TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ६५

पूर्वभागः - अध्यायः ६५

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः ६५
ऋषयः ऊचुः ॥
आदित्यवंशं सोमस्य वंशं वंशविदां वर ॥
वक्तुमर्हसि चास्माकं संक्षेपाद्रोमहर्षणम् ॥१॥

सूत उवाच ॥
अदितिः सुषुवे पुत्रमादित्यं कश्यपाद्द्विजाः ॥
तस्यादित्यस्य चैवासीद्भार्यात्रयमथापरम् ॥२॥

संज्ञा राज्ञी प्रभा छाया पुत्रांस्तासां वदामि वः ॥
संज्ञा त्वाष्ट्री च सुषुवे सूर्यान्मनुमनुत्तमम् ॥३॥

यमं च यमुनां चैव राज्ञी रेवतमेव च ॥
प्रभा प्रभातमादित्याच्छायां संज्ञाप्यकल्पयत् ॥४॥

छाया च तस्मात्सुषुवे सावर्णि भास्कराद्द्विजाः ॥
ततः शनिं च तपतीं विष्टिं चैव यताक्रमम् ॥५॥

छाया स्वपुत्राभ्यधिकं स्नेहं चक्रे मनौ तदा ॥
पूर्वो मनुर्न चक्षाम यमस्तु क्रोधमूर्च्छितः ॥६॥

संताडयामास रुषा पादमुद्यम्य दक्षिणम् ॥
यमेव ताडिता सा तु छाया वै दुःखिताभवत् ॥७॥

छायाशापात्पदं चैकं यमस्य क्लिन्नमुत्तमम् ॥
पूयशोणित संपूर्णं कृमीणां निचयान्वितम् ॥८॥

सोपि गोकर्णमाश्रित्य फलकेनानिलाशनः ॥
आराधयन्महादेवं यावद्वर्षायुतायुतम् ॥९॥

भवप्रर्सादादागत्य लोकपालत्वमुत्तमम् ॥
पितॄणामाधिपत्यं तु शापमोक्षं तथैव च ॥१०॥

लब्धवान्देवदेवस्य प्रभावाच्छूलपाणिनः ॥
असंहती पुरा भानोस्तेजोमयमनिंदिता ॥११॥

रूपं त्वाष्ट्री स्वदेहात्तु छायाख्यां सा त्वकल्पयत् ॥
वडवारूपमास्थाय तपस्तेपे तु सुव्रता ॥१२॥

कालात्प्रयत्नतो ज्ञात्वा छायां छायापतिः प्रभुः ॥
वडवामगमत्संज्ञामश्वरूपेण भास्करः ॥१३॥

वडवा च तदा त्वाष्ट्री संज्ञा तस्माद्दिवाकरात् ॥
सुषुवे चाश्विनौ देवौ देवानां तु भिषग्वरौ ॥१४॥

लिखितो भास्करः पश्चात्संज्ञापित्रा महात्मना ॥
विष्णोश्चक्रं तु यद्घोरं मंडलाद्भास्करस्य तु ॥१५॥

निर्ममे भगवांस्त्वष्टा प्रधानं दिव्यमायुधम् ॥
रुद्रप्रसादाच्च शुभं सुदर्शनमिति स्मृतम् ॥१६॥

लब्धवान् भगवांश्चक्रं कृष्णः कालाग्निसन्निभम् ॥
मनोस्तु प्रथमस्यासन्नव पुत्रास्तु तत्समाः ॥१७॥

इक्ष्वाकुर्नभगश्चैव धृष्णुः शर्यातिरेव च ॥
नरिष्यंतश्च वै धीमान् नाभागोरिष्ट एव च ॥१८॥

करूषश्च पृषध्रश्च नवैते मानवाः स्मृताः ॥
इला ज्येष्ठा वरिष्ठा च पुंस्त्वं प्राप च या पुरा ॥१९॥

सुद्युम्न इति विख्याता पुंस्त्वं प्राप्ता त्विला पुरा ॥
मित्रावरुणयोस्त्वत्र प्रसादान्मुनिपुंगवाः ॥२०॥

पुनः शरवणं प्राप्य स्त्रीत्वं प्राप्तो भवाज्ञया ॥
सुद्युम्नो मानवः श्रीमान् सोमवंशप्रवृद्धये ॥२१॥

