संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथपालाशप्रतिकृतिदाहादिविधिः

धर्मसिंधु - अथपालाशप्रतिकृतिदाहादिविधिः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथपालाशप्रतिकृतिदाहादिविधिःतत्रदेशान्तरमरणेपराकद्वयमष्टौकृच्छ्रान्वाकृत्वास्थीनिदहेत्

अस्थ्नांचाण्डालश्वादिस्पर्शेपञ्चगव्योदकादिभिःप्रक्षाल्यदहेत्

यस्यास्थीनिसर्वथानलभ्यन्तेतस्यपर्णशरदाहः कुर्याद्दर्भमयंप्रेतंकुशैस्त्रिशतषष्टिभिः ।

पालाशीभिःसमिद्भिर्वासंख्याचैवंप्रकीर्तिता तत्रभूमौकृष्णाजिनमास्तीर्यतत्रशरंदक्षिणायतांनिवेश्यतत्नपलाशवृन्तानिन्यसेत्

शिरसिचत्वारिंशत् ४० ग्रीवायांदश १० बाव्होःप्रत्येकंपञ्चाशदेवंशतं १०० कराडगुलीषुदश १०

उरसिर्विशतिः २० जठरेत्निंशत् ३० शिश्र्नेचत्वारि ४ अण्डयोस्त्रर्यत्नयम् ६ ऊर्वोःप्रत्येकंपञ्चाशदेवंशतम् १००

जङ्घातःपादतलान्तंप्रत्येकंपञ्चदशैवम् ३० पादाड्गुलीषुदश १० एवंषष्टयधिकशतत्रयमितैर्दर्भैः

पालाशसमिद्भिर्वाशरीरंकृत्वाऊर्णावस्त्रेणबध्वा जलमिश्रापिष्टेनलिम्पेत् शक्तौसत्यांनारिकेलादीन्यपि

तथाहि शिरसिनारिकेलफलंवर्तुलालाबुवा ललाटेकदलीपत्रम् दन्तेदाडिमबीजानि कर्णयोःकङ्कणं

ब्रह्मपत्नंवा चक्षुषोः कपर्दो २ नासिकायांतिलपुष्पम् नाभावब्जम् स्तनयोर्जम्बीरफलद्वयम्

वातेमनःशिलाम् पित्तेहरितालम् कफेसमुद्रफेनम् रुधिरेमधु पुरीषेगोमयम् मूत्रेगोमूत्रम्

रेतसिपारदम् वृषणयोर्वृन्ताकद्वयम् शिश्नेगृञ्जनम् केशेषुवनसूकरसटावटप्ररोहावा

लोमसुऊर्णाम् मांसेमाषपिष्टलेपः पञ्चगव्यैःपञ्चमृतैश्वसर्वतःसिञ्चनम् पुनर्नौअसुं०

असुनीतेइत्यृग्भ्यांप्राणप्रवेशंभावयेत् यद्वा यत्तेयममितिसूक्तेनशुक्रमसीतिपारदंक्षिप्त्वाअक्षीभ्यामितिशरीरंस्पृशेत्

शरीरंस्त्रापयित्वाचन्दनमनुलिप्यवस्त्रोपवीतेपरिघाय्यअयंसदेवदत्तइत्यभिमृश्यइदंचास्योपासनमितिध्यात्वाविधिवद्दाहादिकार्यम्

अत्नाहिताग्नेरस्थिदाहेपर्णशरदाहेवादशाहमाशौचमनाहिताग्नेरुयहमित्यादिप्रागुक्तमनुसंधेयम्

द्वादशाब्दादिप्रतीक्षोत्तरंपर्णशरदाहादिक्रियतेचेत्तदात्रिंशत्कृछ्राणिचांद्रायणत्रयंवाकृत्वाकार्यम् ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP