TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ त्रयस्त्रिंशोऽध्यायः

मयमतम्‌ - अथ त्रयस्त्रिंशोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.

अथ त्रयस्त्रिंशोऽध्यायः

(लिङ्गलक्षणम् )

निष्कलादिलिङ्गभेदानि

निष्कलं सकलं मिश्रं लिङ्गं चेति त्रिधा मतम् ।

निष्कलं लिङ्गमित्युक्तं सकलं बेरमुच्यते ॥१॥

बिम्बमूर्तिः शरीराभा विश्वमूर्तिस्वरूपकैः ॥२॥

चिह्नदेहप्रतिच्छन्दप्रतिमाङ्कैस्तु नामभिः ।

दृश्यदेवः समाख्यातो निष्कलं वक्ष्यतेऽधुना ॥३॥

शिलालक्षणम्

श्वेता रक्ता च पीता च विप्रादीनां हितासिता ।

एकवर्णा घना स्निग्धा शिला भूमिनिमग्नका ॥४॥

व्यासायामवती ग्राह्या यौवनातिमनोरमा ।

वातातपानलालीढा मृद्वी क्षाराम्बुसंश्रिता ॥५॥

दुःस्थानस्थानरूक्षा च या कर्मान्तरयोजिता ।

रेखाबिन्दुकलङ्काढ्या वृद्धा वक्रा च या शिला ॥६॥

सशर्करा विवर्णा च सत्रासायतनस्थिता ।

निःस्वना सदरीभेदा सगर्भा निन्दिता वरैः ॥७॥

एकवर्णा घना स्निग्धा मूलाग्रादार्जवान्विता ।

गजघण्टारवा या सा पुंशिलेति प्रकीर्तिता ॥८॥

स्थूलमूला कृशाग्रा या कांस्यतालसमध्वनिः ।

स्त्रीशिला कृशमूलाग्रा स्थूला षण्डेति निःस्वना ॥९॥

सकलं निष्कलं मिश्रं कुर्यात् पुंशिलया सुधीः ।

युञ्जीयात् स्त्रीशिलां सम्यङ्‌ नारीबेरं च पिण्डिकाम् ॥१०॥

षण्डोपलेन कर्तव्ये ब्रह्मकूर्मशिले तता ।

नन्द्यावर्तशिला वाऽपि कर्तव्या तेन वर्त्मना ॥११॥

प्रासादतलकुड्यादि कर्म दुर्याद विचक्षणः ।

सा शिला त्रिविधा बाला मध्यमा स्थविरेत्यपि ॥१२॥

टङ्कघातदिमृद्वी या मन्दपक्वेष्टकोपमा ।

शिला बाला मता तज्ज्ञैः सर्वकर्मसु निन्दिता ॥१३॥

स्निग्धा गम्भीरनिर्घोषा सुगन्धा शीतला मृदुः ।

निबिडावयवा तेजःसहिता यौवना शिला ॥१४॥

मध्यमा सर्वयोग्या स्यात् सर्वकर्मार्थसिद्धिदा ।

मत्स्यमण्डूकशकला रूक्षा वृद्धा शिलाशिवा ॥१५॥

रेखाबिन्दुकलङ्काढ्या सा त्याज्या सर्वयत्नतः ।

छेदने तक्षणे यत्र मण्डलं दृश्यते यदि ॥१६॥

सा शिला गर्भिणी विद्वांस्तां प्रयत्नेन वर्जयेत् ।

मुखमुद्धरणेऽधोंऽशमूर्ध्वभागं शिरो विदुः ॥१७॥

शिलामुलमवाक्‌ प्रत्यगङ्गाग्रं प्रागुद्ग्दिशि ।

अग्रमूर्ध्वमधोमूलं पाषाणस्य स्थितस्य तु ॥१८॥

नैऋत्यैशानदेशाग्रा वह्न्यग्रा वह्निवायुगा ।

शिलासंग्रहणम्

उत्तरायणमासे तु शुक्लपक्षे शुभोदये ॥१९॥

प्रशस्तपक्षनक्षत्रे मुहूर्ते करणान्विते ।

गच्छेल्लिङ्गं समुद्दिश्य वनं चोपवनं गिरिम् ॥२०॥

अथवा शुद्धदेशं तु भूमग्नोपलसंयुतम् ।

ऐन्द्राशायां तु सौम्यायामैशान्यां वा विशेषतः ॥२१॥

निमित्तः शकुनैर्योग्यैः सह मङ्गलशब्दकैः ।

स्थापकः स्थपतिः कर्ता कृतकौतुकमङ्गलः ॥२२॥

स्थापकः स्थपतिश्चैव सितवस्त्रपरिच्छदौ ।

श्वेतगन्धानुलेपौ तौ सितवस्त्रोत्तरीयकौ ॥२३॥

सितपुष्पशिरोयुक्तौ प्राप्तपञ्चाङ्गभूषणौ ।

गन्धैः पुष्पैश्च धूपैश्च मांसेन रुधिरेण च ॥२४॥

पायसौदनमत्स्यैश्च भक्ष्यैश्चापि पृथग्विधैः ।

अर्चयेदीप्सितान्‌ वृक्षानुपलान्‌ वनदेवताः ॥२५॥

भूतक्रूरबलिं दत्त्वा कर्मयोग्यां वरेच्छिलाम् ।

स्थपतिर्वरवेषाढ्यो मन्त्रयेत् प्राङ्‌मुखो वरः ॥२६॥

ॐ अपक्रामन्तु भूतानि देवताश्च सगुह्यकाः ।

युष्मभ्यं तु बलिर्भूयात क्रूराश्च वनदेवताः ॥२७॥

कर्मैतत् साधयिष्यामि क्रियतां वस्तुपर्ययः ।

एवमुक्त्वा नमस्कृत्य शिलाश्छेत्तुं समारभेत् ॥२८॥

तत्रैव स्थापको युक्त्या जुहुयात तदुदग्दिशि ।

हेमसूच्यष्ठीलाभ्यां तु शोधयेत् प्रथमं पुनः ॥२९॥

तीक्ष्णशस्त्रेण महताप्यष्ठीलेन प्रहारयेत् ।

इष्टायामविशालाभ्यामधिकं ग्राह्य यत्नतः ॥३०॥

चतुरस्त्रसमं कृत्वा मुखभागं विचिन्त्य च ।

शुद्धिं कृत्वार्चयित्वा तु गन्धाद्यैर्विधिपूर्वकम् ॥३१॥

लिङ्गं वा पिण्डिकां बेरमौपलं वार्क्षमेव वा ।

वस्त्रैरावेष्टयित्वा तु रथे संस्थाप्य यत्नतः ॥३२॥

सर्वमङ्गलसंयुक्तमानीयात् कर्ममण्डपे ।

यथोक्तविधिना सम्यक्‌ कुर्यादन्तरितेन च ॥३३॥

यथोक्तविधिना नैव लभ्यते यदि पण्डितः ।

गृहीत्वायत्र पूर्वोक्तविधिना तदुदग्दिशि ॥३४॥

नीत्वा तत्र खनित्वा तु शुभऋक्षमुहूर्तके ।

गृहीत्वा विधिवद्भुत्वा शुद्धिं कृत्वाम्भसा ततः ॥३५॥

गन्धाद्यैरर्चयित्वा तु सर्वमङ्गलघोषणैः ।

आनीयात्पूर्ववत्तत्र दिशां दोषैर्विमुच्यते ॥३६॥

लिङ्गप्रमाणम्

लिङ्गस्थानम्

लिङ्गमानाद्‌ विमानं वा लिङ्गं वा हर्म्यमानतः ।

गर्भमध्ये तु सूत्रात्तु वामेऽर्चालिङ्गमेव वा ॥३७॥

स्थापयेत् किञ्चिदीशानमाश्रयित्वा विचक्षणः ।

त्रिः सप्तांशे कृते द्वारे ब्राह्येंऽशं मध्यमं भवेत् ॥३८॥

कृत्वा षडंशकं तच्च वामे द्व्यंशं व्यपोह्य च ।

तदंशमग्रं नीत्वा तु प्रागुदग्गतसूत्रकम् ॥३९॥

तद् ब्रह्मसूत्रमित्युक्तं तत्सूत्रं शिवमध्यमम् ।

नागरलिङ्गम्

गर्भार्धमध्यमं श्रेष्ठं पञ्चत्र्यंशं शिवायतम् ॥४०॥

भवन्ति नव लिङ्गानि तयोर्मध्येऽष्टभाजिते ।

श्रेष्ठमध्यकनिष्ठानि त्रित्रिभेदानि तानि हि ॥४१॥

नागरे नागरस्योक्तं मानं लिङ्गस्य मन्दिरे ।

विकारांशे तदायामे भूतगङ्गाग्निविस्तरम् ॥४२॥

जयदं पौष्टिकं सार्वकामिकं नागरे विदुः ।

द्राविडलिङ्गम्

गर्भे त्रिसप्तभागे तु दशांशं द्राविडेऽधमम् ॥४३॥

त्रयोदशांशकं श्रेष्ठं मध्येऽष्टांशे तु पूर्ववत् ।

त्रिः सप्तांशे निजायामे षट्‌पञ्चतुरंशकम् ॥४४॥

जयदादिविशालं तत् पूर्ववद् द्राविडे मतम् ।

वेसरलिङ्गम्

वेसरे पञ्चपञ्चांशे गर्भागारे विमानके ॥४५॥

त्रयोदशांशकं हीनं श्रेष्ठं स्यात् षोडशांशकम् ।

तयोर्मध्येऽष्टभागे तु नव लिङ्गानि पूर्ववत् ॥४६॥

पञ्चपञ्चांशके दैर्घ्ये वसुधातुरसांशकम् ।

वेसरस्योदितं व्यासं पूर्ववज्जयदादिकम् ॥४७॥

विकारपरिध भूतव्यासः सर्वत्र कीर्तितः ।

गर्भमानमिदं प्रोक्तं हस्तमानं तु वच्म्यहम् ॥४८॥

हस्ततो लिङ्गमानानि

आरभ्यैककरं नन्दहस्तान्तं षट्‌षडङ्गुलैः ।

वृद्ध्यायतास्त्रयस्त्रिंशत्संख्या लिङ्गस्य कीर्तिताः ॥४९॥

पञ्चारत्नि विमानाद्या द्वादशक्ष्माद्यसद्मनः ।

क्रमेणैव त्रयस्त्रिंशत्संख्या तासां विधीयते ॥५०॥

केचित् त्र्यङ्गुलवृद्ध्या तु वदन्त्येकादिहस्ततः ।

आयादिसम्पदामर्थं मानादेकाङ्गुलक्षयात् ॥५१॥

प्रवृद्ध्योत्तुङ्गमात्तव्यं तत्र दोषो न विद्यते ।

पञ्चपञ्चाङ्गुलं मूलाद्‍ वृद्ध्याष्टककलाङ्गुलैः ॥५२॥

वृद्ध्या लिङ्गीयते शस्ते प्रत्येकं नवमानिकम् ।

क्षुद्राल्पमध्यमोत्कृष्टहर्म्यानामुदितं क्रमात् ॥५३॥

द्वारादितो मानानि

द्वारोदयसमं श्रेष्ठं त्रिभागोनं कनिष्ठकम् ।

स्तम्भोत्सेधे नवांशे तु मुनिभूतांशकोदयम् ॥५४॥

तत्तन्मध्येऽष्टधा भक्ते नवलिङ्गोदयाः स्मृताः ।

नागरादिषु सौधेषु प्रोक्तव्यासानि पूर्ववत् ॥५५॥

प्रासादशिखरग्रीवस्थूप्यधिष्ठानमानकैः ।

केचिद्‌ वदन्ति मुनयः कुम्भयोन्यादयो वराः ॥५६॥

गृहीतोत्सेधमानं तु मानाङ्गुलैर्विभाजयेत् ।

वृद्ध्या हान्याङ्गुलिच्छेदं परिह्रत्य विचक्षणः ॥५७॥

उत्सेधेऽष्टगुणैः सप्तविंशद्भिर्हरणे ततः ।

शेषमश्वयुजाद्यं तु नक्षत्रं तु चतुर्गणे ॥५८॥

नवभिर्हरणे शिष्टमंशकं तस्करादिकम् ।

भुक्तिः शक्तिर्धन राजषण्डश्चाभयकं विपत् ॥५९॥

समृद्धिरिति विख्यातान्यंशकानि नव क्रमात् ।

तस्करं च विपत् षण्डं निन्दितं वस्तुपारगैः ॥६०॥

उत्तुङ्गुवसुनन्दाग्निगुणैरर्कदशाष्टभिः ।

शिष्टं धनमृणं चैव योनिकं स्याद्यथाक्रमम् ॥६१॥

धनाधिकमृणं क्षीणं मानं तत् सम्पदां पदम् ।

योनिषु ध्वजसिंहश्च वृषो हस्ती शुभावहाः ॥६२॥

तुङ्गं नवगुणं कृत्वा सप्तभिः क्षपयेत्ततः ।

शेषं सूर्यादिवारं स्यात् क्रूरास्तत्र विवर्जिताः ॥६३॥

ग्रामादीनां च कर्तुश्च नक्षत्रेणाविरोधि यत् ।

तल्लिङ्गं देशदेशेशदेहिनां शुभकारणम् ॥६४॥

लिङ्गतक्षणम्

इष्टायामविशालेन चतुरस्त्रीकृतं समम् ।

जातिरूपं तु तद्‌ बिम्बं छेदनीयं यथोचितम् ॥६५॥

छन्दमष्टास्त्रकं षोडशास्त्रं नाम्ना विकल्पकम् ।

वृत्तमाभासकं लिङ्गं तच्छेद्यं स्यात्त्रयात्मकम् ॥६६॥

त्रिधा कृत्वायतं मूले ब्रह्मांशं चतुरस्त्रकम् ।

अष्टास्त्रं वैष्णवं मध्ये वृत्तमूर्ध्वांशमैशकम् ॥६७॥

इष्टविष्कम्भमानेन चतुरस्त्रीकृतं समम् ।

कर्णायतार्धकर्णाभ्यामिष्टमष्टास्त्रकं कृतम् ॥६८॥

चतुस्त्र्यंशकयोर्मध्यं मध्यपट्टमिति स्मृतम् ।

व्यासे सप्तांशके त्र्यंशं मध्यपट्टं त्रिधोदितम् ॥६९॥

कोणान्तात् पट्टसूत्रेऽङ्के तिर्यक्सङ्गतसूत्रकम् ।

पट्टार्धेनाङ्कितं यत्तु षोडशास्त्रं तदुच्यते ॥७०॥

एवस्त्रान्तरे धीमान्‍ योजयेत्तु विचक्षणः ।

कोटिच्छेदेन वृत्तं स्यान्निम्नं नैवोन्नतं यथा ॥७१॥

सर्वतोभद्रादिलिङ्गप्रमाणम्

आद्यं तु सर्वतोभद्रं द्वितीयं वर्धमानकम् ।

शिवाधिक्म तृतीयं स्याच्चतुर्थं स्वस्तिकं भवेत् ॥७२॥

अथ जगदमराणां सर्वतोभद्रमिष्टं

सुखदमवनिपानां वृद्धिदं वर्धमानम् ।

धनदमिह विशां वै शम्भुभागाधिकं य-

च्छुभदमथ परेषां स्वस्तिकं तच्चतुर्णाम् ॥७३॥

त्रिंशद्भागे सर्वतोभद्रलिङ्गे मूले मध्येऽग्रे दशांशं क्रमेण ।

वृत्त्म तुल्यं सर्वतः शम्भुभागं विप्राणां तद्‌ भूपतीनां प्रशस्तम् ॥७४॥

वेदभूतरसभागिकैरधो भूतषण्मुनिपदैरधः परम् ।

षट्‌कसप्तवसुभागया ततः सप्तनागनवभागया पुनः ॥७५

वर्धमानमुदितं चतुर्विधं ब्रह्माविष्णुशिवभागतः क्रमात् ।

सर्वसम्पदुदयं जयप्रदं पुत्रवृद्धिदमिदं महीभृताम् ॥७६॥

सप्तसप्तवसुभागया ततः पञ्चपञ्चकषडंशकैरपि ।

वेदवेदशरभागया ततो बन्धबन्धयुगभागया पुनः ॥७७॥

उक्तमत्र हि मया चतुर्विधं तच्छिवाधिकमजादिभागिके ।

सर्ववस्तुदमिदं विशामलं सर्ववर्णयमिनामुदीरितम् ॥७८॥

उक्तायामे स्वस्तिके नन्दभागे मूले द्व्यंशं मध्यभागे गुणांशम् ।

पूजाभागे चातुरंशं क्रमेण चोक्तं शूद्रे सर्वकामप्रदं तत् ॥७९॥

सुरार्चितादिलिङ्गभेदाः

लिङ्गं सुरार्चितं धारालिङ्गं साहस्त्रलिङ्गकम् ।

त्रैराशिकं तु सर्वेशां सर्वकामफलप्रदम् ॥८०॥

इष्टायामासमोपेतं स्वायामार्धार्धविस्तरम् ।

शेषं पूर्ववदुद्दिष्टं नाम्ना सुरगणार्चितम् ॥८१॥

धारालिङ्गं सर्वलिङ्गे मतं तन्मूलेऽष्टास्त्रं वा कलास्त्रं युगास्त्रम् ।

तस्मादूर्ध्वं द्वैगुणं स्यात् सधारं धारालिङ्गं सर्ववर्णे प्रशस्तम् ॥८२॥

पूजाभागे सर्वतोभद्रलिङ्गे धारा कार्या पञ्चपञ्चक्रमेण ।

एकैकस्यामष्टपञ्चोपरिष्टात् साहस्त्रं तद्रेखया लिङ्गमुक्तम् ॥८३॥

रसमुनिवसुभागे वृत्तकेऽष्टास्त्रकेऽन्ते

परिधिरथ नवांशे लिङ्गतुङ्गे तु भूयः ।

त्रिभिरथ गुनभागैश्च त्रिभिस्तुङ्गमानं

ह्यजहरिहरभागे तत्तु त्रैराशिकं स्यात् ॥८४॥

आर्षलिङ्गम्

सस्थूलमूललिङ्गं यवमध्यं वा पिपीलिकामध्यम् ।

लिङ्गं तु शिरः स्थूलं ह्यार्षं लिङ्गं चतुर्भेदम् ॥८५॥

निजविपुलाष्टांशघ्नं मूले मध्ये तथा तदग्रे च ।

विष्ण्वजभागो सम्यक्‌ चतुरस्त्रं चार्षके लिङ्गे ॥८६॥

स्वयम्भुलिङ्गम्

लिङ्गं फलकाकारं द्व्यस्त्रं पञ्चास्त्रकं त्रिकोणं च ।

एकादशनवषट्‌सप्तास्त्रं च द्वादशास्त्रं च ॥८७॥

पूर्वोदितेतरास्त्रं शूलाग्रं श्रृङ्गसदृशशिरः ।

अन्यदपि भेदयुक्तं सशिरः सूत्रेतरं न मानयुतम् ॥८८॥

निम्नोन्नतझर्झरकं वैवर्ण्ययुतं च पूजानिम्नोन्नतं यथा ।

वक्रमवक्रयुतं वा वालुकरेकाकलङ्कबिन्दुयुतम् ॥८९॥

अथवैकरेकमेतान्युदितान्येव स्वयम्भुलिङ्गानि ।

नैवैतेषां मूलं लिङ्गानां शोधयेन्मतिमान्‌ ॥९०॥

अज्ञानादपि मोहात् संशोध्य मूलमेव दोषकरम् ।

शिरोवर्तनम्

आस्थापनमथो लिङ्गं पूजाभागं तु पीठसमम् ॥९१॥

वृत्तं वाऽथ सधारं पूजाभागं तु मोक्षदं यमिनाम् ।

शिरसो वर्तनमधुना लिङ्गानां वक्ष्यते क्रमशः ॥९२॥

छत्राभा त्रपुषाभा कुक्कुटकाण्डार्धचन्द्रसदृशाभा ।

बुद्बुदसदृशा पञ्चैवोद्दिष्टा वर्तना मुनिभिः ॥९३॥

व्यासे षोडशभागे लिङ्गस्यैकद्विगुनयुगांशेषु ।

संलम्ब्याधोभागानुभयोरपि पार्श्वयो क्रमशः ॥९४॥

छत्राभानि शिरांसि च चत्वारीह प्रवर्तते विधिना ।

समलिङ्गे प्रथमे द्वे शैवाधिकलिङ्गके तृतीयं स्यात् ॥९५॥

चतुरंशेषु यदुक्तं तत् प्रोक्तं वर्धमानस्य ।

सङ्करमन्योन्यं वाप्यशुभं स्याद्‌ वर्तनानां च ॥९६॥

त्रपुषाभानुषडंशे सार्धद्व्यंशेन कर्तव्या ।

उच्चार्धं कुक्कुटजं त्र्यंशैकांशेन्दुखण्डनिभम् ।

बुद्बुदसदृशं सार्धं त्र्यंशं व्यासेऽष्टभागे तु ॥९७॥

सर्वेषामपि चैता सामान्यास्तत्र लिङ्गानाम् ।

शिरसो वर्तनभागं त्र्यंशैकं चाधिरोप्य निजतुङ्गे ॥९८॥

लिङ्गायामे षट्‌षड्‌भागयुते तेन सार्धमतः ।

इन्द्वश्विनिगुणभागाः प्रोक्ताः सर्वेष्वपि क्रमशः ।

अवरे मध्यमलिङ्गे श्रेष्ठे लिङ्गे ततः शिरोमानम् ॥९९॥

लिङ्गानां शिरसीप्सितांशमुभयोः संलम्ब्य तत्पार्श्वयोः

कृत्वा मत्स्ययुगं तदास्यजघनान्निष्क्रान्तसूत्रद्वये ।

तस्माद्यत्र च संयुतिर्मतिमता बिन्दुत्रयाढ्यं यथा

कर्तव्यं बहुवर्तनास्वभिमतं सोपायमीशोदितम् ॥१००॥

लक्षणोद्धरणम्

वक्ष्येऽहं लिङ्गानां सर्वेषां लक्षणोद्धरणम् ।

शाणाभिस्तनुवालुकसहितैर्गोवालरज्ज्वाद्यैः ॥१०१॥

उद्धृष्ट्या सकृदेव हि युक्त्या चिह्नं परीक्ष्य यत्नेन ।

शुभतरमङ्कं दृष्ट्‌वा चारभेल्लक्षणोद्धरणम् ॥१०२॥

प्रासादस्य समीपे मण्डपके चित्रवस्त्रशोभाढ्ये ।

शाल्यादिभिरपि युक्ते तण्डुलके स्थण्डिले रम्ये ॥१०३॥

तल्पोपरि सितवस्त्रप्रस्तरशयने न्यसेल्लिङ्गम् ।

आचार्यः स्थपतिश्चाहतवस्त्रैर्हेमपुष्पाद्यैः ॥१०४॥

पञ्चाङ्गभूषणैरप्यलमतिशोभैरलंकृत्य ।

सितपुष्पालेपनसोष्णीषाद्यैः शोभनं कुर्यात् ॥१०५॥

नेत्रमन्त्रमनुस्मरन्नजसूत्रं पार्श्वसूत्रं च ।

हाटकनिर्मितसूच्या आचार्यः संलिखेद्‌ रेखाम् ॥१०६॥

पश्चाद्धेममयेनैवारभ्यास्त्रेण च स्थपतिः ।

पुनरपि लघुतरशस्त्रैर्लघुहस्तैराज्यदुग्धमधुसहितम् ॥१०७॥

सम्यग्‌ रेखा लिखिता निर्झरकमयं यथाशोभम् ।

सितवस्त्रेणाच्छाद्याखिलधान्यान्‌ गोद्विजवत्साद्याः ॥१०८॥

दर्शयितव्या कन्या युक्त्या शेषं नयेन्मतिमान्‌ ।

नागरलिङ्गलक्षणोद्धरणम्

प्रथमे नागरलिङ्गे षोडशभागीकृते शिवायामे ॥१०९॥

षड्‌भूतवेदभागान्‌ त्यक्त्वोर्ध्वे कन्यसाद्युदयम् ।

एवं त्रिकमुत्सेधं बुद्‌ध्वाऽथ त्र्यंशकात्तु सर्वेषाम् ॥११०॥

विष्ण्वंशाभिमुखे द्वे सूत्रे संलेखयेत् पार्श्वे ।

पृष्ठे तयोर्युतिः स्याद्धीने वेदाग्निपक्षेषु ॥१११॥

मध्ये भूतवनानलपक्षेषु यतिस्तयोः पृष्ठे ।

श्रेष्ठे षड्‌भूतवनानलपक्षेषूदिता तु युतिः ॥११२॥

तेषु गृहीत्वैकांशं त्रिद्व्यंशं सूत्रविष्कम्भम् ।

यावदधः कृष्णांशं ह्युक्तोत्सेधे नयेत्तु समम् ॥११३॥

एवं नागरलिङ्गे सूत्रं सम्यङ्‌ मयेनोक्तम् ।

द्राविडलिङ्गलक्षणोद्धरणम्

त्रिःपञ्चभागिकेऽस्मिन्‌ द्राविडलिङ्गे शिवायामे ॥११४॥

नन्ददशरुद्रांशा हीनाद्युदयाः समुद्दिष्टाः ।

मुनिवसुनवभागे ह्यंशैः संलम्बयेत् सूत्रे ॥११५॥

युगगुणनयनेष्वन्त्ये मध्ये शरवेदवह्नियुगलेषु ।

रसशरयुगबन्धेषु प्रोक्ता श्रेष्ठे तयोस्तु युतिः ॥११६॥

द्राविडलिङ्गे सूत्रव्यासं स्वांशार्धतः प्रोक्तम् ।

वेसरलिङ्गलक्षणोद्धरणम्

वेसरलिङ्गे पूजाभागे त्रिःपञ्चभागे तु ॥११७॥

दशभागं सूत्रोच्चं वस्वंशात् सम्यगारभ्य ।

लम्बनमथ भूतवनानलपक्षांशेषु सूत्रयुतिः ॥११८॥

व्यासे द्विरष्टभागे विष्कम्भांशो वरः प्रोक्तः ।

आयामे वसुभागे वेदांशैरुच्छ्रितस्तु ततः ॥११९॥

गुणभागादारभ्य द्व्यंशे चैकांशके तयोस्तु युतिः ।

व्यासे गृहीतभागैकैकं विभजेत् त्रिधा द्व्यंशम् ॥१२०॥

एवं मध्यममिष्टं द्वादशभागीकृते तुङ्गे ।

शेषं पूर्ववदुद्दिष्टं विष्कम्भं भागयोः प्रोक्तम् ॥१२१॥

गदितं कन्यसमेवं वेसरलिङ्गे तु सूत्रं तत् ।

सूत्रव्यासगाम्भीर्ये

आत्तांशे नवभागे भागेन व्यासगम्भीराः ॥१२२॥

रेखाविकर्कशोक्ता सर्वेषामेव लिङ्गानाम् ।

अष्टौ यवान्‌ गृहीत्वा नवधा विभजेत्समं दृढतरधीः ॥१२३॥

एकांशेनैककरोत्तुङ्गे लिङ्गे विधातव्या ।

एकैकभागवृद्ध्या नवहस्तान्ते तु लिङ्गे तु ॥१२४॥

अष्टयवान्तरगाढा सा रेखा सम्यगुद्दिष्टा ।

अर्धयवेनाप्युदिता रेखार्धयवेन पूर्ववद्‌ वृद्धिः ॥१२५॥

सार्धचतुर्यवतारावनतिः श्रेष्ठे तु लिङ्गे तु ।

मध्यमसूत्रव्यासादर्धतातिः पक्षयोस्तु पृथक्‌ ॥१२६॥

सर्वेषां रेखाणां व्यासावनतिः समा एव ।

सामान्यविधिः

अथ नागरादिकानां वक्ष्ये सामान्यलक्षणोद्धरणम् ॥१२७॥

षोडशभागे पूजाभागोच्चेऽधो विहाय नयनांशम् ।

उपरिष्टाच्चतुरंशं दशभागं साग्रकं सूत्रम् ॥१२८॥

मणिरेखा भ्रमणीयाधस्ताद्‌ द्व्यंशं विहाय कं मुकुलात् ।

पृष्ठे तयोर्युतिः स्यान्मुकुलव्यासं तु भागेन ॥१२९॥

अथवा षोडशभागेऽधोंऽशं त्यक्त्वा दशाशके नालम् ।

शेषं पूर्ववदुक्तं सामान्यं सर्वलिङ्गानाम् ॥१३०॥

द्वादशभागे रौद्रे त्यक्त्वोर्ध्वेऽधो द्विभागमेकांशम्

नवभागे साग्रं तच्छेषं पूर्वोक्तवत् कार्यम् ॥१३१॥

द्विर्नवभागे शैवेऽधोर्ध्वे द्व्यंशं शरांशं च ।

रुद्रांशैरजसूत्रं मुकुलं भागेन पूर्ववच्छेषम् ॥१३२॥

शैवे द्विरष्टभागेऽधोर्ध्वे द्वांशं युगांशकं नीत्वा ।

दशभागं सूत्रोच्चं तदंशकस्त्वष्टांशकात् समारभ्य ॥१३३॥

शररसमुनिवसुभागेष्वेवं लम्बपक्षयोः सूत्रे ।

पृष्ठे तयोर्युतिः स्याद्‌ भागं त्यक्त्वा पुरोक्तवच्छेषम् ॥१३४॥

सूत्रेण भस्मनैव प्रथमं सूत्रं प्रवर्त्य सूत्राग्रम् ।

घटिकाग्रेण विलिख्य तु पार्श्वे सूत्रेण लक्षणं कुर्यात् ॥१३५॥

सूत्राग्रलक्षणम्

सूत्राणां सर्वेषां कर्तव्या वर्तना तदग्रे तु ।

लिङ्गानां शिरसि यथा सामान्यं स्यात्तथा समुद्दिष्टम् ॥१३६॥

अश्वत्थपत्रसदृशं सामान्यं सर्वलिङ्गेषु ॥१३७॥

सूत्राग्रमात्तभागैकांशं व्यासोन्नतं हि मतम् ।

लिङ्गानामाहत्यं सूत्राग्रं वक्ष्यते विधिना ॥१३८॥

छत्राभाग्रे लिङ्गे कुञ्जरनयनोपमं तु सूत्राग्रम् ।

खण्डेन्दुनिभे लिङ्गे शूलाग्रं बुद्बुदाभे च ॥१३९॥

त्रपुषाभे लिङ्गाग्रे सूत्राग्रं कुक्कुटाण्डनिभम् ।

छत्राभं सूत्राग्रं लिङ्गे स्यात् कुक्कुटाण्डनिभे ॥१४०॥

नाहे सप्तदशांशेष्वेकं गृह्य त्रिधा द्व्यंशम् ।

मध्यमसूत्रव्यासं तस्यार्धे पक्षयोः सूत्रे ॥१४१॥

लिङ्गायामे योज्यं सामान्यं सर्वमेतत् स्यात् ॥१४२॥

लिङ्गायाम विस्तृतं स्वस्वभेदैर्नाम्नैवैषां सम्यगुष्णीशमानम् ।

छत्राभाद्युष्णीषसूत्रं मयेह प्रोक्तं युक्त्या नागरादिक्रमेण ॥१४३॥

स्फाटिकलिङ्गम्

वक्ष्येऽहं स्फाटिकं लिङ्गं नीचमध्योत्तमक्रमात् ।

एकाङ्गुलं समरभ्यैवाङ्गुल्यङ्गुलवर्धनात् ॥१४४॥

षडङ्गुलान्तमुत्सेधं पूजांशं कन्यसं मतम् ।

सप्ताङ्गुलं समारभ्य यावद्‌ द्वादशमात्रकम् ॥१४५॥

पूजाभागोदयं लिङ्गे मध्यमे तु प्रकीर्तितम् ।

सैकार्काङ्गुलमारभ्य चाङ्गुलाङ्गुलवर्धनात् ॥१४६॥

अष्टादशाङ्गुलं यावत् पूजांशोच्चं षडुत्तमे ।

तद्धनादर्धमात्रेण वृद्ध्यैकादशसंख्यया ॥१४७॥

श्रेष्ठमध्यपरे लिङ्गे त्रयस्त्रिंशत् समुन्नतम् ।

पूजांशार्धत्रिभागैकं गाढं वा स्फाटिकं मतम् ॥१४८॥

समं त्रिपादमर्धं वा पूजांशोच्चस्य विस्तृतम् ।

साधारं वाऽथ वृत्तं वा स्फाटिकानामथाकृतिः ॥१४९॥

वर्तना शिरसस्तस्य नागरादिषु वै यथा ।

मध्ये वरे तु लिङ्गे तु ब्रह्मसूत्रं तु पूर्ववत् ॥१५०॥

ब्रह्मसूत्रं विना ह्येतत् तेजोद्रव्यं वरप्रदम् ।

स्वव्यासद्विगुणं सार्धं द्विगुणं त्रिगुणं तु वा ॥१५१॥

पीठस्य मण्डनं नालं युक्त्या तत्र प्रयोजयेत् ।

पूजांशोच्चसमं वाऽथ त्रिभागं पिण्डिकोदयम् ॥१५२॥

मृण्मयादिलिङ्गानि

मृद्वृक्षरत्नलोहैश्च कुर्यात् स्फाटिकवद् दृढम् ।

मृण्मयं युक्तितः पक्वमपक्वं वा यथेष्टतः ॥१५३॥

वृक्षजं दोषनिर्मुक्तं लोहजं घनमिष्यते ।

घनं साङ्गमनङ्गं वा लोहेन सकलं मतम् ॥१५४॥

लोहेन पूजितं कल्प्य भुक्तिमुक्तिफलप्रदम् ।

लिङ्गं शिलेतरं सर्वं मणिलिङ्गमिति स्मृतम् ॥१५५॥

स्वयोन्या वाऽथ लोहेन स्फाटिकादिषु पिण्डिका ।

स्वस्वयोग्यानि लोहानि स्फाटिकान्येषु पीठकम् ॥१५६॥

स्थाप्यते लोहपीठे तु रत्नजं तु स्थितिर्यथा ।

सङ्कल्पकवशादत्र ब्रह्मविष्णुमहेश्वराः ॥१५७॥

युक्त्या योज्यं बुधैर्लिङ्गं भुक्तिमुक्तिप्रसिद्ध्यये ।

बाणलिङ्गं यथालाभं तत्तत् सम्यङ्‌ निधापयेत् ॥१५८॥

पञ्चत्रिभागमुच्चार्धं त्रिद्व्यंशं वार्चनार्हकम् ।

भागं शेषांशकं पीठबन्धं स्याद्‌ बाणलिङ्गके ॥१५९॥

रेखाबिन्दुकलङ्काद्यैर्वैवर्ण्यैर्मक्षिकापदैः ।

त्रासैस्तु शर्कराभिस्ते मणयो वर्जिता भृशम् ॥१६०॥

लिङ्गस्थापनम्

लिङ्गं महत्त्वधिष्ठाने चार्धे स्थिते च मध्यमम् ।

समाप्ते च विमाने स्यात् कन्यसं स्थापयेद् बुधैः ॥१६१॥

लिङ्गस्थापनफलम्

एवं स्थाप्यं लिङ्गमुक्तप्रकारं श्रीसौभाग्यारोग्यभोग्यप्रदायि ।

उक्तादन्यद्यत्कृतं तद्विपत्त्यै पत्युर्नित्यं रोगशोकप्रदं स्यात् ॥१६२॥

इति मयमते वस्तुशास्त्रे लिङ्गलक्षणं नाम त्रयस्त्रिंशोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-20T21:36:29.7370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

acetobater

  • ऍसिटोबॅक्टर 
  • व्हिनिगरमधील शाकाणु 
  • सिरक्यामधील शाकाणु 
RANDOM WORD

Did you know?

गणपतीला २१ दुर्वा वाहतांना काय मंत्र म्हणावा ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.