इक्ष्वाकोरश्वमेधेन इला किंपुरुषोऽभवत् ॥
इला किंपुरुषत्वे च सुद्युम्न इति चोच्यते ॥२२॥

मासमेकं पुमान्वीरः स्त्रीत्वं मासमभूत्पुनः ॥
इला बुधस्य भवनं सोमपुत्रस्य चाश्रिता ॥२३॥

बुधेनांतरमासाद्य मैथुनाय प्रविर्तिता ॥
सोमपुत्राद्बुधाच्चापि ऐलो जज्ञे पुरूरवाः ॥२४॥

सोमवंशाग्रजो धीमान्भवभक्तः प्रतापवान् ॥
इक्ष्वाकोर्वंशविस्तारं पश्चाद्वक्ष्ये तपोधनाः ॥२५॥

पुत्रत्रयमभूत्तस्य सुद्युम्नस्य द्विजोत्तमाः ॥
उत्कलश्च गयश्चैव विनताश्वस्तथैव च ॥२६॥

उत्कलस्योत्कलं राष्ट्रं विनताश्वस्य पश्चिमम् ॥
गया गयस्य चाख्याता पुरी परमशोभना ॥२७॥

सुराणां संस्थितिर्यस्यां पितॄणां च सदा स्थितिः ॥
इक्ष्वाकुज्येष्ठदायादो मध्येदशमवाप्तवान् ॥२८॥

कन्याभावाच्च सुद्युम्नो नैव भागमवाप्तवान् ॥
वसिष्ठवचनात्त्वासीत्प्रतीष्ठाने महाद्युतिः ॥२९॥

प्रतिष्ठा धर्मराजस्य सुद्युम्नस्य महात्मनः ॥
तत्पुरूरवसे प्रादाद्राज्यं प्राप्यः महायशाः ॥३०॥

मानवेयो महाभागः स्त्रीपुंसोर्लक्षणान्वितः ॥
इक्ष्वाकोरभवद्वीरो विकुक्षिर्धर्मवित्तमः ॥३१॥

ज्येष्ठः पुत्रशतस्यासीद्दश पंच च तत्सुताः ॥
अभूज्ज्येष्ठः ककुत्स्थश्च ककुत्स्थात्तु सुयोधनः ॥३२॥

ततः पृथुर्मुनिश्रेष्ठा विश्वकः पार्थिवस्तथा ॥
विश्वकस्यार्द्रको धीमान्युवनाश्वस्तु तत्सुतः ॥३३॥

शाबस्तिश्च महातेजा वंशकस्तु ततोभवत् ॥
निर्मिता येन शाबस्ती गौडदेशे द्विजोत्तमाः ॥३४॥

वंशाच्च बृहदश्वोभूत्कुवलाश्वस्तु तत्सुतः ॥
धुंधुमारत्वमापन्नो धुंधुं हत्वा महाबलम् ॥३५॥

धंधुमारस्य तनयास्त्रयस्त्रैलोक्यविश्रुताः ॥
दृढाश्वश्चैव चंडाश्वः कपिलाश्वश्च ते स्मृताः ॥३६॥

दृढाश्वस्य प्रमोदस्तु हर्यश्वस्तस्य वै सुतः ॥
हर्यश्वस्य निकुंभस्तु संहताश्वस्तु तत्सुतः ॥३७॥

कृशाश्वोथरणाश्वश्च संहताश्वात्मजावुभौ ॥
युवनाश्वो रणाश्वस्य मांधाता तस्य वै सुतः ॥३८॥

मांधातुः पुरुकुत्सोभूदंबरीषश्च वीर्यवान् ॥
मुचुकुंदश्च पुण्यात्मा त्रयस्त्रैलोक्यविश्रुताः ॥३९॥

अंबरीषस्य दायादो युवानाश्वोपरः स्मृतः ॥
हरितो युवनाश्वस्य हरितास्तु यतः स्मृताः ॥४०॥

एते ह्यंगिरसः पक्षे क्षत्रोपेता द्विजातयः ॥
पुरुकुत्सस्य दायादस्त्रसद्दस्युर्महायशाः ॥४१॥

नर्मदायां समुत्पन्नः संभूतिस्तस्य चात्मजः ॥
विष्णुवृद्धः सुतस्तस्य विष्णुवृद्धा यतः स्मृताः ॥४२॥

