TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ द्वाविंशोऽध्यायः

मयमतम् - अथ द्वाविंशोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.

अथ द्वाविंशोऽध्यायः

(चतुर्भूम्यादिबहुभूमिविधानम्)

पञ्चमानं चतुर्भौमं वक्ष्ये संक्षेपतः क्रमात् ।

त्रिचतुष्पङ्‌क्तिहस्तादिद्विहस्तविवर्धनात् ॥१॥

एकद्वाविंशदन्तं तु व्यासं तुङ्गं तु पूर्ववत् ।

सुभद्रकम्

विस्तारोत्सेधमानाभ्यां भागान्‍ वक्ष्यामि हर्म्यके ॥२॥

त्रयोदशकरव्यासमष्टधा विभजेत् समम् ।

एकांशं कूटविस्तारं शालायामं द्विभागिकम् ॥३॥

भागेन पञ्जरव्यासमूर्ध्वे तु पुनरष्टधा ।

प्राग्वदेव सभाशालापञ्जराणामुपर्यपि ॥४॥

ऊर्ध्वे षड्‌भागिके भागमेकं कूटस्य विस्तृतम् ।

द्विभागं कोष्ठकायामं नीडं भागार्धमिष्यते ॥५॥

तदूर्ध्वे गुणाभागेंऽशं मधे दण्डेन निर्गमम् ।

उत्सेधं विभजेद्‍ विद्वान्‍ नवत्रिंशतिसंख्यया ॥६॥

सार्धद्व्यंशमधिष्ठानं पञ्चांशं पाददैर्घ्यकम् ।

तदर्धं प्रस्तरोत्सेधं सत्रिपादयुगांशकम् ॥७॥

ऊर्ध्वभूम्यङ्‌घ्रिकोत्सेधं सपादद्व्यंशमञ्चकम् ।

जङ्घा तद्‌द्विगुणा चोर्ध्वे द्व्यंशेन प्रस्तरोदयम् ॥८॥

पादाधिकचतुर्भागमुपरिस्तम्भतुङ्गकम् ।

स्यात् सत्रिभागपादेन प्रस्तरं वेदिकांशकम् ॥९॥

गलोच्चमश्विनीभागं सार्धवेदैस्तु मूर्धनि ।

शेषभाग शिखामानमाहोमं चतुरस्त्रकम् ॥१०॥

रविसंख्या भवेत् सौष्ठी कोष्ठं तावत्तु पञ्जरम् ।

शिखरे वेदनास्यः स्युश्चाल्पनास्या विभूषितम् ॥११॥

स्वस्तिकाकारसंयुक्तं नासिकाभिरलङ्‌कृतम् ।

प्राग्वदेव तलं चाधः स्तम्भालङ्कारतोरणम् ॥१२॥

सर्वालङ्कारसंयुक्तमेतद्धर्म्यं सुभद्रकम् ।

श्रीविशालम्

सर्वं प्राग्वत्कूटकोष्ठादियुक्त्या मध्ये मध्ये मस्तकं मण्डलाभम् ।

वृत्ताकारं स्यात् सभानां शिरस्तद्विस्तारार्धेनान्वितं गर्भगेहम् ॥१३॥

शेषं त्र्यंशेनावृतावासपिण्डिस्तत्तुल्यं तद्बाह्यतोऽन्धारहारम् ।

नानाधिष्ठानाङ्‌घ्रिवेद्यादियोगं नाम्नेदं स्याच्छ्रीविशालं सुह्रष्टम् ॥१४॥

भद्रकोष्ठम्

पञ्चदशकरव्यासं नवधा विभजेत् क्रमात् ॥१५॥

गर्भगेहं त्रिभागैकं गृहपिण्ड्यस्तदंशकम् ।

अंशेन परितोऽलिन्द्रं खण्डहर्म्यं तथांशकम् ॥१६॥

सभा शाला तथा नीडं भागेनैकेन विस्तरात् ।

विस्तारत्रिगुणायामा स्वव्याससमनिर्गमा ॥१७॥

शालामध्ये महानासी भागतत्या विनिर्गता ।

सभाकोष्ठकनीदानामन्तरेऽर्धेन हारकम् ॥१८॥

तदुपर्यष्टभागेन विभजेत् कूटमंशकम् ।

कोष्ठकस्य तु विस्तारं तदेव द्विगुणायतम् ॥१९॥

कूटशालान्तरे नीडमंशेन परिकल्पयेत् ।

तदूर्ध्वे रसभागे तु कूटमंशेन कोष्ठकम् ॥२०॥

विस्तारद्विगुणायाममन्तरेऽर्धेन पञ्जरम् ।

ऊर्ध्वभूमे चतुर्भागे मध्ये दण्डेन निर्गमम् ॥२१॥

अष्टास्त्रं कर्णकूटं स्यात् कोष्ठकं क्रकरीकृतम् ।

महाशिखरमष्टास्त्रमष्टनास्या विभूषितम् ॥२२॥

कूटकोष्ठकनीडानां संख्यायां पूर्ववत् ततिः ।

अस्याप्युत्सेधभागं च पूर्ववत् परिकल्पयेत् ॥२३॥

भद्रकोष्ठमिदं नाम्ना वेदभौमं दिवौकसाम् ।

जयावहम्

सप्तदशकरव्यासं दशभागैर्विभाजयेत् ॥२४॥

नालीगृहं चतुर्भागमंशेनान्धारिका भवेत्

अलिन्द्रमंशमंशेन परितः खण्डहर्म्यकम् ॥२५॥

कूट कोष्ठं च नीडं च भागेन परिकल्पयेत् ।

कोष्ठायामं द्विभागं स्याच्छेषं हारा सपञ्जरम् ॥२६॥

जलस्थलं विहायोर्ध्वे वसुभागैर्विभाजिते ।

भागेन कूटविस्तार कोष्ठकं द्विगुणायतम् ॥२७॥

हारान्तरे तथांशेन लम्बपञ्जरमीरितम् ।

तदुर्ध्वे रसभागे तु भागं सौष्ठिकविस्तृतम् ॥२८॥

द्विभागं कोष्ठकायामं हारायां क्षुद्रपञ्जरम् ।

तदूर्ध्वे तु त्रिभागेन मध्ये दण्डेन निर्गमम् ॥२९॥

चतुरस्त्रमधिष्ठानमष्टास्त्रं गलमस्तकम् ।

त्रिचतुष्कोष्ठकं तावत् सौष्ठिकं चाष्टपञ्जरम् ॥३०॥

लम्बपञ्जरमष्टौ हि क्षुद्रनीडं द्विरष्टकम् ।

गलनास्यष्टसंयुक्तं कोष्ठकं किञ्चिदुन्नतम् ॥३१॥

नानामसूरकस्तम्भवेदीजालकतोरणम् ।

नानालङ्कारसंयुक्तं नानाचित्रैर्विचित्रितम् ॥३२॥

सोपपीठमधिष्ठानं केवलं वा मसूरकम् ।

स्वस्तिकाकारसंयुक्तं नासिकाभिरलङ्‌कृतम् ॥३३॥

पूर्ववत् तुङ्गभागं स्यादेतन्नाम्ना जयावहम् ।

नवपङ्क्तिकरव्यासे दशभागविभाजिते ॥३४॥

गर्भगेहं चतुर्भागं गृहपिण्डस्तदंशके ।

अन्धारमंशमंशेन परितः खण्डहर्म्यकम् ॥३५॥

कूटकोष्ठकनीडानां तारमंशेन योजयेत् ।

कोष्ठकं द्विगुणायामं हारा भागसमन्विता ॥३६॥

कपोतपञ्जरम्

पञ्चांशे सौष्ठिकव्यासे मध्ये द्व्यंशेन विस्तरम् ।

एकभागविनिष्क्रान्तयुग्मस्तम्भसमन्वितम् ॥३७॥

सोपपीठमधिष्ठानं समञ्चं सवितर्दिकम् ।

सकन्धरशिरोयुक्तं सर्वालङ्कारसंयुतम् ॥३८॥

पादुकोत्तरयोर्मध्ये नवांशेनोपपीठकम् ।

मसूरकं द्विभागोच्चं द्विगुणं स्तम्भदैर्घ्यकम् ॥३९॥

सार्धांशं प्रस्तरोत्सेधमर्धांशं वेदिकोदयम् ।

उत्तरादिकपोतान्तं गलोदयमितीरितम् ॥४०॥

पञ्जराकृतिसंयुक्तं कपोत्तात्तु विनिर्गतम् ।

यथाशोभं यथायुक्ति तथा शक्तिध्वजान्वितम् ॥४१॥

'कपोतपञ्जरं ह्येतत् प्रासादे सार्वदेशिके ।

हारायां वाऽथ शालायां मध्ये मध्ये तु योजयेत् ॥४२॥

पुनः भद्रकूटम्

कूटकोष्ठकनीडं चैवान्तरप्रस्तरान्वितम् ।

जलस्थल विहायोर्ध्वभूमावष्टांशसौष्ठिकम् ॥४३॥

द्विगुणं कोष्ठकायामं तयोर्मध्ये तु पञ्जरम् ।

तदुर्ध्वे रसभागे तु सौष्ठिकोष्ठं तु पूर्ववत् ॥४४॥

विजयस्य यथा प्रोक्तं शेषमुर्ध्वे तु योजयेत् ।

कूटकोष्ठादि सर्वाङ्गं पूर्ववत् संख्यया विदुः ॥४५॥

महानीडं द्विरष्टौ स्यान्नाम्नेदं भद्रकूटम् ।

मनोहरम्

तदेवान्यदलङ्कारं शालामध्ये सभद्रकम् ॥४६॥

वृत्तग्रीवाशिरोयुक्तमेतन्नाम्ना मनोहरम् ।

आवन्तिकम्

तदेवान्यदलङ्कारं वेदास्त्रं कन्धरं शिरः ॥४७॥

नानाम्सूरकस्तम्भवेदिकाद्यैरलङ्‌कृतम् ।

नाम्नावन्तिकमित्युक्तं शम्भोर्मनिरमुत्तमम् ॥४८॥

सुखावहम्

त्रिःसप्तहस्तविपुले चतुरंशनाली

धर्मांशकेंऽशमभितो गृहपिण्डिमानम् ।

अन्धारमंशमभितोंऽशकमङ्गहारं

कूटं च नीडमथ कोष्ठकमंशतारम् ॥४९॥

शालायतं द्विगुणमंशकतारहारं

वातायनैर्मकरतोरणकैर्विचित्रम् ।

त्यक्त्वा जलस्थलमुपर्यपि चाष्टभागे

कूटं च नीडमथ कोष्ठकमंशतत्या ॥५०॥

शालायतं द्विगुणमूर्ध्वतले षडंशे

सौष्ठ्यंशमंशविपुलं द्विगुणायतं स्यात् ।

कोष्ठं च नीडविपुलं हि तदर्धभागं

चोर्ध्वं युगांशिनयनांशकमध्यभद्रम् ॥५१॥

दण्डे निर्गममुपर्यपि भद्रनीडं

सार्धं द्विदण्डविपुलं गलनासिकं च ।

वृत्ताभकन्धरवितर्दिकमस्तकं स्या-

दष्टार्धनासिकमदभ्रमथाल्पमष्टौ ॥५२॥

कूटं च नीडमथ कोष्ठकमुन्नतंस्या-

दादौ तले तदपि मध्यममञ्चयुक्तम् ।

शालोन्नतं ह्युपरि चोन्नतमूर्ध्वकूटं

वृत्ताभमत्र वसुपट्टशिरस्तु मध्ये ॥५३॥

वेदास्त्रकूटशिखरं ह्यथ मूलभूमौ

नासाल्पकं ह्युपरि वेधविहीनबन्धम् ।

नानामसूरकसहाङ्‌घ्रिकशोभिताङ्गं

नाम्ना सुखावहमिदं सुरमन्दिरं स्यात् ॥५४॥

पञ्चभूमिविधानम् ।

सत्रिपादयुगलार्धपञ्चकैद्वर्यर्धसाङ्‌घ्रिशरसार्धनेत्रकैः ।

पञ्चभागिकसभागनेत्रकैस्त्र्यङ्‌घ्रिवेदनयनार्धवेदकैः ॥५५॥

त्र्यङ्‍घ्रिकांशकशिवाद्विपादगङ्गाश्विनीभिरुदये षडष्टके ।

कुट्टिमं चरणमञ्चपादकं प्रस्तरं तलिपमञ्चमङ्‌घ्रिकम् ॥५६॥

प्रस्तरं तलिमपञ्चवेदिकं कन्धरं शिखरकुम्भकं क्रमात् ।

पञ्चभौममुदितं विशालके नन्दपङ्‌क्तिभिरथेन्द्रियांशकैः ॥५७॥

षडाद्यैकादशभूम्यन्तविधानम्

उच्छ्रये तदधः षड्‌भिर्गुणांशैरङ्‌घ्रिकं तलम् ।

षड्‌भौममेवमुद्दिष्टं ताराभागं तथा भवेत् ॥५८॥

तदधः सार्धषड्‌भागैः सपादगुणभागकैः ।

स्तम्भं मसूरकं कुर्यात्तारे रुद्रार्कभागतः ॥५९॥

सप्तभौममिदं प्रोक्तं विमानं सार्वदेशिकम् ।

तदधो मुनिभिः सार्धगुणांशैः स्तम्भकुट्टिमम् ॥६०॥

धर्मरुद्रार्कभागैस्तु सत्रयोदशभागिकैः ।

अष्टभौमं वदन्यस्मिन्नेवं प्राज्ञा मुनीश्वराः ॥६१॥

तदधः सार्धसप्तांशैः सत्रिपादगुणांशकैः ।

स्तम्भं च तलकं कुर्यात्तारेंऽशं तत्र पूर्ववत् ॥६२॥

एवं नवतलं प्रोक्तं दशभौममथोच्यते ।

तदधोऽष्टयुगांशैस्तु पादं मसूरकं भवेत् ॥६३॥

तारे पूर्वोक्तभागैस्तु मनुभागैरथापि वा ।

तदधः सार्धवस्वंशै सपादयुगभागिकैः ॥६४॥

स्तम्भं मसूरकं कुर्यात्तारे तद्वच्च पक्षकैः ।

तथा द्विरष्टभागैस्तु सप्तदशांशकैस्तु वा ॥६५॥

एकादशतलं प्रोक्तं द्वादशं क्षममुच्यते ।

द्वादशतलविधानम्

तदधो नन्दनन्दार्धभागैः स्तम्भं मसूरकम् ॥६६॥

तारे द्विरष्टभागादि यावर्दकद्वयांशकम् ।

गृहपिण्ड्यलिन्द्रहारा गर्भागाराद्बहिः क्रमात् ॥६७॥

हर्म्यस्यावधिकं यावन्नीयते तावदंशकैः ।

द्वित्रिवेदेषु षड्‌भागैः प्रागुक्तांशैस्तु वा गृहम् ॥६८॥

एकार्धेनाथवलिन्द्र शेषं कुड्येषु योजयेत् ।

केचित् त्रिर्नवभिर्भागैर्वदन्ति द्वादशावनौ ॥६९॥

षट्‍कुड्यं पञ्चसालिन्द्रं बहिः कूटादिशोभितम् ।

कूटं कोष्ठं च नीडं च क्षुद्रशालेभतुण्डकम् ॥७०॥

यथाशोभमलङ्कारं तथा युञ्जीत बुद्धिमान्‍ ।

युग्महस्तैरयुग्मैर्वा योजयेदेवमिच्छया ॥७१॥

युग्मांशे द्व्यंशकं वाऽपि कूटव्यासं द्विरायतम् ।

शालायाश्चतुरंशैर्वा युग्मे युग्मांशकैर्विदुः ॥७२॥

नानाभागैरलङ्कारैरन्यैरुक्तं मुनीश्वरैः ।

तथा वा तत्र युञ्जीयात्प्राज्ञः शिल्पिषु बुद्धिमान्‍ ॥७३॥

खण्डहर्म्यम्

तलमेकं भवेद्‍ ग्रासं खण्डहर्म्यं चतुःस्थले ।

द्वितलं पञ्चषट्‌सप्तभूमावेव विधीयते ॥७४॥

त्रितलं चाष्टभूमे तु नन्दपङ्‌क्तितले तथा ।

पञ्चभौमं चतुर्भौमं द्वादशैकादशे तले ॥७५॥

कूटकोष्ठादि

मूलतः कूटकोष्ठादीन्‍ यः कर्तुं सम्यगीहते ।

तले तले विभागांश्च यथायुक्त्या प्रयोजयेत् ॥७६॥

कूटकोष्ठादिसर्वाङ्गमुपर्युपरि पूर्ववत् ।

कूटकोष्ठकनीडाद्यैर्भेदैराख्या यथोदिता ॥७७॥

पूर्वं तैर्भेअकैर्युक्तस्याख्या धाम्नस्तथा भवेत् ।

आद्वादशतलादेवं युञ्जीयाद्‍ द्वितलादितः ॥७८॥

कर्णे मध्ये तर्योमध्ये कूटं कोष्ठं च पञ्जरम् ।

कर्तव्यं मानसूत्रात्तु तेषां निर्गममुच्यते ॥७९॥

स्वव्यासार्धं तथार्धार्धं दण्डं वा द्वित्रिदण्डकम् ।

अन्तर्विन्यासदेशं तु मानसूत्रं न योजयेत् ॥८०॥

ऋजुसूत्रप्रमाणान्तं तद्भङ्गे विपदां पदम् ।

तस्मात् कूटादिसर्वाङ्गं मानसूत्राद्‌ बहिर्नयेत् ॥८१॥

चतुरस्त्रं तु वस्वस्त्रं षोडशास्त्रं तु वर्तुलम् ।

मस्तकं स्तूपिकोपेतं कूटं कर्णयुतं मतम् ॥८२॥

मध्यनासिसमोपेतमर्धकोटिसमन्वितम् ।

मुखपट्टिकयोपेतं शक्तिध्वजसमायुतम् ॥८३॥

अनेकस्थूपिकोपेतं कोष्ठकं मध्यमे भवेत् ।

हस्तिपृष्ठनिभं पृष्ठे शालाकारं मुखं मुखे ॥८४॥

पञ्जरं विहितं कूटकोष्ठयोरन्तरे बुधैः ।

पार्श्ववक्त्रं तदेवेष्टं हस्तितुण्डं समण्डितम् ॥८५॥

एष जातिक्रमः प्रोक्तः कर्णकोष्ठसमन्वितम् ।

मध्ये कूटं तयोर्मध्ये क्षुद्रकोष्ठादिशोभितम् ॥८६॥

छन्दमेतत् समुद्दिष्टं कूटं वा कोष्ठकं तु वा ।

अन्तरप्रस्तरोपेतनिम्नं वोन्नतमेव वा ॥८७॥

विकल्पमिति निर्दिष्टमाभासं तद्विमिश्रितम् ।

क्षुद्राल्पमध्यमोत्कृष्टं हर्म्याणामेवमीरितम् ॥८८॥

जात्यादिभेदकैर्युक्तं विमानं सम्पदां पदम् ।

विपरीते विनाशाय भवेदेवेति निश्चयः ॥८९॥

षडष्टास्त्रे च वृत्ते च द्व्यस्त्रवृत्ते च तत् क्रमत् ।

पञ्चाष्टनवपङ्‌क्त्यंशे व्यासैकांशेन बाह्यतः ॥९०॥

वर्तयेत्तु तदाकृत्या कोटिच्छेदार्थमीरितम् ।

चतुरस्त्रस्य नाहेन योजयेत्तु समं यथा ॥९१॥

तया वर्तनया तेषां मानं सम्पूर्णमिष्यते ।

मानं धाम्नस्तु सम्पूर्णं जगत्सम्पूर्णता भवेत् ॥९२॥

तस्मात् सर्वप्रयत्नेन कुर्यात् संलक्ष्य बुद्धिमान्‍ ।

एवं संक्षेपतः प्रोक्तं प्रासादानां तु लक्षणम् ॥९३॥

एकादिद्विदशान्तं ह्युदयविपुलभागं करैस्तारमानं

चोत्सेधं कूटकोष्ठाद्यवयवकरणं नाहभेदं क्रमेण ।

प्रोक्तं संक्षिप्य सम्यङ्‌ मुनिभिरवितथैर्ब्रह्मपूर्वैर्यथोक्तं

नानाभेदैर्विमानं प्रियतरमनघं तैतलानां मयेन ॥९४॥

इति मयमते वस्तुशास्त्रे चतुर्भूम्यादिबहुभूमि विधानो नाम द्वाविंशोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-20T21:36:23.6570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

जांगजोड

  • पु. जंगजोड पहा . 
RANDOM WORD

Did you know?

बांस की लकड़ी
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.