संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
अथाशौचनिर्णयः

धर्मसिंधु - अथाशौचनिर्णयः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


अथाशौचनिर्णयः श्रीविठ्ठलंरुक्मिणीचपितरौदीनवत्सलौ । घ्यात्वेष्टसिद्धयेनत्वावक्ष्येऽथाशौचनिर्णयम् ॥

तत्रादौगर्भनाशजननाद्याशौचम् आचतुर्थाद्भवेत्स्त्रावःपातःपञ्चमषष्ठयोः ।

अतऊर्ध्वप्रसूतिःस्यात्तत्राशौंचविविच्यते तत्रगर्भस्त्रावेआद्यमासत्रयेमातुस्त्रिरात्रंचतुर्थमासेचतूरात्रमस्पृश्यत्वरूपमाशौचम्

पित्रादिसपिण्डानांस्त्रावमात्रेस्नानाच्छुद्धिः

पञ्चमषष्ठमासयोर्गर्भपातेगर्भिण्यामाससमसंख्यंक्रमेणपञ्चषट्‌दिनान्यस्पृश्यत्वलक्षणमाशौचम्

पित्रादिसपिण्डानांतुत्रिदिनंजननाशौचंमृताशौचंतुनास्ति इदंस्त्रावपाताशौचंसर्ववर्णसाधारणम्

गर्भिण्याःसप्तममासप्रभृतिप्रसवेमातुःपित्रादिसपिण्डानांचसंपुर्णजननाशौचम् तच्चविप्रेदशाहम्

क्षत्रियेद्वादशाहम् वैश्येपञ्चदशाहम् शूद्रेमासः सङ्करजातिनांशुद्रवत् विज्ञानेश्वरस्तुनैषामाशौचंकिंतुस्नानमात्रमित्याह

सर्ववर्णेषुदशाहंवा जननाशौचेगर्भिण्यादशाहमस्पृश्यत्वम् कर्मानधिकारस्तुकन्योत्पत्तौमासंपुत्रोत्पत्तौविंशतिरात्रम्

इदंस्वस्वाशौचोत्तरमितिविप्रस्त्रियाःक्रमेणचत्वारिशंत्रिशद्दिनान्यनधिकारः पितुःसापत्नमातुश्च

कन्यायाःपुत्रस्यैवोत्पत्तौसचैलस्नानात्प्रागस्पृश्यत्वम् पित्रादिसपिण्डानांजननाशौचेकर्मानधिकारमात्रम्

कर्माद्यतिरिक्तकालेस्पर्शेदोषोन जातकर्मणिदानेचनालच्छेदनात्पूर्वपितुरधिकारः

एवंपञ्चमषष्ठदशमदिनेषुदानेजन्मदाजनेचाधिकारः तत्रविप्राणां प्रतिग्रहेऽपिदोषोन ॥

कूटस्थमारभ्यसप्तमपुरुषपर्यन्ताःसपिण्डाः ततःसप्तसमानोदकाः ततःसप्तैकविंशतिपर्यन्ताःसगोत्राः

तत्रसपिण्डानांदशाहमित्युक्तम् सोदकानांत्रिरात्रम् सगोत्राणामेकरात्रमितिनागोजीभट्टीये

अन्येतुसगोत्राणांनाशौचमित्याहुः अयंसपिण्डसोदकाद्याशौचविभागोजननेमरणेचसमानः

मरणेत्वाशौच्विच्छेदेपिस्नानमात्रंयावदेककुलत्वज्ञानंतावद्भवत्येवेतिविशेषः अत्रेदंबोध्यम्

कूटस्थादारभ्यसंततिभेदएकसंततौकश्चिदष्टमोपरसंततौचकश्चित्सप्तमस्तयोश्चैकतःसापिण्ड्यानुवृत्तिःपरतोनिवृत्तिरित्युक्तम्

तत्राष्टमेननिवृत्तसापिण्ड्यकेनसप्तमादीनांपरसंततिस्थानांजननेमरणेत्रिदिनमाशौचंकार्यम्

सप्तमेनत्वनुवृत्तसापिण्ड्यकेनाष्टमादीनांजननेमरणेवादशाहमेवकार्यम्

एवंसोदकत्रिरात्रादौकन्याविषयकत्रिपुरुषसापिण्ड्येचोह्यम् तत्राष्टमस्यमृतपितृकत्वेजीवत्पितृकत्वेपिचत्रिदिनमेव

त्र्यम्बकीयेभट्टोजीयेनागोजीयेचाशौचप्रकरणेऽन्यत्रचपित्रादिजीवनाजीवनकृतविशेषाद्र्शनादितिकेचित्

अपरेतुनिर्णयसिन्धौसापिण्ड्यप्रकरणेआदसमाद्धर्मविच्छित्तिरित्यादिसुमन्तुवाक्यस्यशूलपाणिकृतवाख्याने

एकपिण्डदानक्रियान्वयित्वरूपसापिन्ड्यलक्षणमनुसृत्यजीवत्पित्रादित्रिकस्यप्रपितामहात्परेत्रयः

पिण्डभाजस्तदूर्ध्वत्रयोनवपुरुषपर्यन्तालेपभाजःश्राद्धकर्ताचदशम इतिदशमादूर्ध्वंसापिण्ड्यनिवृत्तिः

पितृपितामहजीवनेनवपुरुषपर्यन्तंपितृजीवनेष्टपुरुषपर्यन्तसापिण्ड्यमितिप्रतिपादनादष्टमादेः

पित्रादिजीवनदशायांदशाहमाशौचंपित्रादिमरणोत्तरमेवत्रिदिनमितिवदन्ति अत्रममद्वितीयपक्षएवयुक्तोभाति ॥

पितृगृहेकन्याप्रसूतौ पित्रोस्तद्गृहवर्तिभ्रातृणांचैकाहः पितृगृहवर्तिपितृव्यादीनांसर्वेषांपितृसपिण्डानामेकाह

इतिस्मृत्यर्थसारे एवंभ्रात्रादिगृहेभगिन्यादिप्रसवेऽपितेषामेकाहःमाधवस्तुपितृगृहेकन्यायाः

प्रसूतौपित्रोस्त्रिरात्रंतद्गृहवर्तिभ्रातृणामेकाहइत्याह कन्यायाःपतिगृहेप्रसवेपित्रादीनांनाशौचम्

मृतजातेशिशौसपिण्डानासंपूर्णमेव जननाशौच मृताशौचंनास्ति

जननोत्तर्नालच्छेदनात्पूर्वशिशुमरणेपित्रादिसपिण्डानांत्रिदिनजनाशौचं मातुस्तुदशाहमेव

मृताशौचंतुनास्ति नालच्छेदनोत्तरंदशाहाभ्यन्तरेशिशुमरणेसपिण्डदीनांसंपूर्णमेवजननाशौचंमरणाशौचंतुनास्ति ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP