजाश्चोर्णायुश्चैव सुव्रताः ॥
धृतराष्ट्रः सूर्यवर्चा देवी साक्षात्कृतस्थला ॥३१॥

शुभानना शुबश्रोणिर्दिव्या वै पुंजिकस्थला ॥
मेनका सहजन्या च प्रम्लोचाऽथ शुचिस्मिता ॥३२॥

अनुम्लोचा घृताची च विश्वाची चोर्वशी तथा ॥
पूर्वचित्तिरिति ख्याता देवी साक्षात्तिलोत्तमा ॥३३॥

रंभा चांभोजवदना रथकृद्ग्रामणीः शुभः ॥
रथौजा रथचित्रश्च सुबाहुर्वै रथस्वनः ॥३४॥

वरुणश्च तथैवान्यः सुषेणः सेनजिच्छुभः ॥
तार्क्ष्यश्चारिष्टनेमिश्च क्षतजित्सत्यजित्तथा ॥३५॥

रक्षो हेतिः प्रहेतिश्च पौरुषेयो वधस्तथा ॥
सर्पो व्याघ्रः पुनश्चापो वातो विद्युद्दिवाकरः ॥३६॥

ब्रह्मोपेतश्च रक्षेन्द्रो यज्ञोपेतस्तथैव च ॥
एते देवादयः सर्वे वसंत्यर्के क्रमेण तु ॥३७॥

स्थानाभिमानिनो ह्येते गणा द्वादश सप्तकाः ॥
धात्रादिविष्णुपर्यंता देवा द्वादश कीर्तिताः ॥३८॥

आदित्यं परमं भानुं भाभिराप्याययंति ते ॥
पुलस्त्याद्याः कौशिकांता मुनयो मुनिसत्तमाः ॥३९॥

द्वादशैव स्तवैर्भानुं स्तुवन्ति च यथाक्रमम् ॥
नागाश्चाश्वतरान्तास्तु वासुकिप्रमुखाः शुभाः ॥४०॥

द्वादशैव महादेवं वहंत्येवं यताक्रमम् ॥
क्रमेण सूर्यवर्चान्तास्तुंबुरु प्रमुखांबुपम् ॥४१॥

गीतैरेनमुपासंते गंधर्वा द्वादशोत्तमाः ॥
कृतस्थलाद्या रंभांता दिव्याश्चाप्सरसो रविम् ॥४२॥

तांडवैः सरसैः सर्वाश्चोपासंते यथाक्रमम् ॥
दिव्याः सत्यजिदन्ताश्च ग्रामण्यो रथकृन्मुखाः ॥४३॥

द्वादशास्य क्रमेणैव कुर्वतेभीषुसंग्रहम् ॥
प्रयांति यज्ञोपेतांता रक्षोहेतिमुखाः सह ॥४४॥

सायुधा द्वादशैवैते राक्षसाश्चा यथाक्रमम् ॥
धातार्यमा पुलस्त्यश्च पुलहश्च प्रजापतिः ॥४५॥

उरगो वासुकिश्चैव कंकणीकश्च तावुभौ ॥
तुंबुरुर्नारदश्चैव गंधर्वौ गायतां वरौ ॥४६॥

कृतस्थलाऽप्सराश्चैव तथा वै पुंजिकस्थला ॥
ग्रामणी रथकृच्चैव रथौजाश्चैव तावुभौ ॥४७॥

रक्षो हेतिः प्रहेतिश्च यातुधानावुदाहृतौ ॥
मधुमाधवयोरेष गणो वसति भास्करे ॥४८॥

वसंति ग्राष्मिकौ मासौ मित्रश्च वरुणश्च ह ॥
ऋषिरत्रिर्वसिष्ठश्च तक्षको नाग एव च ॥४९॥

मेनका सहजन्या च गंधर्वै च हहाहुहूः ॥
सुबाहुनामा ग्रामण्यौ रथचित्रश्च तावुभौ ॥५०॥

पौरुषेयो वधश्चैव यातुधानावुदाहृतौ ॥
एते वसंति वै सूर्ये मासयोः शुचिशुक्रयोः ॥५१॥

ततः सूर्ये पुनश्चान्या निवसंतीह देवताः ॥
इन्द्रश्चैव विवस्वांश्च आंगिरा भृगुरेव च ॥५२॥

एलापत्रस्तथा सर्पः शंखपालश्च तावुभौ ॥
विश्वावसूग्रसेनौ च वरुणश्च रथस्वनः ॥५३॥

प्रम्लोचा चैव विख्याता अनुम्लोचा च ते उभे ॥
यातुधानास्तथा सर्पो व्याघ्रश्चैव तु तावुभौ ॥५४॥

नभोनभस्ययोरेष गणो वसति भास्करे ॥
पर्जन्यश्चैव पूषा च भरद्वाजोऽथ गौतमः ॥५५॥

धनंजय इरावांश्च सुरुचिः सपरावसुः ॥
घृताची चाप्सरः श्रेष्ठा विश्वाची चातिशोभना ॥५६॥

सेनजिच्च सुषेणश्च सेनानीर्ग्रामणीश्च तौ ॥
आपो वातश्च तावेचौ यातुधानावुभौ स्मृतौ ॥५७॥

वसंत्येते तु वै सूर्ये मास ऊर्ज इषे च ह ॥
हैमंतिकौ तु द्वौ मासौ वसंति च दिवाकरे ॥५८॥

अंशुर्भगश्च द्वावेतौ कश्यपश्च क्रतुः सह ॥
भुजंगश्च महापद्मः सर्पः कर्कोटकस्तथा ॥५९॥

चित्रसेनश्च गन्धर्व ऊर्णायुश्चैव तावुभौ ॥
उर्वशी पूर्वचित्तिश्च तथैवाप्सरसावुभे ॥६०॥

तार्क्ष्यश्चारिष्टनेमिश्च सेनानीर्ग्रामणीश्च तौ ॥
विद्युद्दिवाकरश्चोभौ यातुधानावुदाहृतौ ॥६१॥

सहे चैव सहस्ये च वसंत्येते दिवाकरे ॥
ततः शौशीरयोश्चापि मासयोर्निवसंति वै ॥६२॥

त्वष्टा विष्णुर्जमदग्निर्विश्वामित्रस्तथैव च ॥
काद्रवेयौ तथा नागौ कंबलाश्वतरावुभौ ॥६३॥

धृतराष्ट्रः सगंधर्वः सूर्यवर्चास्तथैव च ॥
तिलोत्तमाप्सराश्चैव देवी रंभा मनोहरा ॥६४॥

रथजित्सत्यजिच्चैव ग्रामम्यौ लोकविश्रुतौ ॥
ब्रह्मोपेतस्तथा रक्षो यज्ञोपेतश्च यः स्मृतः ॥६५॥

एते देवा वसंत्यर्के द्वौ द्वौ मासौ क्रमेण तु ॥
स्थानाभिमानिनो ह्येते गणा द्वादश सप्तकाः ॥६६॥

सूर्यमाप्याययंत्येते तेजसा तेज उत्तमम् ॥
ग्रथितैः स्वैर्वचोभिस्तु स्तुवंति मुनयो रविम् ॥६७॥

गंधर्वाप्सरसश्चैव नृत्यगेयैरुपासते ॥
ग्रामणीयक्षभूतानि कुर्वतेभीषुसंग्रहम् ॥६८॥

सर्पा वहंति वै सूर्यं यातु धानानुयांति वै ॥
वालखिल्या नयंत्यस्तं परिवार्योदयाद्रविम् ॥६९॥

एतेषामेव देवानां यथा तेजो यथा तपः ॥
यता योगं यथा मन्त्रं यथा धर्मं यथा बलम् ॥७०॥

तथा तपत्यसौ सूर्यस्तेषामिद्धस्तु तेजसा ॥
इत्येते वै वसंतीह द्वौ द्वौ मासौ दिवाकरे ॥७१॥

ऋषयो देवगंधर्वपन्नगाप्सरसां गणाः ॥
ग्रामण्यश्च तथा यक्षा यातुधानाश्च मुख्यतः ॥७२॥

एते तपन्ति वर्षंति भांति वांति सृजंति च ॥
भूतानामशुभं कर्म व्यपोहन्तीह कीर्तिताः ॥७३॥

मानवानां शुभं ह्येते हरंति च दुरात्मनाम् ॥
दुरितं सुप्रचाराणां व्यपोहंति क्वचित् क्वचित् ॥७४॥

विमाने च स्थिता दिव्ये कामगे वातरंहसि ॥
एते सहैव सूर्येण भ्रमंति दिवसानुगाः ॥७५॥

वर्षन्तश्च तपंतश्च ह्लादयंतश्च वै द्विजाः ॥
गोपायंतीह भूतानि सर्वाणि ह्यामनुक्षयात् ॥७६॥

स्थानाबिमानिनामेतत्स्थानं मन्वन्तरेषु वै ॥
अतीतानागतानां वै वर्तंते सांप्रतं च ये ॥७७॥

एते वसंति वै सूर्ये सप्तकास्ते चतुर्दश ॥
चतुर्दशसु सर्वेषु गणा मन्वंतरेष्विह ॥७८॥

संक्षेपाद्विस्तराच्चैव यतावृत्तं यथाश्रुतम् ॥
कथितं मुनिशार्दूला देवदेवस्य धीमतः ॥७९॥

एते देवा वसंत्यर्के द्वौद्वौ मासौ क्रमेण तु ॥
स्थानाभिमानिनो ह्येते गणा द्वादश सप्तकाः ॥८०॥

इत्येष एकचक्रेण सूर्यस्तूर्णं रथेन तु ॥
हरितैरक्षरैरश्वैः सर्पतेऽसौ दिवाकरः ॥८१॥

अहोरात्रं रथेनासावेक चक्रणे तु भ्रमन् ॥
सप्तद्वीपसमुद्रा गां सप्तभिः सर्पते दिवि ॥८२॥

इति श्रीलिंगमहापुराणे पूर्वभागे सूर्यरथनिर्णयो नाम पंचपंचाशत्तमो ध्यायः ॥५५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:25.5530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

मदाम

  • वि. कायम . - मुधो . ( अर .) 
RANDOM WORD

Did you know?

GAJA LAXMI VRAT MHANJE KAY AANI TE KASE KARAYACHE?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site