TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ७५

पूर्वभागः - अध्यायः ७५

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः ७५
ऋषय ऊचुः ॥
निष्कलो निर्मला नित्यः सकलत्वं कथं गतः ॥
वक्तुमर्हसि चास्माकं यथा पूर्वं यथा श्रुतम् ॥१॥

सूत उवाच ॥
परमार्थविदः केचिदूचुः प्रणवरूपिणम् ॥
विज्ञानमिति विप्रेंद्राः श्रुत्वा श्रुतिशिरस्यजम् ॥२॥

शब्दादिविषयं ज्ञानं ज्ञानमित्यभिधीयते ॥
तज्ज्ञानं भ्रांतिरहितमित्यन्ये नेति चापरे ॥३॥

यज्ज्ञानं निर्मलं शुद्धं निर्विकल्पं निराश्रयम् ॥
गुरुप्रकाशकं ज्ञानमित्यन्ये मुनयो द्विजाः ॥४॥

ज्ञानेनैव भवेन्मुक्तिः प्रसादो ज्ञानसिद्धये ॥
उभाभ्यां मुच्यते योगी तत्रानंदमयो भवेत् ॥५॥

वदंति मुनयः केचित्कर्मणा तस्य संगतिम् ॥
कल्पनाकल्पितं रूपं संहृत्य स्वेच्छयैव हि ॥६॥

द्यौर्मूर्धा तु विभोस्तस्य खं नाभिः परमेष्ठिनः ॥
सोमसूर्याग्नयो नेत्रे दिशः श्रोत्रं महात्मनः ॥७॥

चरणौ चैव पातालं समुद्रस्तस्य चांबरम् ॥
देवास्तस्य भुजाः सर्वे नक्षत्राणि च भूषणम् ॥८॥

प्रकृतिस्तस्य पत्नी च पुरुषो लिंगमुच्यते ॥
वक्त्राद्वै ब्राह्मणाः सर्वे ब्रह्मा च भगवान्प्रभुः ॥९॥

इंद्रोपेंद्रौ भुजाभ्यां तु क्षत्रियाश्च महात्मनः ॥
वैश्याश्चोरुप्रदेशात्तु शूद्राः पादात्पिनाकिनः ॥१०॥

पुष्करावर्तकाद्यास्तु केशास्तस्य प्रकीर्तिताः ॥
वायवो घ्राणजास्तस्य गतिः श्रौतं स्मृतिस्तथा ॥११॥

अथानेनैव कर्मात्मा प्रकृतेस्तु प्रवर्तकः ॥
पुंसां तु पुरुषः श्रीमान् ज्ञानगम्यो न चान्यथा ॥१२॥

कर्मयज्ञसहस्रेभ्यस्तपोयज्ञो विशिष्यते ॥
तपोयज्ञसहस्रेभ्यो जपयज्ञो विशिष्यते ॥१३॥

जपयज्ञसहस्रेभ्यो ध्यानयज्ञोविशिष्यते ॥
ध्यानयज्ञात्परो नास्ति ध्यानं ज्ञानस्य साधनम् ॥१४॥

यदा समरसे निष्ठो योगी ध्यानेन पश्यति ॥
ध्यानयज्ञरतस्यास्य तदा सन्निहितः शिवः ॥१५॥

नास्ति विज्ञानिनां शौचं प्रायश्चित्तादि चोदना ॥
विशुद्धा विद्यया सर्वे ब्रह्मविद्याविदो जनाः ॥१६॥

नास्ति क्रिया च लोकेषु सुखं दुःखं विचारतः ॥
धर्माधर्मौ जपो होमो ध्यानिनां सन्निधिः सदा ॥१७॥

परानंदात्मकं लिंगं विशुद्धं शिवमक्षरम् ॥
निष्कलं सर्वगं ज्ञेयं योगिनां हृदि संस्थितम् ॥१८॥

लिंगं तु द्विविधं प्राहुर्बाह्यमाभ्यंतरं द्विजाः ॥
बाह्यं स्थूलं मुनिश्रेष्ठाः सूक्ष्ममाभ्यंतरं द्विजाः ॥१९॥

कर्मयज्ञरताः स्थूलाः स्थूललिंगार्चनेरताः ॥
असतां भावनार्थाय नान्यथा स्थूलविग्रहः ॥२०॥

आध्यात्मिकं च यल्लिंगं प्रत्यक्षं यस्य नो भवेत् ॥
असौ मूढो बहिः सर्वं कल्पयित्वैव नान्यथा ॥२१॥

ज्ञानिनां सूक्ष्मममलं भवेत्प्रत्यक्षमव्ययम् ॥
यता स्थूलमयुक्तानां मृत्काष्ठाद्यौः प्रकल्पितम् ॥२२॥

अर्थो विचारतो नास्तीत्यन्ये तत्त्वार्थवेदिनः ॥
निष्कलः सकलश्चेति सर्वं शिवमयं ततः ॥२३॥

व्योमैकमपि दृष्टं हि शरावं प्रति सुव्रताः ॥
पृथक्त्वं चापृथक्त्वं च शंकरस्येति चापरे ॥२४॥

प्रत्ययार्थं हि जगतामेकस्थोपि दिवाकरः ॥
एकोपि बहुधा दृष्टो जलाधारेषु सुव्रताः ॥२५॥

जंतवो दिवि भूमा च सर्वे वै पांचभौतिकाः ॥
तथापि बहुला दृष्टा जातिव्यक्तिविभेदतः ॥२६॥

दृश्यते श्रूयते यद्यत्तत्तद्विद्धि शिवात्मकम् ॥
भेदो जनानां लोकेस्मिन्प्रतिभासो विचारतः ॥२७॥

स्वप्ने च विपुलान् भोगान् भुक्त्वा मर्त्यः सुखी भवेत् ॥
दुःखी च भेगं दुःखं च नानुभूतं विचारतः ॥२८॥

एवमाहुस्तथान्ये च सर्वे वेदार्थतत्त्वगाः ॥
हृदि संसारिणां साक्षात्सकलः परमेश्वरः ॥२९॥

योगिनां निष्कलो देवो ज्ञानिनां च जगन्मयः ॥
त्रिविधं परमेशस्य वपुर्लोके प्रशस्यते ॥३०॥

निष्कलं प्रथमं चैकं ततः सकलनिष्कलम् ॥
तृतीयं सकलं चैव नान्यथेति द्विजोत्तमाः ॥३१॥

अर्चयंति मुहुः केचित्सदा सकलनिष्कलम् ॥
सर्वज्ञं हृदये केचिच्छिवलिंगे विभावसौ ॥३२॥

सकलं मुनयः केचित्सदा संसारवर्तिनः ॥
एवमभ्यर्चयंत्येव सदाराः ससुतानराः ॥३३॥

यथा शिवस्तथा देवी यथा देवी तथा शिवः ॥
तस्मादभेदबुद्ध्यैव सप्तविंशत्प्रभेदतः ॥३४॥

यजंति देहे बाह्ये च चतुष्कोणे षडस्रके ॥
दशारे द्वादशारे च षोडशारे त्रिरस्रके ॥३५॥

स स्वेच्छया शिवः साक्षाद्देव्या सार्धं स्थितः प्रभुः ॥
संतारणार्थं च शिवः सदसद्व्यक्तिवर्जितः ॥३६॥

तमेकमाहुर्द्विगुणं च केचित्केचित्तमाहुस्त्रिगुणात्मकं च ॥
ऊचुस्तथा तं च शिवं तथान्ये संसारिणं वेदविदो वदंति ॥३७॥

भक्त्या च योगेन शुभेन युक्ता विप्राः सदा धर्मरता विशिष्टाः ॥
यजंति योगेशमशेषमूर्ति षडस्रमध्ये भगवंतमेव ॥३८॥

ये तत्र पश्यंति शिवं त्रिरस्रे त्रितत्त्वध्ये त्रिगुणं त्रियक्षम् ॥
ते यांति चैनं न च योगिनोऽन्ये तया च देव्या पुरुषं पुराणम् ॥३९॥

इति श्रीलिंगमहापुराणे पूर्वभागे शिवाद्वैतकथनं नाम पंचसप्ततितमोऽध्यायः ॥७५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:26.7230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

वितुटणी

  • स्त्री. ताटातूट ; वियोग ; फाटाफूट . तरी विषयेंद्रियमिळणी । करूनि घाये वितुटणी । - ज्ञा १६ . ८९ . [ वि + तुटणें ] 
RANDOM WORD

Did you know?

आषाढी एकादशीला "देवशयनी एकादशी" का म्हणतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.