TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः १०२

पूर्वभागः - अध्यायः १०२

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः १०२
सूत उवाच ॥
तपसा च महादेव्याः पार्वत्या वृषभध्वजः ॥
प्रीतश्च भगवाच्छर्वो वचनाद्ब्रह्मणस्तदा ॥१॥

हिताय चाश्रमाणां च क्रीडार्थं भगवान्भवः ॥
तदा हैमवतीं देवीमुपयेमे यथाविधि ॥२॥

जगाम स स्वयं ब्रह्मा मरीच्याद्यैर्महर्षिभिः ॥
तपोवनं महादेव्याः पार्वत्याः पद्मसंभवः ॥३॥

प्रदक्षिणीकृत्य च तां देवीं स जगतोरणीम् ॥
कीमर्थं तपसा लोकान्संतापयसि शैलजे ॥४॥

त्वया सृष्टं जगत्सर्वं मातस्त्वं मा विमाशय ॥
त्वं हि संधारये लोकानिमान्सर्वान्स्वतेजसा ॥५॥

सर्वदेवेश्वरः श्रीमान्सर्वलोकपतिर्भवः ॥
यस्य वै देवदेवस्य वयं किंकरवादिनः ॥६॥

स एवं परमेशानः स्वयं च वरयिष्यति ॥
वरदे येन सृष्टासि न विना यस्त्वयांबिके ॥७॥

वर्त्तते नात्र संदेहस्तव भर्त्ता भविष्यति ॥
इत्युक्त्वा तां नमस्कृत्य मुहुः संप्रेक्ष्य पार्वतीम् ॥८॥

गते पितामहे देवो भगवान् परमेश्वरः ॥
जगामानुग्रहं कर्त्तुं द्विजरूपेण चाश्रमम् ॥९॥

सा च दृष्ट्वा माहदेवं द्विजरूपेण संस्थितम् ॥
प्रतिभाद्यौः प्रभुं ज्ञात्वा ननाम वृषभध्वजम् ॥१०॥

संपूज्य वरदं देवं ब्राह्मणच्छद्मनागतम् ॥
तुष्टाव परमेशानं पार्वती परमेश्वरम् ॥११॥

अनुगृह्य तदा देवीमुवाच प्रहसन्निव ॥
कुलधर्माश्रयं रक्षन् भूधरस्य महात्मनः ॥१२॥

क्रीडार्थं च संतां मध्ये सर्वदेवपतिर्भवः ॥
स्वयंवरे महादेवी तव दिव्यसुशोभने ॥१३॥

आस्थाय रूपं यत्सौम्यं समेष्येहं सह त्वया ॥
इत्युक्त्वा तां समालोक्य देवो दिव्येन चक्षुषा ॥१४॥

जगामेष्टं तदा दिव्यं स्वपुरं प्रययौच सा ॥
दृष्ट्वा हृष्टस्तदा देवीं मेनया तुहिनाचलः ॥१५॥

आलिंग्याघ्राय संपूज्य पुत्रीं साक्षात्तपस्विनीम् ॥
दुहितुर्देवदेवेन न जानन्नभिमंत्रितम् ॥१६॥

स्वयंवरं तदा देव्याः सर्वलोकेष्वघोषयत् ॥
अथ ब्रह्मा च भगवान् विष्णुः साक्षाज्जनार्दनः ॥१७॥

शक्रश्च भगवान् वह्निर्भास्करो भग एव च ॥
त्वष्टार्यमा विवस्वांश्च यमो वरुण एव च ॥१८॥

वायुः सोमस्तथेशानो रुद्राश्च मुनयस्तथा ॥
अश्विनौ द्वादशादित्या गंधर्वा गरुडस्तथा ॥१९॥

यक्षाः सिद्धास्तता साध्या दैत्याः किंपुरुषोरगाः ॥
समुद्राश्च नदा वेदा मंत्राः स्तोत्रादयः क्षणाः ॥२०॥

नागाश्च पर्वताः सर्वे यज्ञाः सूर्यादयो ग्रहाः ॥
त्रयस्त्रिंशच्च देवानां त्रयश्च त्रिशतं तथा ॥२१॥

त्रयश्च त्रिसहस्रं च तथान्ये बहवः सुरा ॥
जग्मुर्गिरिंद्रपुत्र्यास्तु स्वयंवरमनुत्तमम् ॥२२॥

अथ शैलसुता देवी हैममारुह्य शोभनम् ॥
विमानं सर्वतोभद्रं सर्वरत्नैरलंकृतम् ॥२३॥

अप्सरोभिः प्रनृत्ताभिः सर्वाभरणभूषितैः ॥
गंधर्वसिद्धैर्विविधैः किन्नरैश्च सुशोभनैः ॥२४॥

बंदिभिः स्तूयमाना च स्थिता शैलसुता तदा ॥
सितातपत्रं रत्नांशुमिश्रितं चावहत्तथा ॥२५॥

मालिनी गिरिपुत्र्यास्तु संध्यापूर्णेन्दुमंडलम् ॥
चामरासक्तहस्ताभिर्दिव्यस्त्रीभिश्च संवृता ॥२६॥

मालां गृह्य जया तस्थौ सुरद्रुमसमुद्भवाम् ॥
विजया व्यजनं गृह्य स्थिता देव्याः समीपगा ॥२७॥

मालां प्रहृह्य देव्यां तु स्थितायां देवसंसदि ॥
शिशुर्भूत्वा महादेवः क्रीडार्थं वृषभध्वजः ॥२८॥

उत्संगतलसंसुप्तो बभूव भगवान्‌भवः ॥
अथ दृष्ट्वा शिशुं देवास्तस्या उत्संगवर्त्तिनम् ॥२९॥

कोयमत्रेति संमंत्र्य चुक्षुभुश्च समागताः ॥
वज्रमाहारयत्तस्य बाहुमुद्युम्य वृत्रहा ॥३०॥

स बाहुरुद्यमस्तस्य तथैव समुपस्थितः ॥
स्तंभितः शिशुरूपेण देवदेवेन लीलया ॥३१॥

वज्रं क्षेप्तुं न शशाक बाहुं चालयितुं तथा ॥
वह्निं शक्तिं तथा क्षेप्तं न शशाक तथा स्थितः ॥३२॥

यमोपि दंडं खड्गं च निर्ऋतिर्मुनिपुंगवाः ॥
वरुणो नागपाशं च ध्वजयष्टिं समीरणः ॥३३॥

सोमो गदां धनेशश्च दंडं दंडभृतां वरः ॥
ईशानश्च तथा शूलं तीव्रमुद्यम्य संस्थितः ॥३४॥

रुद्राश्च शूलमादित्या मुशलं वसवस्तथा ॥
मुद्गरं स्तंभिताः सर्वे देवेनाशु दिवौकसः ॥३५॥

स्तंभिता देवदेवेन तथान्ये च दिवौकसः ॥
शिरःप्रकंपयन्विष्णुश्चक्रमुद्यम्य संस्थितः ॥३६॥

तस्यापि शिरसो बालः स्थिरत्वं प्रचकार ह ॥
चक्रं क्षेप्तुं न शशाक बाहूंश्चालयितुं न च ॥३७॥

पूषा दंतान्दशन्दंतैर्बालमैक्षत मोहितः ॥
तस्यापि दशनाः पेतुर्दृष्टमात्रस्य शंभुना ॥३८॥

बलं तेजश्च योगं च तथैवास्तंभयद्विभुः ॥
अथ तेषु स्थितेष्वेव मन्युमत्सु सुरेष्वपि ॥३९॥

ब्रह्मा परमसंविग्नो ध्यानमास्थाय शंकरम् ॥
बुबुधे देवमीशानमुमोत्संगे तमास्थितम् ॥४०॥

स बुद्ध्वा देवमीशानं शीघ्रमुत्थाय विस्मितः ॥
ववंदे चरणौ शंभोरस्तुवच्च पितामहः ॥४१॥

स बुद्ध्वा देवमीशानं शीघ्रमुत्थाय विस्मितः ॥
ववंदे चरणौ शंभोरस्तुवच्च पितामहः ॥४२॥

बुद्धिस्त्वं सर्वलोकानामहंकारस्त्वमीश्वरः ॥
भूतानामिंद्रियाणां च त्वमेवेश प्रवर्त्तकः ॥४३॥

तवाहं दक्षिणाद्धस्तात्सृष्टः पूर्वं पुरातनः ॥
वामहस्तान्महा बाहो देवो नारायणः प्रभुः ॥४४॥

इयं च प्रकृतिर्देवी सदा ते सृष्टिकारण ॥
पत्नीरूपं समास्थाय जगत्कारणमागता ॥४५॥

नमस्तुभ्यं महादेव महादेव्यै नमोनमः ॥
प्रसादात्तव देवेश नियोगाच्च मया प्रजाः ॥४६॥

देवाद्यास्तु इमाः सृष्टा मूढास्त्वद्योगमोहिताः ॥
कुरु प्रसादमेतेषां यथापूर्वं भवंत्विमे ॥४७॥

सूत उवाच ॥
विज्ञाप्यैवं तदा ब्रह्मा देवदेवं महेश्वरम् ॥
संस्तंतितांस्तदा तेन भगवानाहपद्मजः ॥४८॥

मूढास्थ देवताः सर्वा नैव बुध्यत शंकरम् ॥
देवदेवमिहायांतं सर्वदेवनमस्कृतम् ॥४९॥

गच्छध्वं शरणं शीघ्रं देवाः शक्रपुरोगमाः ॥
सनारायणकाः सर्वे मुनिभिः शंकरं प्रभुम् ॥५०॥

सार्धं मयैव देवेशं परमात्मानमीश्वरम् ॥
अनया हैमवत्या च प्रकृत्या सह सत्तमम् ॥५१॥

तत्र ते स्तंभितास्तेन तथैव सुरसत्तमाः ॥
प्रणेमुर्मनसा सर्वे सनारायणकाः प्रभुम् ॥५२॥

अथ तेषां प्रसन्नो भूद्देवदेवस्त्रियंबकः ॥
यथापूर्वं चकाराशु वचनाद्ब्रह्मणः प्रभुः ॥५३॥

तत एवं प्रसन्ने तु सर्वदेवनिवारणम् ॥
वपुश्चकार देवेशो दिव्यं परममद्भुतम् ॥५४॥

तेजसा तस्य देवास्ते सेंद्रचंद्रदिवाकराः ॥
सब्रह्मकाः ससाध्याश्च सनारायणकास्तथा ॥५५॥

सयमाश्च सरुद्राश्च चक्षुर प्राथयन्विभुम् ॥
तेभ्यश्च परमं चक्षुः सर्वदृष्टौ च शक्तिमत् ॥५६॥

ददावंबापतिः शर्वो भवान्याश्च चलस्य च ॥
लब्ध्वा चक्षुस्तदा देवा इंद्रविष्णुपुरोगमाः ॥५७॥

सब्रह्मकाः सशक्राश्च तमपश्यन्महेश्वरम् ॥
ब्रह्माद्या नेमिरे तूर्णं भवानी च गिरीश्वरः ॥५८॥

मुनयश्च महादेवं गणेशाः शिवसंमताः ॥
ससर्जुः पुष्पवृष्टिं च खेचराः सिद्धचारणाः ॥५९॥

देवदुंदुभयो नेदुस्तुष्टुवुर्मुनयः प्रभुम् ॥
जगुर्गंधर्वमुख्याश्च ननृतुश्चाप्सरोगणाः ॥६०॥

मुमुहुर्गणपाः सर्वं मुमोदांबा च पार्वती ॥
तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम् ॥६१॥

पादयोः स्तापयामास मालां दिव्यां सुगंधिनीम् ॥
साधुसाध्विति संप्रोच्य तया तत्रैव चार्चितम् ॥६२॥

सह देव्या नमश्चक्रुः शिरोभिर्भूतलाश्रितैः ॥
सर्वे सब्रह्मका देवाः सयक्षोरगराक्षसाः ॥६३॥

इति श्रीलिंगमहापुराणे पूर्वभागे उमास्वयंवरो नाम द्व्यधिकशततमोऽध्यायः ॥१०२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:28.6300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

महाशिरस् III.

  • n. एक दानव, जो कश्यप एवं दनु के पुत्रों में से एक था । 
RANDOM WORD

Did you know?

हिंदू धर्मियांत मृत माणसाचा दहावा, तेरावा आणि चौदावा कां करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.