TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|लिङ्गपुराणम्|पूर्वभागः|
अध्यायः ८४

पूर्वभागः - अध्यायः ८४

अठरा पुराणांमध्ये भगवान्‍ शंकराची महान महिमा लिंगपुराणात वर्णिलेली आहे. यात ११००० श्लोक आहेत. प्रथम योग आणि नंतर कल्प असे विवेचन गुरू वेदव्यास यांनी या पुराणात सांगितले आहे. हा शिव पुराणाच पूरक ग्रंथ आहे.


अध्यायः ८४
सूत उवाच ॥
उमामहेश्वरं वक्ष्ये व्रतमीश्वरभाषितम् ॥
नरनार्यादिजंतूनां हिताय मुनिसत्तमाः ॥१॥

पौर्णमास्याममावास्यां चतुर्दस्यष्टमीषु च ॥
नक्तमब्दं प्रकुर्वीत हविष्यं पूजयेद्भवम् ॥२॥

उमामहेशप्रतिमां हेम्ना कृत्वा सुशोभनाम् ॥
राजतीं वाथ वर्षांते प्रतिष्ठाप्य यथाविधि ॥३॥

ब्राह्मणान् भोजयित्वा च दत्त्वा शक्त्या च दक्षिणाम् ॥
रथाद्यैर्वापि देवेशं नीत्वा रुद्रालयं प्रति ॥४॥

सर्वातिशयसंयुक्तैश्छत्रचामरभूषणैः ॥
निवेदयेद्व्रतं चैव शिवाय परमेष्ठिने ॥५॥

स याति शिवासायुज्यं नारी देव्या यदि प्रभो ॥
अष्टम्यां च चतुर्दश्यां नियता ब्रह्मचारिणी ॥६॥

वर्षमेकं न भुंजीत कन्या वा विधवापि वा ॥
वर्षांते प्रतिमां कृत्वा पूर्वोक्तविधिना ततः ॥७॥

प्रतिष्ठाप्य यथान्यायं दत्त्वा रुद्रालये पुनः ॥
ब्राह्मणान् भोजयित्वा च भवान्या सह मोदते ॥८॥

या नार्येवं चरेदब्दं कृष्णामेकां चतुर्दशीम् ॥
वर्षांते प्रतिमां कृत्वा येन केनापि वा द्विजाः ॥९॥

पूर्वोक्तमखिलं कृत्वा भवान्या सह मोदते ॥
अमावास्यां निराहारा भवेदब्दं सुयंत्रिता ॥१०॥

शूलं च विधिना कृत्वा वर्षांते विनिवेदयेत् ॥
स्नाप्येशानं यजेद्भक्त्या सहस्रैः कमलैः सितैः ॥११॥

राजतं कमलं चैव जांबूनदसुकर्णिकम् ॥
दत्त्वा भवाय विप्रेभ्यः प्रदद्याद्दक्षिणामपि ॥१२॥

कामतोपि कृतं पापं भ्रूणहत्यादिकं च यत् ॥
तत्सर्वं शूलदानेन भिंद्यान्नारी न संशयः ॥१३॥

सायुज्यं चैवमाप्नोति भवान्या द्विजसत्तमाः ॥
कुर्याद्यद्वा नरः सोपि रुद्रसायुज्यमाप्नुयात् ॥१४॥

पौर्णमास्याममावास्यां वर्षमेकमतंद्रिता ॥
उपवासरता नारी नरोपि द्विजसत्तमाः ॥१५॥

नियोगादेव तत्कार्यं भर्तॄणां द्विजसत्तमाः ॥
जपं दानं तपः सर्वमस्वतंत्रा यतः स्त्रियः ॥१६॥

वर्षांते सर्वगंधाढ्यां प्रतिमां संनिवेदयेत् ॥
सा भवान्याश्च सायुज्यं सारूयं चापि सुव्रता ॥१७॥

लभते नात्र संदेहः सत्यंसत्यं वदाम्यहम् ॥
कार्तिक्यां वा तु या नारी एकभक्तेन वर्तते ॥१८॥

क्षमाहिंसादिनियमैः संयुक्ता ब्रह्मचारिणी ॥
दद्यात्कृष्णतिलानां च भारमेकमतंद्रिया ॥१९॥

सघृतं सगुडं चैव ओदनं परमेष्ठिने ॥
दत्त्वा च ब्राह्मणेभ्यश्च यथाविभवविस्तरम् ॥२०॥

अष्टम्यां च चतुर्दश्यामुपवासरता च सा ॥
भवान्या मोदते सार्धं सारूप्यं प्राप्य सुव्रता ॥२१॥

क्षमा सत्यं दया दानं शौचमिंद्रियनिग्रहः ॥
सर्वव्रतेष्वयं धर्मः सामान्यो रुद्रपूजनम् ॥२२॥

समासाद्वः प्रवक्ष्यामि प्रतिमासमनुक्रमात् ॥
मार्गशीर्षकमासादि कार्तिक्यांतं यताक्रमम् ॥२३॥

