संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथाशौचापवादः

धर्मसिंधु - अथाशौचापवादः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथाशौचापवादः सपञ्चधा १ कर्तृतः २ कर्मतः ३ द्रव्यतः ४ मृतदोषतः ५ विधानत इति ॥

तत्रकर्तृतोयथा यतीनांब्रह्मचारिणांचसपिण्डजननमरणयोर्नाशौचम्‍ मातापितृमरणेतुयतिब्रह्मचारिणोःसचैलस्नानमात्रंभवत्येव

ब्रह्मचारिणःसमावर्तनोत्तरंब्रह्मचर्यदशायांमृतानापित्रादिसपिण्डानांत्रिरात्रमाशौचमुदकदानंचकार्यम्‍

अनुगमननिर्हरणनिमित्तक्त्वाशौचंब्रह्मचारिणोऽप्यस्त्येव पित्राद्यन्त्यकर्मकरणेब्रह्मचारिणआशौचमप्यस्त्येव

आरब्धप्रायश्चित्तानाप्रायश्चित्तानुष्ठानसमयेआशौचंन समाप्तेतुप्रायश्चित्तेत्रिरात्रमतिक्रान्ताशौचम्‍

कृतकर्माङ्गनान्दीश्राद्धानांतत्कर्मसमाप्तिपर्यन्तंतत्कर्मोपयोगिकार्येआर्त्यादिसंकटेआशौचन

जाताशौचमृताशौचवतोर्मरणसमयप्राप्तौनाशौचम्‍ तेनदानादिकंसतिवैराग्येआतुअस्यसंनासोऽपिबवतीतिसिन्ध्वादयः

देशविलवदुर्भिक्षादिमहापदिसद्यःशौचम्‍ आपदपगमेआशौचावशेषेअवशिष्टाशौचमस्त्येव ॥

 

अथकर्मतः अन्नसत्रिणामन्नादिदानेषुनाशौचम्‍ प्रतिग्रहीतुस्तुआमान्नग्रहणेदोषोन

पक्वान्नभोजनेतुत्रिरात्रंक्षीरपानम्‍ गृहीतेऽनन्तव्रतादावेकादश्यादौचारब्धमृच्छ्रादिव्रतेचनाशौचम्‍

तत्रस्नानादिशारीरनियमाःस्वयंकार्याः अनन्तपूजादिकमन्येनकारणीयम्

ब्राह्मणभोजनादिकमाशौचान्तेराजादीनांप्रजापालनादौनाशौचम्‌

ऋत्विजांमधुपर्कपूजोत्तरंतत्कर्मणिनाशौचम्‌

तेनयेष्वाधानपशुबन्धादिषुमधुपर्कोनोक्तस्तेषुकृतेपिवरणेतान्‌त्यक्त्वान्येऋत्विजःकार्याः

दीक्षितानांदीक्षणीयोत्तरमवभृथस्नानपर्यन्तंयज्ञकर्मणिनाशौचम्‌

दीक्षितर्त्विग्भ्यास्नानमात्रंकर्ममध्येकार्यम्‌ अवभृथात्पूर्वमेवाशौचाभावःअवभृथंतुनभवत्येवेतिसिन्धुः

कर्मान्तेतुत्रिरात्रंपूर्वन्यायात्‌ रोगभयराजभयादिनाशार्थेशान्तिकर्मणिनाशौचम्‌

क्षुत्पीडितकुटुम्बस्यप्रतिग्रहेनाशौचम्‌ विस्मरणशीलस्याधीतवेदशास्त्रध्ययनेपिनाशौचम्‌

वैद्यस्यनाडीस्पर्शनेनाशौचम्‌ श्राद्धेतूक्तम्‍

मूर्तिप्रतिष्ठाचौलोपनयनविवाहाद्युत्सवतडागाद्युत्सर्गकोटिहोमतुलापुरुषदानादिककर्मसुनान्दीश्राद्धोत्तरंनाशौचम्‌

संकल्पितेपुरश्चरणजपेऽविच्छेदेनसंकल्पितहरिवंशश्रवणादौचप्रारम्भोत्तरंनाशौचम्‌

कालादिनियमाभावेतुस्तोत्रहरिवंशादिकमाशौचेहेयमेव सर्वोप्ययमाशौचापवादोनन्यगतिकत्वेआर्तौचज्ञेय

