संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ प्रथमोऽध्यायः

मयमतम् - अथ प्रथमोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.


श्री

दानवराजमयप्रणीतं

अथ प्रथमोऽध्यायः

(संग्रहाध्यायः)

मङ्गलाचरणम्

प्रणम्य शिरसा देवं सर्वज्ञ जगदीश्वरम् ।

तं पृष्ट्‌वास्मादलं श्रुत्वा शास्ति शास्त्रं यथाक्रमम् ॥१॥

तैतिलानां मनुष्याणां वस्त्वादीनां सुखोदयम् ।

प्राज्ञो मुनिर्मयः कर्त्ता सर्वेषां वस्तुलक्षणम् ॥२॥

ग्रन्थविषयसूचनाआदौ वस्तुप्रकारं च भूपरीक्षापरिग्रहम्

मानोपकरणं चैव शङ्कुस्थापनमार्गकम् ॥३॥

सपदं सुरविनयसं बलिकर्मविधिं तथा ।

ग्रामादीनां च विन्यासं लक्षणं नगरादिषु ॥४॥

भूलम्बस्य विधानं च गर्भविन्यासलक्षणम् ।

उपपीठविधं चैवाधिष्ठानानाम तु लक्षणम् ॥५॥

स्तम्भानां लक्षणं चैव प्रस्तारस्य विधिक्रमम् ।

सन्धिकर्मविधानं च शिखरणां तु लक्षणम् ॥६॥

एकभूमिविधानं च द्वितलस्य तु लक्षणम् ।

त्रितलस्य विधानं च चतुर्भूम्यादिलक्षणम् ॥७॥

ससालं परिवाराणां गोपुराणां तु लक्षणम् ।

मण्डपादिविधिं चैव शालानां चैव लक्षणम् ॥८॥

गृहविन्यासमार्ग च गृहवेशनमेव च ।

राजवेश्मविधानं च द्वारविन्यासलक्षणम् ॥९॥

यानानां शयनानां च लक्षणं लिङ्गलक्षणम् ।

पीठस्य लक्षणं सम्यगनुकर्मविधिं तथा ॥१०॥

प्रतिमालक्षणं देवदेवीनां मानलक्षणम् ।

चक्षुरुन्मीलनं चैव संक्षिप्याह यथाक्रमम् ॥११॥

ग्रन्थप्रामाण्यकथनम्

पितामहाद्यैरमरैर्मुनीश्वरै-

र्यथा यथोक्तं सकलं मयेन तत् ।

तथा तथोक्तं सुधियां दिवौकसां

नृणां च युक्त्याखिलवस्तुलक्षणम् ॥१२॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP