TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ५३

पूर्वभागः - अध्यायः ५३

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः ५३
सूत उवाच ॥
प्लक्षद्वीपादिद्वीपेषु सप्त सप्तसु पर्वताः ॥
ऋज्वायताः प्रतिदिशं निवृष्टा वर्षपर्वताः ॥१॥

प्लक्षद्वीपे तु वक्ष्यामि सप्त दिव्यान् महाचलान् ॥
गोमेदकोत्र प्रथमो द्वितीयश्चांद्र उच्यते ॥२॥

तृतीयो नारदो नाम चतुर्थो दुंदुभिः स्मृतः ॥
पंचमः सोमको नाम सुमनाः षष्ठ उच्यते ॥३॥

स एव वैभवः प्रोक्तो वैभ्राजः सप्तमः स्मृतः ॥
सप्तैते गिरयः प्रोक्ताः प्लक्षद्वीपे विशेषतः ॥४॥

सप्त वै शाल्मलिद्वीपे तांस्तु वक्ष्याम्यनुक्रमात् ॥
कुमुदश्चोत्तमश्चैव पर्वतश्च बलाहकः ॥५॥

द्रोणः कंकश्च महिषः ककुद्मान् सप्तमः स्मृतः ॥
कुशद्वीपे तु सप्तैव द्वीपाश्च कुलपर्वताः ॥६॥

तांस्तु संक्षेपतो वक्ष्ये नाममात्रेण वै क्रमात् ॥
विद्रुमः प्रथमः प्रोक्तो द्वितीयो हेमपर्वतः ॥७॥

तृतीयो द्युतिमान्नाम चतुर्थः पुष्पितः स्मृतः ॥
कुशेशयः पंचमस्तु षष्ठो हरिगिरिः स्मृतः ॥८॥

सप्तमो मंदरः श्रीमान्महादेवनिकेतनम् ॥
मंदा इति ह्यपां नाम मंदरो धारणादपाम् ॥९॥

तत्र साक्षाद्वृषांकस्तु विश्वेशो विमलः शिवः ॥
सोमः सनंदी भगवानास्ते हेमगृहोत्तमे ॥१०॥

तपसा तोषितः पूर्वं मंदरेण महेश्वरः ॥
अविमुक्ते महाक्षेत्रे लेभे स परमं वरम् ॥११॥

प्रार्थितश्च महादेवो निवासार्थं सहांबया ॥
अविमुक्तादुपागम्य चक्रे वासं स मंदरे ॥१२॥

सनंदी सगणः सोमस्तेनासौ तन्न मुंचति ॥
क्रौञ्चद्वीपे तु सप्तेह क्रौंचाद्याः कुलपर्वताः ॥१३॥

क्रौंचो वामनकः पश्चात्तृतीयश्चांधकारकः ॥
अंधकारात्परश्चापि दिवावृन्नाम पर्वतः ॥१४॥

दिवावृतः परश्चापि विविंदो गिरिरुच्यते ॥
विविंदात्परतश्चापि पुंडरीको महागिरिः ॥१५॥

पुंडरीकात्परश्चापि प्रोच्यते दुन्दुभिस्वनः ॥
एते रत्नमयाः सप्त क्रौञ्चद्वीपस्य पर्वताः ॥१६॥

शाकद्वीपे च गिरयः सप्त तांस्तु निबोधत ॥
उदयो रैवतश्चापि श्तामको मुनिसत्तमाः ॥१७॥

राजतश्चगिरिः श्रीमानांबिकेयः शुशोभनः ॥
आंबिकेयात्परो रम्यः सर्वौषधिसमन्वितः ॥१८॥

तथैव केसरीत्युक्तो यतो वायुः प्रजायते ॥
पुष्करे पर्वतः श्रीमानेक एव महाशिलः ॥१९॥

चित्रैर्मणिमयैः कूटैः शिलाजालैः समुच्छ्रितैः ॥
द्वीपस्य तस्य पूर्वर्धे चित्रसानुस्थितो महान् ॥२०॥

योजनानां सहस्राणि ऊर्ध्वं पंचाशदुच्छ्रितः ॥
अधश्चैव चुतस्त्रिंशत्सहस्राणि महाचलः ॥२१॥

द्वीपस्यार्धे परिक्षिप्तः पर्वतो मानसोत्तरः ॥
स्थितो वेलासमीपे तु नवचंद्र इवोदितः ॥२२॥

योजनानां सहस्राणि ऊर्ध्वं पंचाशदुच्छ्रितः ॥
तावदेव तु विस्तीर्णः पार्श्वतः परिमंडलः ॥२३॥

स एव द्वीपपश्चार्धे मानसः पृथिवीधरः ॥
एक एव महासानुः सन्निवेशाद्द्विधा कृतः ॥२४॥

तस्मिन्द्वीपे स्मृतौ द्वौ तु पुण्यौ जनपदौ शुभौ ॥
राजतौ मानसस्ताथ पर्वतस्यानुमंडलौ ॥२५॥

महावीतं तु यद्वर्षं बाह्यतो मानसस्य तु ॥
तस्यैवाभ्यंतरो यस्तु धातकीखण्ड उच्यते ॥२६॥

स्वादूदकेनोदधिना पुष्करः परिवारितः ॥
पुष्करद्वीपविस्तारविस्तीर्णौसौ समंततः ॥२७॥

विस्तारान्मंडलाच्चैव पुष्करस्य समेन तु ॥
एवं द्वीपाः समुद्रैस्तु सप्तसप्तभिरावृताः ॥२८॥

द्वीपस्यानंतरो यस्तु समुद्रः सप्तमस्तु वै ॥
एवं द्वीपसमुद्राणां वृद्धिर्ज्ञेया परस्परम् ॥२९॥

परेण पुष्करस्याथ अनुवृत्य स्थितो महान् ॥
स्वादूदकसमुद्रस्तु समंतात्परिवेष्ट्य च ॥३०॥

परेण तस्य महती दृश्यते लोकसंस्थितिः ॥
कांचनी द्विगुणा भूमिः सर्वा चैकशिलोपमा ॥३१॥

तस्याः परेण शैलस्तु मर्यादापारमंडलः ॥
प्रकाशश्चाप्रकाशश्च लोकालोकः स उच्यते ॥३२॥

दृश्यादृश्यगिरिर्यावत्तावदेषा धरा द्विजाः ॥
योजनानां सरस्राणि दश तस्योच्छ्रयः स्मृतः ॥३३॥

तावांश्च विस्तरस्तस्य लोकालोकमहागिरेः ॥
अर्वाचीने तु तस्यार्धे चरंति रविरश्मयः ॥३४॥

परार्धे तु तमो नित्यं लोकालोकस्ततः स्मृतः ॥
एवं संक्षेपतः प्रोक्तो भूर्लोकस्य च विस्तरः ॥३५॥

आभानोर्वै भुवः स्वस्तु आध्रुवान्मुनिसत्तमाः ॥
आवहाद्य निविष्टास्तु वायोर्वै सप्त नेमयः ॥३६॥

आवहः प्रवहश्चैव ततश्चानुवहस्तथा ॥
संवहो विवहश्चाथ ततश्चोर्ध्वं परावहः ॥३७॥

द्विजाः परिवहश्चेति वायोर्वै सप्त नेमयः ॥
बलाहकास्तथा भानुश्चंद्रो नक्षत्र राशयः ॥३८॥

ग्रहाणि ऋषयः सप्त ध्रुवो विप्राः क्रमादिह ॥
योजनानां महीपृष्ठादूर्ध्वं पंचदशाध्रुवात् ॥३९॥

नियुतान्येकनियुतं भूपृष्ठाद्भानुमंडलम् ॥
रथः षोडशसाहस्रो भास्करस्य तथोपरिः ॥४०॥

चतुराशीतिसाहस्रो मेरुश्चोपरि भूतलात् ॥
कोटियोजनमाक्रम्य महर्लोको ध्रुवाद्ध्रुवः ॥४१॥

जनलोको महर्लोकात्तथा कोटिद्वयं द्विजाः ॥
जनलोकात्तपोलोकश्चतस्रः कोटयो मतः ॥४२॥

प्राजापत्याद्ब्रह्मलोकः कोटिषट्कं विसृज्य तु ॥
पुण्यलोकास्तु सप्तैते ह्यंडोस्मिन्कथिता द्विजाः ॥४३॥

अधः सप्ततलानां तु नरकाणां हि कोटयः ॥
मायान्ताश्चैव घोराद्या अष्टाविंशतिरेव तु ॥४४॥

पापिनस्तेषु पच्यंते स्वस्वकर्मानुरूपतः ॥
अवीच्यंतानि सर्वाणि रौरवाद्यानि तेषु च ॥४५॥

प्रत्येकं पंचकान्याहुर्नरकाणि विशेषतः ॥
अंडमादौ मया प्रोक्तमंडस्यावरणानि च ॥४६॥

हिरण्यगर्भसर्गश्च प्रसंगाद्बहुविस्तरात् ॥
अंडानामीदृशानां तु कोट्यो ज्ञेयाः सहस्रशः ॥४७॥

सर्वगत्वात्प्रधानस्य तिर्यगूर्ध्वमधस्तथा ॥
अंडेष्वेतेषु सर्वेषु भुवनानि चतुर्दश ॥४८॥

प्रत्यंडं द्विजशार्दूलास्तेषां हेतुर्महेश्चरः ॥
अंडेषु चांडबाह्येषु तथांडावरणेषु च ॥४९॥

तमोऽन्ते च तमःपारे चाष्टमूर्तिर्व्यवस्थितः ॥
अस्यात्मनो महेशस्य महादेवस्य धीमतः ॥५०॥

अदेहिनस्त्वहो देहमखिलं परमात्मनः ॥
अस्याष्टमूर्तेः शर्वस्य शिवस्य गृहमेधिनः ॥५१॥

गृहिणी प्रकृतिर्दिव्या प्रजाश्च महदादयः ॥
पशवः किंकरस्तस्य सर्वे देहाभिमानिनः ॥५२॥

आद्यंतहीनो भगवाननंतः पुमान्प्रधानप्रमुखाश्च सप्त ॥
प्रधानमूर्तिस्त्वथ षोडशांगो महेश्वरश्चाष्टतनुः स एव ॥५३॥

आज्ञाबलात्तस्य धरा स्थितेह धराधरा वारिधराः समुद्राः ॥
ज्योतिर्गणः शक्रमुखाः सुराश्च वैमानिकाः स्थावरजंगमाश्च ॥५४॥

दृष्ट्वा यक्षं लक्षणैर्हीनमीशं दृष्ट्वा सेन्द्रास्ते किमेतत्त्विहेति ॥
यक्षं गत्वा निश्चयात्पावकाद्याः शक्तिक्षीणाश्चाभवन्यत्ततोपि ॥५५॥

दग्धुं तृणं वापि समक्षमस्य यक्षस्य वह्निर्न शशाक विप्राः ॥
वायुस्तृणं चालयितुं तथान्ये स्वान्स्वान्प्रभावान् सकलामरेन्द्राः ॥५६॥

तदा स्वयं वृत्ररिपुः सुरेन्द्रैः सुरेश्वरः सर्वसमृद्धिहेतुः ॥
सुरेश्वरं यक्षमुवाच को वा भवानितीत्थं स कुतूहलात्मा ॥५७॥

तदा ह्यदृश्यं गत एव यक्षस्तदांबिका हैमवती शुभास्या ॥
उमा शुभैराभरणैरनेकैः सुशोभमाना त्वनु चाविरासीत् ॥५८॥

तां शक्र मुख्या बहुशोभमानामुमामजां हैमवतीमपृच्छन् ॥
किमेतदीशे बहुशोभमाने वांबिके यक्षवपुश्चकास्ति ॥५९॥

निशम्य तद्यक्षमुमाम्बिकाह त्वगोचरश्चेति सुराः सशक्राः ॥
प्रणेमुरेनां मृगराजगामिनीमुमामजां लोहितशुक्लकृष्णाम् ॥६०॥

संभाविता सा सकलामरेन्द्रैः सर्वप्रवृत्तिस्तु सुरासुराणाम् ॥
अहं पुरासं प्रकृतिश्च पुंसो यक्षस्य चाज्ञावशगेत्यथाह ॥६१॥

तस्माद्द्विजाः सर्वमजस्य तस्य नियोगतश्चांडमभूदजाद्वै ॥
अजश्च अंडादखिलं च तस्माज्ज्योतिर्गणैर्लोकमजात्मकं तत् ॥६२॥

इति श्रीलिंगमहापुराणे पूर्वभागे भुवनकोशविन्यासनिर्णयो नाम त्रिपंचाशत्तमोऽध्यायः ॥५३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:25.4270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

cartesian cordinates

  • पु./अ.व. कार्टेशी सहनिर्देशांक 
RANDOM WORD

Did you know?

Are the advertisements necessary on your pages?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.