एते ह्यंगिरसः पक्षे क्षत्रोपेताः समाश्रिताः ॥
संभूतिरपरं पुत्रमनरण्यमजीजनत् ॥४३॥

रावणेन हतो योऽसौ त्रैलोक्यविजये द्विजाः ॥
बृहदश्वोऽनरण्यस्य हर्यश्वस्तस्य चात्मजः ॥४४॥

हर्यश्वात्तु दृषद्वत्यां जज्ञे वसुमना नृपः ॥
तस्य पुत्रोभवद्राजा त्रिधन्वा भवभावितः ॥४५॥

प्रसादाद्ब्रह्मसूनोर्वै तंडिनः प्राप्य शिष्यताम् ॥
अश्वमेधसहस्रस्य फलं प्राप्य तदाज्ञया ॥४६॥

गणैश्वर्यमनुप्राप्तो भवभक्तः प्रतापवान् ॥
कथं चैवाश्वमेधं वै करोमीति विचिंतयन् ॥४७॥

धनहीनश्च धर्मात्मा दृष्टवान् ब्रह्मणः सुतम् ॥
तंडिसंज्ञं द्विजं तस्माल्लब्धवान्द्विजसत्तमाः ॥४८॥

नाम्नां सहस्रं रुद्रस्य ब्रह्मणा कथितं पुरा ॥
तेन नाम्नां सहस्रेण स्तुत्वा तण्डिर्महेश्वरम् ॥४९॥

लब्धवान्गाणपत्यं च ब्रह्मयोनिर्द्विजोत्तमः ॥
ततस्तस्मान्नृपो लब्ध्वा तण्डिना कथितं पुरा ॥५०॥

नाम्नां सहस्रं जप्त्वा वै गाणपत्यमवाप्तवान् ॥
ऋषय ऊचुः ॥
नाम्नां सहस्रं रुद्रस्य तांडिना ब्रह्मयोनिना ॥५१॥

कथितं सर्ववेदार्थसंचयं सूत सुव्रत ॥
नाम्नां सहस्रं विप्राणां वक्तुमर्हसि शोभनम् ॥५२॥

सूत उवाच ॥
सर्वभूतात्मभूतस्य हरस्यामिततेजसः ॥
अष्टोत्तरसहस्रं तु नाम्नां श्रृणुत सुव्रताः ॥५३॥

यज्जप्त्वा तु मुनिश्रेष्ठा गाणपत्यमवाप्तवान् ॥
ॐ स्थिरः स्थाणुः प्रभुर्भानुः प्रवरे वरदो वरः ॥५४॥

सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥
जटी दंडी शिखंडी च सर्वगः सर्वभावनः ॥५५॥

हरिश्च हरिणाक्षश्च सर्वभूतहरः स्मृतः ॥
प्रवृत्तिश्च निवृत्तिश्च शांतात्मा शाश्वतो ध्रुवः ॥५६॥

श्मशानवासी भगवान्खचरो गोचरेर्दनः ॥
अभिवाद्यो महाकर्मा तपस्वी भूतधाराणः ॥५७॥

उन्मत्तवेषः प्रच्छन्नः सर्वलोकः प्रजापतिः ॥
महारूपो महाकायः सर्वरूपो महायशाः ॥५८॥

महात्मा सर्वभूतश्च विरुपो वामनो नरः ॥
लोकपालोऽन्तर्हितात्मा प्रसादोऽभयदो विभुः ॥५९॥

पवित्रश्च महांश्चैव नियतो नियताश्रयः ॥
स्वयंभूः सर्वकर्मा च आदिरादिकरो निधिः ॥६०॥

सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः ॥
चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्मतः ॥६१॥

राजा राज्योदयः कर्ता मृगबाणार्पणो घनः ॥
महातपा दर्घितपा अदृश्यो धनसाधकः ॥६२॥

संवत्सरः कृतो मंत्र प्राणायामः परंतपः ॥
योगी योगो महाबीजो महारतो महाबलः ॥६३॥

सुवर्णरेताः सर्वज्ञः सुबीजो वृषवाहनः ॥
दशबाहुस्त्वनिमिषो नीलकंठ उमापतिः ॥६४॥

विश्वरूपः स्वयंश्रेष्ठो बलवीरो बलाग्रणीः ॥
गणकर्ता गणपतिर्दिग्वासाः काम्य एव च ॥६५॥

मंत्रवित्परमो मंत्रः सर्वभावकरो हरः ॥
कमंडलुधरो धन्वी बाणहस्तः कपालवान् ॥६६॥

शरी शतघ्नी खङ्गी च पट्टिशी चायुधी महान् ॥
अजश्च मृगरूपश्च तेजस्तेजस्करो विधिः ॥६७॥

उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा ॥
दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च ॥६८॥

श्रृगालरूपः सर्वार्थो मुंडः सर्वशुभंकरः ॥
सिंहशार्दूलरूपश्च गंधकारी कपर्द्यपि ॥६९॥

ऊर्ध्वरेतोर्ध्वलिङ्गी च ऊर्ध्वशायी नभस्तलः ॥
त्रिजटी चीरवासाश्च रुद्रः सेना पतिर्विभुः ॥७०॥

अहोरात्रं च नक्तं च तिग्ममन्युः सुवर्चसः ॥
गजहा दैत्यहा कालो लोकधाता गुणाकरः ॥७१॥

सिंहशार्दुलरूपाणामार्द्रचर्मांबरंधरः ॥
कालयोगी महानादः सर्वावासश्चतुष्पथः ॥७२॥

निशाचरः प्रेतचारी सर्वदर्शी महेश्वरः ॥
बहु भूतो बहुधनः सर्वसारोऽमृतेश्वरः ॥७३॥

नृत्यप्रियो नित्यनृत्यो नर्तनः सर्वसाधकः ॥
सकार्मुको महाबाहुर्महाघोरो महातपाः ॥७४॥

महाशरो महापाशो नित्यो गिरिचरो मतः ॥
सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः ॥७५॥

अमर्षणो मर्षणात्मा यज्ञहा काम नाशनः ॥
दक्षहा परिचारि च प्रहसो मध्यमस्तथा ॥७६॥

तेजोपहारि बलवान्विदितोऽभ्युदितो बहुः ॥
गंभीरघोषो योगात्मा यज्ञहा कामनाऽशनः ॥७७॥

गंभीररोषो गंभीरो गंभीरबलवाहनः ॥
न्यग्रोधरूपो न्यग्रोचो वश्वकर्मा च विश्वभुक् ॥७८॥

तीक्ष्णोपायश्च हर्यश्वः सहायः कर्मकालवित् ॥
विष्णुः प्रसादितो यज्ञः समुद्रो वडवामुखः ॥७९॥

हुताशनसहसायश्च प्रशांतात्मा हुताशनः ॥
उग्रतेजा महातेजा जयो विजयकालवित् ॥८०॥

ज्योतिषामयनं सिद्धिः संधिर्विग्रह एव च ॥
खङ्गी शंखी जटी ज्वाली खचरो द्युचरो बली ॥८१॥

वैणवी पणवी कालः कालकंठः कटं कटः ॥
नक्षत्रविग्रहो भावो निभावः सवतोमुखः ॥८२॥

विमोचनस्तु शरणो हिरण्यकवचोद्भवः ॥
मेखलाकृतिरूपश्च जलाचारः स्तुत स्तथा ॥८३॥

वीणी च पणवी ताली नाली कलिकटुस्तथा ॥
सर्वतूर्यनिनादी च सर्वव्याप्य परिग्रहः ॥८४॥

व्यालरूपी बिलावासी गुहावासी तरंगवित् ॥
वृक्षः श्रीमालकर्मा च सर्वबंधविमोचनः ॥८५॥

बंधनस्तु सुरेन्द्राणां युधि शत्रुविनाशनः ॥
सखा प्रवासो दुर्वापः सर्वसाधुनिषेवितः ॥८६॥

प्रस्कंदोप्यविभावश्च तुल्यो यज्ञविभागवित् ॥
सर्ववासः सर्वचारी दुर्वासा वासवो मतः ॥८७॥

हैमो हेमकरो यज्ञः सर्वधारी धरोत्तमः ॥
आकाशो निर्विरूपश्च विवासा उरगः खगः ॥८८॥

भिक्षुश्च भिक्षुरूपी च रौद्ररूपः सुरूपवान् ॥
वसुरेताः सुवचस्वी वसुवेगो महाबलः ॥८९॥

मनो वेगो निशाचारः सर्वलोकशुभप्रदः ॥
सर्वावासी त्रयीवासी उपदेशकरो धरः ॥९०॥

मुनिरात्मा मुनीर्लोकः सभाग्यश्च सहस्रभुक् ॥
पक्षी च पक्षरूपश्च अतिदीप्तो निशाकरः ॥९१॥

समीरो दमनाकारो ह्यर्थो ह्यर्थकरो वशः ॥
वासुदेवश्च देवश्च वामदेवश्च वामनः ॥९२॥

सिद्धियोगापहारी च सिद्धः सर्वार्थसाधकः ॥
अक्षुण्णक्षुण्णरूपश्च वृषणो मृदुरव्ययः ॥९३॥

महासेनो विशाखश्च षष्टिभागो गवां पतिः ॥
चक्रहस्तस्तु विष्टंभी मूलस्तम्भन एव च ॥९४॥

ऋतुर्ऋतुकरस्तालो मधुर्मधुकरो वरः ॥
वानस्पत्यो वाजसनो नित्यमाश्रम पूजितः ॥९५॥

ब्रह्मचारी लोकचारि सर्वचारि सुचारवित् ॥
ईशान ईश्वरः कालो निशाचारी ह्यनेकदृक् ॥९६॥

निमित्तस्थो निमित्तं च नंदीर्नंदिकरो हरः ॥
नंदीश्वरः सुनंदी च नंदनो विषमर्दनः ॥९७॥

भगहारी नियंता च कालो लोकपितामहः ॥
चतुर्मुखो महालिंगश्चारुलिङ्गस्तथैव च ॥९८॥

लिंगाध्यक्षः सुराध्यक्षः कालाध्यक्षो युगावहः।
बीजाध्यक्षो बीजकर्ता अद्यात्मानुगतो बलः ॥९९॥

इतिहासश्च कल्पश्च दमनो जगदीश्वरः ॥
दंभो दंभकरो दाता वंशो वंशकरः कलिः ॥१೦०॥

लोककर्ता पशुपतिर्महाकर्ता ह्यधोक्षजः ॥
अक्षरं परमं ब्रह्म बलवाञ्छुक्त एव च ॥१॥(१೦१)

नित्यो ह्यनीशः शुद्धात्मा शुद्धो मानो गतिर्हविः ॥
प्रासादस्तु बलो दर्पो दर्पणो हव्य इन्द्रजित् ॥२॥(१೦२)

वेदकारः सूत्रकारो विद्वांश्च परमर्दनः ॥
महामेघनिवासी च महाघोरो वशी करः ॥३॥(१೦३)

अग्निज्वालो महाज्वालः परिधूम्रावृतो रविः ॥
धिषणः शंकरो नित्यो वर्चस्वी धूम्रलोचनः ॥४॥(१೦४)

नलिस्तकथाङ्गलुप्तश्च शोभनो नरविग्रहः ॥
स्वस्ति स्वस्तिस्वभावश्च भोगी भोगकरो लघुः ॥५॥(१೦५)

उत्संगश्च महांगश्च महागर्भः प्रतापवान् ॥
कृष्णवर्णः सुवर्णश्च इन्द्रियः सर्ववर्णिकः ॥६॥(१೦६)

महापादो महाहस्तो महाकायो महायशाः ॥
महामूर्धा महामात्रो महामित्रो नगालयः ॥७॥(१೦७)

महास्कंधो महाकर्णो महोष्ठश्च महाहनुः ॥
महानासो महाकंठो महाग्रीवः श्मशानवान् ॥८॥(१೦८)

महाबलो महातेजा ह्यंतरात्मा मृगालयः ॥
लंबितोष्ठश्च निष्ठश्च महामायः पयोनिधिः ॥९॥(१೦९

महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ॥
महानखो महारोमा महाकेशो महाजटः ॥१०॥(११೦)

असपत्नः प्रसादश्च प्रत्ययो गीतसाधकः ॥
प्रस्वेदनोऽस्वहेनश्च आदिकश्च महामुनिः ॥११॥(१११)

वृषको वृषकेतुश्च अनलो वायुवाहनः ॥
मंडली मेरुवासश्च देववाहन एव च ॥१२॥(११२)

अथर्वशीर्षः सामास्य ऋक्सहस्रोर्जितेक्षणः ॥
यजुः पादभुजो गुह्यः प्रकाशौजास्तथैव च ॥१३॥(११३)

अमोघार्थप्रसादश्च अंतर्भाव्यः सुदर्शनः ॥
उपहारः प्रियः सर्वः कनकः कांचनस्थितः ॥१४॥(११४)

नाभिर्जन्दिकरो हर्म्यः पुष्करः स्थपतिः स्थितः ॥
सर्वशास्त्रो धनश्चाद्यो यज्ञो यज्वा समाहितः ॥१५॥(११५)

नगो नीलः कविः कालो मकरः कालपूजितः ॥
सगणो गणकारश्च भूतभावनसारथिः ॥१६॥(११६)

भस्मशायी भस्मगोप्ता भस्मभूततनुर्गमः ॥
आगमश्च विलोपश्च महात्मा सर्वपूजितः ॥१७॥(११७)

शुक्लः स्त्रीरूपसंपन्नः शुचिर्भूतनिषेवितः ॥
आश्रमस्थः कपोतस्थो विश्वकर्मा पतिर्विराट् ॥१८॥(११८)

विशालशाखस्ताम्रोष्ठो ह्यंबुजालः सुनिश्चितः ॥
कपिलः कलशः स्थूल आयुधश्चैव रोमशः ॥१९॥(११९)

गंधर्वो ह्यदितिस्तार्क्ष्यो ह्यविज्ञेयः सुशारदः ॥
परश्वधायुधो देवो ह्यर्थकारी सुबांधवः ॥२०॥(१२೦)

तुंबवीणो महाकोप ऊर्ध्वरेता जलेशयः ॥
उग्रो वंशकरो वंशो वंशवादी ह्यनिन्दितः ॥२१॥(१२१)

सर्वांगरूपी मायावी सुहृदो ह्यनिलो बलः ॥
बंधनो बंधकर्ता च सुबंधनविमोचनः ॥२२॥(१२२)

राक्षसघ्नोऽथ कामारिर्महादंष्ट्रो महायुधः ॥
लंबितो लंबितोष्ठश्च लंबहस्तो वरप्रदः ॥२३॥(१२३)

बाहुस्त्वनिंदितः सर्वः शंकरोथाप्यकोपनः ॥
अमरेशो महाघोरो विश्वदेवः सुरारिहा ॥२४॥(१२४)

अहिर्बुध्न्यो निर्ऋतिश्च चेकितानो हली तथा ॥
अजैकपाच्छ कापाली शं कुमारो महा गिरिः ॥२५॥(१२५)

धन्वंतरिर्धूमकेतुः सूर्यो वैश्रवणस्तथा ॥
धाता विष्णुश्च शक्रश्च मित्रस्त्वष्टा धरो ध्रुवः ॥२६॥(१२६)

प्रभासः पर्वतो वायुरर्यमा सविता रविः ॥
धृतिश्चैव विधाता च मांधाता भूतभावनः ॥२७॥(१२७)

नीरस्तीर्थश्च भीमश्च सर्वकर्मा गुणोद्वहः ॥
पद्मगर्भो महागर्भश्चंद्रवक्त्रो नभोऽनघः ॥२८॥(१२८)

बलवांश्चोपशांतश्च पुरामः पुण्यकृत्तमः ॥
क्रूरकर्ता क्रूरवासी तनुरात्मा महौषधः ॥२९॥(१२९)

सर्वाशयः सर्वचारी प्राणेशः प्राणिनां पतिः ॥
देवदेवः सुखोत्सिक्तः सदसत्सर्वरत्नवित् ॥३०॥(१३೦)

कैलासस्थो गुहावासी हिमवद्गिरिसंश्रयः ॥
कुलहारी कुलाकर्ता बहुवित्तो बहुप्रजः ॥३१॥(१३१)

प्राणेशो बंधकी वृक्षो नकुलश्चाद्रिकस्तथा ॥
ह्रस्वग्रीवो महाजानुरलोलश्च महौषधिः ॥३२॥(१३२)

सिद्धांतकारी सिद्धार्थश्छंदो व्याकरणोद्भवः ॥
सिंहनादः सिंहदंष्ट्रः सिंहास्यः सिंहवाहनः ॥३३॥(१३३)

प्रभावात्मा जगत्कालः कालः कंपी तरुस्तनुः ॥
सारंगो भूतचक्रांकः केतुमाली सुवेधकः ॥३४॥(१३४)

भूतालयो भूतपतिरहोरात्रो मलोऽमलः ॥
वसुभृत्सर्वभूतात्मा निश्चलः सुविदुर्बुधः ॥३५॥(१३५)

असुहृत्सर्वभूतानां निश्चलश्चलविद्बुधः ॥
अमोघः संयमो हृष्टो भोजनः प्राणधारणः ॥३६॥(१३६)

धृतिमान्मतिमांस्त्र्यक्षः सुकृतस्तु युधांपतिः ॥
गोपालो गोपतिर्ग्रामो गोचर्मवसनो हरः ॥३७॥(१३७)

हिरण्यबाहुश्च तथा गुहावासः प्रवेशनः ॥
महामना महाकामो चित्तकामो जितेन्द्रियः ॥३८॥(१३८)

गांधारश्च सुरापश्च तापकर्मरतो हितः ॥
महाभूतो भूतवृतो ह्यप्सरो गणसेवितः ॥३९॥(१३९)

महाकेतुर्धराधाता नैकतानरतः स्वरः ॥
अवेदनीय आवेद्यः सर्वगश्च सुखावहः ॥४०॥(१४೦)

तारणश्चरणो धाता परिधा परिपूजितः ॥
संयोगी वर्धनो वृद्धो गणिकोऽथ गणाधिपः ॥४१॥(१४१)

नित्यो धाता सहायश्च देवासुरपतिः पतिः ॥
युक्तश्च युक्तबाहुश्च सुदेवोपि सुपर्वणः ॥४२॥(१४२)

आषाढश्च सषाढश्च स्कधंदो हरितो हरः ॥
वपुरावर्तमानोऽन्यो वपुःश्रेष्ठो महावपुः ॥४३॥(१४३)

शिरो विमर्शनः सर्वलक्ष्यलक्षणभूषितः ॥
अक्षयो रथगीतश्च सर्वभोगी महाबलः ॥४४॥(१४४)

साम्नायोथ महाम्नायस्तीर्थदेवो महायशाः ॥
निर्जीवो जीवनो मंत्रः सुभगो बहुकर्कशः ॥४५॥(१४५)

रत्नभूतोऽथ रत्नाङ्गो महार्णवनिपातवित् ॥
मूलं विशालो ह्यमृतं व्यक्ताव्यक्तस्तपोनिधिः ॥४६॥(१४६)

आरोहणोधिरोहश्च शीलधारी महातपाः ॥
महाकण्ठो महायोगी युगो युगकरो हरिः ॥४७॥(१४७)

युगरूपो महारूपो वहनो गहनो नगः ॥
न्यायो निर्वापणोऽपादः पण्डितो ह्यचलोपमः ॥४८॥(१४८)

बहुमालो महामालः शिपिविष्टः सुलोचनः ॥
विस्तारो लवणः कूपः कुसुमांगः फलोदयः ॥४९॥(१४९)

ऋषभो वृषभो भंगो माणिर्बिंबजटाधरः ॥
इंदुर्विसर्गः सुमुखः शूरः सर्वायुधः सहः ॥५०॥(१५೦)

निवेदनः सुधाजातः स्वर्गद्वारो महाधनुः ॥
गिरावासो विसर्गश्च सर्वलक्षणलक्षवित् ॥५१॥(१५१)

गन्धमाली च भगवाननन्तः सवलक्षणः ॥
संतानो बहुलो बाहुः सकलः सर्वपावनः ॥५२॥(१५२)

करस्थाली कपाली च ऊर्ध्वसंहननो युवा ॥
यंत्रतंत्रसुविख्यातो लोकः सर्वाश्रयो मृदुः ॥५३॥(१५३)

मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः ॥
वार्यक्षः ककुभो वज्री दीप्तेजाः सहस्रपात् ॥५४॥(१५४)

सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ॥
सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् ॥५५॥(१५५)

पवित्रं त्रिमधुर्मंत्रः कनिष्ठः कृष्णपिंगलः ॥
ब्रह्मदंडविनिर्माता शतघ्नः शतपाशधृक् ॥५६॥(१५६)

कला काष्ठा लवो मात्रा मुहूर्तोहः क्षपा क्षणः ॥
विश्वक्षेत्रप्रदो बीजं लिंगमाद्यस्तु निर्मुखः ॥५७॥(१५७)

सदसद्व्यक्तमव्यक्तं पिता माता पितामहः ॥
स्वर्गद्वारं मोक्षद्वारं प्रजाद्वारं त्रिविष्टपः ॥५८॥(१५८)

निर्वाणं हृदयश्चैव ब्रह्मलोकः परा गतिः ॥
देवासुरविनिर्माता देवासुरपरायणः ॥५९॥(१५९)

देवासुरगुरुर्देवो देवासुरनमस्कृतः ॥
देवासुरमहामात्रो देवासुरगणाश्रयः ॥६०॥(१६೦)

देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ॥
देवाधिदेवो देवर्षिदेवासुरवरप्रदः ॥६१॥(१६१)

देवासुरेश्वरो विष्णुर्देवासुरमहेश्वरः ॥
सर्वदेवमयोऽचिंत्यो देवतात्मा स्वयंभवः ॥६२॥(१६२)

उद्गतस्त्रिक्रमो वैद्यो वरदोऽवरजोंबरः ॥
इज्यो हस्ती तथा व्याघ्रो देवसिंहो महर्षभः ॥६३॥(१६३)

विबुधाग्र्यः सुरः श्रेष्ठः स्वर्गदेवस्तथोत्तमः ॥
संयुक्तः शोभनो वक्ता आशानां प्रभवोव्ययः ॥६४॥(१६४)

गुरुः कांतो निजः सर्गः पवित्रः सर्ववाहनः ॥
श्रृंगी श्रृंगप्रियो बभ्रू राजराजो निरामयः ॥६५॥(१६५)

अभिरामः सुशरणो निरामः सर्वसाधनः ॥
ललाटाक्षो विश्वदेहो हरिणो ब्रह्मवर्चसः ॥६६॥(१६६)

स्थावराणां पतिश्चैव नियतेन्द्रियवर्तनः ॥
सिद्धार्थः सर्वभूतार्थोऽचिंत्यः सत्यः शुचिव्रतः ॥६७॥(१६७)

व्रताधिपः परं ब्रह्म मुक्तानां परमा गातिः ॥
विमुक्तो मुक्तकेशश्च श्रीमाञ्छ्रीवर्धनो जगत् ॥६८॥(१६८)

यथाप्रधानं भगवानिति भक्त्या स्तुतो मया ॥
भक्तिमेवं पुरुस्कृत्य मया यज्ञपतिर्विभुः ॥६९॥(१६९)

ततो ह्यनुज्ञां प्राप्यैवं स्तुतो भक्तिमतां गतिः ॥
तस्माल्लब्ध्वा स्तवं शंभोर्नृपस्त्रैलोक्यविश्रुतः ॥७०॥(१७೦)

अश्वमेधसहस्रस्य फलं प्राप्य महायशाः ॥
गणाधिपत्यं संप्राप्तस्तंडिनस्तेजसा प्रभोः ॥७१॥(१७१)

यः पठेच्छ्रुणुयाद्वापि श्रावयेद्ब्राह्मणानपि ॥
अश्वमेधसहस्रस्य फलं प्राप्नोति वै द्विजाः ॥७२॥(१७२)

ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ॥
शरणागतधाती च मित्रविश्वासघातकः ॥७३॥(१७३)

मातृहा पितृहा चैव विरहा भ्रूणहा तथा ॥
संवत्सरं क्रमाज्जप्त्वा त्रिसंध्यं शंकराश्रमे ॥७४॥(१७४॥

देवभिष्ट्वा त्रिसंध्यं च सर्वपापैः प्रमुच्यते ॥१७५॥

इति श्रीलिंगमहापुराणे पूर्वभागे रुद्रसहस्रनामकथनं नाम पंचषष्टित्तमोध्यायः ॥६५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:26.1130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

acardiac monster

  • हृदयहीन राक्षस 
RANDOM WORD

Did you know?

मंदिराला कळस बांधतात, पण घरातील देव्हार्‍याला कळस का नसतो?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.