व्रतं सुविपुलं पुण्यं नंदिना परिभाषितम् ॥
मार्गशीर्षकमासेथ वृषं पूर्णांगमुत्तमम् ॥२४॥

अलंकृत्य यथान्यायं शिवाय विनिवेदयेत् ॥
सा च सार्धं भवान्या वै मोदते नात्र संशयः ॥२५॥

पुष्यमासे तु वै शूलं प्रतिष्ठाप्य निवेदयेत् ॥
पूर्वोक्तमखिलं कृत्वा भवान्या सह मोदते ॥२६॥

माघमासे रथं कृत्वा सर्वलक्षणलक्षितम् ॥
दद्यात्संपूज्य देवेशं ब्राह्मणांश्चैव भोजयेत् ॥२७॥

सा च देव्या महाभाग मोदते नात्र संशयः ॥
फाल्गुने प्रतिमां कृत्वा हिरण्येन यथाविधि ॥२८॥

राजतेनापि ताम्रेण यथाविभवविस्तरम् ॥
प्रतिष्ठाप्य समभ्यर्च्य स्थापयेच्छंकरालये ॥२९॥

सा च सार्धं महादेव्या मोदते नात्र संशयः ॥
चैत्रे भवं कुमारं च भवानीं च यथाविधि ॥३०॥

ताम्राद्यैर्विधिवत्कृत्वा प्रतिष्ठाप्य यथाविधि ॥
भवान्या मोदते सार्धं दत्त्वा रुद्राय शंभवे ॥३१॥

कृत्वालयं हि कौबेरं राजतं रजतेन वै ॥
ईश्वरोमासमायुक्तं गणेशैश्च समंततः ॥३२॥

सर्वरत्नसमायुक्तं प्रतिष्ठाप्य यथाविधि ॥
स्थापयेत्परमेशस्य भवस्यायतने शुभे ॥३३॥

वैशाखे वै चरेदेवं कैलासाख्यं व्रतोत्तमम् ॥
कैलासपर्वतं प्राप्य भवान्या सह मोदते ॥३४॥

ज्येष्ठे मासि महादेवं लिंगमूर्तिमुमापतिम् ॥
कृतांजलि पुटेनैव ब्रह्मणा विष्णुना तथा ॥३५॥

मध्ये भवेन संयुक्तं लिंगमूर्ति द्विजोत्तमाः ॥
हंसेन च वराहेण कृत्वा ताम्रादिभिः शुभाम् ॥३६॥

प्रतिष्ठाप्य यथान्यायं ब्राह्मणान् भोजयेत्ततः ॥
शिवाय शिवमासाद्य शिवस्थाने यथाविधि ॥३७॥

ब्राह्मणैः सहितां स्थाप्य देव्याः सायुज्यमाप्नुयात् ॥
आषाढे च शुभे मासे गृहं कृत्वा सुशोभनम् ॥३८॥

पक्वेष्टकाभिर्विधिवद्यथाविभवविस्तरम् ॥
सर्वबीजरसैश्चापि संपूर्णं सर्वशोभनैः ॥३९॥

गृहोपकरणैश्चैव मुसलोलूखलादिभिः ॥
दासीदासादिभिश्चैव शयनैरशनादिभिः ॥४०॥

संपूर्णैश्च गृहं वस्त्रैराच्छाद्य च समंततः ॥
देवं घृतादिभिः स्नाप्य महादेवमुमापतिम् ॥४१॥

ब्राह्मणानां सहस्रं च भोजयित्वा यथाविधि ॥
विद्याविनयसंपन्नं ब्राह्मणं वेदपारगम् ॥४२॥

प्रथमाश्रमिणं भक्त्या संपूज्य च यथाविधि ॥
कन्यां सुमध्यमां यावत्कालजीवनसंयुताम् ॥४३॥

क्षेत्रं गोमिथुनं चैव तद्गृहे च निवेदयेत् ॥
सायनैर्विविधैर्दिव्यैर्मेरुपर्वतसन्निभैः ॥४४॥

गोलोकं समनुप्राप्य भवान्या सह मोदते ॥
भवान्या सदृशीभूत्वा सर्वकल्पेषु साव्यया ॥४५॥

भवान्याश्चैव सायुज्यं लभते नात्र संशयः ॥
सर्वधातुसमाकीर्णं विचित्रध्वजशोभितम् ॥४६॥

निवेदयीत शर्वाय श्रावणे तिलपर्वतम् ॥
वितानध्वजवस्त्राद्यैर्धातुभिश्च निवेदयेत् ॥४७॥

ब्राह्मणान् भोजयित्वा च पूर्वोक्तमखिलं भवेत् ॥
कृत्वा भाद्रपदे मासि शोभनं शालिपर्वतम् ॥४८॥

वितानध्वजवस्त्राद्यैर्धातुभिश्च निवेदयेत् ॥
ब्राह्मणान् भोजयित्वा च दापयेच्च यथाविधि ॥४९

सा च सूर्यांशुसंकाशा भवान्या सह मोदते ॥
कृत्वा चाश्वयुजे मासि विपुलं धान्यपर्वतम् ॥५०॥

सुवर्णवस्त्रसंयुक्तं दत्त्वा संपूज्य शंकरम् ॥
ब्राह्मणान् भोजयित्वा च पूर्वोक्तमखिलं भवेत् ॥५१॥

सर्वधान्यसमायुक्तं सर्वबीजरसादिभिः ॥
सर्वधातुसमायुक्तं सर्वरत्नोपशोभितम् ॥५२॥

श्रृंगैश्चतुर्भिः संयुक्तं वितानच्छत्रशोभितम् ॥
गंधमाल्यैस्तथा धूपैश्चित्रैश्चापि सुशोभितम् ॥५३॥

विचित्रैर्नृत्यगेयैश्च शंखवीणादिभिस्तथा ॥
ब्रह्मघोषैर्महापुण्यं मंगलैश्च विशेषतः ॥५४॥

महाध्वजाष्टसंयुक्तं विचित्रकुसुमोज्जवलम् ॥
नगेन्द्रं मेरुनामानं त्रैलोक्याधारमुत्तमम् ॥५५॥

तस्य मूर्ध्नि शिवं कुर्यान्मध्यतो धातुनैव तु ॥
दक्षिणे च यथान्यायं ब्रह्माणं च चतुर्मुखम् ॥५६॥

उत्तरे देवदेवेशं नारायणमनामयम् ॥
इंद्रादिलोकपालांश्च कृत्वा भक्त्या यथाविधि ॥५७॥

प्रतिष्ठाप्य ततः स्नाप्य समभ्यर्च्य महेश्वरम् ॥
देवस्य दक्षिणे हस्ते शूलं त्रिदशपूजितम् ॥५८॥

वामे पाशं भवान्याश्च कमलं हेमभूषितम् ॥
विष्णोश्च शंखं चक्रं च गदामब्जं प्रयत्नतः ॥५९॥

ब्रह्मणश्चाक्षसूत्रं च कमंडलुमनुत्तमम् ॥
इंद्रस्य वज्रमग्नेश्चशक्त्याख्यं परमायुधम् ॥६०॥

यमस्य दंडं निर्ऋतेः खड्गं निशिचरस्य तु ॥
वरुणस्य महापाशं नागाख्यं रुद्रमद्भुतम् ॥६१॥

वायोर्यष्टिं कुबेरस्य गदां लोकप्रपूजिताम् ॥
टंकं चेशानदेवस्य निवेद्यैवं क्रमेण च ॥६२॥

शिवस्य महतीं पूजां कृत्वा चरुसमन्विताम् ॥
पूजयेत्सर्वदेवांश्च यथाविभवविस्तरम् ॥६३॥

ब्राह्मणान्भोजयित्वा च पूजां कृत्वा प्रयत्नतः ॥
महामेरुव्रतं कृत्वा महादेवाय दापयेत् ॥६४॥

महामेरुमनुप्राप्य महा देव्या प्रमोदते ॥
चिरं सायुच्यमाप्नोति महादेव्या न संशयः ॥६५॥

कार्तिक्यामपि या नारी कृत्वा देवीमुमां शुभाम् ॥
सर्वाभरण संपूर्णां सर्वलक्षणलक्षिताम् ॥६६॥

हेमताम्रादिभिश्चैव प्रतिष्ठाप्य विधानतः ॥
देवं च कृत्वा देवेशं सर्वलक्षणसंयुतम् ॥६७॥

तयोरग्रेहुताशं च स्रुवहस्तं पितामहम् ॥
नारायणं च दातारं सर्वाभरणभूषितम् ॥६८॥

लोकपालैस्तथा सिद्धैः संवृतं स्थाप्य यत्नतः ॥
रुद्रालये व्रतं तस्मै दापयेद्भक्तिपूर्वकम् ॥६९॥

सा भवान्यास्तनुं गत्वा भवेन सह मोदते ॥
एकभक्तव्रतं पुण्यं प्रतिमासमनुक्रमात् ॥७०॥

मार्गशीर्षकमासादिकार्तिकांतं प्रवर्तितम् ॥
नरनार्यादिजंतूनां हिताय मुनिसत्तमाः ॥७१॥

नरः कृत्वा व्रतं चैव शिवसायुज्यमाप्नुयात् ॥
नारी देव्या न संदेहः शिवेन परिभाषितम् ॥७२॥

इति श्रीलिंगमहापुराणे पूर्वभागे उमामहेश्वरव्रतं नाम चतुरशीतितमोध्यायः ॥८४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:27.2230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

गडबडाट

  • m  Extreme confusion; noise. 
RANDOM WORD

Did you know?

मंगळवारी येणार्‍या संकष्टी चतुर्थीस ‘ अंगारकी चतुर्थी ’ असे कां म्हणतात ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.