इतिसिन्धौनागोजीयेचोक्तम्‌ तेनानन्यगतिकत्वादिमालोच्यैवाशौचाभावोयोज्यः अत्रयद्वक्तव्यंतत्पूर्वार्धेतत्रतत्रोक्तमेव ॥

 

केचित्तुव्रतेष्विवदीक्षितानामृत्विजामारब्धोत्सवादीनांचस्वरूपत

आरम्भतश्चावश्यकत्वादार्त्याद्यभावेप्याशौचाभाव इत्याहुः

कन्यायाक्रतुशङ्कादिसंकटेमुहूर्तान्तराभावेकूष्माण्डहोमादिनाजाताशौचेविवाहारम्भोपिकार्य

इत्युक्तम्‌ विवाहादिषुनान्दीश्राद्धोत्तरमाशौचेपातेपूर्वसंकल्पितान्नमसगोत्रैर्दातव्यंभोक्तव्यंच

दातारंभोक्तारंसिद्धान्नंचसूतकीनस्पृशेत्‌

विवाहादौतदन्यत्रवाभुञ्जानेषुविप्रेषुदातुराशौचपातेपात्रस्थमप्यन्नंत्यक्त्वान्यगेहोदकाचान्ताःशुध्यन्तीत्यादिपूर्वार्धउक्तम्‌

एवंसहस्त्रभोजनादावपिपूर्वसंकल्पितान्नेषुज्ञेयम्‌ पार्थिवशिवपूजायांनाशौचम्‌

आशौचेसंध्याश्रौतस्मार्तहोमादिविषयेपूर्वार्धेउक्तम्‌ अग्निसमारोपप्रत्यवरोहावाशौजयोर्नकार्यो तेन

समारोपोत्तरमाशौचपातेपुनराधानमेव सपारोपप्रत्यवरोहयोरन्यकर्तृकत्वस्याशौचापवादस्यचाभावात्‌

इदंबहृचानांद्वादशाहंहोमलोपेऽन्येषांत्र्यहंहोमलोपेएवपुनराधानंज्ञेयम्‌ ग्रहणनिमित्तकेस्नानश्राद्धदानादौनाशौचम्‌

कश्चित्स्नानमात्रंकार्यनश्राद्धादीत्याहसंक्रान्तिस्नानादावपिनाशौचम्‌

नित्यकृत्येषुस्नानाचमनभोजननियमास्पृश्यस्पर्शनादिनियमेषुनाशौचम्‌

अन्यद्वैश्वदेवब्रह्मज्ञयदेवपूजादिनित्यंनैमित्तिकं काम्यंचाशौचेषुनकार्यम्‌

भोजनकालेआशौचापाकजननमरणश्रवणेमुखस्यंग्रासंत्यक्त्वास्नायात्‌ मुखस्थग्रासभक्षणे

एकोपवासः सर्वान्नभोजनेत्रिरात्रोपवासः इतिकर्मतआशौचसदसद्भावविचारः ॥

 

अथद्रव्यतः

पुष्पफलमूललवणमधुमांसशाकतृणकाष्ठोदकक्षीरदधिघृतौषधतिलतद्विकारेक्षुतद्विकाराणांलाजादिभर्जितान्न

अस्यलड्डुकादीनांशौचिस्वामिकानामाशौचिगृहस्थितानाचग्रहणेदोषोन

आशौचिहस्तात्तकिमप्येतन्नग्राह्यम्‌ पण्येतुवणिजादेराशौचेपितद्धस्ताल्लवणादेरामान्नस्यचक्रयेनदोषः

जलदधिलाजादिकंतुक्रयेणापितद्धस्तान्नग्राह्यम्‌ ॥

 

अथमृतदोषतः

शास्त्रानुज्ञांविनाशस्त्राग्निविषजलपाषाणभृगुपातानशनादिभिर्बुद्धिपूर्वकंस्वेच्छयात्मघातकानांनाशौचम्‍

तच्चाघातनंक्रोधात्परोद्देशेनवास्तुस्वतएवेष्टसाधनताभ्रमेणवा

तथाचौर्यादिदोषेराजहतानांपारदार्येतत्पत्यादिहतानांविद्युद्धतानांचनाशौचम्‍

अन्यैर्निषिद्धोपिगर्वान्नदीतरणवृक्षाधिरोहकूपावरोहादौप्रवृत्तौमृतस्तस्यापिनाशौचम्

योगवादिहरणार्थतद्धननार्थवा प्रवृत्तौगोसर्पनखिशृङ्गिदंष्ट्रिगजचोरविप्रान्त्यजादिभिर्हतस्तस्यानशौचम्‌

महापातकिनांतत्संसर्गिणांचमहापापितुल्यानांचपतितानानपुसकानांचमरणे

नाशौचम्‌ स्त्रीणांचपत्यादिहन्त्रीणांहीनजातिगामिनीनांगर्भघ्नीनांकुलटानांचपूर्वोक्तात्मघातादि

पापयुक्तानांचमृतौनाशौचमतत्रैषांशवानास्पर्शाश्रुपातवहनदहनान्त्यकर्माणिनकुर्यात्‌

स्पर्शादिकरणेज्ञानाज्ञानाभ्यासादितारतम्येनकृच्छ्रातिकृच्छ्रसांतपनचान्द्रायणादिप्रायश्चित्तानिसिन्ध्वादिग्रन्थान्तरतोज्ञेयानि

तेनैषांमृतदेहस्यजलेप्रक्षेपः

ततःसंवत्सरोत्तरंपुत्रादिस्तदीयात्मघातादिपापानुसारेणप्रायश्चित्तंतस्यकृत्वानारायणबलिंच

कृत्वापर्णशरदाहादिपूर्वकमाशौचमौर्ध्वदेहिकंचकुर्यात्‌

केचित्प्रेतशरीरंदग्ध्वादाहनिमित्तचान्द्रायणत्रयंकृत्वाऽस्थीनिसंस्थाप्याब्दान्तेपूर्वोक्तरीत्यौर्ध्वदेहिकमित्याहुः ॥

 

अथवालौकिकाग्निनातूष्णींदग्ध्वास्वजीवनसंदेहाद्वाभक्त्यावापुत्रादयः

संवत्सरादर्वगपितत्तदात्मघातादिपापोक्तद्विगुणप्रायश्चित्तपूर्वकंनारायणबलिंकृत्वापर्णशरदाहमस्थिदाहंवाकृत्वाशौचमौर्ध्वदेहिकंचकुर्यः

इदंचप्रायश्चित्तार्हाणामेव प्रायश्चित्तामर्हाणांघटस्फोटेनबहिष्कृतानांचदासीद्वारापतितोदकविध्यनन्तरंसपिण्डीकरणवर्जमौर्ध्वदेहिकम्

तेनसांवत्सरिकमप्येकोद्दिष्टविधिनैव यद्वात्मघातिनांपुत्रादिर्मृतजातीयवधोक्तब्रह्महत्यादिप्रायश्चित्तसहितं

चान्द्रायणंतप्तकृच्छ्रद्वयंचकृत्वानारायणबलिपूर्वकंतंदहेततथाचात्मघातिनांगोगजव्याघ्रादिहेतुकदुर्मरणवतांच

पतितादीनांचपूर्वोक्तानांसर्वेषानभमरअणदिनादारभ्याशौचंकितुतत्तत्प्रायश्चित्तनारायणबलिपूर्वकसमन्त्रक

दाहदिनमारभ्यैवाशौचम्‌ जलाग्न्यादिभिःप्रमादमृतानांतुमरणदिनादारभ्याशौचादिकमस्त्येव

तच्चत्रिरात्रमितिकेचित्‌ दशाहमितिबहवः

किंतुप्रमादमरणस्यापिदुर्मरणत्वत्तन्निमित्तप्रायश्चित्तपूर्वकमेवदाहादिकार्यम्‌ तदुक्तंस्मृत्यर्थसारे

चण्डालगोब्राह्मणचोरपशुदंष्ट्रिसर्पाग्न्युदकादिभिः

प्रमादान्मरणेचान्द्रायणंतप्तकृच्छ्रद्वयंचतत्प्रायश्चित्तंकृत्वापञ्चदशकृच्छ्राणिवाप्रायश्चित्तंक्रुत्वाविधिवद्दहनाशौचोदकदानादिसर्वकार्यमेवेति

प्राणान्तिकप्रायश्चित्तेनमृतस्यदशाहमाशौचंसर्वाणिप्रेतकार्याणिचकर्तव्यानि प्रायश्चित्तेनतस्यशुद्धत्वात्‌

एवमारब्धप्रायश्चित्तस्यप्रायश्चित्तमध्येमरणेपिशुद्धत्वादिकंज्ञेयम्‌ ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP